ब्रह्मवैवर्तपुराणम्
द्वितीयं प्रकृतिखण्डम् - षट्पञ्चाशत्तमोऽध्यायः
राधोपाख्याने तन्मन्त्रादिकथनम् -
पार्वत्युवाच
पूजाविधानं स्तोत्रं च श्रुतमत्यद्भुतं मया ।
अधुना कवचं ब्रूहि श्रोष्यामि त्वत्प्रसादतः ॥ १ ॥
महेश्वर उवाच
शृणु वक्ष्यामि हे दुर्गे कवचं परमाद्भुतम् ।
पुरा मह्यं निगदितं गोलोके परमात्मना ॥ २ ॥
अतिगुह्यं परं तत्त्वं सर्वमन्त्रौघविग्रहम् ।
यद्धृत्वा पठनाद्ब्रह्मा संप्राप्तो वेदमातरम् ॥ ३ ॥
यद्धृत्वाऽहं तव स्वामी सर्वमाता सुरेश्वरी ।
नारायणश्च यद्धृत्वा महालक्ष्मीमवाप सः ॥ ४ ॥
यद्धृत्वा परमात्मा च निर्गुणः प्रकृतेः परः ।
बभूव शक्तिमान्कृष्णः सृष्टिं कर्तुं पुरा विभुः ॥ ५ ॥
विष्णुः पाता च यद्धृत्वा संप्राप्तः सिन्धुकन्यकाम् ।
शेषो बिभर्ति ब्रह्माण्डं मूर्ध्नि सर्षपवद्यतः ॥ ६ ॥
प्रत्येकं लोमकूपे पुत्र ब्रह्माण्डानिमहान्विराट् ।
बिभर्तिधारणाद्यस्यसर्वाधारोबभूवसः ॥ ७ ॥
यद्धारणाच्चपठनाद्-धर्मःसाक्षि च सर्वतः ।
यद्धारणाकुबेरश्च धनाह्यक्ष्यश्चभारते ॥ ८ ॥
इन्द्रःसुराणामीशश्चपठनाद्धारणाद्विभुः ।
नृपाणांमनुरीशश्च पठनाद्धारणात्प्रभुः ॥ ९ ॥
श्रीमांश्चन्द्रश्चयद्धृत्वाराजसूयंश्चकार सः ।
स्वयंसूर्यस्त्रिलोकेशः पठनाद्धारणाद्धरिः ॥ १० ॥
यद्धृत्वा पठनादग्निर्जगत्पूतं करोति च ।
यद्धृत्वा वाति वातोऽयं पुनाति भुवनत्रयम् ॥ ११ ॥
यद्धृत्वा च स्वतन्त्रो हि मृत्युश्चरति जन्तुषु ।
त्रिःसप्तकृत्वो निःक्षत्त्रां चकार च वसुन्धराम् ॥ १२ ॥
जामग्दन्यश्च रामश्च पठनाद्धारणात्प्रभुः ।
ययौ समुद्रं यद्धृत्वा राजसूयं चकार सः ।
पपौ समुद्रं यद्धृत्वा पठनात्कुम्भसंभवः ॥ १३ ॥
सनत्कुमारो भगवान्यद्धृत्वा ज्ञानिनां गुरुः ।
जीवन्मुक्तौ च सिद्धौ च नरनारायणावृषी ॥ १४ ॥
यद्धृत्वा पठनात्सिद्धो वसिष्ठो ब्रह्मपुत्रकः ।
सिद्धेशः कपिलो यस्माद्यस्माद्दक्षः प्रजापतिः ॥ १५ ॥
यस्माद्भृगुश्च मां द्वेष्टि कर्मःशेषं बिभर्ति च ।
सर्वाधारो यतो वायुर्वरुणः पवनो यतः ॥ १६ ॥
ईशानो दिक्पतिश्चैव यमः शास्ता यतः शिवे ।
कालः कालाग्निरुद्रश्च संहर्ता जगतां यतः ॥ १७ ॥
यद्धृत्वा गौतमः सिद्धः कश्यपश्च प्रजापतिः ।
वसुदेवसुतां प्राप चैकांशेन तु तत्कलाम् ॥ १८ ॥
पुरा स्वजायाविच्छेदे दुर्वासा मुनिपुंगवः ।
संप्राप रामः सीतां च रावणेन हृतां पुरा ॥ १९ ॥
पुरा नलश्च संप्राप दयमन्तीं यतःसतीम् ।
शङ्खचूडो महावीरो दैत्यानामीश्वरो यतः ॥ २० ॥
वृषो वहति मां दुर्गे यतो हि गरुडो हरिम् ।
एवं संप्राप्य संसिद्धिं सिद्धाश्च मुनयः सुराः ॥ २१ ॥
यद्धृत्वा च महालक्ष्मीः प्रदात्री सर्वसंपदाम् ।
सरस्वती सतां श्रेष्ठा यतः क्रीडावती रतिः ॥ २२ ॥
सावित्री वेदमाता च यतः सिद्धिमवाप्नुयात् ।
सिन्धुकन्या मर्त्यलक्ष्मीर्यतो विष्णुमवाप सा ॥ २३ ॥
यद्धृत्वा तुलसी पूता गङ्गा भुवनपावनी ।
यद्धृत्वा सर्वसस्याढ्या सर्वाधारा वसुंधरा ॥ २४ ॥
यद्धृत्वा मनसा देवी सिद्धा वै विश्वपूजिता ।
यद्धृत्वा देवमाता च विष्णुं पुत्रमवाप सा ॥ २५ ॥
पतिव्रता च यद्धृत्वा लोपामुद्राऽप्यरुन्धती ।
लेभे च कपिलं पुत्रं देवहूती यतः सती ॥ २६ ॥
प्रियव्रतोत्तानपादौ सुतौ प्राप च तत्प्रसूः ।
त्वन्माता चापि संप्राप त्वां देवीं गिरिजां यतः ॥ २७ ॥
एवं सर्वे सिद्धगणाः सर्वैश्वर्यमवाप्नुयुः ।
श्रीजगन्मङ्गलस्यास्य कवचस्य प्रजापतिः ॥ २८ ॥
ऋषिश्छन्दोऽस्यगायत्री देवी रासेश्वरी स्वयम् ।
श्रीकृष्णभक्तिसंप्राप्तौ विनियोगः प्रकीर्तितः ॥ २९ ॥
शिष्याय कृष्णभक्ताय ब्राह्मणाय प्रकाशयेत् ।
शठाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् ॥ ३० ॥
राज्यं देयं शिरो देयं न देयं कवचं प्रिये ।
कण्ठे धृतमिदं भक्त्या कृष्णेन परमात्मना ॥ ३१ ॥
मया दृष्टं च गोलोके ब्रह्मणा विष्णुना पुरा ।
ॐ राधेति चतुर्थ्यन्तं वह्निजायान्तमेव च ॥ ३२ ॥
कृष्णोनोपासितो मन्त्रः कल्पवृक्षः शिरोऽवतु ।
ॐ ह्रीं श्रीं राधिकां ङेन्तं वह्निजायान्तमेव च ॥ ३३ ॥
कपालं नेत्रयुग्मम् च श्रोत्रयुग्मं सदाऽवतु ।
ॐ ऐं ह्रीं श्रीं राधिकायै वह्निजायान्तमेव च ॥ ३४ ॥
मस्तकं केशसंघांश्च मन्त्रराजः सदाऽवतु ।
ॐ रां राधां चतुर्थ्यन्तं वह्निजायान्तमेव च ॥ ३५ ॥
सर्वसिद्धिप्रदः पातु कपोलं नासिकां मुखम् ।
क्लीं ह्रीं कृष्णप्रियां ङेन्तं कण्ठं पातु नमोऽन्तकम् ॥ ३६ ॥
ॐ रां रासेश्वरीं ङेन्तं स्कन्धं पातु नमोऽन्तकम् ।
ॐ रां रासविलासिन्यै स्वाहा पृष्ठं सदाऽवतु ॥ ३७ ॥
वृन्दावनविलासिन्यै स्वाहा वक्षः सदाऽवतु ।
तुलसीवनवासिन्यै स्वाहा पातु नितम्बकम् ॥ ३८ ॥
कृष्णप्राणाधिका ङेन्तं स्वाहान्तं प्रणवादिकम् ।
पादयुग्मं च सर्वाङ्गं संततं पातु सर्वतः ॥ ३९ ॥
प्राच्यां रक्षतु सा राधा वह्नौ कृष्णप्रियाऽवतु ।
दक्षे रासेश्वरी पातु गोपीशा नैर्ऋतेऽवतु ॥ ४० ॥
पश्चिमे निर्गुणा पातु वायव्ये कृष्णपूजिता ।
उत्तरे संततं पातु मूलप्रकृतिरीश्वरी ॥ ४१ ॥
सर्वेश्वरी सदैशान्यां पातु मां सर्वपूजिता ।
जले स्थले चान्तरिक्षे स्वप्ने जागरणे तथा ॥ ४२ ॥
महाविष्णोश्च जननी सर्वतः पातु संततम् ।
कवचं कथितं दुर्गे श्राजगन्मङ्गलं परम् ॥ ४३ ॥
यस्मै कस्मै न दातव्यं गुह्याद्गुह्यतरं परम् ।
तव स्नेहान्मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित् ॥ ४४ ॥
गुरुमभ्यर्च्य विधिवद्वस्रालकारचन्दनैः ।
कण्ठे वा दक्षिणे बाहौ धृत्वा विष्णुसमोभवेत् ॥ ४५ ॥
महोत्सवविशेषे च पर्वन्निति सुकीर्तिता ।
तस्याधिदेवी या सा च पार्वती परिकीर्तिता ॥ ४६ ॥
पर्वतस्य सुता देवी साऽऽविर्भूता च पर्वते ।
पर्वताधिष्ठातृदेवी पार्वती तेन कीर्तिता ॥ ४७ ॥
सर्वकाले सना प्रोक्तो विस्तृते च तनीति च ।
