श्रीगर्गसंहिता

माधुर्यखण्डः - प्रथमोऽध्यायः

श्रुतिरूपा-गोपीगणानां उत्पत्तिः -


अतसीकुसुमोपमेयकांति-
     र्यमुनाकूलकदंबमध्यवर्ती ।
नवगोपवधूविलासशाली
     वनमाली विरनोतु मंगलानि ॥ १ ॥
परिकरीकृतपीतपटं हरिं
     शिखिकिरीटनतीकृतकंधरम् ।
लकुटवेणुकरं चलकुण्डलं
     पटुतरं नटवेषधरं भजे ॥ २ ॥
बहुलाश्व उवाच -
श्रुतिरूपादयो गोप्यो भूतपूर्वा वरान्मुने ।
कथं श्रीकृष्णचन्द्रेण जाताः पूर्णमनोरथाः ॥ ३ ॥
गोपालकृष्णचरितं पवित्रं परमाद्‌भुतम् ।
एतद्‌वद महाबुद्धे त्वं परावरवित्तमः ॥ ४ ॥
श्रीनारद उवाच -
श्रुतिरूपाश्च या गोप्यो गोपानां सुकुले व्रजे ।
लेभिरे जन्म वैदेह शेषशायीवराच्छ्रुतात् ॥ ५ ॥
कमनीयं नन्दसूनुं वीक्ष्य वृन्दावने च ताः ।
वृन्दावनेश्वरीं वृन्दां भेजिरे तद्‌वरेच्छया ॥ ६ ॥
वृन्दादत्ताद्‌वरादाशु प्रसन्नो भगवान् हरिः ।
नित्यं तासां गृहे याति रासार्थं भक्तवत्सलः ॥ ७ ॥
एकदा तु निशीथिन्या व्यतीते प्रहरद्वये ।
रासार्थं भगवान् कृष्णः प्राप्तवान् तद्‌गृहान्नृप ॥ ८ ॥
तदा उत्कंठिता गोप्यः कृत्वा तत्पूजनं परम् ।
पप्रच्छुः परया भक्त्या गिरा मधुरया प्रभुम् ॥ ९ ॥
गोप्य ऊचुः -
कथं न चागतः शीघ्रं नो गृहान् वृजिनार्दन ।
उत्कंठितानां गोपीनां त्वयि चन्द्रे चकोरवत् ॥ १० ॥
श्रीभगवानुवाच -
यो यस्य चित्ते वसति न स दूरे कदाचन ।
खे सूर्यं कमलं भूमौ दृष्ट्वेदं स्फुटति प्रियाः ॥ ११ ॥
भाण्डीरे मे गुरुः साक्षात् दुर्वासा भगवान् मुनिः ।
आगतोऽद्य प्रियास्तस्य सेवार्थं गतवानहम् ॥ १२ ॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥ १३ ॥
अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया ।
चक्षुरुमीलितं येन तस्मै श्रीगुरवे नमः ॥ १४ ॥
स्वगुरुं मां विजानीयान्नावमन्येत कर्हिचित् ।
न मर्त्यबुद्ध्या सेवेत सर्वदेवमयो गुरुः ॥ १५ ॥
तस्मात्तत्पूजनं कृत्वा नत्वा तत्पादपंकजम् ।
आगतोऽहं विलंबेन भवतीनां गृहान् प्रियाः ॥ १६ ॥
श्रीनारद उवाच -
श्रुत्वा तत्परमं वाक्यं गोप्यः सर्वास्तु विस्मिताः ।
कृतांजलिपुटा ऊचुः श्रीकृष्णं नम्रकंधराः ॥ १७ ॥
गोप्य ऊचुः -
परिपूर्णतमस्यापि दुर्वासास्ते गुरुः स्मृतः ।
अहो तद्दर्शनं कर्तुं मनो नश्चोद्यतं प्रभो ॥ १८ ॥
अद्य देव निशीथिन्या व्यतीते प्रहरद्वये ।
कथं तद्दर्शनं भूयादस्माकं परमेश्वर ॥ १९ ॥
तथा मध्ये दीर्घनदी यमुना प्रतिबन्धिका ।
कथं तत्तरणं नावं ऋते देव भविष्यति ॥ २० ॥
श्रीभगवानुवाच -
अवश्यमेव गन्तव्यं भवतीभिर्यदा प्रियाः ।
यमुनामेत्य चैतद्वै वक्तव्यं मार्गहेतवे ॥ २१ ॥
यदि कृष्णो बालयतिः सर्वदोषविवर्जितः ।
तर्हि नो देहि मार्गं वै कालिन्दि सरितां वरे ॥ २२ ॥
इत्युक्ते वचने कृष्णा मार्गं वो दास्यति स्वतः ।
सुखेन तेन व्रजत यूयं सर्वा व्रजांगनाः ॥ २३ ॥
श्रीनारद उवाच -
इति श्रुत्वाऽथ तद्वाक्यं पात्रैर्दीर्घैर्व्रजांगनाः ।
षट्पंचाशत्तमान् भोगान् नीत्वा सर्वाः पृथक्‌पृथक् ॥ २४ ॥
यमुनामेत्य हर्युक्तं जगुरानतकंधराः ।
सद्यः कृष्णा ददौ मार्गं गोपीभ्यो मैथिलेश्वर ॥ २५ ॥
तेन गोप्यो गताः सर्वा भाण्डीरं चातिविस्मिताः ।
ततः प्रदक्षिणीकृत्य मुनिं दुर्वासनं च ताः ॥ २६ ॥
नत्वा तद्दर्शनं चक्रुः पुरो धृत्वाऽशनं वहु ।
मे पूर्वं चापि मे पूर्वमन्नं भोज्यं त्वया मुने ॥ २७ ॥
एवं विवदमानानां गोपीनां भक्तिलक्षणम् ।
विज्ञाय मुनिशार्दूलः प्रोवाच विमलं वचः ॥ २८ ॥
मुनिरुवाच -
गोप्यः परमहंसोऽहं कृतकृत्यो हि निष्क्रियः ।
तस्मान्मुखे मे दातव्यं स्वं स्वं चाप्यशनं करैः ॥ २९ ॥
श्रीनारद उवाच -
एवं विदारिते तेन मुखे गोप्योऽतिहर्षिताः ।
षट्पंचाशत्तमान् भोगान् स्वान्स्वान् सर्वाः समाक्षिपन् ॥ ३० ॥
क्षिपन्तीनां च गोपीनां पश्यंतीनां मुनीश्वरः ।
जघास कोटिशो मारान् भोगान् सर्वान् क्षुधातुरः ॥ ३१ ॥
विस्मितानां च गोपीनां पश्यंतीनां परस्परम् ।
इत्थं शून्यानि पात्राणि बभूवुर्नृपसत्तम ॥ ३२ ॥
अथ गोप्यो मुनिं शांतं नत्वा तं भक्तवत्सलम् ।
विस्मिताः प्रणताः प्राहुः सर्वाः पूर्णमनोरथाः ॥ ३३ ॥
गोप्य ऊचुः -
मुने आगमनात्पूर्वं कृष्णोक्तवचसा नदीम् ।
तीर्त्वाऽऽगतास्त्वत्समीपं दर्शनार्थं शुभेच्छया ॥ ३४ ॥
इतः कथं गमिष्यामः सन्देहोऽयं महानभूत् ।
तद्विधेहि नमस्तुभ्यं येन पंथा लघुर्भवेत् ॥ ३५ ॥
सुखेनातः प्रगन्तव्यं भवतीभिर्यदा स्वतः ।
यमुनामेत्य चैतद्वै वक्तव्यं मार्गहेतवे ॥ ३६ ॥
यदि दूर्वारसं पीत्वा दुर्वासाः केवलं क्षितौ ।
व्रती निरन्नो निर्वारि वर्तते पृथिवीतले ॥ ३७ ॥
तर्हि नो देहि मार्गं वै कालिंदि सरितां वरे ।
इत्युक्ते वचने कृष्णा मार्गं वो दास्यति स्वतः ॥ ३८ ॥
श्रीनारद उवाच -
इति श्रुत्वा वचो गोप्यो नत्वा तं मुनिपुंगवम् ।
यमुनामेत्य मुन्युक्तं चोक्त्वा तीर्त्वा नदीं नृप ॥ ३९ ॥
श्रीकृष्णपार्श्वमाजग्मुर्विस्मिता मंगलायनाः ॥ ४० ॥
अथ रासे गोपवध्वः सन्देहं मनसोत्थितम् ।
पप्रच्छुः श्रीहरिं वीक्ष्य रहः पूर्णमनोरथाः ॥ ४१ ॥
गोप्य ऊचुः -
दुर्वाससो दर्शनं भोः कृतमस्माभिरग्रतः ।
युवयोर्वाक्यतश्चात्र सन्देहोऽयं प्रजायते ॥ ४२ ॥
यथा गुरुस्तथा शिष्यो मृषावादी न संशयः ।
जारस्त्वमसि गोपीनां रसिको बाल्यतः प्रभो ॥ ४३ ॥
कथं बालयतिस्त्वं वै वद तद्‌वृजिनार्दन ।
कथं दूर्वारसं पीत्वा दुर्वासा बहुभुङ्‌मुनिः ।
नो जात एष सन्देहः पश्यन्तीनां व्रजेश्वर ॥ ४४ ॥
श्रीभगवानुवाच -
निर्ममो निरहंकारः समानः सर्वगः परः ।
सदा वैषम्यरहितो निर्गुणोऽहं न संशयः ॥ ४५ ॥
तथापि भक्तान् भजतो भजेऽहं वै यथा तथा ।
तथैव साधुर्ज्ञानी वै वैषम्यरहितः सदा ॥ ४६ ॥
न बुद्धिभेदं जनयेदज्ञानां कर्मसंगिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान् युक्तः समाचरन् ॥ ४७ ॥
यस्य सर्वे समारंभाः कामसंकल्पविर्जिताः ।
ज्ञानाग्निदग्धकर्माणं तमाहुः पंडितं बुधाः ॥ ४८ ॥
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ४९ ॥
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ५० ॥
ब्रह्मण्याधाय कर्माणि संगं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवांभसा ॥ ५१ ॥
तस्मान्मुनिस्तु दुर्वासा बहुभुक् त्वद्धिते रतः ।
न तस्य भोजनेच्छा स्याद्दूर्वारसमिताशनः ॥ ५२ ॥
श्रीनारद उवाच -
इति श्रुत्वा वचो गोप्यः सर्वास्ताश्छिन्नसंशयाः ।
श्रुतिरूपा ज्ञानमय्यो बभूवुर्मैथिलेश्वर ॥ ५३ ॥

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
श्रुतिरूपोपाख्यानं नाम प्रथमोऽध्यायः ॥ १ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP