श्रीगर्गसंहिता

गोलोकखण्डम् - तृतीयोऽध्यायः

आगमनोद्योग वर्णनम् -


मुने देवा महात्मानं कृष्णं दृष्ट्वा परात्परम् ।
अग्रे किं चक्रिरे तत्र तन्मे ब्रूहि कृपां कुरु ॥ १ ॥
नारद उवाच -
सर्वेषां पश्यतां तेषां वैकुंठोऽपि हरिस्ततः ।
उत्थायाष्टभुजः साक्षाल्लीनोऽभूत्कृष्णविग्रहे ॥ २ ॥
तदैव चागतः पूर्णो नृसिंहश्चण्डविक्रमः ।
कोटिसूर्यप्रतीकाशो लीनोऽभूत्कृष्णतेजसि ॥ ३ ॥
रथे लक्षहये शुभ्रे स्थितश्चागतवांस्ततः ।
श्वेतद्वीपाधिपो भूमा सहस्रभुजमंडितः ॥ ४ ॥
श्रिया युक्तः स्वायुधाढ्यः पार्षदैः परिसेवितः ।
संप्रलीनो बभूवाशु सोऽपि श्रीकृष्णविग्रहे ॥ ५ ॥
तदैव चागतः साक्षाद्‌रामो राजीवलोचनः ।
धनुर्बाणधरः सीताशोभितो भ्रातृभिर्वृतः ॥ ६ ॥
दशकोट्यर्कसंकाशे चामरैर्दोलिते रथे ।
असंख्यवानरेंद्राढ्ये लक्षचक्रघनस्वने ॥ ७ ॥
लक्षध्वजे लक्षहये शातकौंभे स्थितस्ततः ।
श्रीकृष्णविग्रहे पूर्णः संप्रलीनो बभूव ह ॥ ८ ॥
तदैव चागतः साक्षाद्‌यज्ञो नारायणो हरिः ।
प्रस्फुरत्प्रलयाटोपज्वलदग्निशिखोपमः ॥ ९ ॥
रथे ज्योतिर्मये दृश्यो दक्षिणाढ्यः सुरेश्वरः ।
सोऽपि लीनो बभूवाशु श्रीकृष्णे श्यामविग्रहे ॥ १० ॥
तदा चागतवान् साक्षान्नरनारायणः प्रभुः ।
चतुर्भुजो विशालाक्षो मुनिवेषो घनद्युतिः ॥ ११ ॥
तडित्कोटिजटाजूटः प्रस्फुरद्दीप्तिमंडलः ।
मुनीन्द्रमण्डलैर्दिव्यैर्मण्डितोऽखण्डितव्रतः ॥ १२ ॥
सर्वेषां पश्यतां तेषामाश्चर्य मनसा नृप ।
सोऽपि लीनो बभूवाशु श्रीकृष्णे श्यामसुंदरे ॥ १३ ॥
परिपूर्णतमं साक्षाच्छ्रीकृष्णं च स्वयं प्रभुम् ।
ज्ञात्वा देवाः स्तुतिं चक्रुः परं विस्मयमागताः ॥ १४ ॥
देवा ऊचुः -
कृष्णाय पूर्णपुरुषाय परात्पराय
     यज्ञेश्वराय परकारणकारणाय ।
राधावराय परिपूर्णतमाय साक्षा-
     द्‌गोलोकधाम धिषणाय नमः परस्मै ॥ १५ ॥
योगेश्वराः किल वदन्ति महः परं त्वां
     तत्रैव सात्वतमनाः कृतविग्रहं च ।
अस्माभिरद्य विदितं यददोऽद्वयं ते
     तस्मै नमोऽस्तु महसां पतये परस्मै ॥ १६ ॥
व्यङ्गेन वा न न हि लक्षणया कदापि
    स्फोटेन यच्च कवयो न विशंति मुख्याः ।
निर्देश्यभावरहितः प्रकृतेः परं च
     त्वां ब्रह्म निर्गुणमलं शरणं व्रजामः ॥ १७ ॥
त्वां ब्रह्म केचिदवयंति परे च कालं
     केचित्प्रशांतमपरे भुवि कर्मरूपम् ।
पूर्वे च योगमपरे किल कर्तृभाव-
     मन्योक्तिभिर्न विदितं शरणं गताः स्मः ॥ १८ ॥
श्रेयस्करीं भगवतस्तवपादसेवां
     हित्वाथ तीर्थयजनादि तपश्चरन्ति ।
ज्ञानेन ये च विदिता बहुविघ्नसङ्घैः
     सन्ताडिताः किमु भवन्ति न ते कृतार्थाः ॥ १९ ॥
विज्ञाप्यमद्य किमु देव अशेषसाक्षी
     यः सर्वभूतहृदयेषु विराजमानः ।
देवैर्नमद्‌भिरमलाशयमुक्त देहै-
     स्तस्मै नमो भगवते पुरुषोत्तमाय ॥ २० ॥
यो राधिकाहृदयसुन्दरचन्द्रहारः
     श्रीगोपिकानयनजीवनमूलहारः ।
गोलोकधामधिषणध्वज आदिदेवः
     स त्वं विपत्सु विबुधान् परिपाहि पाहि ॥ २१ ॥
वृन्दावनेश गिरिराजपते व्रजेश
     गोपालवेषकृतनित्यविहारलील ।
राधापते श्रुतिधराधिपते धरां त्वं
     गोवर्द्धनोद्धरण उद्धर धर्मधाराम् ॥ २२ ॥
श्रीनारद उवाच -
इत्युक्तो भवान् साक्षाच्छ्रीकृष्णो गोकुलेश्वरः ।
प्रत्याह प्रणतान्देवान्मेघगंभीरया गिरा ॥ २३ ॥
श्रीभगवानुवाच -
हे सुरज्येष्ठ हे शंभो देवाः शृणुत मद्‌वचः ।
यादवेषु च जन्यध्वमंशैः स्त्रीभिर्मदाज्ञया ॥ २४ ॥
अहं च अवतरिष्यामि हरिष्यामि भुवो भरम् ।
करिष्यामि च वः कार्यं भविष्यामि यदोः कुले ॥ २५ ॥
वेदा मे वचनं विप्रा मुखं गावस्तनुर्मम ।
अंगानि देवता यूयं साधवो ह्यसवो हृदि ॥ २६ ॥
युगे युगे च बाध्येत यदा पाखंडिभिर्जनैः ।
धर्मः क्रतुर्दया साक्षात्तदात्मानं सृजाम्यहम् ॥ २७ ॥
श्रीनारद उवाच -
इत्युक्तवन्तं जगदीश्वरं हरिं
     राधा पतिप्राणवियोगविह्वला ।
दावाग्निना दुःखलतेव मूर्छिता-
     श्रुकंपरोमांचितभावसंवृता ॥ २८ ॥
श्रीराधोवाच -
भुवो भरं हर्तुमलं व्रजेर्भुवं
     कृतं परं मे शपथं शृणोत्वतः ।
गते त्वयि प्राणपते च विग्रहं
     कदाचिदत्रैव न धारयाम्यहम् ॥ २९ ॥
यदा त्वमेवं शपथं न मन्यसे
     द्वितीयवारं प्रददामि वाक्पथम् ।
प्राणोऽधरे गन्तुमतीव विह्वलः
     कर्पूरधूमः कणवद्‌गमिष्यति ॥ ३० ॥
श्रीभगवानुवाच -
त्वया सह गमिष्यामि मा शोकं कुरु राधिके ।
हरिष्यामि भुवो भारं करिष्यामि वचस्तव ॥ ३१ ॥
श्रीराधिकोवाच -
यत्र वृन्दावनं नास्ति यत्र नो यमुना नदी ।
यत्र गोवर्द्धनो नास्ति तत्र मे न मनःसुखम् ॥ ३२ ॥
श्रीनारद उवाच -
वेदनागक्रोशभूमिं स्वधाम्नः श्रीहरिः स्वयम् ।
गोवर्धनं च यमुनां प्रेषयामास भूपरि ॥ ३३ ॥
तदा ब्रह्मा देवगणैर्नत्वा नत्वा पुनः पुनः ।
परिपूर्णतमं साक्षाच्छ्रीकृष्णं समुवाच ह ॥ ३४ ॥
श्रीब्रह्मोवाच -
अहं कुत्र भविष्यामि कुत्र त्वं च भविष्यसि ।
एते कुत्र भविष्यन्ति कैर्गृहैः कैश्च नामभिः ॥ ३५ ॥
श्रीभगवानुवाच -
वसुदेवस्य देवक्यां भविष्यामि परः स्वयम् ।
रोहिण्यां मत्कला शेषो भविष्यति न संशयः ॥ ३६ ॥
श्री साक्षाद्‌रुक्मिणी भैष्मी शिवा जांबवती तथा ।
सत्या च तुलसी भूमौ सत्यभामा वसुंधरा ॥ ३७ ॥
दक्षिणा लक्ष्मणा चैव कालिन्दी विरजा तथा ।
भद्रा ह्रीर्मित्रविन्दा च जाह्नवी पापनाशिनी ॥ ३८ ॥
रुक्मिण्यां कामदेवश्च प्रद्युम्न इति विश्रुतः ।
भविष्यति न सन्देहस्तस्य त्वं च भविषसि ॥ ३९ ॥
नंदो द्रोणो वसुः साक्षाद्‌यशोदा सा धरा स्मृता ।
वृषभानुः सुचन्द्रश्च तस्य भार्या कलावती ॥ ४० ॥
भूमौ कीर्तिरिति ख्याता तस्या राधा भविष्यति ।
सदा रासं करिष्यामि गोपीभिर्व्रजमण्डले ॥ ४१ ॥

इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे
आगमनोद्योगवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP