श्रीगर्गसंहिता

गोलोकखण्डम् - विंशोऽध्यायः

भगवज्जन्मवर्णनं दुर्वाससो मायादर्शनं श्रीनंदनंदनस्तोत्रवर्णनम् - -


श्रीनारद उवाच -
एकदा कृष्णचंद्रस्य दर्शनार्थं परस्य च ।
दुर्वासा मुनिशार्दूलो व्रजमंडलमाययौ ॥ १ ॥
कालिंदीनिकटे पुण्ये सैकते रमणस्थले ।
महावनसमीपे च कृष्णमाराद्ददर्श ह ॥ २ ॥
श्रीमन्मदनगोपालं लुठंतं बालकैः सह ।
परस्परं प्रयुद्ध्यंतं बालकेलिं मनोहरम् ॥ ३ ॥
धूलिधूसरसर्वांगं वक्रकेशं दिगंबरम् ।
धावंतं बालकैः सार्द्धं हरिं वीक्ष्य स विस्मितः ॥ ४ ॥
श्रीमुनिरुवाच -
स ईश्वरोऽयं भगवान्कथं बालैर्लुठन् भुवि ।
अयं तु नंदपुत्रोऽस्ति न श्रीकृष्णः परात्परः ॥ ५ ॥
श्रीनारद उवाच -
इत्थं मोहं गते तत्र दुर्वाससि महामुनौ ।
क्रीडन्कृष्णस्तत्समीपे तदंके ह्यागतः स्वयम् ॥ ६ ॥
पुनर्विनिर्गतो ह्यंकाद्‌बालसिंहावलोकनः ।
हसन्कलं ब्रुवन्कृष्णः संमुखः पुनरागतः ॥ ७ ॥
हसतस्तस्य च मुखे प्रविष्टः श्वसनैर्मुनिः ।
ददर्शान्यं महालोकं सारण्यं जनवर्जितम् ॥ ८ ॥
अरण्येषु भ्रमंस्तत्र कुतः प्राप्त इति ब्रुवन् ।
तदैवाजगरेणापि निगीर्णोऽभून्महामुनिः ॥ ९ ॥
ब्रह्मांडं तत्र ददृशे सलोकं सबिलं परम् ।
भ्रमन्द्वीपेषु स मुनिः स्थितोऽभूत्पर्वते सिते ॥ १० ॥
तपस्तताप वर्षाणां शतकोटीः प्रभुं भजन् ।
नैमित्तिकाख्ये प्रलये प्राप्ते विश्वभयंकरे ॥ ११ ॥
आगच्छंतः समुद्रास्ते प्लावयंतो धरातलम् ।
वहंस्तेषु च दुर्वासा न प्रापांतं जलस्य च ॥ १२ ॥
व्यतीते युगसाहस्त्रे मग्नोऽभूद्‌विगतस्मृतिः ।
पुनर्जलेषु विचरन्नंडमन्यं ददर्श ह ॥ १३ ॥
तच्छिद्रे च प्रविष्टोऽसौ दिव्यां सृष्टिं गतस्ततः ।
तडंडमूर्ध्नि लोकेषु विधेरायुःसमं चरन् ॥ १४ ॥
एव्ं छिद्रं तत्र वीक्ष्य प्राविशत्स हरिं स्मरन् ।
बहिर्विनिर्गतो ह्यंडाद्ददर्शाशु महाजलम् ॥ १५ ॥
तस्मिन् जले तु लक्ष्यंते कोटिशो ह्यंडराशयः ।
ततो मुनिर्जलं पश्यन् ददर्श विरजां नदीम् ॥ १६ ॥
तत्पारं प्रगतः साक्षाद्‌गोलोकं प्राविशन्मुनिः ।
वृंदावनं गोवर्द्धनं यमुनापुलिनं शुभम् ॥ १७ ॥
दृष्ट्वा प्रसन्नः स मुनिर्निकुंजं प्राविशत्तदा ।
गोपगोपीगणवृतं गवां कोटिभिरन्वितम् ॥ १८ ॥
असंख्यकोटिमार्तंड ज्योतिषां मंडले ततः ।
दिव्ये लक्षदले पद्मे स्थितं राधापतिं हरिम् ॥ १९ ॥
परिपूर्णतमं साक्षाच्छ्रीकृष्णं पुरुषोत्तमम् ।
असंख्यब्रह्मांडपतिं गोलोकं स्वं ददर्श ह ॥ २० ॥
श्रीकृष्णास्यापि हसतः प्रविष्टस्तन्मुखे मुनिः ।
पुनर्विनिर्गतोऽपश्यद्‌बालं श्रीनंदनंदनम् ॥ २१ ॥
कालिंदीनिकटे पुण्ये सैकते रमणस्थले ।
बालकैः सहितं कृष्णं विचरंतं महावने ॥ २२ ॥
तदा मुनिश्च दुर्वासा ज्ञात्वा कृष्णं परात्परम् ।
श्रीनंदनंदनं नत्वा नत्वा प्राह कृतांजलिः ॥ २३ ॥
मुनिरुवाच -
बालं नवीनशतपत्रविशालनेत्रं
     बिंबाधरं सजलमेघरुचिं मनोज्ञम् ।
मंदस्मितं मधुरसुंदरमंदयानं
     श्रीनंदनंदनमहं मनसा नमामि ॥ २४ ॥
मंजीरनूपुररणन्नवरत्‍नकांची
     श्रीहारकेसरिनखप्रतियंत्रसंघम् ।
दृष्ट्याऽऽर्तिहारिमषिबिन्दुविराजमानं
     वंदे कलिंदतनुजातटबालकेलिम् ॥ २५ ॥
पूर्णेन्दुसुंदरमुखोपरि कुंचिताग्राः
     केशा नवीनघननीलनिभाः स्फुरंति ।
राजंत आनतशिरःकुमुदस्य यस्य
     नंदात्मजाय सबलाय नमो नमस्ते ॥ २६ ॥
श्रीनंदनंदनस्तोत्रं प्रातरुत्थाय यः पठेत् ।
तन्नेत्रगोचरो याति सानंदं नंदनंदनः ॥ २७ ॥
श्रीनारद उवाच -
इति प्रणम्य श्रीकृष्णं दुर्वासा मुनिसत्तमः ।
तं ध्यायन्प्रजपन्प्रागाद्‌बदर्याश्रममुत्तमम् ॥ २८ ॥
इत्थं देवर्षिवर्येण नारदेन महात्मना ।
कथितं कृष्नचरितं बहुलाश्वाय धीमते ॥ २९ ॥
मया थे कथितं ब्रह्मन् यशः कलिमलापहम् ।
चतुष्पदार्थदं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ ३० ॥
श्री शौनक उवाच -
बहुलाश्वो मैथिलेंद्रः किं पप्रच्छ महामुनिम् ।
नारदं ज्ञानदं शांतं तन्मे ब्रूहि तपोधन ॥ ३१ ॥
श्रीगर्ग उवाच -
नारदं ज्ञानदं नत्वा मानदो मैथिलो नृपः ।
पुनः पप्रच्छ कृष्णस्य चरितं मंगलायनम् ॥ ३२ ॥
श्रीबहुलाश्व उवाच -
श्रीकृष्णो भगवान्साक्षात्परमानंदविग्रहं ।
परं चकार किं चित्रं चरित्रं वद मे प्रभो ॥ ३३ ॥
पूर्वावतारैश्चरितं कृतं वै मंगलायनम् ।
अपरं किं तु कृष्णस्य पवित्रं चरितं परम् ॥ ३४ ॥
श्रीनारद उवाच -
साधु साधु त्वया पृष्टं चरित्रं मंगलं हरेः ।
तत्तेऽहं संप्रवक्ष्यामि वृंदारण्ये च यद्यशः ॥ ३५ ॥
इदं गोलोकखंडं च गुह्यं परममद्‌भुतं । श्रीकृष्णेन प्रकथितं गोलोके रासमंडले ॥ ३६ ॥ निकुंजे राधिकायै च राधा मह्यं ददाविदम् ।
मया तुभ्यं श्रावितं च दत्तं सर्वार्थदं परम् ॥ ३७ ॥
इदं पठित्वा विप्रस्तु सर्वशास्त्रार्थगो भवेत् ।
श्रुत्वेदं चक्रवर्ती स्यात् क्षत्रियश्चंडविक्रमः ॥ ३८ ॥
वैश्यो निधिपतिर्भूयाच्छूद्रो मुच्येत बंधनात् ।
निष्कामो योऽपि जगति जीवन्मुक्तः स जायते ॥ ३९ ॥
यो नित्यं पठते सम्यग्भक्तिभावसमन्वितः ।
स गच्छेत्कृष्णचंद्रस्य गोलोकं प्रकृतेः परम् ॥ ४० ॥

इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे
भगवज्जन्मवर्णनं दुर्वाससो मायादर्शनं श्रीनंदनंदनस्तोत्रवर्णनं नाम विंशोऽध्यायः ॥ २० ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP