श्रीमद्‌देवीभागवत महापुराण
सप्तमः स्कन्धः
चतुस्त्रिंशोऽध्यायः


श्रीदेवीविराड्‌रूपदर्शनसहितं देवकृततत्स्तववर्णनम्

श्री देव्युवाच
क्व यूयं मन्दभाग्या वै क्वेदं रूपं महाद्‌भुतम् ।
तथापि भक्तवात्सल्यादीदृशं दर्शितं मया ॥ १ ॥
न वेदाध्ययनैर्योगैर्न दानैस्तपसेज्यया ।
रूपं द्रष्टुमिदं शक्यं केवलं मत्कृपां विना ॥ २ ॥
प्रकृतं शृणु राजेन्द्र परमात्मात्र जीवताम् ।
उपाधियोगात्सम्प्राप्तः कर्तृत्वादिकमप्युत ॥ ३ ॥
क्रियाः करोति विविधा धर्माधर्मैकहेतवः ।
नाना योनीस्ततः प्राप्य सुखदुःखैश्च युज्यते ॥ ४ ॥
पुनस्तत्संस्कृतिवशान्नानाकर्मरतः सदा ।
नानादेहान्समाप्नोति सुखदुःखैश्च युज्यते ॥ ५ ॥
घटीयन्त्रवदेतस्य न विरामः कदापि हि ।
अज्ञानमेव मूलं स्यात्ततः कामः क्रियास्ततः ॥ ६ ॥
तस्मादज्ञाननाशाय यतेत नियतं नरः ।
एतद्धि जन्मसाफल्यं यदज्ञानस्य नाशनम् ॥ ७ ॥
पुरुषार्थसमाप्तिश्च जीवन्मुक्तदशापि च ।
अज्ञाननाशने शक्ता विद्यैव तु पटीयसी ॥ ८ ॥
न कर्म तज्जं नोपास्तिर्विरोधाभावतो गिरे ।
प्रत्युताशाज्ञाननाशे कर्मणा नैव भाव्यताम् ॥ ९ ॥
अनर्थदानि कर्माणि पुनः पुनरुशन्ति हि ।
ततो रागस्ततो दोषस्ततोऽनर्थो महान्भवेत् ॥ १० ॥
तस्मात्सर्वप्रयत्‍नेन ज्ञानं सम्पादयेन्नरः ।
कुर्वन्नेवेह कर्माणीत्यतः कर्माप्यवश्यकम् ॥ ११ ॥
ज्ञानादेव हि कैवल्यमतः स्यात्तत्समुच्चयः ।
सहायतां व्रजेत्कर्म ज्ञानस्य हितकारि च ॥ १२ ॥
इति केचिद्वदन्त्यत्र तद्विरोधान्न सम्भवेत् ।
ज्ञानाधृद्ग्रन्थिभेदः स्याद्‌धृद्ग्रन्थौ कर्मसम्भवः ॥ १३ ॥
यौगपद्यं न सम्भाव्यं विरोधात्तु ततस्तयोः ।
तमः प्रकाशयोर्यद्वद्यौगपद्यं न सम्भवि ॥ १४ ॥
तस्मात् सर्वाणि कर्माणि वैदिकानि महामते ।
चित्तशुद्ध्यन्तमेव स्युस्तानि कुर्यात्प्रयत्‍नतः ॥ १५ ॥
शमो दमस्तितिक्षा च वैराग्यं सत्त्वसम्भवः ।
तावत्पर्यन्तमेव स्युः कर्माणि न ततः परम् ॥ १६ ॥
तदन्ते चैव संन्यस्य संश्रयेद्‌ गुरुमात्मवान् ।
श्रोत्रियं ब्रह्मनिष्ठं च भक्त्या निर्व्याजया पुनः ॥ १७ ॥
वेदान्तश्रवणं कुर्यान्नित्यमेवमतन्द्रितः ।
तत्त्वमस्यादिवाक्यस्य नित्यमर्थं विचारयेत् ॥ १८ ॥
तत्त्वमस्यादि वाक्यं तु जीवब्रह्मैक्यबोधकम् ।
ऐक्ये ज्ञाते निर्भयस्तु मद्‌रूपो हि प्रजायते ॥ १९ ॥
पदार्थावगतिः पूर्वं वाक्यार्थावगतिस्ततः ।
तत्पदस्य च वाक्यार्थो गिरेऽहं परिकीर्तितः ॥ २० ॥
त्वं पदस्य च वाच्यार्थो जीव एव न संशयः ।
उभयोरैक्यमसिना पदेन प्रोच्यते बुधैः ॥ २१ ॥
वाच्यार्थयोर्विरुद्धत्वादैक्यं नैव घटेत ह ।
लक्षणातः प्रकर्तव्या तत्त्वमोः श्रुतिसंस्थयोः ॥ २२ ॥
चिन्मात्रं तु तयोर्लक्ष्यं तयोरैक्यस्य सम्भवः ।
तयोरैक्यं तथा ज्ञात्वा स्वाभेदेनाद्वयो भवेत् ॥ २३ ॥
देवदत्तः स एवायमितिवल्लक्षणा स्मृता ।
स्थूलादि देहरहितो ब्रह्म सम्पद्यते नरः ॥ २४ ॥
पञ्चीकृतमहाभूतसम्भूतः स्थूलदेहकः ।
भोगालयो जराव्याधिसंयुतः सर्वकर्मणाम् ॥ २५ ॥
मिथ्याभूतोऽयमाभाति स्फुटं मायामयत्वतः ।
सोऽयं स्थूल उपाधिः स्यादात्मनो मे नगेश्वर ॥ २६ ॥
ज्ञानकर्मेन्द्रिययुतं प्राणपञ्चकसंयुतम् ।
मनोबुद्धियुतं चैतत्सूक्ष्मं तत्कवयो विदुः ॥ २७ ॥
अपञ्चीकृतभूतोत्थं सूक्ष्मदेहोऽयमात्मनः ।
द्वितीयोऽयमुपाधिः स्यात्सुखादेरवबोधकः ॥ २८ ॥
अनाद्यनिर्वाच्यमिदमज्ञानं तु तृतीयकः ।
देहोऽयमात्मनो भाति कारणात्मा नगेश्वर ॥ २९ ॥
उपाधिविलये जाते केवलात्मावशिष्यते ।
देहत्रये पञ्चकोशा अन्तःस्थाः सन्ति सर्वदा ॥ ३० ॥
पञ्चकोशपरित्यागे ब्रह्म पुच्छं हि लभ्यते ।
नेतिनेतीत्यादिवाक्यैर्मम रूपं यदुच्यते ॥ ३१ ॥
न जायते म्रियते तत्कदाचि-
     न्नायं भूत्वा न बभूव कश्चित् ।
अजो नित्यः शाश्वतोऽयं पुराणो
     न हन्यते हन्यमाने शरीरे ॥ ३२ ॥
हतं चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ।
उभौ तौ न विजानीतौ नायं हन्ति न हन्यते ॥ ३३ ॥
अणोरणीयान्महतो महीया-
     नात्मास्य जन्तोर्निहितो गुहायाम् ।
तमक्रतुः पश्यति वीतशोको
     धातुः प्रसादान्महिमानमस्य ॥ ३४ ॥
आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३५ ॥
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ३६ ॥
यस्त्वविद्वान्भवति चामनस्कश्च सदाशुचिः ।
न तत्पदमवाप्नोति संसारं चाधिगच्छति ॥ ३७ ॥
यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः ।
स तु तत्पदमाप्नोति यस्माद्‌भूयो न जायते ॥ ३८ ॥
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।
सोऽध्वनः पारमाप्नोति मदीयं यत्परं पदम् ॥ ३९ ॥
इत्थं श्रुत्या च मत्या च निश्चित्यात्मानमात्मना ।
भावयेन्मामात्मरूपां निदिध्यासनतोऽपि ॥ ४० ॥
योगवृत्तेः पुरा स्वस्मिन्भावयेदक्षरत्रयम् ।
देवीप्रणवसञ्ज्ञस्य ध्यानार्थं मन्त्रवाच्ययोः ॥ ४१ ॥
हकारः स्थूलदेहः स्याद्‌रकारः सूक्ष्मदेहकः ।
ईकारः कारणात्मासौ ह्रीङ्कारोऽहं तुरीयकम् ॥ ४२ ॥
एवं समष्टिदेहेऽपि ज्ञात्वा बीजत्रयं क्रमात् ।
समष्टिव्यष्ट्योरेकत्वं भावयेन्मतिमान्नरः ॥ ४३ ॥
समाधिकालात्पूर्वं तु भावयित्वैवमादृतः ।
ततो ध्यायेन्निलीनाक्षो देवीं मां जगदीश्वरीम् ॥ ४४ ॥
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ।
निवृत्तविषयाकाङ्क्षो वीतदोषो विमत्सरः ॥ ४५ ॥
भक्त्या निर्व्याजया युक्तो गुहायां निःस्वने स्थले ।
हकारम् विश्वमात्मानं रकारे प्रविलापयेत् ॥ ४६ ॥
रकारं तैजसं देवमीकारे प्रविलापयेत् ।
ईकारं प्राज्ञमात्मानं ह्रीङ्कारे प्रविलापयेत् ॥ ४७ ॥
वाच्यवाचकताहीनं द्वैतभावविवर्जितम् ।
अखण्डं सच्चिदानन्दं भावयेत्तच्छिखान्तरे ॥ ४८ ॥
इति ध्यानेन मां राजन् साक्षात्कृत्य नरोत्तमः ।
मद्‌रूप एव भवति द्वयोरप्येकता यतः ॥ ४९ ॥
योगयुक्त्यानया दृष्ट्वा मामात्मानं परात्परम् ।
अज्ञानस्य सकार्यस्य तत्क्षणे नाशको भवेत् ॥ ५० ॥


-





इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
अध्याय चौतिसावा समाप्त

GO TOP