श्रीमद्‌देवीभागवत महापुराण
सप्तमः स्कन्धः
अष्टाविंशोऽध्यायः


शताक्षीचरित्रवर्णनम्

जनमेजय उवाच -
विचित्रमिदमाख्यानं हरिश्चन्द्रस्य कीर्तितम् ।
शताक्षीपादभक्तस्य राजर्षेर्धार्मिकस्य च ॥ १ ॥
शताक्षी सा कुतो जाता देवी भगवती शिवा ।
तत्कारणं वद मुने सार्थकं जन्म मे कुरु ॥ २ ॥
को हि देव्या गुणाञ्छृण्वंस्तृप्तिं यास्यति शुद्धधीः ।
पदे पदेऽश्वमेधस्य फलमक्षय्यमश्नुते ॥ ३ ॥
व्यास उवाच -
शृणु राजन् प्रवक्ष्यामि शताक्षीसम्भवं शुभम् ।
तवावाच्यं न मे किञ्चिद्देवीभक्तस्य विद्यते ॥ ४ ॥
दुर्गमाख्यो महादैत्यः पूर्वं परमदारुणः ।
हिरण्याक्षान्वये जातो रुरुपुत्रो महाखलः ॥ ५ ॥
देवानां तु बलं वेदो नाशे तस्य सुरा अपि
नंक्ष्यन्त्येव न संदेहो विधेयं तावदेव तत् ॥ ६ ॥
विमृश्यैतत्तपश्चर्यां गतः कर्तुं हिमालये ।
ब्रह्माणं मनसा ध्यात्वा वायुभक्षो व्यतिष्ठत ॥ ७ ॥
सहस्रवर्षपर्यन्तं चकार परमं तपः ।
तेजसा तस्य लोकास्तु सन्तप्ताः ससुरासुराः ॥ ८ ॥
ततः प्रसन्नो भगवान् हंसारूढश्चतुर्मुखः ।
ययौ तस्मै वरं दातुं प्रसन्नमुखपङ्कजः ॥ ९ ॥
समाधिस्थं मीलिताक्षं स्फुटमाह चतुर्मुखः ।
वरं वरय भद्रं ते यस्ते मनसि वर्तते ॥ १० ॥
तवाद्य तपसा तुष्टो वरदेशोऽहमागतः ।
श्रुत्वा ब्रह्ममुखाद्वाणीं व्युत्थितः स समाधितः ॥ ११ ॥
पूजयित्वा वरं वव्रे वेदान्देहि सुरेश्वर ।
त्रिषु लोकेषु ये मन्त्रा ब्राह्मणेषु सुरेष्वपि ॥ १२ ॥
विद्यन्ते ते तु सान्निध्ये मम सन्तु महेश्वर ।
बलं च देहि येन स्याद्देवानां च पराजयः ॥ १३ ॥
इति तस्य वचः श्रुत्वा तथास्त्विति वचो वदन् ।
जगाम सत्यलोकं तु चतुर्वेदेश्वरः परः ॥ १४ ॥
ततः प्रभृति विप्रैस्तु विस्मृता वेदराशयः ।
स्नानसन्ध्यानित्यहोमश्राद्धयज्ञजपादयः ॥ १५ ॥
विलुप्ता धरणीपृष्ठे हाहाकारो महानभूत् ।
किमिदं किमिदं चेति विप्रा ऊचुः परस्परम् ॥ १६ ॥
वेदाभावात्तदस्माभिः कर्तव्यं किमतः परम् ।
इति भूमौ महानर्थे जाते परमदारुणे ॥ १७ ॥
निर्जराः सजरा जाता हविर्भागाद्यभावतः ।
रुरोध स तदा दैत्यो नगरीममरावतीम् ॥ १८ ॥
अशक्तास्तेन ते योद्धुं वज्रदेहासुरेण च ।
पलायनं तदा कृत्वा निर्गता निर्जराः क्वचित् ॥ १९ ॥
निलयं गिरिदुर्गेषु रत्‍नसानुगुहासु च ।
संस्थिताः परमां शक्तिं ध्यायन्तस्ते पराम्बिकाम् ॥ २० ॥
अग्नौ होमाद्यभावात्तु वृष्ट्यभावोऽप्यभून्नृप ।
