श्रीमद्‌देवीभागवत महापुराण
देवीमाहात्म्य
चतुर्थोऽध्यायः

[ Right click to 'save audio as' for downloading Audio ]


रैवतनामकमनुपुत्रोत्पत्तिवर्णनम् -

सूतउवाच
इति श्रुत्वा कथां दिव्यां विचित्रां कुम्भसम्भवः ।
शुश्रूषुः पुनराहेदं विशाखं विनयान्वितः ॥ १ ॥
अगस्त्य उवाच
देवसेनापते देव विचित्रेयं श्रुता कथा।
पुनरन्यज्ज माहात्म्यं वद भागवतस्य मे ॥ २ ॥
स्कन्द उवाच
मित्रावरुणसम्भूत मुने शृणु कथामिमाम्।
यत्रैकदेशमहिमा प्रोक्तो भागवतस्य तु ॥ ३ ॥
वर्ण्यते धर्मविस्तारो गायत्रीमधिकृत्य च।
गायत्र्या महिमा यत्र तद् भागवतमिष्यते ॥ ४ ॥
भगवत्या इदं यस्मात्तस्मात् भागवतं विदुः ।
ब्रह्मविष्णुशिवाराध्या परा भगवती हि सा॥ ५ ॥
ऋतवागिति विख्यातो मुनिरासीन्महामतिः ।
तस्यपुत्रोऽभवत्काले गण्डान्ते पौष्णभान्तिमे॥ ६ ॥
स तस्य जातकर्मादिक्रियाश्चक्रे यथाविधि ।
चूडोपनयनादींश्च संस्कारानपि सोऽकरोत्॥ ७ ॥
यत आरभ्य जातोऽसौ पुत्रस्तस्य महात्मनः ।
तत एवाथ स मुनिः शोकरोगाकुलोऽभवत्॥ ८ ॥
रोषलोभपरीतात्मा तथा मातापि तस्य च।
बहुरोगार्दिता नित्यं शुचा दुःखीकृता भृशम्॥ ९ ॥
ऋतवाक् स मुनिश्चिन्तामवाप भृशदुःखितः ।
किमेतत् कारणं जातं पुत्रो मेऽत्यन्तदुर्मतिः ॥ १० ॥
कस्यचिन्मुनिपुत्रस्य बलात् पत्‍नीं जहार च।
मेने शिक्षां पितुर्नासौ न च मातुर्विमूढधीः ॥ ११ ॥
ततो विषण्णचित्तस्तु ऋतवागब्रवीदिदम् ।
अपुत्रता वरं नृणां न कदाचित् कुपुत्रता ॥ १२ ॥
पितॄन् कुपुत्रः स्वर्यातान्‍निरये पातयत्यपि ।
यावज्जीवेत् सदा पित्रोः केवलं दुःखदायकः ॥ १३ ॥
पित्रोर्दुःखाय धिग्जन्म कुपुत्रस्य च पापिनः ।
सुहृदां नोपकाराय नापकाराय वैरिणाम् ॥ १४ ॥
धन्यास्ते मानवा लोके सुपुत्रो यद्‌गृहे स्थितः ।
परोपकारशीलश्च पितुर्मातुः सुखावहः ॥ १५ ॥
कुपुत्रेण कुलं नष्टं कुपुत्रेण हतं यशः ।
कुपुत्रेणेह चामुत्र दुःखं निरययातनाः ॥ १६ ॥
कुपुत्रेणान्वयो नष्टो जन्म नष्टं कुभार्यया ।
कुभोजनेन दिवसः कुमित्रेण सुखं कुतः ॥ १७ ॥
स्कन्द उवाच
एवं दुष्टस्य पुत्रस्य दुष्टैराचरणैर्मुनि ।
तप्यमानोऽनिशं काले गत्वा गर्गमपृच्छत ॥ १८ ॥
ऋतवागुवाच
भगवंस्त्वामहं प्रष्टुमिच्छामि वद तत् प्रभो ।
ज्योतिश्शास्वस्य चाचार्य पुत्रदौःशील्यकारणम् ॥ १९ ॥
गुरुशुश्रूषया वेदा अधीता विधिवन्मया ।
ब्रह्मचारिव्रतं तीर्त्वा विवाहो विधिवत् कृतः ॥ २० ॥
भार्यया सह गार्हस्थ्यधर्मश्चानुष्ठितोऽनिशम् ।
पञ्चयज्ञविधानं च मयाकारि यथाविधि ॥ २१ ॥
नरकाद् बिभ्यता विप्र न तु कामसुखेच्छया ।
गर्भाधानं च विधिवत् पुत्रप्राप्त्यै मया कृतम् ॥ २२ ॥
पुत्रोऽयं मम दोषेण मातुर्दोषेण वा मुने ।
जातो दुःखावहः पित्रोर्दुःशीलो बन्धुशोकदः ॥ २३ ॥
एतन्‍निशम्य वचनं गर्गाचार्यो मुनेस्तदा ।
विचार्य सर्वं तद्धेतुं ज्योतिर्विद्वाचमब्रवीत् ॥ २४ ॥
गर्ग उवाच
मुने नैवापराधस्ते न मातुर्न कुलस्य च ।
रेवत्यन्तं तु गण्डान्तं पुत्रदौःशील्यकारणम् ॥ २५ ॥
दुष्टे काले यतो जन्म पुत्रस्य तव भो मुने ।
तेनैव तव दुःखाय नान्यो हेतुर्मनागपि ॥ २६ ॥
तद्‌दुःखशान्तये ब्रह्मञ्जगतां मातरं शिवाम् ।
समाराधय यत्‍नेन दुर्गां दुर्गतिनाशिनीम् ॥ २७ ॥
गर्गस्य वचनं श्रुत्वा ऋतवाक् क्रोधमूर्च्छितः ।
रेवतीं तु शशापासौ व्योम्नः पततु रेवती ॥ २८ ॥
दत्ते शापे तु तेनाथ पूष्णो भञ्ज पपात खात् ।
कुमुदाद्रौ भासमानं सर्वलोकस्य पश्यतः ॥ २९ ॥
ख्यातो रैवतकश्चाभूत्तत्पातात् कुमुदाचलः ।
अतीव रमणीयश्च ततः प्रभृति सोऽप्यभूत् ॥ ३० ॥
दत्त्वा शापं च रेवत्यै गर्गोक्तविधिना मुनिः ।
समाराध्याम्बिकां देवीं सुखसौभाग्यभागभूत् ॥ ३१ ॥
स्कन्द उवाच
रेवत्यृक्षस्य यत् तेजस्तस्माज्जाता तु कन्यका ।
रूपेणाप्रतिमा लोके द्वितीया श्रीरिवाभवत् ॥ ३२ ॥
अथ तां प्रमुचः कन्यां रेवतीकान्तिसम्भवाम् ।
दृष्ट्‌वा नाम चकारास्या रेवतीति मुदा मुनिः ॥ ३३ ॥
निन्येऽथ स्वाश्रमे चैनां पोषयामास धर्मतः ।
ब्रह्मर्षिः प्रमुचो नाम कुमुदाद्रौ सुतामिव ॥ ३४ ॥
अथ कालेन च प्रौढां दृष्ट्‌वा तां रूपशालिनीम् ।
स मुनिश्चिन्तयामास कोऽस्या योग्यो वरो भवेत् ॥ ३५ ॥
बहुधान्वेषयस्तस्या नाससादोचितं पतिम् ।
ततोऽग्निशालां संविश्य मुनिस्तुष्टाव पावकम् ॥ ३६ ॥
कन्यावरं तदाशंसत्प्रीतस्तमपि हव्यवाट् ।
धर्मिष्ठो बलवान् वीरः प्रियवागपराजितः ॥ ३७ ॥
दुर्दमो भविता भर्ता मुनेऽस्याः पृथिवीपतिः ।
इति श्रुत्वा वचो वह्नेः प्रसन्‍नोऽभून्मुनिस्तदा ॥ ३८ ॥
दैवादाखेटकव्याजात् तत्क्षणादागतो नृपः ।
दुर्दमो नाम मेधावी तस्याश्रमपदं मुनेः ॥ ३९ ॥
पुत्रो विक्रमशीलस्य बलवान् वीर्यवत्तरः ।
कालिन्दीजठरे जातः प्रियव्रतकुलोद्भवः ॥ ४० ॥
मुनेराश्रममाविश्य तमदृष्ट्‌वा महामुनिम् ।
आमन्त्र्य तां प्रिये चेति रेवतीं पृष्टवान् नृपः ॥ ४१ ॥
राजोवाच
महर्षिर्भगवानस्मादाश्रमात् क्व गतः प्रिये ।
तत्पादौ द्रष्टुमिच्छामि वद कल्याणि तत्त्वतः ॥ ४२ ॥
कन्योवाच
अग्निशालामुपगतो महाराज महामुनिः ।
निश्चक्रामाश्रमात् तूर्णं राजाप्याकर्ण्य तद्वचः ॥ ४३ ॥
अथाग्निशालाद्वारस्थं राजानं दुर्दमं मुनिः ।
राजलक्षणसंयुक्तमपश्यत् प्रश्रयानतम् ॥ ४४ ॥
प्रणनाम च तं राजा मुनिः शिष्यमुवाच ह ।
गौतमानीयतामर्घ्यमर्घ्ययोग्योऽस्ति भूपतिः ॥ ४५ ॥
आगतश्चिरकालेन जामातेति विशेषतः ।
इत्युक्त्यार्घ्यं ददौ तस्मै सोऽपि जग्राह चिन्तयन् ॥ ४६ ॥
मुनिरासनमासीनं गृहीतार्घ्यं च भूपतिम् ।
आशीर्भिरभिनन्द्याथ कुशलं चाप्यपृच्छत ॥ ४७ ॥
अपि ऽनामयं राजन् बले कोशे सुहृत्सु च ।
भृत्येऽमात्ये पुरे देशे तथात्मनि जनाधिप ॥ ४८ ॥
भार्यास्ति ते कुशलिनी यतः सात्रैव तिष्ठति ।
अतो न पृच्छाम्यस्यास्ते चान्यासां कुशलं वद ॥ ४९ ॥
राजोवाच
भगवंस्त्वत्प्रसादेन सर्वत्रानामयं मम ।
एतत् कुतूहलं ब्रह्मन् मद्‍भार्या कात्र विद्यते ॥ ५० ॥
ऋषिरुवाच
रेवती नाम ते भार्या रूपेणाप्रतिमा भुवि ।
विद्यतेऽत्र कथं पत्‍नीं तां न वेत्सि महीपते ॥ ५१ ॥
राजोवाच
सुभद्राद्यास्तु या भार्या मम सन्ति गृहे विभो ।
जानामि तास्तु भगवन् नैव जानामि रेवतीम् ॥ ५२ ॥
ऋषिरुवाच
प्रियेति साम्प्रतं राजंस्त्वयोक्ता या महामते ।
सा विस्मृता क्षणादेव या ते श्लाध्यतमा प्रिया ॥ ५३ ॥
राजोवाच
त्वयोक्तं यन्मृषा तनो तथैवामन्त्रिता मया ।
मुने दुष्टो न मे भावः कोपं मा कर्तुमर्हसि ॥ ५४ ॥
ऋषिरुवाच
राजन्‍नुक्तं त्वया सत्यं न भावो दूषितस्तव ।
वह्निना प्रेरितेनेत्थं भवता व्याहृतं वचः ॥ ५५ ॥
अद्य पृष्टो मया वह्निः कोऽस्या भर्ता भविष्यति ।
तेनोक्तं दुर्दमो राजा भवितास्याः पतिर्धुवम् ॥ ५६ ॥
तदादत्स्व मया दत्तामिमां कन्यां महीपते ।
प्रियेत्यामन्त्रिता पूर्वं मा विचारं कुरुष्व भोः ॥ ५७ ॥
श्रुत्वैतत्सोऽभवत्तूष्णीं चिन्तयन् मुनिभाषितम् ।
वैवाहिकं विधिं तस्य मुनिः कर्तुं समुद्यतः ॥ ५८ ॥
अथोद्यतं विवाहाय दृष्ट्‌वा कन्याब्रवीन्मुनिम् ।
रेवत्यृक्षे विवाहो मे तात कर्तुं त्वमर्हसि ॥ ५९ ॥
ऋषिरुवाच
वत्से विवाहयोग्यानि सन्त्यन्यर्क्षाणि भूरिशः ।
रेवत्यां कथमुद्वाहः पौष्णभं न दिवि स्थितम् ॥ ६० ॥
कन्योवाच
रेवत्यृक्षं विना कालो ममोद्वाहोचितो न हि ।
अतः संप्रार्थयाम्येतद्विवाहं पौष्णभे कुरु ॥ ६१ ॥
ऋषिरुवाच
ऋतवाङ्मुनिना पूर्वं रेवतीभं निपातितम् ।
भान्तरे चेन्‍न ते प्रीतिर्विवाहः स्यात् कथं तव ॥ ६२ ॥
कन्योवाच
तपः किं तप्तवानेक ऋतवागेव केवलम् ।
भवता किं तपो नेदृक् तप्तं वाल्कायमानसैः ॥ ६३ ॥
जगत्स्रष्टुं समर्थस्त्वं वेद्म्यहं ते तपोबलम् ।
रेवत्यृक्षं दिवि स्थाप्य ममोद्वाहं पितः कुरु ॥ ६४ ॥
ऋषिरुवाच
एवं भवतु भद्रं ते यथैव त्वं ब्रवीषि माम् ।
त्वत्कृते सोममार्गेऽहं स्थापयाम्यद्य पौष्णभम् ॥ ६५ ॥
स्कन्द उवाच
एवमुक्त्वा मुनिस्तूर्णं पौष्णभं स्वतपोबलात् ।
यथापूर्वं तथा चक्रे सोममार्गे घटोद्भव ॥ ६६ ॥
रेवतीनाम्नि नक्षत्रे विवाहविधिना मुनिः ।
रेवतीं प्रददौ राज्ञे दुर्दमाय महात्मने ॥ ६७ ॥
कृत्वा विवाहं कन्याया मुनी राजानमब्रवीत् ।
किं ऽभिलषितं वीर वद तत्पूरयाम्यहम् ॥ ६८ ॥
राजोवाच
मनोः स्वायम्भुवस्याहं वंशे जातोऽस्मि हे मुने ।
मन्वन्तराधिपं पुत्रं त्वत्प्रसादाच्च कामये ॥ ६९ ॥
मुनिरुवाच
यद्येषा कामना तेऽस्ति देव्या आराधनं कुरु ।
भविष्यत्येव ते पुत्रो मनुर्मन्वन्तराधिपः ॥ ७० ॥
देवीभागवतं नाम पुराणं यत्तु पञ्चमम् ।
पञ्चकृत्वस्तु तच्छ्रुत्वा लप्स्यसेऽभिमतं सुतम् ॥ ७१ ॥
रेवत्यां रैवतो नाम पञ्चमो भविता मनुः ।
वेदविच्छास्त्रतत्त्वज्ञो धर्मवानपराजितः ॥ ७२ ॥
इत्युक्तो मुनिना राजा प्रणम्य मुदितो मुनिम् ।
भार्यया सह मेधावी जगाम नगरं निजम् ॥ ७३ ॥
पितृपैतामहं राज्यं चकार स महामतिः ।
पालयामास धर्मात्मा प्रजाः पुत्रानिवौरसान् ॥ ७४ ॥
एकदा लोमशो नाम महात्मा मुनिरागतः ।
प्रणिपत्य तमभ्यर्च्य प्राञ्जलिश्चाब्रवीन्‍नृपः ॥ ७५ ॥
राजोवाच
भगवंस्त्वत्प्रसादेन श्रोतुमिच्छामि भो मुने ।
देवीभागवतं नाम पुराणं पुत्रलिप्सया ॥ ७६ ॥
श्रुत्वा वाचं प्रजाभर्तुः प्रीतः प्रोवाच लोमशः ।
धन्योऽसि राजंस्ते भक्तिर्जाता त्रैलोक्यमातरि ॥ ७७ ॥
सुरासुरनराराध्या या परा जगदम्बिका ।
तस्यां चेद्भक्तिरुत्पन्‍ना कार्यसिद्धिर्भविष्यति ॥ ७८ ॥
अतस्त्वां श्रावयिष्यामि श्रीमद्‌भागवतं नृप ।
यस्य श्रवणमात्रेण न किञ्चिदपि दुर्लभम् ॥ ७९ ॥
इत्युक्त्या सुदिने ब्रह्मन् कथारम्भमथाकरोत् ।
पञ्चकृत्वः स शुश्राव विधिवद्‌भार्यया सह ॥ ८० ॥
समाप्तिदिवसे राजा पुराणञ्च मुनिं तथा ।
पूजयामास धर्मात्मा मुदा परमया युतः ॥ ८१ ॥
हुत्वा नवार्णमन्त्रेण भोजयित्वा कुमारिकाः ।
वाडवांश्च सपत्‍नीकान्दक्षिणाभिरतोषयत् ॥ ८२ ॥
अथ कालेन कियता भगवत्याः प्रसादतः ।
गर्भं दधार सा राज्ञी लोककल्याणकारकम् ॥ ८३
पुण्येऽथ समये प्राप्ते ग्रहैः सुस्थानसङ्‌गतैः ।
सर्वमङ्‌गलसम्पन्‍ने रेवती सुषुवे सुतम् ॥ ८४
श्रुत्वा पुत्रस्य जननं स्नात्वा राजा मुदान्वितः ।
स सुवर्णाम्भसा चक्रे जातकर्मादिकाः क्रियाः ॥ ८५
यथाविधि च दानानि दत्त्वा विप्रानतोषयत् ।
कृतोपनयनं राजा साङ्‌गान्वेदानपाठयत् ॥ ८६ ॥
सर्वविद्यानिधिर्जातो धर्मिष्ठोऽस्त्रविदां वरः ।
धर्मस्य वक्ता कर्ता च रैवतो नाम वीर्यवान् ॥ ८७ ॥
नियुक्तवानथ ब्रह्मा रैवतं मानवे पदे ।
मन्वन्तराधिपः श्रीमान् गां शशास स धर्मतः ॥ ८८ ॥
इत्थं देव्याः प्रभावोऽयं संक्षेपेणोपवर्णितः ।
पुराणस्य च माहात्म्यं को वक्तुं विस्तरात्क्षमः ॥ ८९ ॥
सूत उवाच
कुम्भयोनिस्तु माहात्म्यं विधिं भागवतस्य च ।
श्रुत्वा कुमारं चाभ्यर्च्य स्वाश्रमं पुनराययौ ॥ ९० ॥
इदं मया भागवतस्य विप्रा
    माहाम्यमुक्तं भवतां समक्षम् ।
शृणोति भक्त्या पठतीह भोगान्
    भुक्त्याखिलान्मुक्तिमुपैति चान्ते ॥ ९१ ॥
इति श्रीस्कन्दपुराणे मानसखण्डे श्रीमद्देवीभागवतमाहात्म्ये
रैवतनामकमनुपुत्रोत्पत्तिवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥


GO TOP