श्रीमद्‌देवीभागवत महापुराण
सप्तमः स्कन्धः
द्वाविंशोऽध्यायः


हरिश्चन्द्रस्य पत्‍नीपुत्रविक्रयवर्णनम्

व्यास उवाच -
स तया नोद्यमानस्तु राजा पत्‍न्या पुनः पुनः ।
प्राह भद्रे करोम्येष विक्रयं ते सुनिर्घृणः ॥ १ ॥
नृशंसैरपि यत्कर्तुं न शक्यं तत्करोम्यहम् ।
यदि ते भ्राजते वाणी वक्तुमीदृक्सुनिष्ठुरम् ॥ २ ॥
एवमुक्त्वा ततो राजा गत्वा नगरमातुरः ।
अवतार्य तदा रङ्गे तां भार्यां नृपसत्तमः ।
बाष्पगद्‍गदकण्ठस्तु ततो वचनमब्रवीत् ।
भो भो नागरिकाः सर्वे शृणुध्वं वचनं मम ॥ ४ ॥
कस्यचिद्यदि कार्यं स्याद्दास्या प्राणेष्टया मम ।
स ब्रवीतु त्वरायुक्तो यावत्स्वं धारयाम्यहम् ॥ ५ ॥
तेऽब्रुवन्पण्डिताः कस्त्वं पत्‍नीं विक्रेतुमागतः ।
राजोवाच -
किं मां पृच्छथ कस्त्वं भो नृशंसोऽहममानुषः ॥ ६ ॥
राक्षसो वास्मि कठिनस्ततः पापं करोम्यहम् ।
व्यास उवाच -
तं शब्दं सहसा श्रुत्वा कौशिको विप्ररूपधृक् ॥ ७ ॥
वृद्धरूपं समास्थाय हरिश्चन्द्रमभाषत ।
समर्पयस्व मे दासीमहं क्रेता धनप्रदः ॥ ८ ॥
अस्ति मे वित्तमतुलं सुकुमारी च मे प्रिया ।
गृहकर्म न शक्नोति कर्तुमस्मात्प्रयच्छ मे ॥ ९ ॥
अहं गृह्णामि दासीं तु कति दास्यामि ते धनम् ।
एवमुक्ते तु विप्रेण हरिश्चन्द्रस्य भूपतेः ॥ १० ॥
विदीर्णं तु मनो दुःखान्न चैनं किञ्चिदब्रवीत् ।
विप्र उवाच -
कर्मणश्च वयोरूपशीलानां तव योषितः ॥ ११ ॥
अनुरूपमिदं वित्तं गृहाणार्पय मेऽबलाम् ।
धर्मशास्त्रेषु यद्‌ दृष्टं स्त्रियो मौल्यं नरस्य च ॥ १२ ॥
द्वात्रिंशल्लक्षणोपेता दक्षा शीलगुणान्विता ।
कोटिमौल्यं सुवर्णस्य स्त्रियः पुंसस्तथार्बुदम् ॥ १३ ॥
इत्याकर्ण वचस्तस्य हरिश्चन्द्रो महीपतिः ।
दुःखेन महताऽऽविष्टो न चैनं किञ्चिदब्रवीत् ॥ १४ ॥
ततः स विप्रो नृपतेः पुरतो वल्कलोपरि ।
धनं निधाय केशेषु धृत्वा राज्ञीमकर्षयत् ॥ १५ ॥
राज्ञ्युवाच -
मुञ्च मुञ्चार्य मां सद्यो यावत्पश्याम्यहं सुतम् ।
दुर्लभं दर्शनं विप्र पुनरस्य भविष्यति ॥ १६ ॥
पश्येह पुत्र मामेवं मातरं दास्यतां गताम् ।
मां मास्प्राक्षी राजपुत्र न स्पृश्याहं त्वयाधुना ॥ १७ ॥
ततः स बालः सहसा दृष्ट्वाऽऽकृष्टां तु मातरम् ।
समभ्यधावदम्बेति वदन्साश्रुविलोचनः ॥ १८ ॥
हस्ते वस्त्रं समाकर्षन् काकपक्षधरः स्खलन् ।
