श्रीमद्‌देवीभागवत महापुराण
दशमः स्कन्धः
त्रयोदशोऽध्यायः


भ्रामरीचरित्रवर्णनम्

श्रीनारायण उवाच
अथातः श्रूयतां शेषमनूनां चित्रमुद्‍भवम् ।
यस्य स्मरणमात्रेण देवीभक्तिः प्रजायते ॥ १ ॥
आसन्वैवस्वतमनोः पुत्राः षड् विमलोदयाः ।
करूषश्च पृषध्रश्च नाभागो दिष्ट एव च ॥ २ ॥
शर्यातिश्च त्रिशङ्‌कुश्च सर्व एव महाबलाः ।
ततः षडेव ते गत्वा कालिन्द्यास्तीरमुत्तमम् ॥ ३ ॥
निराहारा जितश्वासाः पूजां चक्रुस्ततः स्थिताः ।
देव्या महीमयीं मूर्तिं विनिर्माय पृथक्पृथक् ॥ ४ ॥
विविधैरुपचारैस्तां पूजयामासुरादृताः ।
ततश्च सर्व एवैते तपःसारा महाबलाः ॥ ५ ॥
जीर्णपर्णाशना वायुभक्षणास्तोयजीवनाः ।
धूम्रपाना रश्मिपानाः क्रमशश्च बहुश्रमाः ॥ ६ ॥
ततस्तेषामादरेणाराधनं कुर्वतां सदा ।
विमला मतिरुत्पन्ना सर्वमोहविनाशिनी ॥ ७ ॥
बभूवुर्मनुपुत्रास्ते देवीपादैकचिन्तनाः ।
मत्या विमलया तेषामात्मन्येवाखिलं जगत् ॥ ८ ॥
दर्शनं सञ्जगामाशु तदद्‍भुतमिवाभवत् ।
एवं द्वादशवर्षान्ते तपसा जगदीश्वरी ॥ ९ ॥
प्रादुर्बभूव देवेशी सहस्रार्कसमद्युतिः ।
तां दृष्ट्वा विमलात्मानो राजपुत्राः षडेव ते ॥ १० ॥
तुष्टुवुर्भक्तिनम्रान्तःकरणा भावसंयुताः ।
राजपुत्रा ऊचुः
महेश्वरि जयेशानि परमे करुणालये ॥ ११ ॥
वाग्भवाराधनप्रीते वाग्भवप्रतिपादिते ।
क्लींकारविग्रहे देवि क्लींकारप्रीतिदायिनि ॥ १२ ॥
कामराजमनोमोददायिनीश्वरतोषिणि ।
महामाये मोदपरे महासाम्राज्यदायिनि ॥ १३ ॥
विष्ण्वर्कहरशक्रादिस्वरूपे भोगवर्धिनि ।
एवं स्तुता भगवती राजपुत्रैर्महात्मभिः ॥ १४ ॥
प्रसादसुमुखी देवी प्रोवाच वचनं शुभम् ।
देव्युवाच
राजपुत्रा महात्मानो भवन्तस्तपसा युताः ॥ १५ ॥
निष्कल्मषाः शुद्धधियो जाता वै मदुपासनात् ।
वरं मनोगतं सर्वं याचध्वमविलम्बितम् ॥ १६ ॥
प्रसन्नाहं प्रदास्यामि युष्माकं मनसि स्थितम् ।
राजपुत्रा ऊचुः
देवि निष्कण्टकं राज्यं सन्ततिश्चिरजीविनी ॥ १७ ॥
भोगा अव्याहता कामं यशस्तेजो मतिश्च ह ।
अकुण्ठितत्वं सर्वेषामेष एव वरो हितः ॥ १८ ॥
देव्युवाच
एवमस्तु च सर्वेषां भवतां यन्मनोगतम् ।
अथान्यदपि मे वाक्यं भूयतामादरादिदम् ॥ १९ ॥
भवन्तः सर्व एवैते मन्वन्तरपतीश्वराः ।
सन्तत्या दीर्घया भोगैरनेकैरपि सङ्‌गमः ॥ २० ॥
अखण्डितबलैश्वर्यं यशस्तेजोविभूतयः ।
भवितारो मत्प्रसादाद्‌राजपुत्राः क्रमेण तु ॥ २१ ॥
श्रीनारायण उवाच
एवं तेभ्यो वरान्दत्त्वा भ्रामरी जगदम्बिका ।
अन्तर्धानं जगामाशु भक्त्या तैः संस्तुता सती ॥ २२ ॥
ते राजपुत्राः सर्वेऽपि तस्मिञ्जन्मन्यनुत्तमम् ।
राज्यं महीगतान्भोगान्बुभुजुश्च महौजसः ॥ २३ ॥
सन्ततिं चाखण्डितां ते समुत्पाद्य महीतले ।
वंशं संस्थाप्य सर्वेऽपि मनूनां पतयोऽभवन् ॥ २४ ॥
भवान्तरे क्रमेणैव सावर्णिपदभागिनः ।
प्रथमो दक्षसावर्णिर्नवमो मनुरीरितः ॥ २५ ॥
अव्याहतबलो देव्याः प्रसादादभवद्विभुः ।
द्वितीयो मेरुसावर्णिर्दशमो मनुरेव च ॥ २६ ॥
बभूव मन्वन्तरपो महादेवीप्रसादतः ।
तृतीयो मनुराख्यातः सूर्यसावर्णिनामकः ॥ २७ ॥
एकादशो महोत्साहस्तपसा स्वेन भावितः ।
चतुर्थश्चन्द्रसावर्णिर्द्वादशो मनुराड् विभुः ॥ २८ ॥
देवीसमाराधनेन जातो मन्वन्तरेश्वरः ।
पञ्चमो रुद्रसावर्णिस्त्रयोदशमनुः स्मृतः ॥ २९ ॥
महाबलो महासत्त्वो बभूव जगदीश्वरः ।
षष्ठश्च विष्णुसावर्णिश्चतुर्दशमनुः कृती ॥ ३० ॥
बभूव देवीवरतो जगतां प्रथितः प्रभुः ।
चतुर्दशैते मनवो महातेजोबलैर्युताः ॥ ३१ ॥
देव्याराधनतः पूज्या वन्द्या लोकेषु नित्यशः ।
महाप्रतापिनः सर्वे भ्रामर्यास्तु प्रसादतः ॥ ३२ ॥
नारद उवाच
केयं सा भ्रामरी देवी कथं जाता किमात्मिका ।
तदाख्यानं वद प्राज्ञ विचित्रं शोकनाशकम् ॥ ३३ ॥
न तृप्तिमधिगच्छामि पिबन्देवीकथामृतम् ।
अमृतं पिबतां मृत्युर्नास्य श्रवणतो यतः ॥ ३४ ॥
श्रीनारायण उवाच
शृणु नारद वक्ष्यामि जगन्मातुर्विचेष्टितम् ।
अचिन्त्याव्यक्तरूपाया विचित्रं मोक्षदायकम् ॥ ३५ ॥
यद्यच्चरित्रं श्रीदेव्यास्तत्सर्वं लोकहेतवे ।
निर्व्याजया करुणया पुत्रे मातुर्यथा तथा ॥ ३६ ॥
पूर्वं दैत्यो महानासीदरुणाख्यो महाबलः ।
पाताले दैत्यसंस्थाने देवद्वेषी महाखलः ॥ ३७ ॥
स देवाञ्जेतुकामश्च चकार परमं तपः ।
पद्मसम्भवमुद्दिश्य स नस्त्राता भविष्यति ॥ ३८ ॥
गत्वा हिमवतः पार्श्वे गङ्‌गाजलसुशीतले ।
पक्वपर्णाशनो योगी सन्निरुध्य मरुद्‌गणम् ॥ ३९ ॥
गायत्रीजपसंसक्तः सकामस्तमसा युतः ।
दशवर्षसहस्राणि ततो वारिकणाशनः ॥ ४० ॥
दशवर्षसहस्राणि ततः पवनभोजनः ।
दशवर्षसहस्राणि निराहारोऽभवत्ततः ॥ ४१ ॥
एवं तपस्यतस्तस्य शरीरादुत्थितोऽनलः ।
ददाह जगतीं सर्वां तदद्‍भुतमिवाभवत् ॥ ४२ ॥
किमिदं किमिदं चेति देवाः सर्वे चकम्पिरे ।
सन्त्रस्ताः सकला लोका ब्रह्माणं शरणं ययुः ॥ ४३ ॥
विज्ञापितं देववरैः श्रुत्वा तत्र चतुर्मुखः ।
गायत्रीसहितो हंससमारूढो ययौ मुदा ॥ ४४ ॥
प्राणमात्रावशिष्टं तं धमनीशतसङ्‌कुलम् ।
शुष्कोदरं क्षामगात्रं ध्यानमीलितलोचनम् ॥ ४५ ॥
ददर्श तेजसा दीप्तं द्वितीयमिव पावकम् ।
वरं वरय भद्रं ते वत्स यन्मनसि स्थितम् ॥ ४६ ॥
श्रुतिमात्रेण सन्तोषकारकं वाक्यमूचिवान् ।
श्रुत्वा ब्रह्ममुखाद्वाणीं सुधाधारामिवारुणः ॥ ४७ ॥
उन्मीलिताक्षः पुरतो ददर्श जलजोद्‍भवम् ।
गायत्रीसहितं देवं चतुर्वेदसमन्वितम् ॥ ४८ ॥
अक्षस्रक्कुण्डिकाहस्तं जपन्तं ब्रह्म शाश्वतम् ।
दृष्ट्वोत्थाय ननामाथ स्तुत्वा च विविधैः स्तवैः ॥ ४९ ॥
वरं वव्रे स्वबुद्धिस्थं मा भवेन्मृत्युरित्यपि ।
श्रुत्वारुणवचो ब्रह्मा बोधयामास सादरम् ॥ ५० ॥
ब्रह्मविष्णुमहेशाद्या मृत्युना कवलीकृताः ।
तदान्येषां तु का वार्ता मरणे दानवोत्तम ॥ ५१ ॥
वरं योग्यं ततो ब्रूहि दातुं यः शक्यते मया ।
नात्राग्रहं प्रकुर्वन्ति बुद्धिमन्तो जनाः क्वचित् ॥ ५२ ॥
इति ब्रह्मवचः श्रुत्वा पुनः प्रोवाच सादरम् ।
न युद्धे न च शस्त्रास्त्रान्न पुंभ्यो नापि योषितः ॥ ५३ ॥
द्विपाद्‍भ्यो वा चतुष्पाद्‍भ्यो नोभयाकारतस्तथा ।
भवेन्मे मृत्युरित्येवं देव देहि वरं प्रभो ॥ ५४ ॥
बलं च विपुलं देहि येन देवजयो भवेत् ।
इति तस्य वचः श्रुत्वा तथास्त्विति वचोऽब्रवीत् ॥ ५५ ॥
दत्त्वा वरं जगामाशु पद्मजः स्वं निकेतनम् ।
ततोऽरुणाख्यो दैत्यस्तु पातालात्स्वाश्रयस्थितान् ॥ ५६ ॥
दैत्यानाकारयामास ब्रह्मणो वरदर्पितः ।
आगत्य तेऽसुराः सर्वे दैत्येशं तं प्रचक्रिरे ॥ ५७ ॥
दूतं च प्रेषयामासुर्युद्धार्थममरावतीम् ।
दूतवाक्यं तदा श्रुत्वा देवराड् भयकम्पितः ॥ ५८ ॥
देवैः सार्धं जगामाशु ब्रह्मणः सदनं प्रति ।
ब्रह्मविष्णू पुरस्कृत्य जग्मुस्ते शङ्‌करालयम् ॥ ५९ ॥
विचारं चक्रिरे तत्र वधार्थं ते सुरद्रुहाम् ।
एतस्मिन्समये तत्र दैत्यसेनासमावृतः ॥ ६० ॥
अरुणाख्यो दैत्यराजो जगामाशु त्रिविष्टपम् ।
सूर्येन्दुयमवह्नीनामधिकारान्पृथक्पृथक् ॥ ६१ ॥
स्वयं चकार तपसा नानारूपधरो मुने ।
स्वस्वस्थानच्युताः सर्वे जग्मुः कैलासमण्डलम् ॥ ६२ ॥
शशंसुः शङ्‌करं देवाः स्वस्वदुःखं पृथक्पृथक् ।
महान् विचारस्तत्रासीत्किं कर्तव्यमतः परम् ॥ ६३ ॥
न युद्धेन च शस्त्रास्त्रैर्न पुंभ्यो नापि योषितः ।
द्विपाद्‍भ्यो वा चतुष्पाद्‍भ्यो नोभयाकारतोऽपि वा ॥ ६४ ॥
मृत्युर्भवेदिति ब्रह्मा प्रोवाच वचनं यतः ।
इति चिन्तातुराः सर्वे कर्तुं किञ्चिन्न च क्षमाः ॥ ६५ ॥
एतस्मिन्समये तत्र वागभूदशरीरिणी ।
भजध्वं भुवनेशानीं सा वः कार्यं विधास्यति ॥ ६६ ॥
गायत्रीजपसंसक्तो दैत्यराड् यदि तां त्यजेत् ।
मृत्युयोग्यस्तदा भूयादित्युच्चैस्तोषकारिणी ॥ ६७ ॥
श्रुत्वा दैवीं तथा वाणीं मन्त्रयामासुरादृताः ।
बृहस्पतिं समाहूय वचनं प्राह देवराट् ॥ ६८ ॥
गुरो गच्छ सुराणां तु कार्यार्थमसुरं प्रति ।
यथा भवेच्च गायत्रीत्यागस्तस्य तथा कुरु ॥ ६९ ॥
अस्माभिः परमेशानी सेव्यते ध्यानयोगतः ।
प्रसन्ना सा भगवती साहाय्यं ते करिष्यति ॥ ७० ॥
इत्यादिश्य गुरुं सर्वे जग्मुर्जाम्बूनदेश्वरीम् ।
सास्मान्दैत्यभयत्रस्तान् पालयिष्यति शोभना ॥ ७१ ॥
तत्र गत्वा तपश्चर्यां चक्रुः सर्वे सुनिष्ठिताः ।
मायाबीजजपासक्ता देवीमखपरायणाः ॥ ७२ ॥
बृहस्पतिस्तदा शीघ्रं जगामासुरसन्निधौ ।
आगतं मुनिवर्यं तं पप्रच्छाथ स दैत्यराट् ॥ ७३ ॥
मुने कुत्रागमः कस्मात्किमर्थमिति मे वद ।
नाहं युष्मत्पक्षपाती प्रत्युतारातिरेव च ॥ ७४ ॥
इति तस्य वचः श्रुत्वा प्रोवाच मुनिनायकः ।
अस्मत्सेव्या च या देवी सा त्वया पूज्यतेऽनिशम् ॥ ७५ ॥
तस्मादस्मत्पक्षपाती न भवेस्त्वं कथं वद ।
इति तस्य वचः श्रुत्वा मोहितो देवमायया ॥ ७६ ॥
तत्याज परमं मन्त्रमभिमानेन सत्तम ।
गायत्रीत्यागतो दैत्यो निस्तेजस्को बभूव ह ॥ ७७ ॥
कृतकार्यो गुरुस्तस्मात्स्थानान्निर्गतवान्पुनः ।
ततो वृत्तान्तमखिलं कथयामास वज्रिणे ॥ ७८ ॥
संतुष्टास्ते सुराः सर्वे भेजिरे परमेश्वरीम् ।
एवं बहुगते काले कस्मिंश्चित्समये मुने ॥ ७९ ॥
प्रादुरासीज्जगन्माता जगन्मङ्‌गलकारिणी ।
कोटिसूर्यप्रतीकाशा कोटिकन्दर्पसुन्दरी ॥ ८० ॥
चित्रानुलेपना देवी चित्रवासोयुगान्विता ।
विचित्रमाल्याभरणा चित्रभ्रमरमुष्टिका ॥ ८१ ॥
वराभयकरा शान्ता करुणामृतसागरा ।
नानाभ्रमरसंयुक्तपुष्पमालाविराजिता ॥ ८२ ॥
भ्रामरीभिर्विचित्राभिरसंख्याभिः समावृता ।
भ्रमरैर्गायमानैश्च ह्रींकारमनुमन्वहम् ॥ ८३ ॥
समन्ततः परिवृता कोटिकोटिभिरम्बिका ।
सर्वशृङ्‌गारवेषाढ्या सर्ववेदप्रशंसिता ॥ ८४ ॥
सर्वात्मिका सर्वमयी सर्वमङ्‌गलरूपिणी ।
सर्वज्ञा सर्वजननी सर्वा सर्वेश्वरी शिवा ॥ ८५ ॥
दृष्ट्वा तां तरलात्मानो देवा ब्रह्मपुरोगमाः ।
तुष्टुवुर्हृष्टमनसो विष्टरश्रवसां शिवाम् ॥ ८६ ॥
देवा ऊचुः
नमो देवि महाविद्ये सृष्टिस्थित्यन्तकारिणि ।
नमः कमलपत्राक्षि सर्वाधारे नमोऽस्तु ते ॥ ८७ ॥
सविश्वतैजसप्राज्ञविराट्सूत्रात्मिके नमः ।
नमो व्याकृतरूपायै कूटस्थायै नमो नमः ॥ ८८ ॥
दुर्गे सर्गादिरहिते दुष्टसंरोधनार्गले ।
निरर्गलप्रेमगम्ये भर्गे देवि नमोऽस्तु ते ॥ ८९ ॥
नमः श्रीकालिके मातर्नमो नीलसरस्वति ।
उग्रतारे महोग्रे ते नित्यमेव नमो नमः ॥ ९० ॥
नमः पीताम्बरे देवि नमस्त्रिपुरसुन्दरि ।
नमो भैरवि मातङ्‌गि धूमावति नमो नमः ॥ ९१ ॥
छिन्नमस्ते नमस्तेऽस्तु क्षीरसागरकन्यके ।
नमः शाकम्भरि शिवे नमस्ते रक्तदन्तिके ॥ ९२ ॥
निशुम्भशुम्भदलनि रक्तबीजविनाशिनि ।
धूम्रलोचननिर्णाशे वृत्रासुरनिबर्हिणि ॥ ९३ ॥
चण्डमुण्डप्रमथिनि दानवान्तकरे शिवे ।
नमस्ते विजये गङ्‌गे शारदे विकचानने ॥ ९४ ॥
पृथ्वीरूपे दयारूपे तेजोरूपे नमो नमः ।
प्राणरूपे महारूपे भूतरूपे नमोऽस्तु ते ॥ ९५ ॥
विश्वमूर्ते दयामूर्ते धर्ममूर्ते नमो नमः ।
देवमूर्ते ज्योतिमूर्ते ज्ञानमूर्ते नमोऽस्तु ते ॥ ९६ ॥
गायत्रि वरदे देवि सावित्रि च सरस्वति ।
नमः स्वाहे स्वधे मातर्दक्षिणे ते नमो नमः ॥ ९७ ॥
नेति नेतीति वाक्यैर्या बोध्यते सकलागमैः ।
सर्वप्रत्यक्स्वरूपां तां भजामः परदेवताम् ॥ ९८ ॥
भ्रमरैर्वेष्टिता यस्माद्‌ भ्रामरी या ततः स्मृता ।
तस्यै देव्यै नमो नित्यं नित्यमेव नमो नमः ॥ ९९ ॥
नमस्ते पार्श्वयोः पृष्ठे नमस्ते पुरतोऽम्बिके ।
नम ऊर्ध्वं नमश्चाधः सर्वत्रैव नमो नमः ॥ १०० ॥
कृपां कुरु महादेवि मणिद्वीपाधिवासिनि ।
अनन्तकोटिब्रह्माण्डनायिके जगदम्बिके ॥ १०१ ॥
जय देवि जगन्मातर्जय देवि परात्परे ।
जय श्रीभुवनेशानि जय सर्वोत्तमोत्तमे ॥ १०२ ॥
कल्याणगुणरत्‍नानामाकरे भुवनेश्वरि ।
प्रसीद परमेशानि प्रसीद जगतोरणे ॥ १०३ ॥
श्रीनारायण उवाच
इति देववचः श्रुत्वा प्रगल्भं मधुरं वचः ।
उवाच जगदम्बा सा मत्तकोकिलभाषिणी ॥ १०४ ॥
देव्युवाच
प्रसन्नाहं सदा देवा वरदेशशिखामणिः ।
ब्रुवन्तु विबुधाः सर्वे यदेव स्याच्चिकीर्षितम् ॥ १०५ ॥
देवीवाक्यं सुराः श्रुत्वा प्रोचुर्दुःखस्य कारणम् ।
दुष्टदैत्यस्य चरितं जगद्बाधाकरं परम् ॥ १०६ ॥
देवब्राह्मणवेदानां हेलनं नाशनं तथा ।
स्थानभ्रंशं सुराणां च कथयामासुरादृताः ॥ १०७ ॥
ब्रह्मणो वरदानं च यथावत्ते समूचिरे ।
श्रुत्वा देवमुखाद्वाणीं महाभगवती तदा ॥ १०८ ॥
प्रेरयामास हस्तस्थान्भ्रमरान्भ्रामरी तदा ।
पार्श्वस्थानग्नभागस्थान्नानारूपधरांस्तथा ॥ १०९ ॥
जनयामास बहुशो यैर्व्याप्तं भुवनत्रयम् ।
मटचीयूथवत्तेषां समुदायस्तु निर्गतः ॥ ११० ॥
तदान्तरिक्षं तैर्व्याप्तमन्धकारः क्षितावभूत् ।
दिवि पर्वतशृङ्‌गेषु द्रुमेषु विपिनेष्वपि ॥ १११ ॥
भ्रमरा एव सञ्जातास्तदद्‌भुतमिवाभवत् ।
ते सर्वे दैत्यवक्षांसि दारयामासुरुद्‌गताः ॥ ११२ ॥
नरं मधुहरं यद्वन्मक्षिकाः कोपसंयुताः ।
उपायो न च शस्त्राणां तथास्त्राणां तदाभवत् ॥ ११३ ॥
न युद्धं न च सम्भाषा केवलं मरणं खलु ।
यस्मिन्यस्मिन्स्थले ये ये स्थिता दैत्या यथा यथा ॥ ११४ ॥
तत्रैव च तथा सर्वे मरणं प्रापुरुत्स्मयाः ।
परस्परं समाचारो न कस्याप्यभवत्तदा ॥ ११५ ॥
क्षणमात्रेण ते सर्वे विनष्टा दैत्यपुङ्‌गवाः ।
कृत्वेत्थं भ्रमराः कार्यं देवीनिकटमाययुः ॥ ११६ ॥
आश्चर्यमेतदाश्चर्यमिति लोकाः समूचिरे ।
किं चित्रं जगदम्बाया यस्या मायेयमीदृशी ॥ ११७ ॥
ततो देवगणाः सर्वे ब्रह्मविष्णुपुरोगमाः ।
निमग्ना हर्षजलधौ पूजयामासुरम्बिकाम् ॥ ११८ ॥
नानोपचारैर्विविधैर्नानोपायनपाणयः ।
जयशब्दं प्रकुर्वाणा मुमुचुः सुमनांसि च ॥ ११९ ॥
दिवि दुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ।
पेठुर्वेदान्मुनिश्रेष्ठा गन्धर्वाद्या जगुस्तथा ॥ १२० ॥
मृदङ्‌गमुरजावीणाढक्काडमरुनिःस्वनैः ।
घण्टाशङ्‌खनिनादैश्च व्याप्तमासीज्जगत्त्रयम् ॥ १२१ ॥
नानास्तोत्रैस्तदा स्तुत्वा मूर्ध्न्याधायाज्जलींस्तथा ।
जय मातर्जयेशानीत्येवं सर्वे समूचिरे ॥ १२२ ॥
ततस्तुष्टा महादेवी वरान्दत्त्वा पृथक्पृथक् ।
स्वस्मिंश्च विपुलां भक्तिं प्रार्थिता तैर्ददौ च ताम् ॥ १२३ ॥
पश्यतामेव देवानामन्तर्धानं गता ततः ।
इति ते सर्वमाख्यातं भ्रामर्याश्चरितं महत् ॥ १२४ ॥
पठतां शृण्वतां चैव सर्वपापप्रणाशनम् ।
श्रुतमाश्चर्यजनकं संसारार्णवतारकम् ॥ १२५ ॥
एवं मनूनां सर्वेषां चरितं पापनाशनम् ।
देवीमाहात्म्यसंयुक्तं पठञ्शृण्वञ्शुभप्रदम् ॥ १२६ ॥
यश्चैतत्पठते नित्यं शृणुयाद्योऽनिशं नरः ।
सर्वपापविनिर्मुक्तो देवीसायुज्यमाप्नुयात् ॥ १२७ ॥


भ्रामरी देवीचे चरित्र

श्री नारायणमुनी म्हणाले, ''आता इतर मनूंचे आख्यान सांगतो. त्याच्या श्रवणानेही मनुष्य देवीभक्त होतो. सदाचरणी वैवस्वत मनूला करूष, पुषध्र, नाभाग, दिष्ट, शर्याती, त्रिशंकू असे सहा पुत्र होते. ते सर्व बलाढ्य असून त्यांनी कालिंदीच्या तीरावर उग्र तप केले. मृत्तिकामय देवीची मूर्ती करून त्यांनी तिची पूजा केली. निराहार राहून सूर्यकिरणावर उपजीविका करून त्यांनी देवीची आराधना केली. त्यामुळे त्यांना मोहनाश करणारे ज्ञान प्राप्त झाले. त्यांना आत्मज्ञान झाले. तेव्हा प्रत्यक्ष जगदीश्वरी देवी त्यांच्या समोर आली. त्यावेळी सर्वांनी तिची स्तुती केली. राजपुत्र म्हणाले, ''हे महेश्वरी, हे इशानी, तुझा जयजयकार असो. वाग्भव मंत्रातून तू प्रतीत होतेस. तुझा आकार क्लींरूप आहे. तू कामराजामुळे मनास आनंद देणारी व ईश्वरास संतुष्ट करणारी आहेस. हे महामाये, तूच विश्व, शिवादिरूप आहेस. तूच भोगांची वृद्धी करतेस.'' अशारीतीने तिची स्तुती केल्यावर श्रीदेवी म्हणाली. '' हे राजपुत्रांनो, माझ्या तपामुळे तुमचे अंतःकरण शुद्ध झाले असून तुम्ही पापरहित झाला आहात. मी तुमच्यावर प्रसन्न झाले आहे. तुम्ही इष्ट वर मागून घ्या.'' राजपुत्र म्हणाले, ''निष्कंटक राज्य, चिरंजीव संतती, भोग, काम, यश, तेज इत्यादी आम्हाला प्राप्त करून दे.'' श्रीदेवी म्हणाली, ''तुम्ही सर्वजण मन्वंतराचे स्वामी व्हा. तुमच्या सर्व इच्छा पूर्ण होतील.'' याप्रमाणे वर दिल्यावर ती जगदंबिका गुप्त झाली. नंतर ते सर्व राजपुत्र उत्तम भोग भोगू लागले. दुसर्‍या जन्मी ते क्रमाक्रमाने मन्वंतराचे स्वामी झाले. त्यातला पहिला दक्षसावर्णी हा नववा मनू होय. तो देवीप्रसादामुळे अकुंठित सामर्थ्यवान झाला. दुसरा मेरूसावर्णी हा दहावा मनू झाला. सूर्यसावर्णी हा अकरावा मनू असून चंद्रसावर्णी हा बारावा, रुद्रसावर्णी हा तेरावा, विष्णुसावर्णी हा चवदावा, असे हे मनू जगद्‌वंद्य झाले. त्या देवी भ्रामरीच्या प्रसादामुळे सर्व श्रेष्ठ झाले.'' नारद म्हणाले, ''ह्मा भ्रामरी देवीची कथा आपण मला निवेदन करा.'' श्रीनारायण म्हणाले, ''हे नारदा, अव्यक्त, अचिंत्य अशा जगन्मातेचे चरित्र मी तुला सांगतो. ते मोक्ष देणारे आहे. पूर्वी अरूण नावाचा एक बलाढ्य दैत्य होता. तो महाबली पातालात रहात असे. त्याने ब्रह्मदेवास उद्देशून उग्र तप केले. त्याने हिमालयाच्या पार्श्वभागी, गंगाजलाने पवित्र ठिकाणी, पिकलेली पाने खाऊन गायत्रीमंत्राच्या साह्याने दहा हजार वर्षे तप केले. पुढील दहा हजार वर्षे उदकाचे तुषार पिऊन तो राहिला. पुढे वायुभक्षण करून दहा हजार वर्षे व नंतर निराहार राहिला. या दारूण तपश्चर्येनंतर त्याच्या शरीरातून निघालेल्या अग्नीने सर्व जग जाळून टाकले. तेव्हा सर्व देव भयाने कापू लागले व ब्रह्मदेवास शरण गेले. तेव्हा तो गायत्रीसह हंसारूढ होऊन तेथे आला. तेथे अत्यंत कृश झालेल्या पण देदीप्यमान अरुणास पाहिले. ब्रह्मदेव म्हणाला, हे वरा, तुझे कल्याण असो. तू इष्ट वर माग.'' तेव्हा संतुष्ट झालेल्या अरुणाने डोळे उघडून ब्रह्मदेवास पाहिले. नंतर विविध स्तोत्रे म्हणून त्याने देवाची स्तुती केली व अमर होण्याचा वर त्याने ब्रह्मदेवास मागितला. तेव्हा ब्रह्मदेव म्हणाला, ब्रह्मा, विष्णु, महेश यांनाही मृत्यु आहे. म्हणून मला देता येईल असा योग्य वर मागून घे. कारण बुद्धीमान लोक या गोष्टीविषयी आग्रह धरीत नाहीत. तेव्हा अरुण आदराने म्हणाला, ''युद्धामध्ये शस्त्रांपासून पुरुष अथवा स्त्री यांपासून, द्वीपाद, चतुष्पाद प्राण्यांकडून मला मृत्यु येऊ नये. तसेच देवांना जिंकता येण्यासारखे बल दे.'' तसा वर देऊन ब्रह्मदेव स्वस्थानी गेला. त्या वरामुळे गर्विष्ठ होऊन अरुणाने पाताळातून दैत्यांना वर आणले. तो दैत्यांचा राजा झाला. त्याने दूत पाठवून इंद्रास युद्धाचे आवाहन केले. तेव्हा इंद्र भयभीत होऊन ब्रह्मदेव व विष्णु यांच्यासह शंकराकडे गेला. ते सर्व देव त्या दैत्याच्या वधाचा विचार करू लागले. पण इकडे अरुणाने स्वर्गलोकी जाऊन विविध रूपे धारण करून इंद्र, सूर्य, वरुण, यम, अग्नी यांचे अधिकार घेतले. तेव्हा स्वस्थानापासून भ्रष्ट झालेल्या देवांनी ही वार्ता शंकराला सांगितली. ब्रह्मदेवाने दिलेल्या वरामुळे शंकरही विचारात पडला. सर्वजण चिंताव्यग्र झाले होते. इतक्यात आकाशवाणी झाली, ''भुवनेश्वरीची सेवा करा. गायत्री जपात तल्लीन झालेल्या दैत्यराजाला तिने सोडले तर तो मृत्यूस योग्य होईल.'' ती वाणी ऐकून इंद्र बृहस्पतीला म्हणाला,
''हे गुरो, तू असुराकडे जाऊन तो गायत्री जपाचा त्याग करील असे काहीतरी कर. आम्ही इकडे परमेश्वराची सेवा करतो.'' असे सांगून देव जंबुनदेश्वराकडे गेले. तेथे जाऊन त्यांनी निग्रहपूर्वक तप केले. मायबीज मंत्राच्या योगाने त्यांनी देवीचे यज्ञ केले. इकडे बृहस्पती असुराकडे गेला. त्याला पाहून दैत्यराज म्हणाला, ''हे मुने, आपण कोठून व कशाकरता आला आहात ? कारण मी तुमचा शत्रु आहे.'' मुनीश्रेष्ठ, बृहस्पती म्हणाला, ''आम्ही जिची सेवा करावी अशा देवीची तू पूजा करीत आहेस. तेव्हा तू आमचा पक्षपातीस नव्हेस काय ?'' हे शब्द ऐकताच देवमायेने मोहित झालेल्या राक्षसाने गर्वाने त्या मंत्राचा त्याग केला. गायत्रीचा त्याग करताक्षणीच तो निस्तेज झाला. तेव्हा देवगुरु सत्वर इंद्राकडे गेला. त्याने सर्व वृत्तांत त्याला निवेदन केला. संतुष्ट झालेल्या देवांनी परमेश्वरीची आराधना केली, तोच ती जगन्मंगलकारिणी त्यांच्यापुढे प्रकट झाली. ती कोटी सूर्याप्रमाणे तेजस्वी होती. मदनाप्रमाणे सुंदर होती. चित्रविचित्र उटी तिने लावली होती. ती विचित्र अशा दोन वस्त्रांनी युक्त होती. पुष्पालंकार तिने धारण केले होते. तिच्या मुठीत विचित्र भ्रमर होते. मुद्रा अभयदायक होती. तिच्याभोवती कोट्यावधी भ्रमर ऱ्हींकार मंत्राचे गायन करीत होते. अशी अंबा शृंगार वेषांनी परिपूर्ण होती. तिला पाहून सर्व देव त्या शिवेचे स्तवन करू लागले. देव म्हणाले, "हे महाविद्ये, तुला नमस्कार असो. हे कमलपत्राक्षी, तुला वंदन असो. हे सर्वाधारभूत देवी, तुला प्रणाम असो. विश्व, तेजस, प्राज्ञ, विराट व सूत्रात्मक देवी, तुला नमस्कार असो. हे दुर्गे, तू दुष्टांचा निरोध करणारी आडणा (अर्गला) आहेस. म्हणून अविद्यादिकांचा नाश करणारी, तुला नमस्कार असो. हे त्रिपुर सुंदरी, पितवत्र धारिणी, हे भैरवी, हे मातंगी, हे धूमावती, तुला वारंवार नमस्कार असो. हे छिन्नमस्ते, क्षीरसागरकन्ये, हे शिवे, शाकंभरी, हे रक्तदंतिके, आमचा तुला नमस्कार असो. हे सर्व दानवांचा अंत करणारे शिवे, तुला नमस्कार असो. हे विजये, हे गंगे, हे शारदे, हे पृथ्वीरूपी, दयारूपे, तेजोरूपे, तुला वारंवार प्रणाम असो. हे प्राणरूपे, हे महारूपे, भूतरूपे, विश्वमूर्ते, धर्ममूर्ते, दयापूर्ते तुला असकृत प्रणाम असोत. हे देवमूर्ते, ज्योतिमूर्ते, ज्ञानमूर्ते, हे गायत्री, हे वरदे, हे सावित्री, सरस्वती तुला नमस्कार असो. हे स्वधे, हे माते, हे दक्षिणे, हे वेदबोधरूपे, तुला नित्य प्रणाम असो. तू भ्रमरांनी वेष्टित आहेस, म्हणून तुला भ्रामरी असे म्हणतात. तुला सर्व बाजूंनी आमचा नमस्कार असो. हे अंबिके, हे मणिद्वीपवासिनी, हे अनंतकोटी ब्रह्मांडनायिके, हे जगदंबिके, हे जगन्माते, परात्परदेवी, हे भुवनेश्वरी, तुझा जयजयकार असो. हे परमेश्वरी, प्रसन्न हो. आमच्यावर कृपा कर.'' असे देवांनी तिचे स्तवन केल्यावर ती जगदंबा म्हणाली, ''हे देवांनो, मी प्रसन्न झाले आहे. तेव्हा तुमचे काय कार्य आहे ते सांगा. " देवीचे भाषण ऐकून देवांनी आपले कार्य तिला निवेदन केले. देवब्राह्मणांचा व वेदांचा नाश करणार्‍या दुष्ट दैत्यासंबंधीचे आपले कार्य तिला सांगितले. ब्रह्मदेवाचा वरही तिला सांगितला. ते सर्व ऐकून भ्रामरीने आपल्या सर्व बाजूंना असलेल्या व हातातल्या भ्रामरांना प्रेरणा केली. तेव्हा विविध रूपाने असंख्य भ्रमर उत्पन्न झाले. त्यांनी त्रिभुवन व्यापून टाकले. तो सर्व भ्रमरसमुदाय तेधून निघाला. त्यावेळी अंतरिक्ष व्यापल्यामुळे अंधकार झाला. अंतरिक्षात, पर्वतशिखरावर, वृक्षावर सर्वत्र भ्रमरच दिसू लागले. त्या भ्रमरांनी क्रुद्ध होऊन दैत्यांची वक्षस्थले फोडून टाकली. शस्त्रास्त्रांचे त्यापुढे काही चालेना. दैत्य जागच्या जागी ठार झाले. एका क्षणार्धात सर्व दैत्यश्रेष्ठ नष्ट झाले. याप्रमाणे देवांचे कार्य पार पाडल्यावर सर्व भ्रमर देवीजवळ आले. सर्व लोक आश्चर्ययुक्त झाले. ब्रह्मा-विष्णु-महेशांनी हर्षयुक्त होऊन त्या देवीचे पूजन केले. तिला विविध उपचार अर्पण केले. तिच्यावर पुष्पवृष्टी केली. स्वर्गलोकी दुंदुभी वाजू लागल्या. गंधर्व गाऊ लागले. विविध स्तोत्रांनी देव देवीची स्तुती करू लागले. सर्व देवांनी तिचा जयजयकार केला. सर्वांना पृथकू पृथकू वर देऊन ती देवी गुप्त झाली. हे नारदा, याप्रमाणे भ्रामरीचे चरित्र मी तुला सांगितले. हे पठण अथवा श्रवण करणारा पापमुक्त होतो. ह्याप्रमाणे सर्व मनूंचे पापनाशक आख्यान जो पठण करतो अथवा नित्य पाठ करतो तो सर्व पापापासून मुक्त होतो. शेवटी त्याला देवीसायुज्यता प्राप्त होते.



इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
दशमस्कन्धे भ्रामरीचरित्रवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥

अध्याय तेरावा समाप्त
॥ दशमः स्कन्धः समाप्तः ॥

GO TOP