ब्रह्मवैवर्तपुराणम्
तृतीयं गणपतिखण्डम् - सप्तविंशोऽध्यायः
जमदग्निसंहारपरशुराम प्रतिज्ञादिवर्णनम् -
नारायण उवाच
हरिं स्मृत्वा गृहं गत्वा राजा विस्मितमानसः ।
आजगाम महारण्ये जमदग्न्याश्रमं पुनः ॥ १ ॥
रथानां च चतुर्लक्षं रथिनां दशलक्षकम् ।
अश्वेन्द्राणां गजेन्द्राणां पदातीनामसंख्यकम् ॥ २ ॥
राजेन्द्राणां सहस्रं च महाबलपराक्रमम् ।
महासमृद्धियुक्तश्च त्रैलोक्यं जेतुमीश्वरः ॥ ३ ॥
सर्वतो वेष्टयामास जमदग्न्याश्रमं मुने ।
रथस्थो वर्मयुक्तश्च कार्तवीर्यार्जुनः स्वयम् ॥ ४ ॥
सैन्यशब्दैर्वाद्यशब्दैर्महाकोलाहलैर्मूने ।
जमदन्त्याश्रमस्थाश्च मूर्च्छामापुर्भयेन च ॥ ५ ॥
कुटीं प्रविश्य बलवान्गृहीत्वा कपिलां शुभाम् ।
पुरं गन्तुं मनश्चक्रे दुर्बुद्धिरसदाशयः ॥ ६ ॥
समुत्तस्थौ मुनिश्रेष्ठो गृहीत्वा सशरं धनुः ।
एकाकी मुक्तगात्रश्च धेनुं नत्वा हरिं स्मरन् ॥ ७ ॥
आश्रमस्थाञ्जनात्सर्वानाश्वास्य च यत्नतः ।
आजगाम रणस्थानं निःशङ्को नृपतेः पुरः ॥ ८ ॥
निर्ममे शरजालं च स मुनिर्मन्त्रपूर्वकम् ।
आच्छादयत्स्वाश्रमं तैर्मानव वर्मणा यथा ॥ ९ ॥
अपरं शरजालं च निर्ममे पुनिपुंगवः ।
तैरेवाऽऽवरणं चक्रे सर्वसैन्यं यथाक्रमम् ॥ १० ॥
मुनिना शरजालेन सर्वसैन्यं समावृतम् ।
तानि सर्वाणि गुप्तानि यथा पत्राणि पञ्जरे ॥ ११ ॥
राजा दृष्ट्वा मुनिश्रेष्ठमवरुह्य रथात्पुरः ।
सार्धं नृपेन्द्रैर्भक्त्या च प्रणनाम कृताञ्जलिः ॥ १२ ॥
नत्वाऽऽरुरोह यानं स मुनेः प्राप्य शुभाशिषः ।
आरुह्य च नृपश्रेष्ठः स्वयानं हृष्टमानसः ॥ १३ ॥
नृपैः सार्धं नृपश्रेष्ठश्चिक्षेप मुनिपुंगवे ।
अस्त्रं शस्त्रं गदां शक्तिं जघान क्रीडया मुनिः ॥ १४ ॥
मुनिश्चिक्षेप दिव्यास्त्रं चिच्छिदे लीलया नृपः ।
शूलं चिक्षेप नृपतिस्तं जघानतदा मुनिः ॥ १५ ॥
अपरं शरजालं च निर्ममे मुनिपुंगवः ।
शस्त्रौघैर्दुर्निवार्यैश्च खण्डं खण्डं चकार सः ॥ १६ ॥
निबद्धाः शरजालेन न च शक्ताः पलायितुम् ।
जृम्भणास्त्रेण मुनिना ते च सर्वे विजृम्भिताः ॥ १७ ॥
हस्त्यश्वरथपादातसहितं सर्वसैन्यकम् ।
राजानं निद्रितं दृष्ट्वा न जघान मुनीश्वरः ॥ १८ ॥
गृहीत्वा कपिलां हृष्टो रुदन्तीं शोकमूच्छिताम् ।
बोधयित्वा पुरः कृत्वा स्वाश्रमं गन्तुमुद्यतः ॥ १९ ॥
एतस्मिन्नन्तरे राजा चेतनां प्राप्य नारद ।
निवारयामास मुनिं गृहीत्वा सशरं धनुः ॥ २० ॥
जगाम कपिला त्रस्ता स्वस्थानं च रणाजिरात् ।
मुनिश्च तस्थौ निःशङ्को गृहीत्वासशरं धनुः ॥ २१ ॥
ब्रह्मास्त्रं च नृपश्रेष्ठः स चिक्षेप मुनौ तदा ।
ब्रह्मास्त्रेण मुनीन्द्रस्य सद्यो निर्वाणतां गतम् ॥ २२ ॥
दिव्यास्त्रेण मुनिश्रेष्ठो नृपस्य सशरं धनुः ।
रथं च सारथिं चैव चिच्छिदे वर्म दुर्वहम् ॥ २३ ॥
अथ राजा महाक्रुद्धो ददर्श स्वसमीपतः ।
दत्तेन दत्तां शक्तिं तामेकपूरुषघातिनीम् ॥ २४ ॥
जग्राह नत्वा दत्तं तं स नत्वा शक्तिमुल्बणाम् ।
चूर्णयामास तत्रैव शतसूर्यसमग्रभाम् ॥ २५ ॥
यत्तेजः सर्वदेवानां तेजो नारायणस्य च ।
शंभोश्च ब्रह्मणश्चैव मायायाश्चैव नारद ॥ २६ ॥
तत्रैवाऽऽवाहयामास स योगी मन्त्रपूर्वकम् ।
तेजसा द्योतयामास गगनं च दिशो दश ॥ २७ ॥
दृष्ट्वा क्षिपन्तीं तां देवा हाहाकारेण चुक्रुशुः ।
आकाशस्थाश्च समरं पश्यन्तो दुःखिता हृदा ॥ २८ ॥
चिक्षेप तां चूर्णयित्वा कार्तवीर्यार्जुनः स्वयम् ।
सद्यः पपात सा शक्तिर्ज्वलन्ती मुनिवक्षसि ॥ २९ ॥
विदार्योरो मुनेः शक्तिर्जगाम हरिसंनिधिम् ।
दत्ताय हरिणा दत्ता शस्त्रास्त्रनिधये तदा ॥ ३० ॥
मूर्च्छां संप्राप्य स मुनिः प्राणांस्तत्याज तत्क्षणम् ।
तेजोऽम्बरे भ्रमित्वा च ब्रह्मलोकं जगाम ह ॥ ३१ ॥
युद्धे मुनिं मृतं दृष्ट्वा रुरोद कपिला मुहुः ।
हे तात तातेत्युच्चार्यं गोलोकं सा जगाम ह ॥ ३२ ॥
सवं सा कथयामास गोलोके कृष्णमीश्वरम् ।
रत्नसिहासनस्थं तं गोपैर्गोपीभिरावृतम् ॥ ३३ ॥
कृष्णेन ब्रह्मणे दत्ता ब्रह्मणा भृगवे पुरा ।
सा प्रीत्या पुष्करे ब्रह्मन्भृगुणा जमदग्नये ॥ ३४ ॥
नत्वा च कामधेनूनां समूहं सा जगाम ह ।
तदश्रुबिन्दुना मर्त्ये रत्नसंघो बभूव ह ॥ ३५ ॥
अथ राजा तं निहत्य बोधयित्वा स्वसैन्यकम् ।
प्रायश्चित्तं विनिर्वर्त्य जगाम स्वपुरंमुदा ॥ ३६ ॥
प्राणनाथं मृतं श्रत्वा जगाम रेणुका सती ।
मुनिं वक्षसि संस्थाप्य क्षणं मूर्च्छामवाप सा ॥ ३७ ॥
ततः सा चेतनां प्राप्य न रुरोद पतिव्रता ।
एहि वत्स भृगो राम राम रामेत्यवाच ह ॥ ३८ ॥
आजगाम भृगुस्तूर्णं क्षणाद्वै पुष्करादहो ।
ननाम मातर भक्त्या मनोयायी च योगवित् ॥ ३९ ॥
दृष्ट्वा रामो मृतं तातं शोकार्तां जननीं सतीम् ।
आकर्ण्य रणवृत्तान्तं प्रयान्ती कपिलां शुचा ॥ ४० ॥
विललाप भृशं तत्र हे तात जननीति च ।
चितां चकार योगोन्द्रश्चन्दनैराज्यसंयुताम् ॥ ४१ ॥
रेणुका राममादाय तूर्णं कृत्वा स्ववक्षसि ।
चुचुम्ब गण्डे शिरसि रुरोदोच्चैर्भृशं मुने ॥ ४२ ॥
राम राम महाबाहो क्व यामि त्वां विहाय च ।
वत्स वत्सेति कृत्वैवं विललाप भृशं मुहुः ॥ ४३ ॥
मत्प्राणाधिक हे वत्स मदीयं वचनं शृणु ।
पित्रोः शेषक्रियां कृत्वा याया युद्धं न पुत्रक ॥ ४४ ॥
गृहे तिष्ठ सुखं वत्स तपस्यां कुरु शाश्वतीम् ।
समरं नैव सुखदं दारुणैः क्षत्रियैः सह ॥ ४५ ॥
मातुर्वचनमश्रुत्वा प्रतिज्ञां तां चकार ह ।
त्रिःसप्तकृत्वो निर्भूपां करिष्यामि ध्रुवं महीम् ॥ ४६ ॥
कार्तवीर्यं हनिष्यामि लीलया क्षत्रियाधमम् ।
पितृंश्च तर्पयिष्यामि क्षत्रियक्षतजैस्तथा ॥ ४७ ॥
इत्युदीर्य पुरो मातुर्विललाप मुहुर्मुहुः ।
हितं तथ्यं नीतिसारं बोधयामास मातरम् ॥ ४८ ॥
राम उवाच
पितुः शासनहन्तारं पितुर्वधविधायकम् ।
यो न हन्ति महामूढो रौरवं स व्रजेद्ध्रुवम् ॥ ४९ ॥
अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।
क्षेत्रदारापहारी च पितृबन्धुविहिंसकः ॥ ५० ॥
सततं मन्दकारी च निन्दकः कटुजल्पकः ।
एकादशैते पापिष्ठा वधार्हा वेदसंमताः ॥ ५१ ॥
द्विजानां द्रविणादानं स्थानान्निर्वासनं सति ।
वपनं ताडनं चैव वधमाहुर्मनीषिणः ॥ ५२ ॥
एतस्मिन्नन्तरे तत्र चाऽऽजगाम भृगुः स्वयम् ।
अतित्रस्तो मनस्वी च हृदयेन विदूयता ॥ ५३ ॥
दृष्ट्वा तं रेणुकारामौ विनतौ संबभूवतुः ।
स तावुवाच वेदोक्तं परलोकहिताय च ॥ ५४ ॥
भृगुरुवाच
मद्वंशजातो ज्ञानी त्वं कथं विलपसे सुत ।
जलबुद्बुदवत्सर्वं संसारे च चराचरम् ॥ ५५ ॥
सत्यसारं सत्यबीजं कृष्णं चिन्तय पुत्रक ।
यद्गतं तद्गतं वत्स गतं नैवाऽऽगमिष्यति ॥ ५६ ॥
यद्भवेत्तद्भवत्येव भविता यद्भविष्यति ।
पूर्वार्जितं स्वीयकर्मफलं केन निवार्यते ॥ ५७ ॥
भूतं भव्यं भविष्यं च यत्कृष्णेन निरूपितम् ।
निरूपितं यत्तत्कर्म केन वत्स निवार्यते ॥ ५८ ॥
मायाबीजं मायिनां च शरीरं पाञ्चभौतिकम् ।
सकेतपूर्वकं नाम प्रातःस्वप्नसमं सुत ॥ ५९ ॥
क्षुधा निद्रा दया शान्तिः क्षमाकान्त्यादयस्तथा ।
यान्ति प्राणा मनो ज्ञानं प्रयाते परमात्मनि ॥ ६० ॥
बुद्धिश्च शक्तयः सर्वा राजेन्द्रमिव किंकराः ।
सर्वे तमनुगच्छन्ति तं कृष्णं भज यत्नतः ॥ ६१ ॥
के वा केषां च पितरः के वा केषां सुताः सुत ।
कर्मभिः प्रेरिताः सर्वे भवाब्धौ दुस्तरे परम् ॥ ६२ ॥
ज्ञानिनो मा रुदन्त्येव मा रोदीः पुत्र सांप्रतम् ।
रोदनाश्रुप्रपतनान्मृतानां नरकं ध्रुवम् ॥ ६३ ॥
संकेताख्योच्चारणेन यद्रुदन्ति च बान्धवाः ।
शतवर्षं रुदित्वा तं प्राप्नुवन्ति न निश्चितम् ॥ ६४ ॥
पार्थिवांशं च पृथिवी गृह्णात्यस्थित्वचादिकम् ।
तोयांशं च तथा तोयं शून्यांशं गगनं तथा ॥ ६५ ॥
वाय्वशं च तथा वायुस्तेजस्तेजांशकं तथा ।
सर्वे विलीनाः सर्वेषु को वाऽऽयास्यति रोदनात् ॥ ६६ ॥
नामश्रुतियशःकर्मकथामात्रावशेषितः ।
वेदोक्तं चैव यत्कर्म कुरु तत्पारलौकिकम् ॥ ६७ ॥
स च बन्धुः सुपुत्रश्च परलोकहिताय यः ।
भृगोस्तद्वचनं श्रुत्वा शोकं तत्याज तत्क्षणम् ॥
रेणुका च महासाध्वी तं वक्तुमुपचक्रमे ॥ ६८ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे जमदग्निसंहारपरशुराम
प्रतिज्ञादिवर्णनं नाम सप्तविंशोऽध्यायः ॥ २७ ॥
GO TOP
|