श्रीमद्‌देवीभागवत महापुराण
नवमः स्कन्धः
अष्टचत्वारिंशोऽध्यायः


मनसोपाख्यानवर्णनम्

श्रीनारायण उवाच
मत्तः पूजाविधानं च श्रूयतां मुनिपुङ्‌गव ।
ध्यानं च सामवेदोक्तं प्रोक्तं देवीविधानकम् ॥ १ ॥
श्वेतचम्पकवर्णाभां रत्‍नभूषणभूषिताम् ।
वह्निशुद्धांशुकाधानां नागयज्ञोपवीतिनीम् ॥ २ ॥
महाज्ञानयुतां तां च प्रवरज्ञानिनां वराम् ।
सिद्धाधिष्ठातृदेवीं च सिद्धां सिद्धिप्रदां भजे ॥ ३ ॥
इति ध्यात्वा च तां देवीं मूलेनैव प्रपूजयेत् ।
नैवेद्यैर्विविधैर्धूपैः पुष्पगन्धानुलेपनैः ॥ ४ ॥
मूलमन्त्रैश्च वेदोक्तैर्भक्तानां वाच्छितप्रदः ।
मुने कल्पतरुर्नाम सुसिद्धो द्वादशाक्षरः ॥ ५ ॥
ॐ ह्रीं श्रीं क्लीं ऐं मनसादेव्यै स्वाहेति कीर्तितः ।
पञ्चलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ॥ ६ ॥
मन्त्रसिद्धिर्भवेद्यस्य स सिद्धो जगतीतले ।
सुधासमं विषं तस्य धन्वन्तरिसमो भवेत् ॥ ७ ॥
ब्रह्मन्स्नात्वा तु सङ्‌क्रान्त्यां गूढशालासु यत्‍नतः ।
आवाह्य देवीमीशानां पूजयेद्योऽतिभक्तितः ॥ ८ ॥
पञ्चम्यां मनसा ध्यायन् देव्यै दद्याच्च यो बलिम् ।
धनवान्पुत्रवांश्चैव कीर्तिमान्स भवेद्‌ ध्रुवम् ॥ ९ ॥
पूजाविधानं कथितं तदाख्यानं निशामय ।
कथयामि महाभाग यच्छ्रुतं धर्मवक्त्रतः ॥ १० ॥
पुरा नागभयाक्रान्ता बभूवुर्मानवा भुवि ।
गतास्ते शरणं सर्वे कश्यपं मुनिपुङ्‌गवम् ॥ ११ ॥
मन्त्रांश्च ससृजे भीतः कश्यपो ब्रह्मणान्वितः ।
वेदबीजानुसारेण चोपदेशेन ब्रह्मणः ॥ १२ ॥
मन्त्राधिष्ठातृदेवीं तां मनसा ससृजे तथा ।
तपसा मनसा तेन बभूव मनसा च सा ॥ १३ ॥
कुमारी सा च सम्भूता जगाम शङ्‌करालयम् ।
भक्त्या सम्पूज्य कैलासे तुष्टाव चन्द्रशेखरम् ॥ १४ ॥
दिव्यवर्षसहस्रं तं सिषेवे च मुनेः सुता ।
आशुतोषो महेशश्च तां च तुष्टो बभूव ह ॥ १५ ॥
महाज्ञानं ददौ तस्यै पाठयामास साम च ।
कृष्णमन्त्रं कल्पतरुं ददावष्टाक्षरं मुने ॥ १६ ॥
लक्ष्मीमायाकामबीजं ङेऽन्तं कृष्णपदं ततः ।
त्रैलोक्यमङ्‌गलं नाम कवचं पूजनक्रमम् ॥ १७ ॥
पुरश्चर्याक्रमं चापि वेदोक्तं सर्वसम्मतम् ।
प्राप्य मृत्युञ्जयान्मन्त्रं सा सती च मुनेः सुता ॥ १८ ॥
जगाम तपसे साध्वी पुष्करं शङ्‌कराज्ञया ।
त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः ॥ १९ ॥
सिद्धा बभूव सा देवी ददर्श पुरतः प्रभुम् ।
दृष्ट्वा कृशाङ्‌गीं बालां च कृपया च कृपानिधिः ॥ २० ॥
पूजां च कारयामास चकार च स्वयं हरिः ।
वरं च प्रददौ तस्यै पूजिता त्वं भवे भव ॥ २१ ॥
वरं दत्त्वा तु कल्याण्यै ततश्चान्तर्दधे हरिः ।
प्रथमे पूजिता सा च कृष्णेन परमात्मना ॥ २२ ॥
द्वितीये शङ्‌करेणैव कश्यपेन सुरेण च ।
मुनिना मनुना चैव नागेन मानवादिभिः ॥ २३ ॥
बभूव पूजिता सा च त्रिषु लोकेषु सुव्रता ।
जरत्कारुमुनीन्द्राय कश्यपस्तां ददौ पुरा ॥ २४ ॥
अयाचितो मुनिश्रेष्ठो जग्राह ब्राह्मणाज्ञया ।
कृत्वोद्वाहं महायोगी विश्रान्तस्तपसा चिरम् ॥ २५ ॥
सुष्वाप देव्या जघने वटमूले च पुष्करे ।
निद्रां जगाम स मुनिः स्मृत्वा निद्रेशमीश्वरम् ॥ २६ ॥
जगामास्तं दिनकरः सायङ्‌काल उपस्थिते ।
सञ्चिन्त्य मनसा साध्वी मनसा सा पतिव्रता ॥ २७ ॥
धर्मलोपभयेनैव चकारालोचनं सती ।
अकृत्वा पश्चिमां सन्ध्यां नित्यां चैव द्विजन्मनाम् ॥ २८ ॥
ब्रह्महत्यादिकं पापं लभिष्यति पतिर्मम ।
