ब्रह्मवैवर्तपुराणम्
तृतीयं गणपतिखण्डम् - प्रथमोऽध्यायः
स्कन्दजन्मप्रसङ्गः -
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १ ॥
नारद उवाच
श्रुतं प्रकृतिखण्डं तदमृतार्णवमुत्तमम् ।
सर्वोत्कृष्टमभीष्टं च मूढानां ज्ञानवर्धनम् ॥ २ ॥
अधूना श्रीगणेशस्य खण्डं श्रोतुमिहाऽऽगतः ।
तज्जन्मचरितं नृणां सर्वमङ्गलमङ्गलम् ॥ ३ ॥
कथं जज्ञे सुरश्रेष्ठः पार्वत्या उदरे शुभे ।
देवी केन प्रकारेण चालभत्तादृशं सुतम् ॥ ४ ॥
स चांशः कस्य देवस्य कथं जन्म ललाभ सः ।
अयोनिसंभवः किंवा किंवाऽसौ योनिसंभवः ॥ ५ ॥
किंवा तद्ब्रह्मतेजो वा किं तस्य च पराक्रमः ।
का तपस्या च किं ज्ञानं किंवा तन्निर्मलं यशः ॥ ६ ॥
कथं तस्य पुरः पूजा विश्वेषु निखिलेषु च ।
स्थिते नारायणे शंभौ जगदीशे च धातरि ॥ ७ ॥
पुराणेषु निगूढं च तज्जन्म परिकीर्तितम् ।
कथं वा गजवक्त्रोऽयमेकदन्तो महोदरः ॥ ८ ॥
एतत्सर्वं समाचक्ष्व श्रोतुं कौतूहलं मम ।
सुविस्तीर्णं महाभाग तदतीव मनोहरम् ॥ ९ ॥
नारायण उवाच
शृणु नारद वक्ष्यामि रहस्यं परमाद्भुतम् ।
पापसंतापहरणं सर्वविघ्नविनाशनम् ॥ १ ० ॥
सर्वमङ्गलदं सारं सर्वश्रुतिमनोहरम् ।
सुखदं मोक्षबीजं च पापमूलनिकृन्तनम् ॥ ११ ॥
दैत्यार्दितानां देवानां तेजोराशिसमुद्भवा ।
देवी संहत्य दैत्यौघान्दक्षकन्या बभूव ह ॥ १२ ॥
सा च नाम्ना सती देवी स्वामिनो निन्दया पुरा ।
देहं संत्यज्य योगेन जाता शैलप्रियोदरे ॥ १३ ॥
शंकराय ददौ तां च पार्वतीं पर्वतो मुदा ।
तां गृहीत्वा महादेवो जगाम विजनं वनम् ॥ १४ ॥
शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् ।
स रेमे नर्मदातीरे पुष्पोद्याने तया सह ॥ १५ ॥
सहस्रवर्षपर्यन्तं दैवमानेन नारद ।
तयोर्बभूव शृङ्गारो विपरीतादिको महान् ॥ १६ ॥
दुर्गाङ्गस्पर्शमात्रेण मदनान्मूर्छितः शिवः ।
मूर्च्छिता सा शिवस्पर्शाद्बुबुधे न दिवानिशम् ॥ १७ ॥
हंसकारण्डवाकीर्णे पुंस्कोकिलरुताकुले ।
नानापुष्पविकासाढ्ये भ्रमरध्वनिगुञ्जिते ॥ १८ ॥
सुगन्धिकुसुमाश्लेषिवायूना सुरभीकृते ।
अतीव सुखदे रम्ये सर्वजन्तुविवर्जिते ॥ १ ९ ॥
दृष्ट्वातयोस्तच्छ्रुङ्गारं चिन्तां प्रापुः सुराः पराम् ।
ब्रह्माणं च पुरस्कृत्य ययुर्नारायणान्तिकम् ॥ २० ॥
तं नत्वा कथयामास ब्रह्मा वृत्तान्तमीप्सितम् ।
संतस्थुर्देवताः सर्वाश्चित्रपुत्तलिका यथा ॥ २१ ॥
ब्रह्मोवाच
सहस्रवर्षपर्यन्तं दैवमानेन शंकरः ।
