श्रीगर्गसंहिता

गोलोकखण्डम् - एकोनविंशोऽध्यायः

यमलार्जुनभंग -


श्रीनारद उवाच -
एकदा गोकुले गोप्यो ममंथुर्दधि सर्वतः ।
गृहे गृहे प्रगायन्त्यो गोपालचरितं परम् ॥ १ ॥
यशोदापि समुत्थाय प्रातः श्रीनंदमंदिरे ।
भांडे रायं विनिक्षिप्य ममंथ दधि सुंदरी ॥ २ ॥
मंजीररावं संकुर्वन्बालः श्रीनंदनंदनः ।
ननर्त्त नवनीतार्थं रायःशब्दकुतूहलात् ॥ ३ ॥
बालकेलिर्बभौ नृत्यन्मातुः पार्श्वमनुभ्रमन् ।
सुनादिकिंकिणीसंघ झंकारं कारयन्मुहुः ॥ ४ ॥
हैयंगवीनं सततं नवीनं
     याचन्स मातुर्मधुरं ब्रुवन्सः ।
आदाय हस्तेऽश्मसुतं रुषा सुधी-
     र्बिभेद कृष्णो दधिमंथपात्रम् ॥ ५ ॥
पलायमानं स्वसुतं यशोदा
     प्रभावती प्राप न हस्तमात्रात् ।
योगीश्वराणामपि यो दुरापः
     कथं स मातुर्ग्रहणे प्रयाति ॥ ६ ॥
तथापि भक्तेषु च भक्तवश्यता
     प्रदर्शिता श्रीहरिणा नृपेश्वर ।
बालं गृहीत्वा स्वसुतं यशोमती
     बबंध रज्ज्वाथ रुषा ह्युलूखले ॥ ७ ॥
आदाय यद्यद्‌बहुदाम तत्त-
     त्स्वल्पं प्रभूतं स्वसुते यशोदा ।
गुणैर्न बद्धः प्रकृतेः परो यः
     कथं स बद्धो भवतीह दाम्ना ॥ ८ ॥
यदा यशोदा गतबन्धनेच्छा
     खिन्ना निषण्णा नृप खिन्नमानसा ।
आसीत्तदायं कृपया स्वबंधे
     स्वच्छंदयानः स्ववशोऽपि कृष्णः ॥ ९ ॥
एष प्रसादो न हि वीरकर्मणां
     न ज्ञानिनां कर्मधियां कुतः पुनः ।
मातुर्यथाऽभून्नृप एषु तस्मा-
     न्मुक्तिं व्यधाद्‌भक्तिमलं न माधवः ॥ १० ॥
तदैव गोप्यस्तु समागतास्त्वरं
     दृष्ट्वाथ भग्नं दधिमंथभाजनम् ।
उ‌लूखले बद्धमतीव दामभि-
     र्भीतं शिशुं वीक्ष्य जगुर्घृणातुराः ॥ ११ ॥
गोप्य ऊचुः -
अस्मद्‌गृहेषु पात्राणि भिनत्ति सततं शिशुः ।
तदप्येनं नो वदामः कारुण्यान्नंदगेहिनि ॥ १२ ॥
गतव्यथे ह्यकरुणे यशोदे हे व्रजेश्वरि ।
यष्ट्या निर्भर्त्सितो बालस्त्वया बद्धो घटक्षयात् ॥ १३ ॥
श्रीनारद उवाच -
इत्युक्तायां यशोदायां व्यग्रायां गृहकर्मसु ।
कर्षन्नुलूखलं कृष्णो बालैः श्रीयमुनां ययौ ॥ १४ ॥
तत्तटे च महावृक्षौ पुराणौ यमलार्जुनौ ।
तयोर्मध्ये गतः कृष्णो हसन् दामोदरः प्रभुः ॥ १५ ॥
चकर्ष सहसा कृष्णस्तिर्यग्गतमुलूखलम् ।
