ब्रह्मवैवर्तपुराणम्
तृतीयं गणपतिखण्डम् - चतुश्चत्वारिंशोऽध्यायः
गणेशस्तोत्रकथनम् -
पार्वत्युवाच
सर्वे जानन्ति जगति दुर्गां शंकरकिंकरीम् ।
अपेक्षारहिता दासी तस्या वै जीवनं वृथा ॥१ ॥
ईश्वरस्य समाः सर्वास्तृणपर्वतजातयः ।
दासीपुत्रस्य शिष्यस्य दोषः कस्येति च प्रभो ॥२॥
विचारं कर्तुमुचितं ट त्वं च धर्मविदां वरः ।
वीरभद्रः कार्तिकेयः पार्षदाः सन्ति साक्षिणः ॥३॥
साक्ष्ये मिथ्यां को वदेद्वा द्वावेषा भ्रातरौ समौ ।
साक्ष्ये समे शत्रुमित्रे सतां धर्मनिरूपणे ॥४॥
साक्षी सभायां यत्साक्ष्यं जानन्नप्यन्यथा वदेत् ।
कामतः क्रोधतो वाऽपि लोभेन च भयेन च ॥५॥
स याति कुम्भीपाकं च निपात्य शतपूरुषम् ।
तैश्च साधं वसेत्तत्र यावच्चन्द्रदिवाकरौ ॥६॥
अहं विबोधितुं शक्ता निर्णेत्री च द्वयोरपि ।
तथाऽपि तव साक्षात्तु ममाऽज्ञा निन्दिता श्रुतौ ॥७॥
किंकराणां प्रभा कुत्र नृपे वसति संसदि ।
उदिते भास्करे पृथ्व्यां खद्योतो हि यथा प्रभो ॥८॥
सुचिरं तपसा प्राप्तं त्वदीयं चरणाम्बुजम् ।
परित्यागभयेनैव संततं भीतया मया ॥९॥
यत्किंचित्कोपशोकाभ्यामुस्तं मोहेन तत्परम् ।
तत्क्षमस्व जगन्नाथ पुत्रस्नेहाच्च दारुणात् ॥१०॥
त्वया यदि परित्यक्ता तदा पुत्रेण तेन किम् ।
साध्व्या सद्वंशजायाश्च शतपुत्राधिकः पतिः ॥ ११ ॥
असद्वशप्रसूता या दुःशीला ज्ञानवर्जिता ।
स्वामिनं मन्यते नासौ पित्रोर्दोषेण कुत्सिता ॥ १२॥
कुत्सितं पतितं मूढं दरिद्रं रोगिणं जडम् ।
कुलजा विष्णुतुल्यं च कान्तं पश्यति संततम् ॥ १३ ॥
हुताशनो वा सूर्यो वा सर्वतेजस्विनां वरः ।
पतिव्रतातेजसश्च कलां नार्हति षोडशीम् ॥ १४॥
महादानानि पुण्यानि व्रतान्यनशनानि च ।
तपांसि पतिसेवायाः कलां नार्हन्ति षोडशीम् ॥ १५ ॥
पुत्रो वाऽपि पिता वाऽपि बान्धवोऽथ सहोदरः ।
योषितां कुलजातानां न कश्चित्स्वामिनः समः ॥ १६॥
इत्युक्त्वा स्वामिनं दुर्गा ददर्श पुरतो भृगुम् ।
शंभोः पदाब्जं सेवन्ते निर्भयं तमुवाच ह ॥ १७॥
पार्वत्युवाच
अये राम महाभाग ब्रह्मवंश्योऽसि पण्डितः ।
पुत्रोऽसि जमदग्नेश्च शिष्योऽस्य योगिनां गुरोः ॥ १८॥
माताते रेणुका साध्वी पद्मांशा सत्कुलोद्भवा ।
मातामहो वैष्णवश्च मातुलश्च ततोऽधिकः ॥ १९॥
