श्रीगर्ग संहिता - वृंदावनखण्डः - सप्तदशोऽध्यायः

श्रीगर्गसंहिता

वृंदावनखण्ड - सप्तदशोऽध्यायः

राधाकृष्णसंगमः -


श्रीबहुलाश्व उवाच -
राधाकृष्णस्य चरितं शृण्वतो मे मनो मुने ।
न तृप्तिं याति शरदः पंकजे भ्रमरो यथा ॥ १ ॥
रासेश्वर्या कृष्णपत्‍न्या तुलसीसेवने कृते ।
यद्‍बभूव ततो ब्रह्मन् तन्मे ब्रूहि तपोधन ॥ २ ॥
श्रीनारद उवाच -
राधिकायाश्च विज्ञाय तुलसीसेवने तपः ।
प्रीतिं परीक्षन् श्रीकृष्णो वृषभानुपुरं ययौ ॥ ३ ॥
अद्‌भुतं गोपिकारूपं चलज्झंकारनूपुरम् ।
किंकिणीघण्टिकाशब्दमंगुलीयकभूषितम् ॥ ४ ॥
रत्‍नकंकणकेयूर मुक्ताहारविराजितम् ।
बालार्कताटंकलसत्कबरीपाशकौशलम् ॥ ५ ॥
नासामौक्तिकदिव्याभं श्यामकुन्तलसंकुलम् ।
धृत्वाऽसौ वृषभानोश्च मन्दिरं सन्ददर्श ह ॥ ६ ॥
प्राकारपरिखायुक्तं चतुर्द्वारसमन्वितम् ।
करीन्द्रैः कंजलाकारैर्द्वारि द्वारि मनोहरम् ॥ ७ ॥
वायुवेगैर्मनोवेगैश्चित्रवर्णैस्तुरंगमैः ।
हारचामरसंयुक्तं प्रोल्लसन्मण्डपाजिरम् ॥ ८ ॥
गवां गणैः सवत्सैश्च वृषैर्धर्मधुरन्धरैः ।
गोपाला यत्र गायन्ते वंशीवेत्रधरा नृप ॥ ९ ॥
वृषभानुवरस्यैवं पश्यन् मन्दिरकौशलम् ।
मायायुवतिवेषोऽसौ ततो ह्यन्तःपुरं ययौ ॥ १० ॥
यत्र कोटिरविस्फूर्जत्कपाटस्तम्भपंक्तयः ।
रत्‍नाजिरेषु शोभन्ते ललनारत्‍नसंयुताः ॥ ११ ॥
वीणातालमृदंगादीन् वादयन्त्यो मनोहराः ।
पुष्पयष्टिसमायुक्ता गायन्त्यो राधिकागुणम् ॥ १२ ॥
तस्मिन्नन्तःपुरे दिव्यं भ्राजच्चोपवनं महत् ।
दाडिमीकुन्दमन्दारनिंबून्नतद्रुमावृतम् ॥ १३ ॥
केतकीमालतीवृंदैः माधवीभिः विराजितम् ।
तत्र राधानिकुंजोऽस्ति कल्पवृक्षसुगन्धिभृत् ॥ १४ ॥
पतन्ति यत्र भ्रमरा मधुमत्ता नृपेश्वर ।
गन्धाक्तः शीतलो वायुर्मन्दगामी वहत्यलम् ॥ १५ ॥
सहस्रदलपद्मानां रजो विक्षेपयन्मुहुः ।
पुंस्कोकिला कोकिलाश्च मयूराः सारसाः शुकाः ॥ १६ ॥
कूजन्ते मधुरं नादं निकुंजशिखरेषु च ।
पुष्पशय्यासहस्राणि जलकुल्याः सहस्रशः ॥ १७ ॥
प्रोच्छलन्ति स्फुरत्स्फारा यत्र वै मेघमन्दिरे ।
बालार्ककुण्डलधराः चित्रवस्त्राम्बराननाः ॥ १८ ॥
वर्तन्ते कोटिशो यत्र सख्यस्तत्कर्मकौशलाः ।
तन्मध्ये राधिका राज्ञी भ्रमन्ती मन्दिराजिरे ॥ १९ ॥
काश्मीरपंकसंयुक्ते सूक्ष्मवस्त्रविराजिते ।
शिरीषपुष्पक्षितिजदलैरागुल्फपूरके ॥ २० ॥
मालतीमकरन्दानां क्षरद्‌भिर्बिन्दुभिर्वृते ।
कोटिचंद्रप्रतीकाशा तन्वी कोमलविग्रहा ।
शनैः शनैः पादपद्मं चालयन्ती च कोमलम् ॥ २१ ॥
समागतां तां मणिमन्दिराजिरे
     ददर्श राधा वृषभानुनन्दिनी ।
यत्तेजसा तल्ललनाहृतत्विषो
     जातास्त्वरं चंद्रमसेव तारकाः ॥ २२ ॥
विज्ञाय तद्‌गौरवमुत्तमं मह-
     दुत्थाय दोर्भ्यां परिरभ्य राधिका ।
दिव्यासने स्थाप्य सुलोकरीत्या
     जलादिकं चार्हणमारभच्छुभम् ॥ २३ ॥
राधोवाच -
स्वागतं ते सखि शुभे नामधेयं वदाशु मे ।
भूरिभाग्यं ममैवाद्य भवत्याऽऽगतया स्वतः ॥ २४ ॥
त्वत्समानं दिव्यरूपं दृश्यते न हि भूतले ।
यत्र त्वं वर्तसे सुभ्रु पत्तनं धन्यमेव तत् ॥ २५ ॥
वद देवि सविस्तारं हेतुमागमनस्य च ।
मम योग्यं च यत्कार्यं वक्तव्यं तत्त्वया खलु ॥ २६ ॥
कटाक्षेण सुदीप्त्या च वचसा सुस्मितेन वै ।
गत्या कृत्या श्रीपतिवद्दृश्यते सांप्रतं मया ॥ २७ ॥
नित्यं शुभे मे मिलनार्थमाव्रज
     न चेत् स्वसंकेतमलं विधेहि ।
येनैव संगो विधिना भवेद्धि
     विधिर्भवत्या स सदा विधेयः ॥ २८ ॥
अयि त्वदात्माऽतिपरं प्रियो मे
     त्वदाकृतिः श्रीव्रजराजनन्दनः ।
येनैव मे देवि हृतं तु चेत-
     स्त्वय ननान्देव वधूर्दधामि तम् ॥ २९ ॥
श्रीनारद उवाच -
एवं राधावचः श्रुत्वा मायायुवतिवेषधृक् ।
उवाच भगवान् कृष्णो राधां कमललोचनाम् ॥ ३० ॥
श्रीभगवानुवाच -
रम्भोरु नन्दनगरे नन्दगेहस्य चोत्तरे ।
गोकुले वसतिर्मेऽस्ति नाम्नाऽहं गोपदेवता ॥ ३१ ॥
त्वद्‌रूपगुणमाधुर्यं श्रुतं मे ललितामुखात् ।
तद्‌द्रष्टुं चंचलापाङ्‌गि त्वद्‌गृहेऽहं समागता ॥ ३२ ॥
श्रीमल्लवंगलतिकास्फुटमोदिनीनां
     गुञ्जानिकुञ्जमधुप- ध्वनिकुञ्जपुञ्जम् ।
दृष्टं श्रुतं नवनवं तव कंजनेत्रे
     दिव्यं पुरंदरपुरेऽपि न यत्समानम् ॥ ३३ ॥
श्रीनारद उवाच -
एवं तयोर्मेलनं तद्‌बभूव मिथिलेश्वर ।
प्रीतिं परस्परं कृत्वा वने तत्र विरेजतुः ॥ ३४ ॥
हसन्त्यौ ते च गायन्त्यौ पुष्पकन्दुकलीलया ।
पश्यन्त्यौ वनवृक्षांश्च चेरतुर्मैथिलेश्वर ॥ ३५ ॥
कलाकौशल संपन्नां राधां कमललोचनाम् ।
गिरा मधुरया राजन् प्राहेदं गोपदेवता ॥ ३६ ॥
गोपदेवतोवाच -
दूरे वै नन्दनगरं सन्ध्या जाता व्रजेश्वरि ।
प्रभाते चागमिष्यामि त्वत्सकाशं न संशयः ॥ ३७ ॥
श्रीनारद उवाच -
श्रुत्वा वचस्तस्य तु तद्‌व्रजेश्वरीं
     निक्षिप्य सद्यो नयनांबुसन्ततिम् ।
रोमांचहर्षोद्‌गमभावसंवृता
     रंभेव भूमौ पतिता मरुद्धता ॥ ३८ ॥
शंकागतास्तत्र सखीगणास्त्वरं
     सुवीजयन्त्यो व्यजनैर्व्यवस्थिताः ।
श्रीखण्डपुष्प द्रवचर्चितांऽशुकां
     जगाद राधां नृप गोपदेवता ॥ ३९ ॥
गोपदेवतोवाच -
प्रभाते आगमिष्यामि मा शोकं कुरु राधिके ।
गोश्च भ्रातुर्गोरसस्य शपथो मे न चेदिदम् ॥ ४० ॥
श्रीनारद उवाच -
एवमुक्त्वा हरी राधां समाश्वास्य नृपेश्वर ।
मायायुवतिवेषोऽसौ ययौ श्रीनन्दगोकुलम् ॥ ४१ ॥

इति श्रीगर्गसंहितायां वृन्दावनखण्डे
राधाकृष्णसंगमो नाम सप्तदशोऽध्यायः ॥ १७ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP