ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - त्रिचत्वारिंशोऽध्यायः

गणेशदन्तभङ्‌गकारणवर्णनम् -


नारायण उवाच
गणेशवचनं श्रुत्वा स तदा वेगतः सुधीः ।
पर्शुहस्तः स वै रामो निर्भयो गन्तुमुद्यतः ॥ १॥
गणेश्वरस्तदा दृष्ट्‍वा शीघ्रमुत्थाय यत्‍नतः ।
वारयामास संप्रीत्या चकार विनयं पुनः ॥२॥
रामस्तं प्रेरयामास हुं कृत्वा तु पुनः पुनः ।
बभूव च ततस्तत्र वाःग्युद्धं हस्तकर्षजैः ॥३॥
पर्शुनिःक्षेपणं कर्तुं मनश्चक्रे भृगुस्तदा ।
हाहा कृत्वा कार्तिकेयो बोधयामास संसदि ॥४॥
अव्यर्थमस्त्रं हे भ्रातर्गुरुपुत्रे कथं क्षिपेः ।
गुरुवद्‌गुरुपुत्रं च मा भवान्हन्तुमर्हति ॥५॥
पर्शुं क्षिपन्तं कुपितं रक्तपद्मदलेक्षणम् ।
गणेशो रोधयामास निवर्तस्वेत्युवाच तम् ॥६॥
पुनर्गणेशं रामश्च प्रेरयामास कोपतः ।
पपात पुरतो वेगान्मानहीनो गजाननः ॥७॥
गजाननः समुत्थाय धर्मं कृत्वा तु साक्षिणम् ।
पुनस्तं बोधयामास जितक्रोधः शिवात्मजः ॥८॥
निवर्तस्व निवर्तस्वेत्युच्चार्य च पुनः पुनः ।
प्रवेशने ते का शक्तिरीश्वराज्ञां विना प्रभो ॥९॥
मम भ्राता त्वमतिथिविद्यासंबन्धतो ध्रुवम् ।
ईश्वरप्रियशिष्यश्च सोढं वै तेन हेतुना ॥ १०॥
नह्यहं कार्तवीर्यश्च भूपास्ते क्षुद्रजन्तवः ।
अतो विप्र न जानासि मां च विश्वेश्वरात्मजम् ॥११॥
क्षणं तिष्ठ निवर्तस्व समये ब्राह्मणातिथे ।
क्षणान्तरे त्वया सार्धं यास्यामीश्वरसंनिधिम् ॥१२॥
नारायण उवाच
हेरम्बवचनं श्रुत्वा प्रजहास पुनः पुनः ।
पर्शु क्षेप्तुं मनश्चक्रे प्रणम्य हरिशंकरौ ॥ १३॥
पर्शुं क्षिपन्तं कोपेन तं च रामं गजाननः ।
दृष्टत्वा मुमूर्षुं देवेशो धर्मं कृत्वा तु साक्षिणम् ॥ १४॥
योगेन वर्धयामास शुण्डा तां कोटियोजनाम् ।
योगीन्द्रस्तत्र संतिष्ठन् भ्रामयित्वा पुनः पुनः ॥१५॥
शतधा वेष्टयित्वा तु भ्रामयित्वा तु तत्र वै ।
ऊर्ध्वमुत्तोल्य वेगेन क्षुद्राहिं गरुडो यथा ॥१६॥
सप्तद्वीपांश्च शैलांश्च मेरुं चाखिलसागरान् ।
क्षणेन दर्शयामास रामं योगपराहतम् ॥१७॥
हस्तपादाद्यनाथं तं जडं सर्वाङ्‌गकम्पितम् ।
पुनस्तं भ्रामयामास दर्पितं दर्पनाशनः ॥१८॥
भूर्लोकं च भुवर्लोकं स्वर्लोकं च सुरेश्वरः ।
जनोलोकं तपोलोकं दर्शयामास लीलया ॥१९॥
पुनस्तत्र भ्रामयित्वा ब्रह्माण्डादूर्ध्वमुत्तमम् ।
सत्यलोकं ब्रह्मलोकं ध्रुवलोकं च तत्परम् ॥२०॥
गौरीलोकं शंभुलोकं दर्शयामास नारद ।
दर्शयित्वा तु विध्यण्डं स पपौ सप्तसागरान् ॥२१॥
पुनरुद्‌गिरणं चक्रे सनक्रमकरोदकम् ।
तत्र तं पातयामास गम्भीरे सागरोदके ॥२२॥
मुमूर्षु तं संतरन्तं पुनर्जग्राह लीलया ।
पुनस्तत्र भ्रामयित्वा ब्रह्माण्डादूर्ध्वमप्यमुम् ॥२३॥
वैकुण्ठं दर्शयामास सलक्ष्मीकं जनार्दनम् ॥२४॥
क्षणं तत्र भ्रामयित्वा योगीन्द्रो योगमायया ।
पुनः करं च योगेन वर्धयामास लीलया ॥२५॥
गोलोकं दर्शयामास विरजां च नदीश्वरीम् ।
वृन्दावनं शृङ्‌गशतं शैलेन्द्रं रासमण्डलम् ॥२६॥
गोपीगोपादिभिः सार्धं श्रीकृष्णं श्यामसुन्दरम् ।
द्विभुजं मुरलीहस्तं सस्मितं सुमनोहरम् ॥२७॥
रत्‍नसिंहासनस्थं च रत्‍नभूषणभूषितम् ।
तेजसा कोटिसूर्याभं राधावक्षःस्थलस्थितम् ॥२८॥
एवं कृष्णं दर्शयित्वा प्रणमय्य पुनः पुनः ।
क्षणेन लम्बमानं च भ्रामयित्वा पुनः पुनः ॥२९॥
दृष्ट्‍वा कृष्णं स्वेष्टदेवं सर्वपापप्रणाशनम् ।
भ्रूणहत्यादिकं पापं भृगोर्दूरं चकार हु ॥३०॥
न भवेद्यातना नष्टा विना भोगेन पापजा ।
स्वल्पां च बुभुजे रामो गताऽन्या कृष्णदर्शनात् ॥३१ ॥
क्षणेन चेतनां प्राप्य भुवि वेगात्पपात ह ।
बभूव दूरीभूतं च गणेशस्तम्भनं भृगोः ॥३२॥
सस्मार कवचं स्तोत्रं गुरुदत्तं सुदुर्लभम् ।
अभीष्टदेवं श्रीकृष्णं गुरुं शंभुं जगद्‌गुरुम् ॥३३॥
चिक्षेप पर्शमव्यर्थं शिवतुल्यं च तेजसा ।
ग्रीष्ममध्याह्नमार्तण्डप्रभाशतगुणं मुने ॥३४॥
पितुरव्यर्थमस्त्रं च दृष्ट्‍वा गणपतिः स्वयम् ।
जग्राह वामदन्तेन नास्त्रं व्यर्थं चकार ह ॥३५॥
निपात्य पर्शुर्वेगेन च्छित्वा दन्तं समूलकम् ।
जगाम रामहस्तं च महादेवबलेन च ॥३६॥
हाहेति शब्दमाकाशे देवाश्चक्रुर्महाभिया ।
वीरभद्रः कार्तिकेयः क्षेत्रपालाश्च पार्षदाः ॥३७॥
पपात भूमौ दन्तश्च सरक्तः शब्दयंस्तदा ।
पपात गैरिकायुक्तो यथा स्फटिकपर्वतः ॥३८॥
शब्देन महता विप्र चकम्पे पृथिवी भिया ।
कैलासस्था जनाः सर्वे मूर्च्छामापुः क्षणं भिया ॥३९॥
निद्रा बभञ्ज तत्काले निद्रेशस्य जगत्प्रभोः ।
आजगाम बहिः शंभुः पार्वत्या सह संभमात् ॥४०॥
पुरो ददर्श हेरम्बं लोहितास्यं क्षतेन तम् ।
भग्नदन्तं जितक्रोधं सस्मितं लज्जितं मुने ॥४१ ॥
पप्रच्छ पार्वती शीघ्रं स्कन्दं किमिति पुत्रक ।
स च तां कथयामास वार्तां पौर्वापरीं भिया ॥४२॥
चुकोप दुर्गा कृपया रुरोद च मुहुर्मुहुः ।
उवाच शंभोः पुरतः पुत्रं कृत्वा स्ववक्षसि ॥४३॥
संबोध्य शंभुं शोकेन भिया विनयपूर्वकम् ।
उवाच प्रणता साध्वी प्रणतार्तिहरं पतिम् ॥४४॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे गणेशदन्तभङ्‌गकारणवर्णनं
नाम त्रिचत्वारिंशोऽध्यायः ॥४३॥


GO TOP