त्वं च रेणुकभूपस्य मनुवंशोद्भवस्य च ।
दौहित्रो मातुलः साधुः शूरो विष्णुपदाश्रयः ॥२०॥
कस्य दोषेण दुर्धर्षस्त्वं न जानेऽप्यशुद्धधीः ।
येषां दोषैर्जनो दुष्टस्तमृते शुद्धमानसः ॥२१॥
अमोघं प्राप्य पर्शुं च गुरोश्च करुणानिधेः ।
परीक्षां क्षत्रिये कृत्वा बभूवास्य सुते पुनः ॥२२॥
गुरवे दक्षिणादानमुचितं च श्रुतौ श्रुतम् ।
भग्नो दन्तस्तत्सुतस्य च्छिन्धि मस्तकमप्यहो ॥२३॥
गणेश्वरं रणे जित्वा स्थितश्चेदावयोः पुरः ।
स त्वं त्सध्वाऽऽशिषो लोके पूजितोऽभूर्जगत्त्रये ॥२४॥
पर्शुनाऽमोघवीर्येण शंकरस्य वरेण च ।
हन्तुं शक्तः सृगालश्च सिंहं शार्दूलमाखुभुक् ॥२५॥
त्वद्विधं लक्षकोटिं च हन्तुं शक्तो गणेश्वरः ।
जितेन्द्रियाणां प्रवरो नहि हन्ति च मक्षिकाम् ॥२६॥
तेजसा कृष्णतुल्योऽयं कृष्णांशश्च गणेश्वरः ।
देवाश्चान्ये कृष्णकलाः पूजाऽस्य प्रुरतस्ततः ॥२७॥
व्रतप्रभावतः प्राप्तः शंकरस्य वरेण च ।
शोकेनातिकठोरेण नहि संपद्विनाऽऽपदम् ॥२८॥
इत्युक्त्वा पार्वती रोषात्तं रामं शप्तुमुद्यता ।
रामः सस्मार तं कृष्णं प्रणम्य मनसा गुरुम् ॥२९॥
एतस्मिन्नन्तरे दुर्गा ददर्श पुरतो द्विजम् ।
अतीव वामनं बालं सूर्यकोटिसमप्रभम् ॥३०॥
शुक्लदन्तं शुक्लवस्त्रं शुक्लयज्ञोपवीतिनम् ।
दण्डिनं छत्रिण चैव सुप्रभं तिलकोज्ज्वलम् ॥३१॥
दधतं तुलसीमालां सम्मितं सुमनोहरम् ।
रत्नकेयूरवलयं रत्नमालाविभूषितम् ॥३२॥
रत्ननूपुरपादं च सद्रत्नमुकुटोज्ज्वलम् ।
रत्नकुण्डलयुग्माढ्यगण्डस्थलविराजितम् ॥३३॥
स्थिरमुद्रां दर्शयन्तं भक्तं वामकरणे च ।
दक्षिणेऽभयमुद्रां च भक्तेशं भक्तवत्सलम् ॥३४॥
बालिकाबालकगणैर्नगरैः सस्मितैर्युतम् ।
कैलासवासिभिः सर्वैरावृद्धैरीक्षितं मुदा ॥३५॥
तं दृष्ट्वा सभ्रमाच्छभुः सभृत्यः सहपुत्रकः ।
मूर्ध्ना भक्त्या प्राणमच्च दुर्गा च दण्डवद्भुवि ॥३६॥
आशिषं प्रददौ बालः सर्वेभ्यो वाञ्छितप्रदाम् ।
तं दृष्ट्वा बालकाः सर्वे महाश्चर्यं ययुर्भिया ॥३७॥
दत्त्वा तस्मै शिवो भक्त्या तूपचारांस्तु षोडश ।
पूजां चकार श्रुत्युक्तां परिपूर्णाष्टस्य च ॥३८॥
तुष्टाव काण्वशाखोक्तस्तोत्रेण नतकंधरः ।
पुलकाडित्कतसर्वाङ्गो भगवन्तं सनातनम् ॥३९॥
रत्नसिंहासनस्थं च प्रावोचच्छंकरः स्वयम् ।
अतीव तेजसाऽत्यन्तं प्रच्छन्नावृत्तिमेव च ॥४०॥
शंकर उवाच
आत्मारामेषु कुशलप्रश्नोऽतीव विडम्बनम् ।
ते शश्वत्कुशलाधाराः कुशलाः कुशलप्रदाः ॥४१॥
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ।
प्राप्तस्त्वमतिथिर्ब्रह्मन्कृष्णणवाफलोदयात् ॥४२॥
परिपूर्णतमः कृष्णो लोकनिस्तारहेतवे ।
पुण्यक्षेत्रे हि कलया भारते च कृपानिधिः ॥४३॥
अतिथिः पूजितो येन पूजिताः सर्वदेवताः ।
अतिथिर्यस्य संतुष्टस्तस्य तुष्टो हरः स्वयम् ॥४४॥
स्नानेन सर्वतीर्थेषु सर्वदानेन यत्फलम् ।
सर्वव्रतोपवासेन सर्वयज्ञेषु दीक्षया ॥४५॥
सर्वैस्तपोभिर्विविधैर्नित्यैर्नैंमित्तिकादिभिः ।
तदेवातिथिसेवायाः कलां नार्हति षोडशीम् ॥४६॥
अतिथिर्यस्य भग्नाशो याति रुष्टश्च मन्दिरात् ।
कोटिजन्मार्दितं पुण्यं तस्यनश्यति निश्चितम् ॥४७॥
स्त्रीगोघ्नश्च कृतघ्नश्च ब्रह्मघ्नो गुरुतल्पगः ।
पितृमातृगुरूणां च निन्दको नरघातकः ॥४८॥
संध्याहीनो स्वघाती च सत्यघ्नो हरिनिन्दकः ।
ब्रह्मस्वस्थाप्यहारी च मिथ्यासाक्ष्यप्रदायकः ॥४९॥
मित्रद्रोही कृतघ्नश्च वृषवाहश्च सूपकृत् ।
शवदाही ग्रामयाजी ब्राह्मणो वृषलीपतिः ॥५०॥
शूद्रश्राद्धान्नभोजी च शूद्रश्राद्धेषु भोजकः ।
कन्याविक्रयकारी च श्रीहरेर्नामविक्रयी ॥५१॥
लाक्षामांसतिलानां च लवणस्य तिलस्य च ।
विक्रेता ब्राह्मणश्चैव तुरगाणां गवां तथा ॥५२॥
एकादशीकृष्णसेवाहीनो विप्रश्च भारते ।
एते महापातकिनस्त्रिषु लोकेषु निन्दिताः ॥५३॥
कालसूत्रे व नरके पतन्ति ब्रह्मणां शातम् ।
एतेभ्योऽप्यधमः सोऽपि यश्चातिथिपराडःमुस्वः ॥५४॥
नारायण उवाच
शंकरस्य वचः श्रुत्वा संतुष्टः श्रीहरिः स्वयम् ।
मेघगम्भीरया वाचा तमुवाच जगत्पतिः ॥५५ ॥
विष्णुरुवाच
श्वेतद्वीपादागतोऽहं ज्ञात्वा कोलाहलं च वः ।
अस्य रामस्य रक्षार्थं कृष्णभक्तस्य सांप्रतम् ॥५६॥
नैतेषां कृष्णभक्तानामशुभं विद्यते क्वचित् ।
रक्षामि ताश्चक्रहस्तो गुरुमन्यं विना शिव ॥५७॥
नाहं पाता गुरौ रुष्टे बलवद्गुरुहेलनम् ।
तत्परः पातकी नास्ति सेवाहीनो गुरोश्च यः ॥५८॥
मान्यः पूज्यश्च सर्वेभ्यः सर्वेषां जनको भवेत् ।
अहो यस्य प्रसादेन सर्वान्पश्यति मानवः ॥५९ ॥
जनको जन्मदानाच्च रक्षणाच्च पिता नृणाम् ।
ततो विस्तारकरणात्कलया स प्रजापतिः ॥६०॥
पितुः शतगुणं माता पोषणाद्गर्भधारणात् ।
वन्या पूज्या च मान्या च- प्रसूः स्याद्वै वसुंधरा ॥६१ ॥
मातुः शतगुण वन्द्यः पूज्यो मान्योऽन्नदायकः ।
यद्विना नश्वरो देहो विष्णुश्च कलयाऽन्नदः ॥६२॥
अन्नदातुः शतगुणोऽभीष्टदेवः परः स्मृतः ।
गुरुस्तस्माच्छतगुणो विद्यामन्त्रप्रदायकः ॥६३॥
अज्ञानतिमिराच्छन्नं ज्ञानदीपेन चक्षुषा ।
यः सर्वार्थं दर्शयति तत्परो नैव बान्धवः ॥।६४॥
गुरुदत्तेन मन्त्रेण तपसेष्टसुखं लभेत् ।
सर्वज्ञत्वं सर्वसिद्धिं तत्परो नैव बान्धवः ॥६५॥
सर्वं जयति सर्वत्र विद्यया गुरुदत्तया ।
तस्मगपूज्यो हि जगति को वा बन्धुस्ततोऽधिकः ॥६६॥
विद्यान्धो वा धनान्धो वा यो मूढो न भजेद्गुरुम् ।
ब्रह्महत्यादिभिः पापैः स लिप्तो नात्र संशयः ॥६७॥
दरिद्रं पतितं क्षुद्रं नरबुद्ध्याऽऽचरेद्गुरुम् ।
तीर्थस्नातोऽपि न शुचिर्नाधिकारी च कर्मसु ॥६८॥
पितरं मातरं भार्यां गुरुपत्नीं गुरुं परम् ।
यो न पुष्णाति कापट्यात्स महापातकी शिव ॥।६९॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुरेव परं ब्रह्म गुरुर्भास्कररूपकः ॥७०॥
गुरुन्द्रस्तथेन्द्रश्च वायुश्च वरुणोऽनलः ।
सर्वरूपो हि भगवान्परमात्मा स्वयं गुरुः ॥७१॥
नास्ति वेदात्परं शास्त्रं नहि कृष्णात्परः सुरः ।
नास्ति गङ्गासमं तीर्थं न पुष्पं तुलसीदलात् ॥७२॥
नास्ति क्षमावती भूमेः पूत्रान्नास्त्यपरः प्रियः ।
न च दैवात्परा शक्तिनैकादश्याः परं सतम् ॥७३॥
शालग्रामात्परो यन्त्रो न क्षेत्रं भारतात्परम् ।
परं पुण्यस्थलानां च पुण्यं वृन्दावनं यथा ॥७४॥
मोक्षदानां यथा काशी वैष्णवानां यथा शिवः ।
न पार्वत्याः परा साध्वी न गणेशात्परो वशी ॥७५॥
न च विद्यासमो बन्धुर्नास्ति कश्चिद्गुरोः परः ।
विद्यादातुः पुत्रदारौ तत्समौ नात्र संशयः ॥७६॥
गुरुस्त्रियां च पुत्रे चाप्यभवद्रामहेलनम् ।
परं संमार्जनं कर्तुमागतोऽहं तवाऽऽलयम् ॥७७॥
नारायण उवाच
इत्येवमुक्त्वा शंभुं च दुर्गां संबोध्य नारद ।
उवाच भगवांस्तत्र सत्यसारं परं वचः ॥७८॥
विष्णुरुवाच
शृणु देवि प्रवक्ष्यामि मदीयं वचनं शुभम् ।