कर्षणेन समूलौ द्वौ पेततुर्भूमिमंडले ॥ १६ ॥
पातनेनापि शब्दोऽभूत्प्रचंडो वज्रपातवत् ।
विनिर्गतौ च वृक्षाभ्यां देवौ द्वावेधसोऽग्निवत् ॥ १७ ॥
दामोदरं परिक्रम्य पादौ स्पृष्टौ स्वमौलिना ।
कृतांजली हरिं नत्वा तौ तु तत्संमुखे स्थितौ ॥ १८ ॥
देवावूचतुः -
आवां मुक्तौ ब्रह्मदण्डात्सद्यस्तेऽच्युत दर्शनात् ।
माभूत्ते निजभक्तानां हेलनं ह्यावयोर्हरे ॥ १९ ॥
करुणानिधये तुभ्यं जगन्मंगलशीलिने ।
दामोदराय कृष्णाय गोविंदाय नमो नमः ॥ २० ॥
श्रीनारद उवाच -
इति नत्वा हरिं तौ द्वावुदीचीं च दिशं गतौ ।
तदैव ह्यागताः सर्वे नंदाद्या भयकातराः ॥ २१ ॥
कथं वृक्षौ प्रपतितौ विना वातं व्रजार्भकाः ।
वदताशु तदा बाला ऊचुः सर्वे व्रजौकसः ॥ २२ ॥
बाला ऊचुः
अनेन पातितौ वृक्षौ ताभ्यां द्वौ पुरुषौ स्थितौ ।
एनं नत्वा गतावद्य तावुदीच्यां स्फुरत्प्रभौ ॥ २३ ॥
श्रीनारद उवाच -
इति श्रुत्वा वचस्तेषां न ते श्रद्दधिरे ततः ।
मुमोच नंदः स्वं बालं दाम्ना बद्धमुलूखले ॥ २४ ॥
संलालयन्स्वांकदेशे समाघ्राय शिशुं नृप ।
निर्भर्त्स्य भामिनीं नंदो विप्रेभ्यो गोशतं ददौ ॥ २५ ॥
श्रीबहुलाश्व उवाच -
काविमौ पुरुषौ दिव्यौ वद देवर्षिसत्तम ।
केन दोषेण वृक्षत्वं प्रापितौ यमलार्जुनौ ॥ २६ ॥
श्रीनारद उवाच -
नलकूबरमणिग्रीवौ राजराजसुतौ परौ ।
जग्मतुर्नंदनवनं मंदाकिन्यास्तटे स्थितौ ॥ २७ ॥
अप्सरोभिर्गीयमानौ चेरतुर्गतवाससौ ।
वारुणीमदिरामत्तौ युवानौ द्रव्यदर्पितौ ॥ २८ ॥
कदाचिद्देवलो नाम मुनींद्रो वेदपारगः ।
नग्नौ दृष्ट्वा च तावाह दुष्टशीलौ गतस्मृती ॥ २९ ॥
देवल उवाच -
युवां वृक्षसमौ दृष्टौ निर्लज्जौ द्रव्यदर्पितौ ।
तस्माद्‌वृक्षौ तु भूयास्तां वर्षाणां शतकं भुवि ॥ ३० ॥
द्वापरांते भारते च माथुरे व्रजमंडले ।
कलिंदनंदिनीतीरे महावनसमीपतः ॥ ३१ ॥
परिपूर्णतमं साक्षात्कृष्णं दामोदरं हरिम् ।
गोलोकनाथं तं दृष्ट्वा पूर्वरूपौ भविष्यथः ॥ ३२ ॥
इत्थं देवलशापेन वृक्षत्वं प्रापितौ नृप ।
नलकूबरमणिग्रीवौ श्रीकृष्णेन विमोचितौ ॥ ३३ ॥

इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे
यमलार्जुनभंगो नाम एकोनविंशोऽध्यायः ॥ १९ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP