ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - अष्टाविंशोऽध्यायः

भृगोर्ब्रह्मलोकगमने ब्रह्मोक्तोपायवर्णनम् -


रेणुकोवाच
ब्रह्मन्ननुगमिष्यामि प्राणनाथस्य सांप्रतम् ।
ऋतोश्चतुर्थदिवसे मृतोऽयं चाद्य मानदः ॥ १ ॥
कर्तव्या का व्यवस्थाऽत्र वद वेदविदां वर ।
त्वमागतो मे सहसा पुण्येन कतिजन्मनाम् ॥ २ ॥
भृगुरुवाच
अहो पुण्यवतो भर्तुरनुगच्छ महासति ।
चतुर्थदिवसं शुद्धं स्वामिनः सर्वकर्मसु ॥ ३ ॥
शुद्धा भर्तुश्चतुर्थेऽह्नि न शुद्धा दैवपित्र्ययोः ।
दैवे कर्मणि पित्र्ये च पञ्चमेऽह्नि विशुध्यति ॥ ४ ॥
व्यालग्राही यथा व्यालं बिलादुद्धरते बलात् ।
तद्वत्स्वामिनमादाय साध्वी स्वर्गं प्रयाति च ॥ ५ ॥
मोदते स्वामिना सार्धं यावदिन्द्राश्चतुर्दश ।
अत ऊर्ध्वं कर्मभोगं भुङ्‌क्ष्व साध्वि शुभाशुभम् ॥ ६ ॥
स पुत्रो भक्तिदाता यः सा च स्त्री याऽनुगच्छति ।
स बन्धुर्दानदाता यः स शिष्यो गुरुमर्चयेत् ॥ ७ ॥
सोऽभीष्टदेवो यो रक्षेत्स राजा पालयेत्प्रजाः ।
स च स्वामी प्रियां धर्ममतिं दातुमिहेश्वरः ॥ ८ ॥
स गुरुर्धर्मदाता यो हरिभक्तिप्रदायकः ।
एते प्रशंस्यो वेदेषु पुराणेषु च निश्चितम् ॥ ९ ॥
रेणुकोवाच
गन्तुं स्वस्वामिना सार्धं का शक्ता भारते मुने ।
का वाऽप्यशक्ता नारीषु तन्मे ब्रूहितपोधन ॥ १० ॥
भृगुरुवाच
बालापत्याश्च गर्भिण्यो ह्यदृष्टऋतवस्तथा ।
रजस्वला च कुलटा गलितव्याधिसंयुता ॥ ११ ॥
पतिसेवा विहीना या ह्यभक्ता कटुभाषिणी ।
एता गच्छन्ति चेद्‌दैवान्न कान्तं प्राप्नुवन्तिताः ॥ १२ ॥
संस्कृताग्निं पुरो दत्त्वा चितासु शयितं पतिम् ।
कान्तास्तमनुगच्छन्ति कान्ताश्चेत्प्राप्नुवन्ति ताः ॥ १३ ॥
अनुगच्छन्ति याः कान्तं तमेव प्राप्नुवन्ति ताः ।
सार्धं कृत्वा पुण्यभोगं दिवि जन्मनि जन्मनि ॥ १४ ॥
इयं ते कथिता साध्वि व्यवस्था गृहिणां ध्रुवम् ।
तीर्थे ज्ञानमृतानां च वैष्णवानां गतिं शृणु ॥ १५ ॥
या साध्वी वैष्णवं कान्तं यत्र यत्रानुगच्छति ।
प्रयाति स्वामिना सार्धं वैकुण्ठे हरिसंनिधिम् ॥ १६ ॥
विशेषे नास्ति भक्तानां तीर्थे वाऽन्यत्र नारद ।
मरणेन फलं तुल्यं मुक्तानां कृष्णभाविताम् ॥ १७ ॥
तयोः पातो नास्ति तस्मान्महति प्रलये सति ।
नारायणं तं भजेत पुमांस्त्री कमलालयाम् ॥ १८ ॥
तीर्थे ज्ञानमृतश्चापि वैकुण्ठं याति निश्चितम् ।
सभार्यो मोदते तत्र यावद्वै ब्रह्मणः शतम् ॥ १ ९ ॥
इत्युक्त्वा रेणुकां तत्र जामदग्न्यमुवाच ह ।
वेदोक्तं वचनं सर्वं स भृगुः समयोचितम् ॥ २० ॥
एहि वत्स महाभाग त्यज शोकममङ्‌गलम् ।
उत्तानं कुरु तातं च दक्षिणाशिरसं भृगो ॥ २१ ॥
वस्त्रं यज्ञोपवीतं च नूतनं परिधापय ।
अनश्रुनयनो भूत्वा संतिष्ठन्दक्षिणामुखः ॥ २२ ॥
अरणीसंभवाग्निं च गृहाण प्रीतिपूर्वकम् ।
पृथिव्यां यानि तीर्थानि सर्वेषां स्मरणं कुरु ॥ २३ ॥
गयादीनि च तीर्थानि ये च पुण्याः शिलोच्चयाः ।
कुरुक्षेत्रं च गङ्‌गा च यमुनां च सरिद्वराम् ॥ २४ ॥
कौशिकीं चन्द्रभागां च सर्वपापप्रणाशिनीम् ।
गण्डकीमथ काशीं च पनसां सरयूं तथा ॥ २५ ॥
पुष्पभद्रां च भद्रां च नर्मदां च सरस्वतीम् ।
गोदावरीं च कावेरीं स्वर्णरेखां च पुष्करम् ॥ २६ ॥
रैवतं च वराहं च श्रीशैलं गन्धमादनम् ।
हिमालयं च कैलासं सुमेरुं रत्‍नपर्वतम् ॥ २७ ॥
वाराणसीं प्रयागं च पुण्यं वृन्दावनं वनम् ।
हरिद्वारं च बदरीं स्मारंस्मारं पुनः पुनः ॥ २८ ॥
चन्दनागुरुकस्तूरीसुगन्धिकुसुमं तथा ।
प्रदाय वाससाऽऽच्छाद्य स्थापयैनं चितोपरि ॥ २९ ॥
कर्णाक्षिनासिकास्ये त्वं शलाकां च हिरण्मयीम् ।
कृत्वा निर्मन्थनं तात विप्रेभ्यो देहि सादरम् ॥ ३० ॥
सतिलं ताम्रपात्रं च धेनुं च रजतं तथा ।
सदक्षिणं सुवर्णं च दत्त्वाऽग्निं देह्यकातरः ॥ ३१ ॥
ॐ कृत्वा दुष्कृतं कर्म जानता वाऽप्यजानता ।
मृत्युकालवशं प्राप्य नरं पञ्जत्वमागतम् ॥ ३२ ॥
धर्माधर्मसमायुक्तं लोभमोहसमावृतम् ।
दह सर्वाणि गात्राणि दिव्याल्लोकान्स गच्छतु ॥ ३ ३ ॥
इमं मन्त्रं पठित्वा तु तातं कृत्वा प्रदक्षिणम् ।
मन्त्रेणानेन देह्यग्निं जनकाय हरिं स्मरन् ॥ ३४ ॥
ॐ अस्मत्कुले त्वं जातोऽसि त्वदीयो जायतां पुनः ।
असौ स्वर्गाय लोकाय स्वाहेति वद सांप्रतम् ॥ ३५ ॥
अग्निं देहि शिरःस्थाने हे भृगो भ्रातृभिः सह ।
तच्चकार भृगुः सर्वं सगोत्रैराज्ञया भृगोः ॥ ३६ ॥
अथ पुत्रं रेणुका सा कृत्वा तत्र स्ववक्षसि ।
उवाच किंचिद्वचनं परिणामसुखावहम् ॥ ३७ ॥
अविरोधो भयाब्धौ च सर्वमङ्‌गलमङ्‌गलम् ।
विरोधो नाशबीजं च सर्वोपद्रवकारणम् ॥ ३८ ॥
अकर्तव्यो दिरोधो वै दारुणैः क्षत्रियैः सह ।
प्रतिज्ञा चैषा कर्तव्या मदीयं वचनं शृणु ॥ ३९ ॥
आलोच्य ब्रह्मणा सार्धं भृगुणा दिव्यमन्त्रिणा ।
यथोचितं च कर्तव्यं सद्‌भिरालोचनं शुभम् ॥ ४० ॥
इत्युक्त्वा तं परित्यज्य कान्तं कृत्वा स्ववक्षसि ।
सा सुष्वाप चितायां च पश्यंती तं हरिस्मृतिः ॥ ४१ ॥
वह्निं ददौ विज्ञायां च स रामो भ्रातृभिः सह ।
भ्रातृभिः पितृशिष्यैश्च सार्धं स विललाप च ॥ ४२ ॥
राम रामेति रामेति वाक्यमुच्चार्य सा सती ।
पुरस्ताज्जामदग्न्यस्य भस्मीभूता बभूव सा ॥ ४३ ॥
भर्तुर्नाम रसमाकर्ण्य तत्राऽऽजग्मुर्हरेश्चराः ।
रथस्थाः श्यामवर्णाश्च सर्वे चारुचतुर्भुजाः ॥ ४४ ॥
शंखचक्रगदापद्म धारणो वनमालिनः ।
किरीटिनः कुण्डलिनः पीतकौशेयवाससः ॥ ४५ ॥
रथे कृता रेणुकां तां गत्वा ते ब्रह्मणः पदम् ।
जमदग्निं समादाय प्रजग्मुर्हरिसंनिधिम् ॥ ४६ ॥
तौ दम्पती च वैकुण्ठे तस्थतुर्हरिसंनिधौ ।
कृत्वा दास्यं हरेः शश्वत्सर्वमङ्‌गलमङ्‌गलम् ॥ ४७ ॥
अथ रामो ब्राह्मणैश्च भृगुणा सह नारद ।
पित्रोः शेषक्रियां कृत्वा ब्राह्मणेभ्यो धनं ददौ ॥ ४८ ॥
गोभूहिरण्यवासांसि दिव्यशय्यां मनोरमाम् ।
सुवर्णाधारसहितां जलमन्नं च चन्दनम् ॥ ४९ ॥
रत्‍नदीपं रौप्यशैलं सुवर्णासनमुत्तमम् ।
सुवर्णाधारसहितं ताम्बूलं च सुवासितम् ॥ ५० ॥
छत्रं च पादुके चैव फलं माल्यं मनोहरम् ।
फलं मूलादिकं चैव मिष्टान्नं च मनोहरम् ॥
ब्राह्मणेभ्यो धनं दत्त्वा ब्रह्मलोकं जगाम सः ॥ ५१ ॥
ददर्श ब्रह्मलोकं स शातकुम्भविनिमितम् ।
स्वर्णप्राकारसंयुक्तं स्वर्णस्तम्भैर्विभूषितम् ॥ ५२ ॥
ददर्श तत्र ब्रह्माणं ज्वलन्तं ब्रह्मतेजसा ।
रत्‍नसिंहासनस्थं च रत्‍नभूषणभूषितम् ॥ ५३ ॥
सिद्धेन्तैश्च मुनीन्द्रैश्च ऋषीन्द्रैः परिवेष्टितम् ।
विद्याधरीणां नृत्यं च पश्यन्तं सस्मितं मुदा ॥ ५४ ॥
संगीतमुपशृण्वन्तं गीयमानं च गायकैः ।
चन्दनागुरुकस्तूरीकुकुङ्‍कुमेन विराजितम् ॥ ५५ ॥
तपसां फलदातारं दातारं सर्वसंपदाम् ।
धातारं सर्वजगतां कर्तारं चेश्वरं परम् ॥ ५६ ॥
परिपूर्णतमं ब्रह्म जपन्तं कृष्णमीश्वरम् ।
गुह्ययोगं प्रवोचन्तं पृच्छन्तं शिष्यमण्डलम् ॥ ५७ ॥
दृष्ट्‍वा तमव्ययं भक्त्या प्रणनाम भृगुः पुरः ।
उच्चैश्च रोदनं कृत्वा स्ववृत्तान्तमुवाच ह ॥ ५८ ॥
भृगुरुवाच
ब्रह्मंस्त्वद्वशंजोऽहं जमदग्निसुतो विधे ।
पितामहस्त्वमस्माकं सर्वज्ञं कथयामि किम् ॥ ५९ ॥
मृगयामागतं भूपं पिता मे चोपवासिनम् ।
पारणां कारयामास कपिलादत्तवस्तुभिः ॥ ६० ॥
स राजा कपिलालोभात्कार्तवीर्यार्जुनः स्वयम ।
घातयामास मत्तातमित्युक्त्वोच्चै रुरोद सः ॥ ६१ ॥
निरुध्य बाष्पं स पुनरुवाच करुणानिधिः ।
माता मेऽनुऽगता साध्वी मां विहाय जगद्‌गुरो ॥ ६२ ॥
अधुनाऽहमनाथश्च त्वं मे माता पिता गुरुः ।
कर्ता पालयिता दाता पाहि मां शरणागतम् ॥ ६३ ॥
आगतोऽहं तव सभां प्रमातुर्मातुराज्ञया ।
उपायेन जगन्नाथ मद्वैरिहननं कुरु ॥ ६४ ॥
स राजा स च धर्मिष्ठः स दयालुर्यशस्करः ।
स पूज्यः स स्थिरश्रीश्च यो दीनं परिपालयेत् ॥ ६५ ॥
धनिदीनौ समं दृष्ट्‍वा यः प्रजां न च पालयेत् ।
तद्‌गेहाद्याति रुष्टा श्रीः स भवेद्‌भ्रष्टराज्यकः ॥ ६६ ॥
श्रुत्वा विप्रबटोर्वाक्यं करुणासागरो विधिः ।
दत्त्वा शुभाशिषं तस्मै वासयामास वक्षसि ॥ ६७ ॥
श्रुत्वा भृगोः प्रतिज्ञां च विस्मितश्चतुराननः ।
अतीव दुष्करां घोरां बहुजीवविघातिनीम् ॥ ६८ ॥
कर्मणा तद्‌भवेत्सर्वमिति कृत्वा तु मानसे ।
उवाच जामदग्न्यं तं परिणामसुखावहम् ॥ ६९ ॥
ब्रह्मोवाच
प्रतिज्ञा दुष्करा वत्स बहुजीवविधातिनी ।
सृष्टिरेषा भगवतः संभवेदीश्वरेच्छया ॥ ७० ॥
सृष्टिः सृष्टा मया पुत्र क्लेशेनैवेश्वराज्ञया ।
सृष्टिलुप्तौ प्रतिज्ञा ते दारुणाऽकरुणा परा ॥ ७१ ॥
त्रिःसप्तकृत्वो निर्भूपां कर्तुमिच्छसि मेदिनीम् ।
एकक्षत्रियदोषेण तज्जातिं हन्तुमिच्छसि ॥ ७२ ॥
ब्रह्मक्षत्रियविट्छूद्रैर्नित्या सृष्टिश्चतुर्विधैः ।
आविर्भूता तिरोभूता हरेरेव पुनः पुनः ॥ ७३ ॥
अन्यथा त्वत्प्रतिज्ञा च भविता प्राक्तनेन ते ।
बह्वायासेन ते कार्यसिद्धिर्भवितुमर्हति ॥ ७४ ॥
शिवलोकं गच्छ वत्स शंकरं शरणं व्रज ।
पृथिव्यां बहवो भूपाः सन्ति शंकरकिंकराः ॥ ७५ ॥
विनाऽऽज्ञया महेशस्य को वा तान्हन्तुमीश्वरः ।
बिभ्रत कवचं दिव्यं शक्तेर्वै शंकरस्य च ॥ ७६ ॥
उपायं कुरु यत्‍नेन जयबीजं शुभावहम् ।
उपायतः समारब्धाः सर्वे सिध्यन्त्युपक्रमाः ॥ ७७ ॥
श्रीकृष्णमन्त्रकवचग्रहणं कुरु शंकरात् ।
दुर्लभं वैष्णवं तेजः शैवं शाक्तं विजेष्यति ॥ ७८ ॥
गुरुस्ते जगतां नाथः शिवो जन्मनि जन्मनि ।
मन्त्रो मत्तो न युक्तस्ते योयुक्तःस भवेद्विधिः ॥ ७९ ॥
कर्मणा लभ्यते मन्त्रा कर्मणा लभ्यते गुरुः ।
स्वयमेवोपतिष्ठन्ते ये येषां तेषु ते ध्रुवम् ॥ ८० ॥
त्रैलोक्यविजयं नाम गृहीत्वा कवचं वरम् ।
त्रिःसप्तकृत्वो निर्भूपां करिष्यसि महीं भृगो ॥ ८१ ॥
दिव्यं पाशुपतं तुभ्यं दाता दास्यति शंकरः ।
तेन दत्तेन शस्त्रेण क्ष‌त्रसंघं विजेष्यसि ॥ ८२ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे भृगोर्ब्रह्मलोकगमने
ब्रह्मोक्तोपायवर्णनं नामाष्टाविशोऽध्यायः ॥ २८ ॥


GO TOP