नीतियुक्तं वेदसारं परिणामसुखावहम् ॥७९॥
यथा ते गजवक्त्रश्च कार्तिकेयश्च पार्वति ।
तथा परशुरामश्च भार्गवो नात्र संशयः ॥८०॥
नान्त्येषु स्नेहभेदश्च तव वा शंकरस्य च ।
विचार्य सर्वं सर्वज्ञे कुरु मातर्यथोबितम् ॥८१॥
पुत्रेण सार्धं पुत्रस्य विवादो दैवदोषतः ।
दैवं हन्तुं को हि शक्तो दैवं च बलवत्तरम् ॥८२॥
पुत्राभिधानं वेदेषु पश्य वत्से वरानने ।
एकदन्त इति ख्यातं सर्वदेवनमस्कृतम् ॥८३॥
पुत्रनामाष्टकं स्तोत्रं सामवेदोक्तमीश्वरि ।
शृणुष्वावहितं मातः सर्वविघ्नहरं परम् ॥८४॥
विष्णुरुवाच
गणेशमेकदन्तं च हेरम्बं विघ्ननायकम् ।
लम्बोदरं शूर्पकर्णं गजवक्त्रं गुहाग्रजम् ॥८५॥
अष्टाख्यार्थं च पुत्रस्य शृणु मातहरप्रिये ।
स्तोत्राणां सारभूतं च सर्वविघ्नहरं परम् ॥८६॥
ज्ञानार्थवाच ????????? निर्वाणवाचकः ।
तयोरीशं परं ब्रह्म गणेशं प्रणमाम्यहम् ॥८७॥
एकशब्दः प्रधानार्थो दन्तश्च बलवाचकः ।
बलं प्रधानं सर्वस्मादेकदन्तं नमाम्यहम् ॥८८॥
दीनार्थवाचको हेश्च रम्बः पालकवाचकः ।
पालकं दीनलोकानां हेरम्बं प्ररा० ॥८९ ॥
विपत्तिवाचको विघ्नो नायकः खण्डनार्थकः ।
विपत्खण्डनकारं तं प्रणमे विघ्ननयध्वम् ॥९० ॥
विष्णुदत्तैश्च नैवेद्यैर्यस्य लम्बं पुरोदरम् ।
पित्रा वत्तैश्च विविधैर्वत्वे लम्बोदरं च तम् ॥९१ ॥
शूर्पाकारौ च यत्कर्णौ विघ्नवारणकारकौ ।
संपदौ ज्ञानरूपौ च शूर्पकर्णं नमाम्यहम् ॥९२॥
विष्णुप्रसादं मुनिना दत्तं यन्मूर्ध्नि पुष्पकम् ।
तद्गजेन्द्रमुखं कान्तं गजववत्रं नमाम्यहम् ॥९३ ॥
गुहस्याग्रे च जातोऽयमाविर्भूतो हरालये ।
वन्दे गुहाग्रजं देवं सर्वदेवाग्रपूऽजितम् ॥९४॥
एतन्नागाष्टक्। दुर्गे नानाशक्तियुतं परम् ।
एतन्नामाष्टकं स्तोत्रं नानार्थसहितं शुभम् ॥९५ ॥
त्रिसध्यं यः पठेन्नित्यं स सुखी सर्वतो जयी ।
ततो विघ्नाः पलायन्ते वैगतेयाद्यथोरगाः ॥९६॥
गणेशरप्रसादेन महाज्ञानी भवेद्ध्रुवम् ।
पुत्रार्थो लभते पुत्रं भार्यार्थी कुशलां स्त्रियम् ॥९७॥
महाराडः कवीन्द्रश्च विद्यावांश्च भवेद्धुवम् ।
पुत्र त्वं पश्य वेदे च तथा कोपं च नो कुरु ॥९८॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे गणेशस्तोत्रकथनं नाम
चतुश्चत्वारिंशोऽध्यायः ॥४४॥
GO TOP
|