श्रीमद्‌देवीभागवत महापुराण
सप्तमः स्कन्धः
एकोनचत्वारिंशोऽध्यायः


देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम्

हिमालय उवाच
देवदेवि महेशानि करुणासागरेऽम्बिके ।
ब्रूहि पूजाविधिं सम्यग्यथावदधुना निजम् ॥ १ ॥
श्रीदेव्युवाच
वक्ष्ये पूजाविधिं राजन्नम्बिकाया यथा प्रियम् ।
अत्यन्तश्रद्धया सार्धं शृणु पर्वतपुङ्गव ॥ २ ॥
द्विविधा मम पूजा स्याद्‌ बाह्या चाभ्यन्तरापि च ।
बाह्यापि द्विविधा प्रोक्ता वैदिकी तान्त्रिकी तथा ॥ ३ ॥
वैदिक्यर्चापि द्विविधा मूर्तिभेदेन भूधर ।
वैदिकी वैदिकैः कार्या वेददीक्षासमन्वितैः ॥ ४ ॥
तन्त्रोक्तदीक्षावद्‌भिस्तु तान्त्रिकी संश्रिता भवेत् ।
इत्थं पूजारहस्यं च न ज्ञात्वा विपरीतकम् ॥ ५ ॥
करोति यो नरो मूढः स पतत्येव सर्वथा ।
तत्र या वैदिकी प्रोक्ता प्रथमा तां वदाम्यहम् ॥ ६ ॥
यन्मे साक्षात्परं रूपं दृष्ट्वानसि भूधर ।
अनन्तशीर्षनयनमनन्तचरणं महत् ॥ ७ ॥
सर्वशक्तिसमायुक्तं प्रेरकं यत्परात्परम् ।
तदेव पूजयेन्नित्यं नमेद्‌ ध्यायेत्स्मरेदपि ॥ ८ ॥
इत्येतत्प्रथमार्चायाः स्वरूपं कथितं नग ।
शान्तः समाहितमना दम्भाहङ्कारवर्जितः ॥ ९ ॥
तत्परो भव तद्याजी तदेव शरणं व्रज ।
तदेव चेतसा पश्य जप ध्यायस्व सर्वदा ॥ १० ॥
अनन्यया प्रेमयुक्तभक्त्या मद्‌भावमाश्रितः ।
यज्ञैर्यज तपोदानैर्मामेव परितोषय ॥ ११ ॥
इत्थं ममानुग्रहतो मोक्ष्यसे भवबन्धनात् ।
मत्परा ये मदासक्तचित्ता भक्तवरा मताः ॥ १२ ॥
प्रतिजाने भवादस्मादुद्धराम्यचिरेण तु ।
ध्यानेन कर्मयुक्तेन भक्तिज्ञानेन वा पुनः ॥ १३ ॥
प्राप्याहं सर्वथा राजन्न तु केवलकर्मभिः ।
धर्मात्सञ्जायते भक्तिर्भक्त्या सञ्जायते परम् ॥ १४ ॥
श्रुतिस्मृतिभ्यामुदितं यत्स धर्मः प्रकीर्तितः ।
अन्यशास्त्रेण यः प्रोक्तो धर्माभासः स उच्यते ॥ १५ ॥
सर्वज्ञात्सर्वशक्तेश्च मत्तो वेदः समुत्थितः ।
अज्ञानस्य ममाभावादप्रमाणा न च श्रुतिः ॥ १६ ॥
स्मृतयश्च श्रुतेरर्थं गृहीत्वैव च निर्गताः ।
मन्वादीनां श्रुतीनां च ततः प्रामाण्यमिष्यते ॥ १७ ॥
क्वचित्कदाचित्तन्त्रार्थकटाक्षेण परोदितम् ।
धर्मं वदन्ति सोंऽशस्तु नैव ग्राह्योऽस्ति वैदिकैः ॥ १८ ॥
अन्येषां शास्त्रकर्तॄणामज्ञानप्रभवत्वतः ।
अज्ञानदोषदुष्टत्वात्तदुक्तेर्न प्रमाणता ॥ १९ ॥
तस्मान्मुमुक्षुर्धर्मार्थं सर्वथा वेदमाश्रयेत् ।
राजाज्ञा च यथा लोके हन्यते न कदाचन ॥ २० ॥
सर्वेशान्या ममाज्ञा सा श्रुतिस्त्याज्या कथं नृभिः ।
मदाज्ञारक्षणार्थं तु ब्रह्मक्षत्रियजातयः ॥ २१ ॥
मया सृष्टास्ततो ज्ञेयं रहस्यं मे श्रुतेर्वचः ।
यदा यदा हि धर्मस्य ग्लानिर्भवति भूधर ॥ २२ ॥
अभ्युत्थानमधर्मस्य तदा वेषान्बिभर्म्यहम् ।
देवदैत्यविभागश्चाप्यत एवाभवन्नृप ॥ २३ ॥
ये न कुर्वन्ति तद्धर्मं तच्छिक्षार्थं मया सदा ।
सम्पादितास्तु नरकास्त्रासो यच्छ्रवणाद्‌भवेत् ॥ २४ ॥
यो वेदधर्ममुज्झित्य धर्ममन्यं समाश्रयेत् ।
राजा प्रवासयेद्देशान्निजादेतानधर्मिणः ॥ २५ ॥
ब्राह्मणैर्न च सम्भाष्याः पङ्क्तिग्राह्या न च द्विजैः ।
अन्यानि यानि शास्त्राणि लोकेऽस्मिन्विविधानि च ॥ २६ ॥
श्रुतिस्मृतिविरुद्धानि तामसान्येव सर्वशः ।
वामं कापालकं चैव कौलकं भैरवागमः ॥ २७ ॥
शिवेन मोहनार्थाय प्रणीतो नान्यहेतुकः ।
दक्षशापाद्‌ भृगोः शापाद्दधीचस्य च शापतः ॥ २८ ॥
दग्धा ये ब्राह्मणवरा वेदमार्गबहिष्कृताः ।
तेषामुद्धरणार्थाय सोपानक्रमतः सदा ॥ २९ ॥
शैवाश्च वैष्णवाश्श्चैव सौराः शाक्तास्तथैव च ।
गाणपत्या आगमाश्च प्रणीताः शङ्करेण तु ॥ ३० ॥
तत्र वेदाविरुद्धांशोऽप्युक्त एव क्वचित्क्वचित् ।
वैदिकैस्तद्ग्रहे देषो न भवत्येव कर्हिचित् ॥ ३१ ॥
सर्वथा वेदभिन्नार्थे नाधिकारी द्विजो भवेत् ।
वेदाधिकारहीनस्तु भवेत्तत्राधिकारवान् ॥ ३२ ॥
तस्मात्सर्वप्रयत्‍नेन वैदिको वेदमाश्रयेत् ।
धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत् ॥ ३३ ॥
सर्वैषणाः परित्यज्य मामेव शरणं गताः ।
सर्वभूतदयावन्तो मानाहङ्कारवर्जिताः ॥ ३४ ॥
मच्चित्ता मद्गतप्राणा मत्स्थानकथने रताः ।
संन्यासिनो वनस्थाश्च गृहस्था ब्रह्मचारिणः ॥ ३५ ॥
उपासन्ते सदा भक्त्या योगमैश्वरसञ्ज्ञितम् ।
तेषां नित्याभियुक्तानामहमज्ञानजं तमः ॥ ३६ ॥
ज्ञानसूर्यप्रकाशेन नाशयामि न संशयः ।
इत्थं वैदिकपूजायाः प्रथमाया नगाधिप ॥ ३७ ॥
स्वरूपमुक्तं संक्षेपाद्‌ द्वितीयाया अथो ब्रुवे ।
मूर्तौ वा स्थण्डिले वापि तथा सूर्येन्दुमण्डले ॥ ३८ ॥
जलेऽथवा बाणलिङ्गे यन्त्रे वापि महापटे ।
तथा श्रीहृदयाम्भोजे ध्यात्वा देवीं परात्पराम् ॥ ३९ ॥
सगुणां करुणापूर्णां तरुणीमरुणारुणाम् ।
सौन्दर्यसारसीमां तां सर्वावयवसुन्दरीम् ॥ ४० ॥
शृङ्गाररससम्पूर्णां सदा भक्तार्तिकातराम् ।
प्रसादसुमुखीमम्बां चन्द्रखण्डशिखण्डिनीम् ॥ ४१ ॥
पाशाङ्कुशवराभीतिधरामानन्दरूपिणीम् ।
पूजयेदुपचारैश्च यथावित्तानुसारतः ॥ ४२ ॥
यावदान्तरपूजायामधिकारो भवेन्न हि ।
तावद्बाह्यामिमां पूजां श्रयेज्जाते तु तां त्यजेत् ॥ ४३ ॥
आभ्यन्तरा तु या पूजा सा तु संविल्लयः स्मृतः ।
संविदेव परं रूपमुपाधिरहितं मम ॥ ४४ ॥
अतः संविदि मद्‌रूपे चेतः स्थाप्यं निराश्रयम् ।
संविद्रूपातिरिक्तं तु मिथ्या मायामयं जगत् ॥ ४५ ॥
अतः संसारनाशाय साक्षिणीमात्मरूपिणीम् ।
भावयेन्निर्मनस्केन योगयुक्तेन चेतसा ॥ ४६ ॥
अतः परं बाह्यपूजाविस्तारः कथ्यते मया ।
सावधानेन मनसा शृणु पर्वतसत्तम ॥ ४७ ॥


-





इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥
अध्याय एकोणचाळिसावा समाप्त

GO TOP