रतौ रतश्च निश्चेष्टो न योगी विररामह ॥ २२ ॥
मैथुनस्य विरामे च दम्पत्योर्जगदीश्वर ।
किंभूतं भविताऽपत्यं तन्नः कथितुमर्हसि ॥ २३ ॥
श्रीभगवानुवाच
चिन्ता नास्ति जगद्धातः सर्वं भद्रं भविष्यति ।
मयि ये शरणापन्नास्तेषां दुःखं कुतो विधे ॥ २४ ॥
येनोपायेन तद्वीर्यं भूमौ पतति निश्चितम् ।
तत्कुरुष्व प्रयत्नेन सार्धं देवगणेन च ॥ २५ ॥
यदा च शंभोर्वीर्यं तत्पार्वत्या उदरे पतेत् ।
ततोऽपत्यं च भविता सुरासुरविमर्दकम् ॥ २६ ॥
ततः शक्रादयः सर्वे सुरा नारायणाज्ञया ।
प्रययुर्नर्मदातीरं ययौ ब्रह्मा निजालयम् ॥ २७ ॥
तत्रैव पर्वतद्रोणीबहिर्देशे सुराः पराः ।
विषण्णवदनाः सर्वे बभूवुर्भयकातराः ॥ २८ ॥
शक्रः कुबेरमवदत्कुबेरो वरुणं तथा ।
समीरणं च वरुणो यमं चैव समीरणः ॥ २९ ॥
हुताशनं यमश्चैव भास्करं च हुताशनः ।
चन्द्रं तथा भास्करश्च त्वीशानं चन्द्र एव च ॥ ३० ॥
एवं देवाः प्रेरयन्ति देवांश्च रतिभञ्जने ।
हरशृङ्गारभङ्गं च कुर्वित्युक्त्वा परस्परम् ॥ ३ १ ॥
द्वारि स्थितो वक्रशिराः शक्रः प्राह महेश्वरम् ॥ ३२ ॥
इन्द्र उवाच
किं करोषि महादेव योगीश्वर नमोऽस्तु ते ।
जगदीश जगद्बीज भक्तानां भयभञ्जन ॥ ३३ ॥
हरिर्जगामेत्युक्त्वा तमाजगाम च भास्करः ।
उवाच भीतो द्वारस्थो भयार्तो वक्रचक्षुषा ॥ ३४ ॥
सूर्य उवाच
किं करोषि महादेव जगतां परिपालक ।
सुरश्रेष्ठ महाभाग पार्वतीश नमोऽस्तु ते ॥ ३५ ॥
इत्येवमुक्त्वा श्रीसूर्यः स जगाम भयात्ततः ।
आजगाम तथा चन्द्र अवोचद्वक्रकंधरः ॥ ३६ ॥
चन्द्र उवाच
किं करोषि त्रिलोकेश त्रिलोचन नमोऽस्तु ते ।
स्वात्माराम स्वयंपूर्ण पुण्यश्रवणकीर्तन ॥ ३७ ॥
इत्येवमुक्त्वा भीतश्च विरराम निशापतिः ।
समीरणोऽपि द्वारस्थः संवीक्ष्योवाच सादरम् ॥ ३८ ॥
पवन उवाच
किं करोषि जगन्नाथ जगद्बन्धो नमोऽस्तु ते ।
धर्मार्थकाममोक्षाणां बीजरूप सनातन ॥ ३९ ॥
इत्येवं स्तवनं भूत्वा योगज्ञानविशारदः ।
त्यक्तुकामो न तत्याज शृङ्गारं पार्वतीभयात् ॥ ४० ॥
दृष्टा सुरान्भयार्तांश्च पुनः स्तोतुं समुद्यतान् ।
विजहौ सुखसंभोगं कण्ठलग्नां च पार्वतीम् ॥ ४१ ॥
उत्तिष्ठतो महेशस्य त्रासलज्जायुतस्य च ।
भूमौ पपात तद्वीर्यं ततः स्कन्दो बभूव ह ॥ ४२ ॥
पश्चात्तां कथयिष्यामि कथामतिमनोहराम् ।
स्कन्दजन्मप्रसङ्गे च सांप्रतं वाञ्छितं शृणु ॥ ४३ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे प्रथमोऽध्यायः ॥ १ ॥
GO TOP
|