वृष्टेरभावे संशुष्कं निर्जलं चापि भूतलम् ॥ २१ ॥
कूपवापीतडागाश्च सरितः शुष्कतां गताः ।
अनावृष्टिरियं राजन्नभूच्च शतवार्षिकी ॥ २२ ॥
मृताः प्रजाश्च बहुधा गोमहिष्यादयस्तथा ।
गृहे गृहे मनुष्याणामभवच्छवसंग्रहः ॥ २३ ॥
अनर्थे त्वेवमुद्‌भूते ब्राह्मणाः शान्तचेतसः ।
गत्वा हिमवतः पार्श्वे रिराधयिषवः शिवम् ॥ २४ ॥
समाधिध्यानपूजाभिर्देवीं तुष्टुवुरन्वहम् ।
निराहारास्तदासक्तास्तामेव शरणं ययुः ॥ २५ ॥
दयां कुरु महेशानि पामरेषु जनेषु हि ।
सर्वापराधयुक्तेषु नैतच्छ्लाघ्यं तवाम्बिके ॥ २६ ॥
कोपं संहर देवेशि सर्वान्तर्यामिरूपिणि ।
त्वया यथा प्रेर्यतेऽयं करोति स तथा जनः ॥ २७ ॥
नान्या गतिर्जनस्यास्य किं पश्यसि पुनः पुनः ।
यथेच्छसि तथा कर्तुं समर्थासि महेश्वरि ॥ २८ ॥
समुद्धर महेशानि संकटात्परमोत्थितात् ।
जीवनेन विनास्माकं कथं स्यात्स्थितिरम्बिके ॥ २९ ॥
प्रसीद त्वं महेशानि प्रसीद जगदम्बिके ।
अनन्तकोटिब्रह्माण्डनायिके ते नमो नमः ॥ ३० ॥
नमः कूटस्थरूपायै चिद्‌रूपायै नमो नमः ।
नमो वेदान्तवेद्यायै भुवनेश्यै नमो नमः ॥ ३१ ॥
नेति नेतीति वाक्यैर्या बोध्यते सकलागमैः ।
तां सर्वकारणां देवीं सर्वभावेन सन्नताः ॥ ३२ ॥
इति सम्प्रार्थिता देवी भुवनेशी महेश्वरी ।
अनन्ताक्षिमयं रूपं दर्शयामास पार्वती ॥ ३३ ॥
नीलाञ्जनसमप्रख्यं नीलपद्मायतेक्षणम् ।
सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनम् ॥ ३४ ॥
बाणमुष्टिं च कमलं पुष्पपल्लवमूलकान् ।
शाकादीन्फलसंयुक्ताननन्तरससंयुतान् ॥ ३५ ॥
क्षुत्तृड्जरापहान् हस्तैर्बिभ्रती च महाधनुः ।
सर्वसौन्दर्यसारं तद्‌रूपं लावण्यशोभितम् ॥ ३६ ॥
कोटिसूर्यप्रतीकाशं करुणारससागरम् ।
दर्शयित्वा जगद्धात्री सानन्तनयनोद्‌भवा ॥ ३७ ॥
मोचयामास लोकेषु वारिधारां सहस्रशः ।
नवरात्रं महावृष्टिरभून्नेत्रोद्‌भवैर्जलैः ॥ ३८ ॥
दुःखितान्वीक्ष्य सकलान्नेत्राश्रूणि विमुञ्चती ।
तर्पितास्तेन ते लोका ओषध्यः सकला अपि ॥ ३९ ॥
नदीनदप्रवाहास्तैर्जलैः समभवन्नृप ।
निलीय संस्थिताः पूर्वं सुरास्ते निर्गता बहिः ॥ ४० ॥
मिलित्वा ससुरा विप्रा देवीं समभितुष्टुवुः ।
नमो वेदान्तवेद्ये ते नमो ब्रह्मस्वरूपिणि ॥ ४१ ॥
स्वमायया सर्वजगद्विधात्र्यै ते नमो नमः ।
भक्तकल्पद्रुमे देवि भक्तार्थं देहधारिणि ॥ ४२ ॥
नित्यतृप्ते निरुपमे भुवनेश्वरि ते नमः ।
अस्मच्छान्त्यर्थमतुलं लोचनानां सहस्रकम् ॥ ४३ ॥
त्वया यतो धृतं देवि शताक्षी त्वं ततो भव ।
क्षुधया पीडिता मातः स्तोतुं शक्तिर्न चास्ति नः ॥ ४४ ॥
कृपां कुरु महेशानि वेदानप्याहराम्बिके ।
व्यास उवाच -
इति तेषां वचः श्रुत्वा शाकान्स्वकरसंस्थितान् ॥ ४५ ॥
स्वादूनि फलमूलानि भक्षणार्थं ददौ शिवा ।
नानाविधानि चान्नानि पशुभोज्यानि यानि च ॥ ४६ ॥
काम्यानन्तरसैर्युक्तान्यानवीनोद्‌भवं ददौ ।
शाकम्भरीति नामापि तद्दिनात्समभून्नृप ॥ ४७ ॥
ततः कोलाहले जाते दूतवाक्येन बोधितः ।
ससैन्यः सायुधो योद्धुं दुर्गमाख्योऽसुरो ययौ ॥ ४८ ॥
सहस्राक्षौहिणीयुक्तः शरान्मुञ्चंस्त्वरान्वितः ।
रुरोध देवसैन्यं तद्‌यद्देव्यग्रे स्थितं पुरा ॥ ४९ ॥
तथा विप्रगणं चैव रोधयामास सर्वतः ।
ततः किलकिला शब्दः समभूद्देवमण्डले ॥ ५० ॥
त्राहि त्राहीति वाक्यानि प्रोचुः सर्वे द्विजामराः ।
ततस्तेजोमयं चक्रं देवानां परितः शिवा ॥ ५१ ॥
चकार रक्षणार्थाय स्वयं तस्माद्‌ बहिः स्थिता ।
ततः समभवद्युद्धं देव्या दैत्यस्य चोभयोः ॥ ५२ ॥
शरवर्षसमाच्छन्नं सूर्यमण्डलमद्‌भुतम् ।
परस्परशरोद्‌घर्षसमुद्‌भूताग्निसुप्रभम् ॥ ५३ ॥
कठोरज्याटणत्कारबधिरीकृतदिक्तटम् ।
ततो देवीशरीरात्तु निर्गतास्तीव्रशक्तयः ॥ ५४ ॥
कालिका तारिणी बाला त्रिपुरा भैरवी रमा ।
बगला चैव मातङ्गी तथा त्रिपुरसुन्दरी ॥ ५५ ॥
कामाक्षी तुलजा देवी जम्भिनी मोहिनी तथा ।
छिन्नमस्ता गुह्यकाली दशसाहस्रबाहुका ॥ ५६ ॥
द्वात्रिंशच्छक्तयश्चान्याश्चतुष्षष्टिमिताः पराः ।
असंख्यातास्ततो देव्यः समुद्‌भूतास्तु सायुधाः ॥ ५७ ॥
मृदङ्गशङ्खवीणादिनादितं सङ्गरस्थलम् ।
शक्तिभिर्दैत्यसैन्ये तु नाशितेऽक्षौहिणीशते ॥ ५८ ॥
अग्रेसरः समभवद्दुर्गमो वाहिनीपतिः ।
शक्तिभिः सह युद्धं च चकार प्रथमं रिपुः ॥ ५९ ॥
महद्युद्धं समभवद्यत्राभूद्‌रक्तवाहिनी ।
अक्षौहिण्यस्तु ताः सर्वा विनष्टा दशभिर्दिनैः ॥ ६० ॥
तत एकादशे प्राप्ते दिने परमदारुणे ।
रक्तमाल्याम्बरधरो रक्तगन्धानुलेपनः ॥ ६१ ॥
कृत्वोत्सवं महान्तं तु युद्धाय रथसंस्थितः ।
संरम्भेणैव महता शक्तीः सर्वा विजित्य च ॥ ६२ ॥
महादेवीरथाग्रे तु स्वरथं संन्यवेशयत् ।
ततोऽभवन्महद्युद्धं देव्या दैत्यस्य चोभयोः ॥ ६३ ॥
प्रहरद्वयपर्यन्तं हृदयत्रासकारकम् ।
ततः पञ्चदशात्युग्रबाणान्देवी मुमोच ह ॥ ६४ ॥
चतुर्भिश्चतुरो वाहान्बाणेनैकेन सारथिम् ।
द्वाभ्यां नेत्रे भुजौ द्वाभ्यां ध्वजमेकेन पत्रिणा ॥ ६५ ॥
पञ्चभिर्हृदयं तस्य विव्याध जगदम्बिका ।
ततो वमन् स रुधिरं ममार पुर ईशितुः ॥ ६६ ॥
तस्य तेजस्तु निर्गत्य देवीरूपे विवेश ह ।
हते तस्मिन्महावीर्ये शान्तमासीज्जगत्त्रयम् ॥ ६७ ॥
ततो ब्रह्मादयः सर्वे तुष्टुवुर्जगदम्बिकाम् ।
पुरस्कृत्य हरीशानौ भक्त्या गद्‌गदया गिरा ॥ ६८ ॥
देवा ऊचुः
जगद्‌भ्रमविवर्तैककारणे परमेश्वरि ।
नमः शाकम्भरि शिवे नमस्ते शतलोचने ॥ ६९ ॥
सर्वोपनिषदुद्‌घुष्टे दुर्गमासुरनाशिनि ।
नमो मायेश्वरि शिवे पञ्चकोशान्तरस्थिते ॥ ७० ॥
चेतसा निर्विकल्पेन यां ध्यायन्ति मुनीश्वराः ।
प्रणवार्थस्वरूपां तां भजामो भुवनेश्वरीम् ॥ ७१ ॥
अनन्तकोटिब्रह्माण्डजननीं दिव्यविग्रहाम् ।
ब्रह्मविष्ण्वादिजननीं सर्वभावैर्नता वयम् ॥ ७२ ॥
कः कुर्यात्पामरान्दृष्ट्वा रोदनं सकलेश्वरः ।
सदयां परमेशानीं शताक्षीं मातरं विना ॥ ७३ ॥
व्यास उवाच -
इति स्तुता सुरैर्देवी ब्रह्मविष्ण्वादिभिर्वरैः ।
पूजिता विविधैर्द्रव्यैः सन्तुष्टाभूच्च तत्क्षणे ॥ ७४ ॥
प्रसन्ना सा तदा देवी वेदानाहृत्य सा ददौ ।
ब्राह्मणेभ्यो विशेषेण प्रोवाच पिकभाषिणी ॥ ७५ ॥
ममेयं तनुरुत्कृष्टा पालनीया विशेषतः ।
यया विनानर्थ एष जातो दृष्टोऽधुनैव हि ॥ ७६ ॥
पूज्याहं सर्वदा सेव्या युष्माभिः सर्वदैव हि ।
नातः परतरं किञ्चित्कल्याणायोपदिश्यते ॥ ७७ ॥
पठनीयं ममैतद्धि माहात्म्यं सर्वदोत्तमम् ।
तेन तुष्टा भविष्यामि हरिष्यामि तथापदः ॥ ७८ ॥
दुर्गमासुरहन्त्रीत्वाद्‌दुर्गेति मम नाम यः ।
गृह्णाति च शताक्षीति मायां भित्त्वा व्रजत्यसौ ॥ ७९ ॥
किमुक्तेनात्र बहुना सारं वक्ष्यामि तत्त्वतः ।
संसेव्याहं सदा देवाः सर्वैरपि सुरासुरैः ॥ ८० ॥
इत्युक्त्वान्तर्हिता देवी देवानां चैव पश्यताम् ।
सन्तोषं जनयन्त्येवं सच्चिदनन्दरूपिणी ॥ ८१ ॥
एतत्ते सर्वमाख्यातं रहस्यं परमं महत् ।
गोपनीयं प्रयत्‍नेन सर्वकल्याणकारकम् ॥ ८२ ॥
य इमं शृणुयान्नित्यमध्यायं भक्तितत्परः ।
सर्वान्कामानवाप्नोति देवीलोके महीयते ॥ ८३ ॥


-





इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
सप्तमस्कन्धे शताक्षीचरित्रवर्णनं नामाष्टाविंशोऽध्यायः ॥ २८ ॥
अध्याय अठ्ठाविसावा समाप्त

GO TOP