नोपतिष्ठति यः पूर्वां नोपास्ते यस्तु पश्चिमाम् ॥ २९ ॥
स सर्वत्राशुचिर्नित्यं ब्रह्महत्यादिकं लभेत् ।
वेदोक्तमिति सञ्चिन्त्य बोधयामास सुन्दरी ॥ ३० ॥
स च बुद्धो मुनिश्रेष्ठस्तां चुकोप भृशं मुने ।
मुनिरुवाच
कथं मे सुखिनः साध्वि निद्राभङ्‌गः कृतस्त्वया ॥ ३१ ॥
व्यर्थं व्रतादिकं तस्या या भर्तुश्चापकारिणी ।
तपश्चानशनं चैव व्रतं दानादिकं च यत् ॥ ३२ ॥
भर्तुरप्रियकारिण्याः सर्वं भवति निष्कलम् ।
यया प्रियः पूजितश्च श्रीकृष्णः पूजितस्तया ॥ ३३ ॥
पतिव्रताव्रतार्थञ्च पतिरूपो हरिः स्वयम् ।
सर्वदानं सर्वयज्ञः सर्वतीर्थनिषेवणम् ॥ ३४ ॥
सर्वं व्रतं तपः सर्वमुपवासादिकं च यत् ।
सर्वधर्मश्च सत्यं च सर्वदेवप्रपूजनम् ॥ ३५ ॥
तत्सर्वं स्वामिसेवायाः कलां नार्हति षोडशीम् ।
पुण्ये च भारते वर्षे पतिसेवा करोति या ॥ ३६ ॥
वैकुण्ठे स्वामिना सार्धं सा याति ब्रह्मणः पदम् ।
विप्रियं कुरुते भर्तुर्विप्रियं वदति प्रियम् ॥ ३७ ॥
असत्कुले प्रसूता हि तत्फलं श्रूयतां सति ।
कुम्भीपाकं व्रजेत्सा च यावच्चन्द्रदिवाकरौ ॥ ३८ ॥
ततो भवति चाण्डाली पतिपुत्रविवर्जिता ।
इत्युक्त्वा च मुनिश्रेष्ठो बभूव स्फुरिताधरः ॥ ३९ ॥
चकम्पे तेन सा साध्वी भयेनोवाच तं पतिम् ।
साध्व्युवाच
सन्ध्यालोपभयेनैव निद्राभङ्‌गः कृतस्तव ॥ ४० ॥
कुरु शान्तिं महाभाग दुष्टाया मम सुव्रत ।
शृङ्‌गाराहारनिद्राणां यश्च भङ्‌गं करोति वै ॥ ४१ ॥
स व्रजेत्कालसूत्रं वै यावच्चन्द्रदिवाकरौ ।
इत्युक्त्वा मनसा देवी स्वामिनश्चरणाम्बुजे ॥ ४२ ॥
पपात भक्त्या भीता च रुरोद च पुनः पुनः ।
कुपितं च मुनिं दृष्ट्वा श्रीसूर्यं शप्तुमुद्यतम् ॥ ४३ ॥
तत्राजगाम भगवान्सन्ध्यया सह नारद ।
तत्रागत्य मुनिं सम्यगुवाच भास्करः स्वयम् ॥ ४४ ॥
विनयेन च भीतश्च तया सह यथोचितम् ।
भास्कर उवाच
सूर्यास्तसमयं दृष्ट्वा साध्वी धर्मभयेन च ॥ ४५ ॥
बोधयामास त्वां विप्र शरणं त्वामहं गतः ।
क्षमस्व भगवन्ब्रह्मन् मां शप्तुं नोचितं मुने ॥ ४६ ॥
ब्राह्मणानां च हृदयं नवनीतसमं सदा ।
तेषां क्षणार्धं क्रोधश्च ततो भस्म भवेज्जगत् ॥ ४७ ॥
पुनः स्रष्टुं द्विजः शक्तो न तेजस्वी द्विजात्परः ।
ब्राह्मणो ब्रह्मणो वंशः प्रज्वलन्ब्रह्मतेजसा ॥ ४८ ॥
श्रीकृष्णं भावयेन्नित्यं ब्रह्मज्योतिः सनातनम् ।
सूर्यस्य वचनं श्रुत्वा द्विजस्तुष्टो बभूव ह ॥ ४९ ॥
सूर्यो जगाम स्वस्थानं गृहीत्वा ब्राह्मणाशिषम् ।
तत्याज मनसां विप्रः प्रतिज्ञापालनाय च ॥ ५० ॥
रुदतीं शोकसंयुक्तां हृदयेन विदूयता ।
सा सस्मार गुरुं शम्भुमिष्टदेवं विधिं हरिम् ॥ ५१ ॥
कश्यपं जन्मदातारं विपत्तौ भयकर्शिता ।
तत्राजगाम गोपीशो भगवाच्छम्भुरेव च ॥ ५२ ॥
विधिश्च कश्यपश्चैव मनसा परिचिन्तितः ।
दृष्ट्वा विप्रोऽभीष्टदेवं निर्गुणं प्रकृतेः परम् ॥ ५३ ॥
तुष्टाव परया भक्त्या प्रणनाम मुहुर्मुहुः ।
नमश्चकार शम्भुं च ब्रह्माणं कश्यपं तथा ॥ ५४ ॥
कथमागमनं देवा इति प्रश्नं चकार सः ।
ब्रह्मा तद्वचनं श्रुत्वा सहसा समयोचितम् ॥ ५५ ॥
प्रत्युवाच नमस्कृत्य हृषीकेशपदाम्बुजम् ।
यदि त्यक्ता धर्मपत्‍नी धर्मिष्ठा मनसा सती ॥ ५६ ॥
कुरुष्वास्यां सुतोत्पत्तिं स्वधर्मपालनाय वै ।
जायायां च सुतोत्पत्तिं कृत्वा पश्चात्त्यजेन्मुने ॥ ५७ ॥
अकृत्वा तु सुतोत्पत्तिं विरागी यस्त्यजेत्प्रियाम् ।
स्रवते तस्य पुण्यं च चालन्यां च यथा जलम् ॥ ५८ ॥
ब्रह्मणो वचनं श्रुत्वा जरत्कारुर्मुनीश्वरः ।
चकार नाभिसंस्पर्शं योगेन मन्त्रपूर्वकम् ॥ ५९ ॥
मनसाया मुनिश्रेष्ठ मुनिश्रेष्ठ उवाच ताम् ।
जरत्कारुरुवाच
गर्भेणानेन मनसे तव पुत्रो भविष्यति ॥ ६० ॥
जितेन्द्रियाणां प्रवरो धार्मिको ब्राह्मणाग्रणीः ।
तेजस्वी च तपस्वी च यशस्वी च गुणान्वितः ॥ ६१ ॥
वरो वेदविदां चैव ज्ञानिनां योगिनां तथा ।
स च पुत्रो विष्णुभक्तो धार्मिकः कुलमुद्धरेत् ॥ ६२ ॥
नृत्यन्ति पितरः सर्वे जन्ममात्रेण वै मुदा ।
पतिव्रता सुशीला या सा प्रिया प्रियवादिनी ॥ ६३ ॥
धर्मिष्ठा पुत्रमाता च कुलस्त्री कुलपालिका ।
हरिभक्तिप्रदो बन्धुर्न चाभीष्टसुखप्रदः ॥ ६४ ॥
यो बन्धुश्चेत्स च पिता हरिवर्त्मप्रदर्शकः ।
सा गर्भधारिणी या च गर्भावासविमोचनी ॥ ६५ ॥
दयारूपा च भगिनी यमभीतिविमोचनी ।
विष्णुमन्त्रप्रदाता च स गुरुर्विष्णुभक्तिदः ॥ ६६ ॥
गुरुश्च ज्ञानदो यो हि यज्ज्ञानं कृष्णभावनम् ।
आब्रह्मस्तम्बपर्यन्तं ततो विश्वं चराचरम् ॥ ६७ ॥
आविर्भूतं तिरोभूतं किं वा ज्ञानं तदन्यतः ।
वेदजं यज्ञजं यद्यत्तत्सारं हरिसेवनम् ॥ ६८ ॥
तत्त्वानां सारभूतं च हरेरन्यद्विडम्बनम् ।
दत्तं ज्ञानं मया तुभ्यं स स्वामी ज्ञानदो हि यः ॥ ६९ ॥
ज्ञानात्प्रमुच्यते बन्धात्स रिपुर्यो हि बन्धदः ।
विष्णुभक्तियुतं ज्ञानं नो ददाति च यो गुरुः ॥ ७० ॥
स रिपुः शिष्यघाती च यतो बन्धान्न मोचयेत् ।
जननीं गर्भजक्लेशाद्यमयातनया तथा ॥ ७१ ॥
न मोचयेद्यः स कथं गुरुस्तातो हि बान्धवः ।
परमानन्दरूपं च कृष्णमार्गमनश्वरम् ॥ ७२ ॥
न दर्शयेद्यः सततं कीदृशो बान्धवो नृणाम् ।
भज साध्वि परं ब्रह्माच्युतं कृष्णं च निर्गुणम् ॥ ७३ ॥
निर्मूलं च भवेत्पुंसां कर्म वै तस्य सेवया ।
मया छलेन त्वं त्यक्ता क्षमस्वैतन्मम प्रिये ॥ ७४ ॥
क्षमायुतानां साध्वीनां सत्त्वात्क्रोधो न विद्यते ।
पुष्करे तपसे यामि गच्छ देवि यथासुखम् ॥ ७५ ॥
श्रीकृष्णचरणाम्भोजे निःस्पृहाणां मनोरथाः ।
जरत्कारुवचः श्रुत्वा मनसा शोककातरा ॥ ७६ ॥
साश्रुनेत्रा च विनयादुवाच प्राणवल्लभम् ।
मनसोवाच
दोषो नास्त्येव मे त्यक्तुं निद्राभङ्‌गेन ते प्रभो ॥ ७७ ॥
यत्र स्मरामि त्वां नित्यं तत्र मामागमिष्यसि ।
बन्धुभेदः क्लेशतमः पुत्रभेदस्ततः परम् ॥ ७८ ॥
प्राणेशभेदः प्राणानां विच्छेदात्सर्वतः परः ।
पतिः पतिव्रतानां तु शतपुत्राधिकं प्रियः ॥ ७९ ॥
सर्वस्मात्तु प्रियः स्त्रीणां प्रियस्तेनोच्यते बुधैः ।
पुत्रे यथैकपुत्राणां वैष्णवानां यथा हरौ ॥ ८० ॥
नेत्रे यथैकनेत्राणां तृषितानां यथा जले ।
क्षुधितानां यथान्ने च कामुकानां च मैथुने ॥ ८१ ॥
यथा परस्वे चौराणां यथा जारे कुयोषिताम् ।
विदुषां च यथा शास्त्रे वाणिज्ये वणिजां यथा ॥ ८२ ॥
तथा शश्वन्मनः कान्ते साध्वीनां योषितां प्रभो ।
इत्युक्त्वा मनसा देवी पपात स्वामिनः पदे ॥ ८३ ॥
क्षणं चकार क्रोडे तां कृपया च कृपानिधिः ।
नेत्रोदकेन मनसां स्नापयामास तां मुनिः ॥ ८४ ॥
साश्रु नेत्रा मुनेः क्रोडं सिषेच भेदकातरा ।
तदा ज्ञानेन तौ द्वौ च विशोकौ सम्बभूवतुः ॥ ८५ ॥
स्मारं स्मारं पदाम्भोजं कृष्णस्य परमात्मनः ।
जगाम तपसे विप्रः स्वकान्तां सम्प्रबोध्य च ॥ ८६ ॥
जगाम मनसा शम्भोः कैलासं मन्दिरं गुरोः ।
पार्वती बोधयामास मनसां शोककर्शिताम् ॥ ८७ ॥
शिवश्चातीव ज्ञानेन शिवेन च शिवालयः ।
सुप्रशस्ते दिने साध्वी सुषुवे मङ्‌गलक्षणे ॥ ८८ ॥
नारायणांशं पुत्रं तं योगिनां ज्ञानिनां गुरुम् ।
गर्भस्थितो महाज्ञानं श्रुत्वा शङ्‌करवक्त्रतः ॥ ८९ ॥
सम्बभूव च योगीन्द्रो योगिनां ज्ञानिनां गुरुः ।
जातकं कारयामास वाचयामास मङ्‌गलम् ॥ ९० ॥
वेदांश्च पाठयामास शिवाय च शिवः शिशोः ।
मणिरत्‍नकिरीटांश्च ब्राह्मणेभ्यो ददौ शिवः ॥ ९१ ॥
पार्वती च गवां लक्षं रत्‍नानि विविधानि च ।
शम्भुश्च चतुरो वेदान्वेदाङ्‌गानितरांस्तथा ॥ ९२ ॥
बालकं पाठयामास ज्ञानं मृत्युञ्जयं परम् ।
भक्तिरस्त्यधिका कान्तेऽभीष्टदेवे गुरौ तथा ॥ ९३ ॥
यस्यास्तेन च तत्पुत्रो बभूवास्तीक एव च ।
जगाम तपसे विष्णोः पुष्करं शङ्‌कराज्ञया ॥ ९४ ॥
सम्प्राप्य च महामन्त्रं ततश्च परमात्मनः ।
दिव्यं वर्षत्रिलक्षं च तपस्तप्त्वा तपोधनः ॥ ९५ ॥
आजगाम महायोगी नमस्कर्तुं शिवं प्रभुम् ।
शङ्‌करं च नमस्कृत्य स्थित्वा तत्रैव बालकः ॥ ९६ ॥
सा चाजगाम मनसा कश्यपस्याश्रमं पितुः ।
तां सपुत्रां सुतां दृष्ट्वा मुदं प्राप प्रजापतिः ॥ ९७ ॥
शतलक्षं च रत्‍नानां बाह्मणेभ्यो ददौ मुने ।
ब्राह्मणान्भोजयामास सोऽसंख्यान् श्रेयसे शिशोः ॥ ९८ ॥
अदितिश्च दितिश्चान्या मुदं प्राप परन्तप ।
सा सपुत्रा च सुचिरं तस्थौ तातालये सदा ॥ ९९ ॥
तदीयं पुनराख्यानं वक्ष्यामि तन्निशामय ।
अथाभिमन्युतनये ब्रह्मशापः परीक्षिते ॥ १०० ॥
बभूव सहसा ब्रह्मन् दैवदोषेण कर्मणा ।
सप्ताहे समतीते तु तक्षकस्त्वां च धक्ष्यति ॥ १०१ ॥
शशाप शृङ्‌गी तत्रैव कौशिक्याश्च जलेन वै ।
राजा श्रुत्वा तत्प्रवृत्तिं निर्वातस्थानमागतः ॥ १०२ ॥
तत्र तस्थौ च सप्ताहं देहरक्षणतत्परः ।
सप्ताहे समतीते तु गच्छन्तं तक्षकं पथि ॥ १०३ ॥
धन्वन्तरिर्नृपं भोक्तुं ददर्श गामुकः पथि ।
तयोर्बभूव संवादः सुप्रीतिश्च परस्परम् ॥ १०४ ॥
धन्वन्तरिर्मणिं प्राप तक्षकः स्वेच्छया ददौ ।
स ययौ तं गृहीत्वा तु सन्तुष्टो हृष्टमानसः ॥ १०५ ॥
तक्षको भक्षयामास नृपं तं मञ्चके स्थितम् ।
राजा जगाम तरसा देहं त्यक्त्वा परत्र च ॥ १०६ ॥
संस्कारं कारयामास पितुर्वै जनमेजयः ।
राजा चकार यज्ञं च सर्पसत्रं ततो मुने ॥ १०७ ॥
प्राणांस्तत्याज सर्पाणां समूहो ब्रह्मतेजसा ।
स तक्षको वै भीतस्तु महेन्द्रं शरणं ययौ ॥ १०८ ॥
सेन्द्रं च तक्षकं हन्तुं विप्रवर्गः समुद्यतः ।
अथ देवाश्च सेन्द्राश्च सञ्जग्मुर्मनसान्तिकम् ॥ १०९ ॥
तां तुष्टाव महेन्द्रश्च भयकातरविह्वलः ।
तत आस्तीक आगत्य यज्ञं च मातुराज्ञया ॥ ११० ॥
महेन्द्रतक्षकप्राणान्ययाचे भूमिपं परम् ।
ददौ वरं नृपश्रेष्ठः कृपया ब्राह्मणाज्ञया ॥ १११ ॥
यज्ञं समाप्य विप्रेभ्यो दक्षिणां च ददौ मुदा ।
विप्राश्च मुनयो देवा गत्वा च मनसान्तिकम् ॥ ११२ ॥
मनसां पूजयामासुस्तुष्टुवुश्च पृथक् पृथक् ।
शक्रः सम्भृतसम्भारो भक्तियुक्तः सदा शुचिः ॥ ११३ ॥
मनसां पूजयामास तुष्टाव परमादरात् ।
नत्वा षोडशोपचारं बलिं च तत्प्रियं तदा ॥ ११४ ॥
प्रददौ परितुष्टश्च ब्रह्मविष्णुशिवाज्ञया ।
सम्पूज्य मनसां देवीं प्रययुः स्वालयं च ते ॥ ११५ ॥
इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।
नारद उवाच
केन स्तोत्रेण तुष्टाव महेन्द्रो मनसां सतीम् ॥ ११६ ॥
पूजाविधिक्रमं तस्याः श्रोतुमिच्छामि तत्त्वतः ।
श्रीनारायण उवाच
सुस्नातः शुचिराचान्तो धृत्वा धौते च वाससी ॥ ११७ ॥
रत्‍नसिंहासने देवीं वासयामास भक्तितः ।
स्वर्गङ्‌गाया जलेनैव रत्‍नकुम्भस्थितेन च ॥ ११८ ॥
स्नापयामास मनसां महेन्द्रो वेदमन्त्रतः ।
वाससी वासयामास वह्मिशुद्धे मनोहरे ॥ ११९ ॥
सर्वाङ्‌गे चन्दनं कृत्वा पादार्घ्यं भक्तिसंयुतः ।
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ॥ १२० ॥
सम्पूज्यादौ देवषट्कं पूजयामास तां सतीम् ।
ॐ ह्रीं श्रीं मनसादेव्यै स्वाहेत्येवं च मन्त्रतः ॥ १२१ ॥
दशाक्षरेण मूलेन ददौ सर्वं यथोचितम् ।
दत्त्वा षोडशोपचारान्दुर्लभान्देवनायकः ॥ १२२ ॥
पूजयामास भक्त्या च विष्णुना प्रेरितो मुदा ।
वाद्यं नानाप्रकारं च वादयामास तत्र वै ॥ १२३ ॥
बभूव पुष्पवृष्टिश्च नभसो मनसोपरि ।
देवप्रियाज्ञया तत्र बह्मविष्णुशिवाज्ञया ॥ १२४ ॥
तुष्टाव साश्रुनेत्रश्च पुलकाङ्‌कितविग्रहः ।
पुरन्दर उवाच
देवि त्वां स्तोतुमिच्छामि साध्वीनां प्रवरां वराम् ॥ १२५ ॥
परात्परां च परमां न हि स्तोतुं क्षमोऽधुना ।
स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतत्परम् ॥ १२६ ॥
न क्षमः प्रकृते वक्तुं गुणानां गणनां तव ।
शुद्धसत्त्वस्वरूपा त्वं कोपहिंसादिवर्जिता ॥ १२७ ॥
न च शक्तो मुनिस्तेन त्यक्तुं याञ्चा कृता यतः ।
त्वं मया पूजिता साध्वी जननी मे यथादितिः ॥ १२८ ॥
दयारूपा च भगिनी क्षमारूपा यथा प्रसूः ।
त्वया मे रक्षिताः प्राणाः पुत्रदाराः सुरेश्वरि ॥ १२९ ॥
अहं करोमि त्वत्पूजां प्रीतिश्च वर्धतां सदा ।
नित्या यद्यपि पूज्या त्वं सर्वत्र जगदम्बिके ॥ १३० ॥
तथापि तव पूजां च वर्धयामि सुरेश्वरि ।
ये त्वामाषाढसङ्‌क्रान्त्यां पूजयिष्यन्ति भक्तितः ॥ १३१ ॥
पञ्चम्यां मनसाख्यायां मासान्ते वा दिने दिने ।
पुत्रपौत्रादयस्तेषां वर्धन्ते च धनानि वै ॥ १३२ ॥
यशस्विनः कीर्तिमन्तो विद्यावन्तो गुणान्विताः ।
ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जनाः ॥ १३३ ॥
लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा ।
त्वं स्वयं सर्वलक्ष्मीश्च वैकुण्ठे कमलालया ॥ १३४ ॥
नारायणांशो भगवाञ्जरत्कारुर्मुनीश्वरः ।
तपसा तेजसा त्वां च मनसा ससृजे पिता ॥ १३५ ॥
अस्माकं रक्षणायैव तेन त्वं मनसाभिधा ।
मनसादेवि शक्त्या त्वं स्वात्मना सिद्धयोगिनी ॥ १३६ ॥
तेन त्वं मनसादेवी पूजिता वन्दिता भव ।
ये भक्त्या मनसां देवाः पूजयन्त्यनिशं भृशम् ॥ १३७ ॥
तेन त्वां मनसां देवीं प्रवदन्ति मनीषिणः ।
सत्यस्वरूपा देवि त्वं शश्वत्सत्यनिषेवणात् ॥ १३८ ॥
यो हि त्वां भावयेन्नित्यं स त्वां प्राप्नोति तत्परः ।
इन्द्रश्च मनसां स्तुत्वा गृहीत्वा भगिनीवरम् ॥ १३९ ॥
प्रजगाम स्वभवनं भूषया सपरिच्छदम् ।
पुत्रेण सार्धं सा देवी चिरं तस्थौ पितुर्गृहे ॥ १४० ॥
भ्रातृभिः पूजिता शश्वन्मान्या वन्द्या च सर्वतः ।
गोलोकात्सुरभिर्ब्रह्मन् तत्रागत्य सुपूजिताम् ॥ १४१ ॥
तां स्नापयित्वा क्षीरेण पूजयामास सादरम् ।
ज्ञानं च कथयामास गोप्यं सर्वं सुदुर्लभम् ॥ १४२ ॥
तया देवैः पूजिता सा स्वर्लोकं च पुनर्ययौ ।
इन्द्रस्तोत्रं पुण्यबीजं मनसां पूजयेत्पठेत् ॥ १४३ ॥
तस्य नागभयं नास्ति तस्य वंशोद्‍भवस्य च ।
विषं भवेत्सुधातुल्यं सिद्धस्तोत्रो यदा भवेत् ॥ १४४ ॥
पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः ।
सर्पशायी भवेत्सोऽपि निश्चितं सर्पवाहनः ॥ १४५ ॥


मनसादेवीची महती -

श्री नारायणमुनी म्हणाले, "सामवेदात सांगितलेले मनसादेवीच्या पूजनाचे विधी मी तुला सांगतो."

"तिची कांती पांढर्‍या चाफ्याप्रमाणे असून रत्नालंकारांनी ती विभूषित आहे. अग्नीप्रमाणे शुद्ध वस्त्र तिने परिधान केले आहे. ती नागाचे यज्ञोपवीत ल्याली असून ती सिद्धरूपिणी आहे. अशा त्या देवीची मी भक्ती करतो."

अशाप्रकारे तिचे ध्यान करावे. निरनिराळे नैवेद्य, धूप, गंध, पुष्पे वगैरे पूजासाहित्य घेऊन मूलमंत्राने तिची पूजा करावी. तिचा कल्पतरू नावाचा इष्ट द्वादशाक्षरी मंत्र आहे.

"ॐ र्‍हीं क्लीं मनसादेव्यै स्वाहा" हा मंत्र पाच लक्ष जपल्यास मंत्र सिद्ध होतो. मंत्रसिद्धी प्राप्त होणार्‍यास विषही अमृताप्रमाणेच भासते. संक्रांतपर्वकाळी, एकांतात, सुस्नात होऊन तिचे भक्तीभावे पूजन करणारा धन, पुत्र व कीर्ती यांनी युक्त होतो.

पूर्वी भूलोकामध्ये नागजातीच्या भयाने मानव कश्यपास शरण गेले. तेव्हा त्यासह कश्यपमुनी ब्रह्मदेवाला शरण गेले. नंतर ब्रह्मदेवाने सांगितले म्हणून कश्यपाने काही मंत्र तयार केले. वेदबीजाला अनुसरून त्याने मंत्र बनविले होते. नंतर त्याने मनसाला उत्पन्न केले. तप करून मनानेच तिची निर्मिती व पोषण केले. तेव्हा ही मनसा उत्पन्न झाल्यावर कैलासावरील शिवमंदिरात गेली. तेथे तिने चंद्रशेखराचे पूजन केले. देवांची दहा हजार वर्षे तिने सेवा केली. तेव्हा महेश्वर प्रसन्न झाला व त्याने तिला महाज्ञान दिले. सामवेद व अष्टाक्षरी कृष्णमंत्र तिला सांगितला.

लक्ष्मी, माया, काम यांचे बीज योजून चतुर्थ्यात कृष्णाय असे पद योजावे. नंतर पुढे नमः हे पद ठेवावे. असा तो अष्टाक्षरी मंत्र होता. नंतर शंकराने तिला मंगलनामक कवच, पूजेचा विधीक्रम, पुरश्चरणविधी, मृत्युंजय मंत्र दिला. त्यानंतर तिने तीन युगे पुष्कर क्षेत्रावर श्रीकृष्ण परमात्म्याचे तप केले. तेव्हा त्या प्रभूने तिला दर्शन दिले.

नंतर कृश झालेल्या मनसेची प्रभूने पूजा केली. तिला वर दिला की, "तू संसारात पूज्य होशील." नंतर श्रीहरी अंतर्धान पावला.

हे नारदा, कृष्णपरमात्म्याने तिचे पूजन केल्यावर शंकर, कश्यप, देव, मुनी, नाग, मानव यांनी तिची पूजा केली. त्यामुळे ती त्रैलोक्यात पूज्य झाली. नंतर जरत्कारूने तिला वरले. त्यांच्या विवाहानंतर एके दिवशी पुष्करक्षेत्री जरत्कारू मुनी तिच्या मांडीवर मस्तक ठेवून निद्रिस्त झाला होता. सूर्य अस्तास जाण्याचे वेळी पतीच्या धर्मकालाचा लोप होऊ नये म्हणून त्याला उठविण्याचा ती विचार करू लागली. तिने पतीला जागृत केले. पण त्यामुळे तो मुनीश्रेष्ठ क्रुद्ध झाला. तो म्हणाला, "पतीच्या निद्रेचा भंग केलास, त्यामुळे तुझी व्रतवैकल्ये व्यर्थ होत. पतीचे पूजन कृष्णाचे पूजन होय. पतिव्रतेच्या व्रताचे वेळी स्वतः हरी पतीरूप होत असतो. व्रतादि सर्व धर्मकृत्ये पतिसेवेच्या सोळाव्या कलेएवढीपण नाहीत. तेव्हा अशा स्त्रीस कोणते फल मिळते ते तुला सांगतो. "ती प्रथम चंद्रसूर्य असेपर्यंत कुंभीपाक नरकात पडते. नंतर पतिपुत्ररहित ती चांडाली होते."

