श्रीमद्‌देवीभागवत महापुराण
नवमः स्कन्धः
द्विचत्वारिंशोऽध्यायः


महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्

नारद उवाच
हरेरुत्कीर्तनं भद्रं श्रुतं तज्ज्ञानमुत्तमम् ।
ईप्सितं लक्ष्म्युपाख्यानं ध्यानं स्तोत्रं वद प्रभो ॥ १ ॥
श्रीनारायण उवाच
स्नात्वा तीर्थे पुरा शक्रो धृत्वा धौते च वाससी ।
घटं संस्थाप्य क्षीरोदे षड्देवान् पर्यपूजयत् ॥ २ ॥
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ।
एतान् भक्त्या समभ्यर्च्य पुष्पगन्धादिभिस्तदा ॥ ३ ॥
आवाह्य च महालक्ष्मीं परमैश्वर्यरूपिणीम् ।
पूजाञ्चकार देवेशो ब्रह्मणा च पुरोधसा ॥ ४ ॥
पुरःस्थितेषु मुनिषु ब्राह्मणेषु गुरौ हरौ ।
देवादिषु सुदेशे च ज्ञानानन्दं शिवे मुने ॥ ५ ॥
पारिजातस्य पुष्पं च गृहीत्वा चन्दनोक्षितम् ।
ध्यात्वा देवीं महालक्ष्मीं पूजयामास नारद ॥ ६ ॥
ध्यानं च सामवेदोक्तं यद्दत्तं ब्रह्मणे पुरा ।
हरिणा तेन ध्यानेन तन्निबोध वदामि ते ॥ ७ ॥
सहस्रदलपद्मस्थकर्णिकावासिनीं पराम् ।
शरत्पार्वणकोटीन्दुप्रभामुष्टिकरां पराम् ॥ ८ ॥
स्वतेजसा प्रज्वलन्तीं सुखदृश्यां मनोहराम् ।
प्रतप्तकाञ्चननिभशोभां मूर्तिमतीं सतीम् ॥ ९ ॥
रत्‍नभूषणभूषाढ्यां शोभितां पीतवाससा ।
ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ॥ १० ॥
सर्वसम्पत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम् ।
ध्यानेनानेन तां ध्यात्वा नानागुणसमन्विताम् ॥ ११ ॥
सम्पूज्य ब्रह्मवाक्येन चोपचाराणि षोडश ।
ददौ भक्त्या विधानेन प्रत्येकं मन्त्रपूर्वकम् ॥ १२ ॥
प्रशस्तानि प्रकृष्टानि वराणि विविधानि च ।
अमूल्यरत्‍नसारं च निर्मितं विश्वकर्मणा ॥ १३ ॥
आसनं च विचित्रं च महालक्ष्मि प्रगृह्यताम् ।
शुद्धं गङ्‌गोदकमिदं सर्ववन्दितमीप्सितम् ॥ १४ ॥
पापेध्मवह्निरूपं च गृह्यतां कमलालये ।
पुष्पचन्दनदूर्वादिसंयुतं जाह्नवीजलम् ॥ १५ ॥
शङ्‌खगर्भस्थितं स्वर्घ्यं गृह्यतां पद्मवासिनि ।
सुगन्धिपुष्पतैलं च सुगन्धामलकीफलम् ॥ १६ ॥
देहसौन्दर्यबीजं च गृह्यतां श्रीहरेः प्रिये ।
कार्पासजं च कृमिजं वसनं देवि गृह्यताम् ॥ १७ ॥
रत्‍नस्वर्णविकारं च देहभूषाविवर्धनम् ।
शोभायै श्रीकरं रत्‍नं भूषणं देवि गृह्यताम् ॥ १८ ॥
सर्वसौन्दर्यबीजं च सद्यः शोभाकरं परम् ।
वृक्षनिर्यासरूपं च गन्धद्रव्यादिसंयुतम् ॥ १९ ॥
श्रीकृष्णकान्ते धूपं च पवित्रं प्रतिगृह्यताम् ।
सुगन्धियुक्तं सुखदं चन्दनं देवि गृह्यताम् ॥ २० ॥
जगच्चक्षुःस्वरूपं च पवित्रं तिमिरापहम् ।
प्रदीपं सुखरूपं च गृह्यतां च सुरेश्वरि ॥ २१ ॥
नानोपहाररूपं च नानारससमन्वितम् ।
अतिस्वादुकरं चैव नैवेद्यं प्रतिगृह्यताम् ॥ २२ ॥
अन्नं ब्रह्मस्वरूपं च प्राणरक्षणकारणम् ।
तुष्टिदं पुष्टिदं चैव देव्यन्नं प्रतिगृह्यताम् ॥ २३ ॥
शाल्यन्नजं सुपक्वं च शर्करागव्यसंयुतम् ।
स्वादुयुक्तं महालक्ष्मि परमान्नं प्रगृह्यताम् ॥ २४ ॥
शर्करागव्यपक्वं च सुस्वादु सुमनोहरम् ।
स्वस्तिकं नाम नैवेद्यं गृहाण परमेश्वरि ॥ २५ ॥