सर्वत्र सर्वकाले च विद्यमाना सनातनी ॥ ४८ ॥
शतलक्षजपेनैव सिद्धं च कवचं भवेत् ।
यदि स्यात्सिद्धकवचो न दग्धो वह्निना भवेत् ॥ ४९ ॥
एतस्मात्कवचाद्दुर्गे राजा दुर्योधनः पुरा ।
विशारदो जलस्तम्भे वह्निस्तम्भे च निश्चितम् ॥ ५० ॥
मया सनत्कुमाराय पुरा दत्तं च पुष्करे ।
सूर्यपर्वणि मेरौ च स सांदीपनये ददौ ॥ ५१ ॥
बल्लाय तेन दत्तं च ददौ दुर्योधनाय सः ।
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ॥ ५२ ॥
नित्यं पठति भक्त्येदं तन्मन्त्रोपासकश्च यः ।
विष्णुतुल्यो भवेन्नित्यं राजसूयफलं लभेत् ॥ ५३ ॥
स्नानेन सर्वतीर्थानां सर्वदानेन यत्फलम् ।
सर्वव्रतोपवासेन पृथिव्याश्च प्रदक्षिणैः ॥ ५४ ॥
सर्वयज्ञेषु दीक्षायां नित्यं वै सत्यरक्षणे ।
नित्यं श्रीकृष्णसेवायां कृष्णनैवेद्यभक्षणे ॥ ५५ ॥
पाठे चतुर्णां वेदानां यत्फलं च लभेन्नरः ।
तत्फलं लभते नूनं पठनात्कवचस्य च ॥ ५६ ॥
राजद्वारे श्मशाने च सिंहव्याघ्रान्विते वने ।
दावाग्नौ संकटे चैव दस्युचौरान्विते भये ॥ ५७ ॥
कारागारे विपद्ग्रस्ते घोरे च दृढबन्धने ।
व्याधियुक्तो भवेन्मुक्तो धारणात्कवचस्यच ॥ ५८ ॥
इत्येतत्कथितं दुर्गे तवैवेदं महेश्वरि ।
त्वमेव सर्वरूपा मां माया पृच्छसि मायया ॥ ५९ ॥
नारायण उवाच
इत्युक्त्वा राधिकाख्यानं स्मारं स्मारं च माधवम् ।
पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रो बभूव सः ॥ ६० ॥
न कृष्णसदृशो देवो न गङ्गासदृशी सरित् ।
न पुष्करात्परं तीर्थं न वर्णो ब्राह्मणात्परः ॥ ६१ ॥
परमाणोः परं सूक्ष्मं महाविष्णोः परो महान् ।
नभः परं च विस्तीर्णं यथा नास्त्येव नारद ॥ ६२ ॥
तथा न वैष्णवाज्ज्ञानी योगीन्द्रः शंकरात्परः ।
कामक्रोधलोभमोहा जितास्तेनैव नारद ॥ ६३ ॥
स्वप्ने जागरणे शश्वत्कृष्णध्यानरतः शिवः ।
यथा कृष्णस्तथा शंभुर्न भेदो माधवेशयोः ॥ ६४ ॥
यथा शंभुर्वैष्णवेषु यथा देवेषु माधवः ।
तथेदं कवचं वत्स कवचेषु प्रशस्तकम् ॥ ६५ ॥
शिशब्दो मङ्गलार्थश्च वकारो दातृवाचकः ।
मङ्गलानां प्रदाता यः स शिवः परिकीर्तितः ॥ ६६ ॥
नराणां संततं विश्वे शं कल्याणं करोति यः ।
कल्याणं मोक्ष इत्युक्तं स एव शंकरः स्मृतः ॥ ६७ ॥
ब्रह्मादीनां सुराणां च मुनीनां वेदवादिनाम् ।
तेषां च महतां देवो महादेवः प्रकीर्तितः ॥ ६८ ॥
महती पूजिता विश्वे मूलप्रकृतिरीश्वरी ।
तस्या देवः पूजितश्च महादेवः स च स्मृतः ॥ ६९ ॥
विश्वस्थानां च सर्वेषां महतामीश्वरः स्वयम् ।
महेश्वरं च तेनेमं प्रवदन्ति मनीषिणः ॥ ७० ॥
हे ब्रह्मपुत्र धन्योऽसि यद्गुरुश्च महेश्वरः ।
श्रीकृष्णभक्तिदाता यो भवान्पृच्छति मां च किम् ॥ ७१ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे राधिकोपाख्याने
तन्मन्त्रादिकथनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥
GO TOP
|