तमागतं द्विजः क्रोधाद्‌ बालमप्याहनत्तदा ॥ १९ ॥
वदंस्तथापि सोऽम्बेति नैव मुञ्चति मातरम् ।
राज्ञ्युवाच -
प्रसादं कुरु मे नाथ क्रीणीष्वेमं हि बालकम् ॥ २० ॥
क्रीतापि नाहं भविता विनैनं कार्यसाधिका ।
इत्थं ममाल्पभाग्यायाः प्रसादं कुरु मे प्रभो ॥ २१ ॥
ब्राह्मण उवाच -
गृह्यतां वित्तमेतत्ते दीयतां मम बालकः ।
स्त्रीपुंसोर्धर्मशास्त्रज्ञैः कृतमेव हि वेतनम् ॥ २२ ॥
शतं सहस्रं लक्षं च कोटिमौल्यं तथापरैः ।
द्वात्रिंशल्लक्षणोपेता दक्षा शीलगुणान्विता ॥ २३ ॥
कोटिमौल्यं स्त्रियः प्रोक्तं पुरुषस्य तथार्बुदम् ।
सूत उवाच -
तथैव तस्य तद्वित्तं पुरः क्षिप्तं पटे पुनः ॥ २४ ॥
प्रगृह्य बालकं मात्रा सहैकस्थमबन्धयत् ।
प्रतस्थे स गृहं क्षिप्रं तया सह मुदान्वितः ॥ २५ ॥
प्रदक्षिणां तु सा कृत्वा जानुभ्यां प्रणता स्थिता ।
बाष्पपर्याकुला दीना त्विदं वचनमब्रवीत् ॥ २६ ॥
यदि दत्तं यदि हुतं ब्राह्मणास्तर्पिता यदि ।
तेन पुण्येन मे भर्ता हरिश्चन्द्रोऽस्तु वै पुनः ॥ २७ ॥
पादयोः पतितां दृष्ट्वा प्राणेभ्योऽपि गरीयसीम् ।
हाहेति च वदन् राजा विललापाकुलेन्द्रियः ॥ २८ ॥
वियुक्तेयं कथं जाता सत्यशीलगुणान्विता ।
वृक्षच्छायापि वृक्षं तं न जहाति कदाचन ॥ २९ ॥
एवं भार्यां वदित्वाथ सुसम्बद्धं परस्परम् ।
पुत्रं च तमुवाचेदं मां त्वं हित्वा क्व यास्यसि ॥ ३० ॥
कां दिशं प्रति यास्यामि को मे दुःखं निवारयेत् ।
राज्यत्यागे न मे दुःखं वनवासे न मे द्विज ॥ ३१ ॥
यत्पुत्रेण वियोगो मे एवमाह स भूपतिः ।
सद्‌भर्तृभोग्या हि सदा लोके भार्या भवन्ति हि ॥ ३२ ॥
मया त्यक्तासि कल्याणि दुःखेन विनियोजिता ।
इक्ष्वाकुवंशसम्भूतं सर्वराज्यसुखोचितम् ॥ ३३ ॥
मामीदृशां पतिं प्राप्य दासीभावं गता ह्यसि ।
ईदृशे मज्जमानं मां सुमहच्छोकसागरे ॥ ३४ ॥
को मामुद्धरते देवि पौराणाख्यानविस्तरैः ।
सूत उवाच -
पश्यतस्तस्य राजर्षेः कशाघातैः सुदारुणैः ॥ ३५ ॥
घातयित्वा तु विप्रेशो नेतुं समुपचक्रमे ।
नीयमानौ तु तौ दृष्ट्वा भार्यापुत्रौ स पार्थिवः ॥ ३६ ॥
विललापातिदुःखार्तो निःश्वस्योष्णं पुनः पुनः ।
यां न वायुर्न वाऽऽदित्यो न चन्द्रो न पृथ्ग्जनाः ॥ ३७ ॥
दृष्टवन्तः पुरा पत्‍नीं सेयं दासीत्वमागता ।
सूर्यवंशप्रसूतोऽयं सुकुमारकराङ्गुलिः ॥ ३८ ॥
सम्प्राप्तो विक्रयं बालो धिङ्‌मामस्तु सुदुर्मतिम् ।
हा प्रिये हा शिशो वत्स ममानार्यस्य दुर्नयः ॥ ३९ ॥
दैवाधीनदशां प्राप्तो न मृतोऽस्मि तथापि धिक् ।
व्यास उवाच -
एवं विलपितो राज्ञोऽग्रे विप्रोऽन्तरधीयत ॥ ४० ॥
वृक्षगेहादिभिस्तुङ्गैस्तावादाय त्वरान्वितः ।
अत्रान्तरे मुनिश्रेष्ठस्त्वाजगाम महातपाः ॥ ४१ ॥
सशिष्यः कौशिकेन्द्रोऽसौ निष्ठुरः क्रूरदर्शनः ।
विश्वामित्र उवाच-
या त्वयोक्ता पुरा राजन् राजसूयस्य दक्षिणा ॥ ४२ ॥
तां ददस्व महाबाहो यदि सत्यं पुरस्कृतम् ।
हरिश्चन्द्र उवाच -
नमस्करोमि राजर्षे गृहाणेमां स्वदक्षिणाम् ॥ ४३ ॥
राजसूयस्य यागस्य या मयोक्ता पुरानघ ।
विश्वामित्र उवाच -
कुतो लब्धमिदं द्रव्यं दक्षिणार्थे प्रदीयते ॥ ४४ ॥
एतदाचक्ष्व राजेन्द्र यथा द्रव्यं त्वयार्जितम् ।
राजोवाच -
किमनेन महाभाग कथितेन तवानघ ॥ ४५ ॥
शोकस्तु वर्धते विप्र श्रुतेनानेन सुव्रत ।
ऋषिरुवाच -
अशस्तं नैव गृह्णामि शस्तमेव प्रयच्छ मे ॥ ४६ ॥
द्रव्यस्यागमनं राजन् कथयस्व यथातथम् ।
राजोवाच -
मया देवी तु सा भार्या विक्रीता कोटिसम्मितैः ।
निष्कैः पुत्रो रोहिताख्यो विक्रीतोऽर्बुदसंख्यया ।
विप्रैकादशकोट्यस्त्वं सुवर्णस्य गृहाण मे ॥ ४८ ॥
सूत उवाच -
तद्वित्तं स्वप्लमालक्ष्य दारविक्रयसम्भवम् ।
शोकाभिभूतं राजानं कुपितः कौशिकोऽब्रवीत् ॥ ४९ ॥
ऋषिरुवाच -
राजसूयस्य यज्ञस्य नैषा भवति दक्षिणा ।
अन्यदुत्पादय क्षिप्रं सम्पूर्णा येन सा भवेत् ॥ ५० ॥
क्षत्रबन्धो ममेमां त्वं सदृशीं यदि दक्षिणाम् ।
मन्यसे तर्हि तत्क्षिप्रं पश्य त्वं मे परं बलम् ॥ ५१ ॥
तपसोऽस्य सुतप्तस्य ब्राह्मणस्यामलस्य च ।
मत्प्रभावस्य चोग्रस्य शुद्धस्याध्ययनस्य च ॥ ५२ ॥
राजोवाच -
अन्यद्दास्यामि भगवन् कालः कश्चित्प्रतीक्ष्यताम् ।
अधुनैवास्ति विक्रीता पत्‍नी पुत्रश्च बालकः ॥ ५३ ॥
विश्वामित्र उवाच -
चतुर्भागः स्थितो योऽयं दिवसस्य नराधिप ।
एष एव प्रतीक्ष्यो मे वक्तव्यं नोत्तरं त्वया ॥ ५४ ॥


-





इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
हरिश्चन्द्रस्य पत्‍नीपुत्रविक्रयवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥
अध्याय बाविसावा समाप्त

GO TOP