नानाविधानि रम्याणि पक्वान्नानि फलानि च ।
सुरभिस्तनसंत्यक्तं सुस्वादु सुमनोहरम् ॥ २६ ॥
मर्त्यामृतं सुगव्यं च गृह्यतामच्युतप्रिये ।
सुस्वादु रससंयुक्तमिक्षुवृक्षसमुद्‍भवम् ॥ २७ ॥
अग्निपक्वमतिस्वादु गुडं च प्रतिगृह्यताम् ।
यवगोधूमसस्यानां चूर्णरेणुसमुद्‍भवम् ॥ २८ ॥
सुपक्वं गुडगव्याक्तं मिष्टान्नं देवि गृह्यताम् ।
सस्यचूर्णोद्‍भवं पक्वं स्वस्तिकादिसमन्वितम् ॥ २९ ॥
मया निवेदितं भक्त्या नैवेद्यं प्रतिगृह्यताम् ।
शीतवायुप्रदं चैव दाहे च सुखदं परम् ॥ ३० ॥
कमले गृह्यतां चेदं व्यजनं श्वेतचामरम् ।
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ॥ ३१ ॥
जिह्वाजाड्यच्छेदकरं ताम्बूलं प्रतिगृह्यताम् ।
सुवासितं सुशीतं च पिपासानाशकारणम् ॥ ३२ ॥
जगज्जीवनरूपं च जीवनं देवि गृह्यताम् ।
देहसौन्दर्यबीजं च सदा शोभाविवर्धनम् ॥ ३३ ॥
कार्पासजं च कृमिजं वसनं देवि गृह्यताम् ।
रक्तस्वर्णविकारं च देहभूषादिवर्धनम् ॥ ३४ ॥
शोभाधारं श्रीकरं च भूषणं देवि गृह्यताम् ।
नानाऋतुषु निर्माणं बहुशोभाश्रयं परम् ॥ ३५ ॥
सुरभूपप्रियं शुद्धं माल्यं देवि प्रगृह्यताम् ।
शुद्धिदं शुद्धरूपं च सर्वमङ्‌गलमङ्‌गलम् ॥ ३६ ॥
गन्धवस्तूद्‍भवं रम्यं गन्धं देवि प्रगृह्यताम् ।
पुण्यतीर्थोदकं चैव विशुद्धं शुद्धिदं सदा ॥ ३७ ॥
गृह्यतां कृष्णकान्ते त्वं रम्यमाचमनीयकम् ।
रत्‍नसारादिनिर्माणं पुष्पचन्दनचर्चितम् ॥ ३८ ॥
रत्‍नभूषणभूषाढ्यं सुतल्पं देवि गृह्यताम् ।
यद्यद्‌ द्रव्यमपूर्वं च पृथिव्यामपि दुर्लभम् ॥ ३९ ॥
देवभूषार्हभोग्यं च तद्‌ द्रव्यं देवि गृह्यताम् ।
द्रव्याण्येतानि दत्त्वा च मूलेन देवपुङ्‌गवः ॥ ४० ॥
मूलं जजाप भक्त्या च दशलक्षं विधानतः ।
जपेन दशलक्षेण मन्त्रसिद्धिर्बभूव ह ॥ ४१ ॥
मन्त्रश्च ब्रह्मणा दत्तः कल्पवृक्षश्च सर्वतः ।
लक्ष्मीर्माया कामवाणी ङेऽन्ता कमलवासिनी ॥ ४२ ॥
वैदिको मन्त्रराजोऽयं प्रसिद्धः स्वाहयान्वितः ।
कुबेरोऽनेन मन्त्रेण परमैश्वर्यमाप्तवान् ॥ ४३ ॥
राजराजेश्वरो दक्षः सावर्णिर्मनुरेव च ।
मङ्‌गलोऽनेन मन्त्रेण सप्तद्वीपेऽवनीपतिः ॥ ४४ ॥
प्रियव्रतोत्तानपादौ केदारो नृप एव च ।
एते सिद्धाश्च राजेन्द्रा मन्त्रेणानेन नारद ॥ ४५ ॥
सिद्धे मन्त्रे महालक्ष्मीः शक्राय दर्शनं ददौ ।
रत्‍नेन्द्रसारनिर्माणविमानस्था वरप्रदा ॥ ४६ ॥
सप्तद्वीपवतीं पृथ्वीं छादयन्ती त्विषा च सा ।
श्वेतचम्पकवर्णाभा रत्‍नभूषणभूषिता ॥ ४७ ॥
ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकातरा ।
बिभ्रती रत्‍नमालां च कोटिचन्द्रसमप्रभाम् ॥ ४८ ॥
दृष्ट्वा जगत्प्रसूं शान्तां तुष्टावैतां पुरन्दरः ।
पुलकाञ्चितसर्वाङ्‌गः साश्रुनेत्रः कृताञ्जलिः ॥ ४९ ॥
ब्रह्मणा च प्रदत्तेन स्तोत्रराजेन संयुतः ।
सर्वाभीष्टप्रदेनैव वैदिकेनैव तत्र च ॥ ५० ॥
पुरन्दर उवाच
नमः कमलवासिन्यै नारायण्यै नमो नमः ।
कृष्णप्रियायै सततं महालक्ष्यै नमो नमः ॥ ५१ ॥
पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः ।
पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ ५२ ॥
सर्वसम्पत्स्वरूपिण्यै सर्वाराध्यै नमो नमः ।
हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः ॥ ५३ ॥
कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ।
चन्द्रशोभास्वरूपायै रत्‍नपद्मे च शोभने ॥ ५४ ॥
सम्पत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ।
नमो वृद्धिस्वरूपायै वृद्धिदायै नमो नमः ॥ ५५ ॥
वैकुण्ठे या महालक्ष्मीर्या लक्ष्मीः क्षीरसागरे ।
स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये ॥ ५६ ॥
गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता ।
सुरभिः सागरे जाता दक्षिणा यज्ञकामिनी ॥ ५७ ॥
अदितिर्देवमाता त्वं कमला कमलालया ।
स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥ ५८ ॥
त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा ।
शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा ॥ ५९ ॥
क्रोधहिंसावर्जिता च वरदा शारदा शुभा ।
परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥ ६० ॥
यया विना जगत्सर्वं भस्मीभूतमसारकम् ।
जीवन्मृतं च विश्वं च शश्वत्सर्वं यया विना ॥ ६१ ॥
सर्वेषां च परा माता सर्वबान्धवरूपिणी ।
धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥ ६२ ॥
यथा माता स्तनान्धानां शिशूनां शैशवे सदा ।
तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः ॥ ६३ ॥
मातृहीनः स्तनान्धस्तु स च जीवति दैवतः ।
त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ॥ ६४ ॥
सुप्रसन्नस्वरूपा त्वं मां प्रसन्ना भवाम्बिके ।
वैरिग्रस्तं च विषयं देहि मह्यं सनातनि ॥ ६५ ॥
अहं यावत्त्वया हीनो बन्धुहीनश्च भिक्षुकः ।
सर्वसम्पद्विहीनश्च तावदेव हरिप्रिये ॥ ६६ ॥
ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् ।
प्रभावञ्च प्रतापं च सर्वाधिकारमेव च ॥ ६७ ॥
जयं पराक्रमं युद्धे परमैश्वर्यमेव च ।
इत्युक्त्वा च महेन्द्रश्च सर्वैः सुरगणैः सह ॥ ६८ ॥
प्रणनाम साश्रुनेत्रो मूर्ध्ना चैव पुनः पुनः ।
ब्रह्मा च शङ्‌करश्चैव शेषो धर्मश्च केशवः ॥ ६९ ॥
सर्वे चक्रुः परीहारं सुरार्थे च पुनः पुनः ।
देवेभ्यश्च वरं दत्त्वा पुष्पमालां मनोहराम् ॥ ७० ॥
केशवाय ददौ लक्ष्मीः सन्तुष्टा सुरसंसदि ।
ययुर्देवाश्च सन्तुष्टाः स्वं स्वं स्थानं च नारद ॥ ७१ ॥
देवी ययौ हरेः स्थानं हृष्टा क्षीरोदशायिनः ।
ययतुश्चैव स्वगृहं ब्रह्मेशानौ च नारद ॥ ७२ ॥
दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् ।
इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ॥ ७३ ॥
कुबेरतुल्यः स भवेद्‌राजराजेश्वरो महान् ।
पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ ७४ ॥
सिद्धस्तोत्रं यदि पठेन्मासमेकं तु सन्ततम् ।
महासुखी च राजेन्द्रो भविष्यति न संशयः ॥ ७५ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादतसाहस्र्यां
संहितायां नवमस्कन्धे महालक्ष्म्याः
ध्यानस्तोत्रवर्णनं नाम द्विचत्वारिंप्तोऽध्यायः ॥ ४२ ॥


महालक्ष्मीचे पूजा प्रकार -

[ Right click to 'save audio as' for downloading Audio ]

नारद म्हणाले, "हे प्रभो, लक्ष्मीचे आख्यान मी श्रवण केले. आता तिची पूजा व ध्यान कसे करायचे ते सांगा."

श्रीनारायण म्हणाले, "इंद्राने तीर्थात स्नान केले. धूतवस्त्रे परिधान केली. क्षीरोदसमुद्रात घट स्थापना करून सहा देवांची पूजा केली. गणेश, सूर्य, अग्नी, विष्णु, शिव, पार्वती यांची गंध, पुष्प यांनी पूजा केल्यावर ब्रह्मदेवाने पूजन केले.

मुनी, ब्राह्मण, गुरु, हरी, देव, शंकर हे शुभासनावर बसले. चंदनयुक्त पारिजात पुष्पाने महालक्ष्मीचे पूजन केले. तेव्हा हरीने ब्रह्मदेवास सामवेदोक्त ध्यान सांगितले. तेच आता मी सांगतो.

हजार पाकळ्यांच्या कमलातील कर्णिकेत राहणारी, शरदातील कोटी चंद्राप्रमाणे प्रभा असलेली, सुखावह, मनोहर, तप्त सुवर्णासारखी कांती असलेली, सती, रत्नविभूषित, पीत वस्त्र परिधान केलेली, हसतमुख, प्रसन्न, सर्वसंपत्तीदायी अशा लक्ष्मीची मी भक्ती करतो." अशी त्याने तिची सोळा उपचारांनी पूजा केली. तिला उत्तमोत्तम वस्तु अर्पण केल्या. विश्वकर्म्याने तयार केलेले रत्नसार तिला दिले. त्याचप्रमाणे पवित्र आसन तिला अर्पण केले. उत्तमोत्तम अर्घ्य दिले. सुगंधित तेले अर्पण केली. रत्नांचे करभूषण दिले. धूपदीपयुक्त पवित्र द्रव्य, चंदन तिला अर्पण केले. विविध रसात्मक नैवेद्य तिला दिला. स्वादिष्ट अन्न, तूप वगैरेंनी तिची पूजा केली. सुरभीचे उत्तम दूध, गूळ, रव्याचे मधुर लाडू वगैरेंचा नैवेद्य दिला व हे देवी, हे सर्व तू ग्रहण कर असे सांगून तिला तांबूल दिला.

हे देवी, जीवनरूप उदय, देहसौंदर्याचे कारण, प्रिय पुष्प, मंगल व सुवासिक धातु तू ग्रहण कर. हे कृष्णकांते, रम्य आसन घेऊन तू पुष्पे व चंदन चर्चून भूषणांनी विभूषित शय्या ग्रहण कर." असे म्हणून त्याने मूलमंत्राचा विधीपूर्वक दहा लक्ष जप केला. तेव्हा मंत्राची सिद्धी झाली. लक्ष्मी, माया, काम, वाणी यांचे बीज व चतुर्थ्यात कमलवासिनी
हा शब्द स्वाहा या शब्दाने झाला म्हणजे तो प्रसिद्ध व श्रेष्ठ असा मंत्र होतो.

या मंत्रामुळेच कुबेराला ऐश्वर्य प्राप्त झाले. दक्ष, सावर्णी मनू हेही मंत्रामुळे श्रेष्ठ राजे झाले. प्रियव्रत, उत्तानपाद, केदार हे सुद्धा राज्यपदी विराजमान झाले. लक्ष्मीने इंद्रास दर्शन दिले. तेव्हा ती रत्नमय विमानात बसलेली होती. ती सर्वरूपसंपन्न व रत्नांनी विभूषित होती.

त्या तेजस्वी देवीस पाहून इंद्र स्तुती करू लागला. तो म्हणाला, "कमलामध्ये वास करणारीस नमस्कार असो. नारायणाची शक्ती, कृष्णाची प्रिया अशा महालक्ष्मीस वारंवार नमस्कार असो. कमलपत्राप्रमाणे नेत्र असलेली, कमलमुखी अशा देवीला मी नमस्कार करतो. कमलासन असलेल्या विष्णूशक्ती पद्मिनीस नमस्कार असो. हरिभक्तीदायी, हर्ष देणारी, कृष्णाच्या वक्षस्थली असलेली, चंद्रशोभारूप, संपत्तीची अधिष्ठात्री अशा देवतेस वंदन असो. वृद्धीरूप, वैकुंठात महालक्ष्मी, क्षीरसागरात लक्ष्मी, इंद्रगृहात स्वर्गलक्ष्मी, नृपाच्या घरी राजलक्ष्मी, गृहस्थाच्या घरी गृहलक्ष्मी अशा त्या महादेवीस नमस्कार असो.

हे देवी, तूच देवमाता असून तूच सर्वाधार वसुंधरा आहेस. तूच शुभ शारदा असून तूच जीवनमुक्ती आहेस. तू सर्वांचे कारणरूप असून बालकांना स्तनपान देणारी माता आहेस. तुझ्यावाचून प्राणी जिवंत रहात नाही. हे अंबिके, तूच सुप्रसन्न आहेस. तुझ्यावाचून पुरुष दरिद्री होतो. ज्ञान, धर्म, सौभाग्य, प्रभाव, प्रताप, जय, पराक्रम सर्व ऐश्वर्य मला दे."

असे म्हणून साश्रु नयनांनी इंद्राने नतमस्तक होऊन तिचे स्तवन केले. तेव्हा ती लक्ष्मी संतुष्ट झाली. तिने देवांना आशीर्वाद दिले. नंतर सर्व देव आपापल्या स्थानी निघून गेले. हे पुण्यकारक स्तोत्र जो पठण करतो तो महाराजधिराज होतो. या सिद्धीस्तोत्राचे एक महिना पठण केल्यास तो अत्यंत सुखी व राजा होईल.


अध्याय बेचाळिसावा समाप्त

GO TOP