असे सांगितल्यावर ती स्त्री भयग्रस्त झाली. ती म्हणाली, "आपल्या धर्मकृत्यांचा लोप न व्हावा म्हणून मी आपणास जागृत केले. पण मज पापिणीला क्षमा करावी." असे म्हणून पतीच्या चरणावर मस्तक ठेवून ती रडू लागली. ते अवलोकन करताच त्या मुनीने सूर्यालाच शाप देण्याचा विचार केला. तेव्हा भानू संध्येसह तेथे आला व मोठया विनयाने म्हणाला, "हे ब्राह्मणा, धर्मलोप होऊ नये म्हणून त्या साध्वीने तुझा निद्राभंग केला. त्यात तिचा काय अपराध ? मी तुला शरण आलो आहे. तू आम्हाला क्षमा कर. ब्राह्मणाने शाप देणे योग्य नव्हे. कारण जाज्वल्य ब्रह्मतेजामुळे ब्राह्मण हा प्राणी ब्रह्मकुंडात उत्पन्न होतो. म्हणून त्याने ब्रह्मज्योतीचे कृष्णरूप ध्यान करावे."

तेव्हा जरत्कारू संतुष्ट झाला. सूर्यही स्वस्थानी गेला. पण प्रतीज्ञापूर्तीसाठी त्याने आपल्या पत्नीचा त्याग केला. तेव्हा तिने गुरु, देव, शंभू, विधी, हरी, कश्यप यांचे स्मरण केले. त्याचक्षणी ते सर्वजण तेथे आले. तेव्हा त्या ब्राह्मणाने भक्तीभावाने सर्वांची स्तुती केली. सर्वांना नमस्कार करून त्याने विचारले, "तुम्ही का आलात ?" ब्रह्मदेव म्हणाले, "जर तुला भार्येचा त्यागच करायचा असेल तर तू तिच्या ठिकाणी पुत्र उत्पन्न कर. पुत्राविना स्त्रीचा जो पती त्याग करतो त्याचे पुण्य चाळणीतील पाण्याप्रमाणे गळून जाते." ते ऐकताच जरत्कारूने योग सामर्थ्याच्या बलावर मनसेच्या नाभिस मंत्रपूर्वक स्पर्श केला. तो तिला म्हणाला, "हे मनसे, तुला होणारा पुत्र जितेंद्रिय, धर्मतत्पर, तेजस्वी, तपस्वी, सर्वगुणसंपन्न, वेदवेत्त्यात श्रेष्ठ, ज्ञानी, योगी असा यशस्वी होईल. तो विष्णूभक्त उभय कुले उद्धरील. त्याच्या जन्माबरोबरच सर्व पितर आनंदाने नाचू लागतील. जी स्त्री साध्वी व सुशील असते तसाच तिचा पुत्र होतो. यमाच्या तावडीतून सोडविणारी दया हीच खरी भगिनी, विष्णुभक्ती, विष्णु मंत्र देणारा व शुद्ध ज्ञान देणारा तोच खरा गुरु होय. कृष्णाची जाणीव करून देणारे श्रेष्ठ ज्ञान होय. हरीहून दुसरे श्रेष्ठ काही नाही.

हे साध्वी, तुला मी ज्ञानाचे सार सांगितले. जो ज्ञान देतो तोच स्वामी होय. कारण ज्ञानामुळे प्राणी मुक्त होतो. जो बंधनातून मुक्त करीत नाही तो गुरु, पिता अथवा बंधू व्यर्थ होय. अविनाशी असा कृष्णदर्शनाचा मार्ग जो दाखवीत नाही तो आप्त व्यर्थच
होय. म्हणून हे साध्वी, तू परब्रह्माची आराधना कर. कारण ते ब्रह्मच कृष्णरूप आहे. त्याच्या सेवेमुळे कर्माचा मूळासहित नाश होतो.

हे प्रिये, मी स्वार्थामुळेच कपट करून तुझा त्याग केला. म्हणून मला क्षमा कर. पतिव्रता स्त्रिया क्षमाशील असतात. हे देवी, सांप्रत मी पुष्करतीर्थावर तपश्चर्येस जात आहे. कारण मला कृष्णाच्या चरणकमलाशिवाय काहीही नको. तू कोठेही जा."

हे पतीचे भाषण ऐकून मनसा अश्रुपूर्ण नेत्रांनी म्हणाली, "हे प्रभो, वस्तुतः माझा त्याग करण्यासारखा अपराध मजकडून घडला नाही. म्हणून मी जेव्हा आपले स्मरण करीन तेव्हा आपण दर्शन द्यावे. स्त्रियांना प्राणनाथाच्या वियोगामुळे मरणप्राय दुःख होते. पतिव्रतांना शंभर पुत्रांपेक्षाही पतीच प्रिय असतो. साध्वी स्त्रियांचे मन सदैव पतीच्या ठिकाणीच स्थिर असते."

असे म्हणून ती पतीच्या चरणावर कोसळली. जरत्कारूने तिला आपल्या मांडीवर बसवले व आपल्या अश्रूंनी तिला न्हाऊ घातले. वियोगाच्या दुःखाने मनसेने मुनीची मांडी भिजवून टाकली. पण ज्ञानामुळे ती दोघेही सत्वर शोकमुक्त झाली. नंतर तो मुनी पत्नीची समजूत घालून निघून गेला. इकडे मनसा आपल्या गुरूदेव शंकराच्या घरी गेली. तेथे तिला पार्वतीचा उपदेश झाला. पुढे योग्य काली तिला नारायणाच्या अंशरूप असा सुलक्षणी पुत्र झाला. शंकराने त्याचे जातकर्म केले व त्याला संपूर्ण वेद शिकविले. तसेच त्याला मृत्युंजय असे ज्ञान दिले. मनसेचा पुत्र अस्तिक हा अद्वितीयच होता. शंकराने सांगितल्यावरून तो पुष्कर तीर्थावर तपासाठी गेला. देवांची तीन लक्ष वर्षे त्याने महामंत्राचा जप करून तप केले. नंतर तो पुनः शंकरास नमस्कार करण्यासाठी कैलासावर गेला. नंतर मनसा आपल्या पुत्राला घेऊन पित्याकडे गेली. त्यामुळे त्या प्रजापतीलाही अपार आनंद झाला. तेथेच ती राहू लागली.

एकदा अभिमन्यूचा पुत्र परीक्षित राजाला सात दिवसानंतर तुला सर्पदंशाने मृत्यू येईल असा एक ब्राह्मणाचा शाप झाला. ते ऐकून राजा देहरक्षणासाठी निर्वात जागी राहू लागला. एक धन्वंतरी राजाला वाचविण्यास जात होता. पण तक्षकाने त्याला अद्‍भुत मणी देऊन परत पाठवले व अंतरिक्षातील वाडयात जाऊन मंचकारूढ झालेल्या राजाला दंश केला. नंतर जनमेजयाने पित्याचे सर्व संस्कार केले. पुढे त्याने सर्पयज्ञ केला. तेव्हा भयभीत होऊन तक्षक इंद्राला शण गेला. हे जाणताच इंद्राचीच आहुती देण्याचे त्याने मनात आणले. तेव्हा सर्व सर्प मनसेला शरण गेले. अस्तिकाने राजाकडे येऊन त्याला सर्पांना जीवदान देण्यास सांगितले. ते राजाने कबुल केले. ब्राह्मणांनाही विपुल दक्षिणा दिल्या.

प्राण वाचवल्याबद्दल इंद्राने व तक्षकासह सर्व सर्पांनी विधियुक्त मनसेचे पूजन केले व तिला आवडता बली अर्पण केला. नंतर सर्वजण स्वस्थानी निघून गेले. इंद्राने प्रथम सुस्नात होऊन आचमन घेतले. शुद्ध वस्त्र लेवून रत्नमय मंचकावर मनसा देवीची स्थापना केली. रत्नकुंभातून गंगोदक आणले. अद्वितीय वस्त्रे तिला अर्पण केली. प्रथम गणेश, सूर्य, अग्नी, विष्णू, शिव व गौरी या देवतांचे पूजन केले. नंतर -

"ॐ र्‍हीं श्रीं मनसादेव्यै स्वाहा" या मंत्राने तिचे पूजन केले. तिला सोळा उपचार अर्पण करून मंगल वाद्यांचे ध्वनी केले. तिच्यावर पुष्पवृष्टी केली. इंद्र म्हणाला, "हे देवी, तू सर्वोत्तम साध्वी स्त्री आहेस. तूच परात्पर परम प्रकृती असल्यामुळे इच्छा असूनही मी तुझे स्तवन करण्यास समर्थ नाही. वेदांनी तुझ्या स्वभावाचे वर्णन केलेच आहे. तू शुद्ध सत्त्वरूप आहेस. म्हणून जरत्कारू मुनी तुला सोडण्यास सत्वर समर्थ झाला नाही. त्यानेही जाताना तुझीच पूजा केली. हे देवी, माता अदितीप्रमाणे तू मला प्रिय आहेस. तू दयारूप भगिनी व क्षमारूप माता आहेस. माझे सर्व भार्या, पुत्रांसह रक्षण केलेस.

हे जगदंबिके, तू सर्वांना सर्व स्थळी, सर्व काली पूज्य आहेस. आषाढातील संक्रांतीस, कोणत्याही पंचमीस अगर महिन्याच्या अखेरच्या दिवशी जे पूजन करतील त्यांच्या पुत्रपौत्रादि संपत्तीची वृद्धी होईल. गुण व यश यांनी ते विख्यात होतील. तुझे पूजन करण्याऐवजी तुझी निंदा करणार्‍यास नित्य नागांचे भय आहे. तूच वैकुंठीची कमलाक्षा लक्ष्मी आहेस. तसेच तूच देवाची शक्ती आहेस. तू सर्वांना वंद्य होशील व सर्वत्र तुझे पूजन होईल. तूच सत्यस्वरूप देवी आहेस."

अशाप्रकारे तिची स्तुती केल्यावर तिजकडून वर मागून घेऊन इंद्र स्वस्थानी निघून गेला. प्रत्यक्ष इंद्रासारख्या भ्रात्यानेच तिची पूजा केली. त्यामुळे ती सर्व वंद्य होऊन चिरकालपर्यंत आपल्या पुत्रासह पित्याकडे राहिली. कामधेनूनेही तिला दुधाने न्हाऊ घातले. कामधेनूने तिला अत्यंत दुर्लभ ज्ञान दिले.

पुढे देवांनाही पूज्य असलेली ती स्वर्गलोकी गेली. इंद्राने तिचे केलेले स्तोत्र म्हणजे पुण्याचे बीजच आहे. हे स्तोत्र पठण करणार्‍यास वंशपरंपरा नागापासून भय नाही. हे स्तोत्र सिद्ध झाल्यावर विषही अमृताप्रमाणे लागते, तसेच तो सर्पांवर शयन करू शकतो, सर्पाला वाहन व्हायला लावतो.

नारद म्हणाले, "हे ब्राह्मणश्रेष्ठा, मनसादेवीकडे गोलोकातून आलेली सुरभी कोण ? तिचे चरित्र कथन करा."


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे
मनसोपाख्यानवर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥

अध्याय अठ्ठेचाळिसावा समाप्त

GO TOP