श्रीमद्‌देवीभागवत महापुराण
सप्तमः स्कन्धः
चत्वारिंशोऽध्यायः


देवीगीतायां बाह्यपूजाविधिवर्णनम्

श्री देव्युवाच
प्रातरुत्थाय शिरसि संस्मरेत्पद्ममुज्ज्वलम् ।
कर्पूराभं स्मरेत्तत्र श्रीगुरुं निजरूपिणम् ॥ १ ॥
सुप्रसन्नं लसद्‌भूषाभूषितं शक्तिसंयुतम् ।
नमस्कृत्य ततो देवीं कुण्डलीं संस्मरेद्बुधः ॥ २ ॥
प्रकाशमानां प्रथमे प्रयाणे
     प्रतिप्रयाणेऽप्यमृतायमानाम् ।
अन्तः पदव्यामनुसञ्चरन्ती-
     मानन्दरूपामबलां प्रपद्ये ॥ ३ ॥
ध्यात्वैवं तच्छिखामध्ये सच्चिदानन्दरूपिणीम् ।
मां ध्यायेदथ शौचादिक्रियाः सर्वाः समापयेत् ॥ ४ ॥
अग्निहोत्रं ततो हूत्वा मत्प्रीत्यर्थं द्विजोत्तमः ।
होमान्ते स्वासने स्थित्वा पूजासङ्कल्पमाचरेत् ॥ ५ ॥
भूतशुद्धिं पुरा कृत्वा मातृकान्यासमेव च ।
हृल्लेखामातृकान्यासं नित्यमेव समाचरेत् ॥ ६ ॥
मूलाधारे हकारं च हृदये च रकारकम् ।
भ्रूमध्ये तद्वदीकारं ह्रीङ्कारं मस्तके न्यसेत् ॥ ७ ॥
तत्तन्मन्त्रोदितानन्यान्न्यासान्सर्वान्समाचरेत् ।
कल्पयेत्स्वात्मनो देहे पीठं धर्मादिभिः पुनः ॥ ८ ॥
ततो ध्यायेन्महादेवीं प्राणायामैर्विजृम्भिते ।
हृदम्भोजे मम स्थाने पञ्चप्रेतासने बुधः ॥ ९ ॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एते पञ्च महाप्रेताः पादमूले मम स्थिताः ॥ १० ॥
पञ्चभूतात्मका ह्येते पञ्चावस्थात्मका अपि ।
अहं त्वव्यक्तचिद्‌रूपा तदतीतास्ति सर्वथा ॥ ११ ॥
ततो विष्टरतां याताः शक्तितन्त्रेषु सर्वदा ।
ध्यात्वैवं मानसैर्भोगैः पूजयेन्मां जपेदपि ॥ १२ ॥
जपं समर्प्य श्रीदेव्यै ततोऽर्घ्यस्थापनं चरेत् ।
पात्रासादनकं कृत्वा पूजाद्रव्याणि शोधयेत् ॥ १३ ॥
जलेन तेन मनुना चास्त्रमन्त्रेण देशिकः ।
दिग्बन्धं च पुरा कृत्वा गुरून्नत्वा ततः परम् ॥ १४ ॥
तदनुज्ञां समादाय बाह्यपीठे ततः परम् ।
हृदिस्थां भवितां मूर्तिं मम दिव्यां मनोहराम् ॥ १५ ॥
आवाहयेत्ततः पीठे प्राणस्थापनविद्यया ।
असनावाहने चार्घ्यं पाद्याद्याचमनं तथा ॥ १६ ॥
स्नानं वासोद्वयं चैव भूषणानि च सर्वशः ।
गन्धपुष्पं यथायोग्यं दत्त्वा देव्यै स्वभक्तितः ॥ १७ ॥
यन्त्रस्थानामावृतीनां पूजनं सम्यगाचरेत् ।
प्रतिवारमशक्तानां शुक्रवारो नियम्यते ॥ १८ ॥
मूलदेवीप्रभारूपाः स्मर्तव्या अङ्गदेवताः ।
तत्प्रभापटलव्याप्तं त्रैलोक्यं च विचिन्तयेत् ॥ १९ ॥
पुनरावृत्तिसहितां मूलदेवीं च पूजयेत् ।
गन्धादिभिः सुगन्धैस्तु तथा पुष्पैः सुवासितैः ॥ २० ॥
नैवेद्यैस्तर्पणैश्चैव ताम्बूलैर्दक्षिणादिभिः ।
तोषयेन्मां त्वत्कृतेन नाम्नां साहस्रकेण च ॥ २१ ॥
कवचेन च सूक्तेनाहं रुद्रेभिरिति प्रभो ।
देव्यथर्वशिरोमन्त्रैर्हृल्लेखोपनिषद्‌भवैः ॥ २२ ॥
महाविद्यामहामन्त्रैस्तोषयेन्मां मुहुर्मुहुः ।
क्षमापयेज्जगद्धात्रीं प्रेमार्द्रहृदयो नरः ॥ २३ ॥
पुलकाङ्‌कितसर्वाङ्गैर्बाष्परुद्धाक्षिनिःस्वनः ।
नृत्यगीतादिघोषेण तोषयेन्मां मुहुर्मुहुः ॥ २४ ॥
वेदपारायणैश्चैव पुराणैः सकलैरपि ।
प्रतिपाद्या यतोऽहं वै तस्मात्तैस्तोषयेत्तु माम् ॥ २५ ॥
निजं सर्वस्वमपि मे सदेहं नित्यशोऽर्पयेत् ।
नित्यहोमं ततः कुर्याद्‌ब्राह्मणांश्च सुवासिनीः ॥ २६ ॥
बटुकान्पामरानन्यान्देवीबुद्ध्या तु भोजयेत् ।
नत्वा पुनः स्वहृदये व्युत्क्रमेण विसर्जयेत् ॥ २७ ॥
सर्वं हृल्लेखया कुर्यात् पूजनं मम सुब्रत ।
हृल्लेखा सर्वमन्त्राणां नायिका परमा स्मृता ॥ २८ ॥
हृल्लेखादर्पणे नित्यमहं तत्प्रतिबिम्बिता ।
तस्माद्‌हृल्लेखया दत्तं सर्वमन्त्रैः समर्पितम् ॥ २९ ॥
गुरुं सम्पूज्य भूषाद्यैः कृतकृत्यत्वमावहेत् ।
य एवं पूजयेद्देवीं श्रीमद्‌भुवनसुन्दरीम् ॥ ३० ॥
न तस्य दुर्लभं किञ्चित्कदाचित्क्वचिदस्ति हि ।
देहान्ते तु मणिद्वीपं मम यात्येव सर्वथा ॥ ३१ ॥
ज्ञेयो देवीस्वरूपोऽसौ देवा नित्यं नमन्ति तम् ।
इति ते कथितं राजन् महादेव्याः प्रपूजनम् ॥ ३२ ॥
विमृश्यैतदशेषेणाप्यधिकारानुरूपतः ।
कुरु मे पूजनं तेन कृतार्थस्त्वं भविष्यसि ॥ ३३ ॥
इदं तु गीताशास्त्रं मे नाशिष्याय वदेत् क्वचित् ।
नाभक्ताय प्रदातव्यं न धूर्ताय च दुर्हृदे ॥ ३४ ॥
एतत्प्रकाशनं मातुरुद्‌घाटनमुरोजयोः ।
तस्मादवश्यं यत्‍नेन गोपनीयमिदं सदा ॥ ३५ ॥
देयं भक्ताय शिष्याय ज्येष्ठपुत्राय चैव हि ।
सुशीलाय सुवेषाय देवीभक्तियुताय च ॥ ३६ ॥
श्राद्धकाले पठेदेतद्‌ब्राह्मणानाम् समीपतः ।
तृप्तास्तत्पितरः सर्वे प्रयान्ति परमं पदम् ॥ ३७ ॥
व्यास उवाच
इत्युक्त्वा सा भगवती तत्रैवान्तरधीयत ।
देवाश्च मुदिताः सर्वे देवीदर्शनतोऽभवन् ॥ ३८ ॥
ततो हिमालये जज्ञे देवी हैमवती तु सा ।
या गौरीति प्रसिद्धासीद्दत्ता सा शङ्कराय च ॥ ३९ ॥
ततः स्कन्दः समुद्‌भूतस्तारकस्तेन पातितः ।
समुद्रमन्थने पूर्वं रत्‍नान्यासुर्नराधिप ॥ ४० ॥
तत्र देवैः स्तुता देवी लक्ष्मीप्राप्त्यर्थमादरात् ।
तेषामनुग्रहार्थाय निर्गता तु रमा ततः ॥ ४१ ॥
वैकुण्ठाय सुरैर्दत्ता तेन तस्य शमोऽभवत् ।
इति ते कथितं राजन् देवीमाहात्म्यमुत्तमम् ॥ ४२ ॥
गौरीलक्ष्म्योः समुद्‌भूतिविषयं सर्वकामदम् ।
न वाच्यं त्वेतदन्यस्मै रहस्यं कथितं यतः ॥ ४३ ॥
गीता रहस्यभूतेयं गोपनीया प्रयत्‍नतः ।
सर्वमुक्तं स्मसेन यत्पृष्टं तत्त्वयानघ ।
पवित्रं पावनं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ ४४ ॥


-





इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
देवीगीतायां बाह्यपूजाविधिवर्णनं नाम चत्वारिंशोऽध्यायः ॥ ४० ॥
अध्याय चाळिसावा समाप्त

GO TOP