श्रीगर्गसंहिता

गोलोकखण्डम् - द्वितीयोऽध्यायः

श्रीगोलोकधामानिवर्णनम् -


जिह्वां लब्ध्वापि यः कृष्णं कीर्तनीयं न कीर्तयेत् ।
लब्ध्वापि मोक्षनिःश्रेणिं स नारोहति दुर्मतिः ॥ १ ॥
अथ ते संप्रवक्ष्यामि श्रीकृष्णागमनं भुवि ।
अस्मिन्वाराह कल्पे वै यद्‌भूतं तच्छृणु प्रभो ॥ २ ॥
पुरा दानवदैत्यानां नराणां खलु भूभुजाम् ।
भूरिभारसमाक्रांता पृथ्वी गोरूपधारिणी ॥ ३ ॥
अनाथवद्‌रुदन्तीव वेदयन्ती निजव्यथाम् ।
कम्पयन्ती निजं गात्रं ब्रह्माणं शरणं गता ॥ ४ ॥
ब्रह्माथाश्वास्य तां सद्यः सर्वदेवगणैर्वृतः ।
शङ्करेण समं प्रागाद्‌वैकुण्ठं मंदिरं हरेः ॥ ५ ॥
नत्वा चतुर्भुजं विष्णुं स्वाभिप्रायं जगाद ह ।
अथोद्विग्नं देवगणं श्रीनाथः प्राह तं विधिम् ॥ ६ ॥
श्रीभगवानुवाच -
कृष्णं स्वयं विगणिताण्डपतिं परेशं
     साक्षादखण्डमतिदेवमतीवलीलम् ।
कार्यं कदापि न भविष्यति यं विना हि
     गच्छाशु तस्य विशदं पदमव्ययं त्वम् ॥ ७ ॥
श्रीब्रह्मोवाच -
त्वत्तः परं न जानामि परिपूर्णतमं स्वयम् ।
यदि योन्यस्तस्य साक्षाल्लोकं दर्शय नः प्रभो ॥ ८ ॥
श्रीनारद उवाच -
इत्युक्तोऽपि हरिः पूर्णः सर्वैर्देवगणैः सह ।
पदवीं दर्शयामास ब्रह्माण्डशिखरोपरि ॥ ९ ॥
वामपादाङ्‍गुष्ठनखभिन्नब्रह्माण्डमस्तके ।
श्रीवामनस्य विवरे ब्रह्म द्रवसमाकुले ॥ १० ॥
जलयानेन मार्गेण बहिस्ते निर्ययुः सुराः ।
कलिङ्‍गबिम्बवच्चेदं ब्रह्माण्डं ददृशुस्त्वधः ॥ ११ ॥
इन्द्रायनफलानीव लुठन्त्यन्यानि वै जले ।
विलोक्य विस्मिताः सर्वे बभुवुश्चकिता इव ॥ १२ ॥
कोटिशो योजनोर्ध्वं वै पुराणामष्टकं गताः ।
दिव्यप्राकाररत्‍नादि द्रुमवृन्दमनोहरम् ॥ १३ ॥
तदूर्ध्वं ददृशुर्देवा विरजायास्तटं शुभम् ।
तरं‍गितं क्षौम शुभ्रं सोपानैर्भास्करं परम् ॥ १४ ॥
तं दृष्ट्वा प्रचलन्तस्ते तत्पुरं जग्मुरुत्तमम् ।
असं‍ख्यकोटिमार्तण्ड ज्योतिषां मण्डलं महत् ॥ १५ ॥
दृष्ट्वा प्रताडिताक्षास्ते तेजसा धर्षिताः स्थिताः ।
नमस्कृत्वाऽथ तत्तेजो दध्यौ विष्ण्वाज्ञया विधिः ॥ १६ ॥
तज्ज्योतिर्मण्डलेऽपश्यत्साकारं धाम शान्तिमत् ।
तस्मिन्महाद्‌भुतं दीर्घं मृणालधवलं परम् ।
सहस्रवदनं शेषं दृष्ट्वा नेमुः सुरास्ततः ॥ १७ ॥
तस्योत्सं‍गे महालोको गोलोको लोकवन्दितः ।
यत्र कालः कलयतामीश्वरो धाममानिनाम् ॥ १८ ॥
राजन्न प्रभवेन्माया मनश्चित्तं मतिर्ह्यहम् ।
न विकारो विशत्येव न महांश्च गुणाः कुतः ॥ १९ ॥
तत्र कन्दर्पलावण्याः श्यामसुन्दरविग्रहाः ।
द्वारि गंतुं चाभ्युदिता न्यषेधन्कृष्णपार्षदाः ॥ २० ॥
श्रीदेवा ऊचुः -
लोकपाला वयं सर्वे ब्रह्मविष्णुमहेश्वराः ।
श्रीकृष्णदर्शनार्थाय शक्राद्या आगता इह ॥ २१ ॥
श्रीनारद उवाच -
तच्छ्रुत्वा तदभिप्रायं श्रीकृष्णाय सखीजनाः ।
ऊचुर्देवप्रतीहारा गत्वा चान्तःपुरं परम् ॥ २२ ॥
तदा विनिर्गता काचिच्छतचन्द्रानना सखी ।
पीतांबरा वेत्रहस्ता सापृच्छद्वाञ्छितं सुरान् ॥ २३ ॥
श्रीशतचन्द्राननोवाच -
कस्याण्डस्याधिपा देवा यूयं सर्वे समागताः ।
वदताशु गमिष्यामि तस्मै भगवते ह्यहम् ॥ २४ ॥
श्रीदेवा ऊचुः -
अहो अण्डान्युतान्यानि नास्माभिर्दर्शितानि च ।
एकमण्डं प्रजानीमोऽथोऽपरं नास्ति नः शुभे ॥ २५ ॥
श्रीशतचन्द्राननोवाच -
ब्रह्मदेव लुठन्तीह कोटिशो ह्यण्डराशयः ।
तेषां यूयं यथा देवास्तथाण्डेऽण्डे पृथक् पृथक् ॥ २६ ॥
नामग्रामं न जानीथ कदा नात्र समागताः ।
जडबुद्ध्या प्रहृष्यध्वे गृहान्नापि विनिर्गताः ॥ २७ ॥
ब्रह्माण्डमेकं जानन्ति यत्र जातास्तथा जनाः ।
मशका च यथान्तःस्था औदुंबरफलेषु वै ॥ २८ ॥
श्रीनारद उवाच -
उपहास्यं गता देवा इत्थं तूष्णीं स्थिताः पुनः ।
चकितानिव तान् दृष्ट्वा विष्णुर्वचनमब्रवीत् ॥ २९ ॥
श्रीविष्णुरुवाच -
यस्मिन्नण्डे पृश्निगर्भोऽवतारोऽभूत्सनातन ।
त्रिविक्रमनखोद्‌भिन्ने तस्मिन्नण्डे स्थिता वयम् ॥ ३० ॥
श्रीनारद उवाच -
तच्छ्रुत्वा तं च संश्लाघ्य शीघ्रमन्तःपुरं गता
पुनरागत्य देवेभ्योऽप्याज्ञां दत्त्वा गताः पुरम् ॥ ३१ ॥
अथ देवगणाः सर्वे गोलोकं ददृशुः परम् ।
तत्र गोवर्धनो नाम गिरिराजो विराजते ॥ ३२ ॥
वसन्तमानिनीभिश्च गोपीभिर्गोगणैर्वृतः ।
कल्पवृक्षलतासङ्‍घै रासमण्डलमण्डितः ॥ ३३ ॥
यत्र कृष्णानदी श्यामा तोलिकाकोटिमण्डिता ।
वैदूर्यकृत सोपाना स्वच्छन्दगतिरुत्तमा ॥ ३४ ॥
वृन्दावनं भ्राजमानं दिव्यद्रुमलताकुलम् ।
चित्रपक्षिमधुव्रतैर्वंशीवटविराजितम् ॥ ३५ ॥
पुलिने शीतले वायुर्मन्दगामी वहत्यलम् ।
सहस्रदलपद्मानां रजो विक्षेपयन्मुहुः ॥ ३६ ॥
मध्ये निजनिकुञ्जोऽस्ति द्वात्रिंशद्‌वनसंयुतः ।
प्राकारपरिखायुक्तोऽरुणाक्षयवटाजिरः ॥ ३७ ॥
सप्तधा पद्मरागाग्राजिरकुड्यविभूषितः ।
कोटीन्दुमण्डलाकारैर्वितानैर्गुलिकाद्युतिः ॥ ३८ ॥
पतत्पताकैर्दिव्याभैः पुष्पमन्दिरवर्त्मभिः ।
जातभ्रमरसङ्‍गीतो मत्तबर्हिपिकस्वनः ॥ ३९ ॥
बालार्ककुण्डलधराः शतचन्द्रप्रभाः स्त्रियः ।
स्वच्छन्दगतयो रत्‍नैः पश्यन्त्यः सुन्दरं मुखम् ॥ ४० ॥
रत्‍नाजिरेषु धावंत्यो हारकेयूरभूषिताः ।
क्वणन्नूपुरकिङ्‌किण्यश्चूडामणिविराजिताः ॥ ४१ ॥
कोटिशः कोटिशो गावो द्वारि द्वारि मनोहराः ।
श्वेतपर्वतसङ्‍काशा दिव्यभूषणभूषिताः ॥ ४२ ॥
पयस्विन्यस्तरुण्यश्च शीलरूपगुणैर्युताः ।
सवत्साः पीतपुच्छाश्च व्रजंत्यो भव्यमूर्तिकाः ॥ ४३ ॥
घण्टामंजीरसंरावाः किं‍किणीजालमण्डिताः ।
हेमशृङ्‍ग्यो हेमतुल्यहारमालास्फुरत्प्रभाः ॥ ४४ ॥
पाटला हरितास्ताम्राः पीताः श्यामा विचित्रिताः ।
धूम्राः कोकिलवर्णाश्च यत्र गावस्त्वनेकधा ॥ ४५ ॥
समुद्रवद्‌दुग्धदाश्च तरुणीकरचिह्निताः ।
कुरंगवद्‌विलङ्‍घद्‌भिर्गोवत्सैर्मण्डिताः शुभाः ॥ ४६ ॥
इतस्ततश्चलन्तश्च गोगणेषु महावृषाः ।
दीर्घकन्धरशृङ्‌गाढ्या यत्र धर्मधुरंधराः ॥ ४७ ॥
गोपाला वेत्रहस्ताश्च श्यामा वंशीधराः पराः ।
कृष्णलीलां प्रगायन्तो रागैर्मदनमोहनैः ॥ ४८ ॥
इत्थं निजनिकुञ्जं तं नत्वा मध्ये गताः सुराः ।
ज्योतिषां मण्डलं पद्मं सहस्रदलशोभितम् ॥ ४९ ॥
तदूर्ध्वं षोडशदलं ततोऽष्टदलपङ्‍कजम् ।
तस्योपरि स्फुरद्दीर्घं सोपानत्रयमण्डितम् ॥ ५० ॥
सिंहासनं परं दिव्यं कौस्तुभैः खचितं शुभैः ।
ददृशुर्देवताः सर्वाः श्रीकृष्णं राधया युतम् ॥ ५१ ॥
दिव्यैरष्टसखीसङ्‍घैर्मोहिन्यादिभिरन्वितम् ।
श्रीदामाद्यैः सेव्यमानमष्टगोपालसेवितैः ॥ ५२ ॥
हंसाभैर्व्यजनान्दोलचामरैर्वज्रमुष्टिभिः ।
कोटिचन्द्रप्रतीकाशैः सेवितं छत्रकोटिभिः ॥ ५३ ॥
श्री राधिकालङ्‍कृतवामबाहुं
     स्वच्छन्दवक्री- कृतदक्षिणाङ्‌घ्रिम् ।
वंशीधरं सुन्दरमन्दहासं
     भ्रूमण्डलामोहितकामराशिम् ॥ ५४ ॥
घनप्रभं पद्मदलायुतेक्षणं
     प्रलम्बबाहुं बहुपीतवाससम् ।
वृन्दावनोन्मत्तमिलिन्दशब्दै-
     र्विराजितं श्रीवनमालया हरिम् ॥ ५५ ॥
काञ्जीकलाकङ्‍कणनूपुरद्युतिं
     लसन्मनोहारि महोज्ज्वलस्मितम् ।
श्रीवत्सरत्‍नोत्तम कुन्तलश्रियं
     किरीटहाराङ्‍गदकुण्डलत्विषम् ॥ ५६ ॥
दृष्ट्वा तमानन्दसमुद्रमग्नव-
     त्प्रहर्षिताश्चाश्रु- कलाकुलेक्षणाः ।
ततः सुराः प्राञ्जलयो नतानना
     नेमुर्मुरारिं पुरुषं परायणम् ॥ ५७ ॥

इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे
श्रीगोलोकधामवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP