ब्रह्मवैवर्तपुराणम्
द्वितीयं प्रकृतिखण्डम् - पञ्चपञ्चाशत्तमोऽध्यायः
राधोपाख्याने राधापूजास्तोत्रादिकथनम् -
पार्वत्युवाच
श्रीकृष्णस्य स्थिते मन्त्रे चान्येषामीश्वरस्य वः ।
कथं जग्राह राधाया मन्त्रं वै वैष्णवो नृपः ॥ १ ॥
किं विधानं च किं ध्यानं किं स्तोत्रं कवचं च किम् ।
कं मन्त्रं च ददौ राज्ञे तां पूजापद्धतिं वद ॥ २ ॥
महेश्वर उवाच
हे विप्र कं भजामीति प्रश्नं कुर्वति राजनि ।
शीघ्रं प्राप्नोमि गोलोकं कस्याऽऽराधनतो मुने ॥ ३ ॥
इत्युक्तवन्तं राजेन्द्रमुवाच ब्राह्मणोत्तमः ।
तत्सेवया च तल्लोकं प्राप्स्यसे बहुजन्मतः ॥ ४ ॥
तत्प्राणाधिष्ठातृदेवीं भज राधां परात्पराम् ।
कृपामयीप्रसादेन शीघ्रं प्राप्नोषि तत्पदम् ॥ ५ ॥
इत्युक्त्वा राधिकामन्त्रं ददौ तस्मै षडक्षरम् ।
ॐ राधेति चतुर्थ्यन्तं वह्निजायान्तमेव च ॥ ६ ॥
प्राणायामं भूतशुद्धिं मन्त्रन्यासं तथैव च ।
कराङ्गन्यासमेवं च ध्यानं सर्वसुदुर्लभम् ॥ ७ ॥
स्तोत्रं च कवचं तं च शिक्षयामास भक्तितः ।
राजा तेन क्रमेणैव जजाप परमं मनुम् ॥ ८ ॥
ध्यानं च सामवेदोक्तं मङ्गलानां च मङ्गलम् ।
कृष्णस्तां पूजयामास पुरा ध्यानेन येन च ॥ ९ ॥
श्वेतचम्पकवर्णाभां कोटिचन्द्रसमप्रभाम् ।
शरत्पार्वणचन्द्रास्यां शरत्पङ्कजलोचनाम् ॥ १० ॥
सुश्रोणीं सुनितम्बां च पक्वबिम्बाधरां वराम् ।
मुक्तापङ्क्तिप्रतिनिधिदन्तपङ्क्तिमनोहराम् ॥ ११ ॥
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकारिकाम् ।
वह्निशुद्धांशुकाधानां रत्नमालाविभूषिताम् ॥ १२ ॥
रत्नकेयूरवलयां रत्नमञ्जीररञ्जिताम् ।
रत्नकुण्डलयुग्मेन विचित्रेण विराजिताम् ॥ १३ ॥
सूर्यप्रभाप्रतिकृतिगण्डस्थलविराजिताम् ।
अमूल्यरत्नखचितग्रैवेयकविभूषिताम् ॥ १४ ॥
सद्रत्नसारखचितकिरीटमुकुटोज्ज्वलाम् ।
रत्नाङ्गुलीयसंयुक्तां रत्नपाशकशोभिताम् ॥ १५ ॥
बिभ्रतीं कबरीभारं मालतीमाल्यशोभितम् ।
रूपाधिष्ठातृदेवीं च मत्तवारणगामिनीम् ॥ १६ ॥
गोपीभिः सुप्रियाभिश्च सेवितां श्वेतचामरैः ।
कस्तूरीबिन्दुभिः सार्घमधश्चन्दनबिन्दुना ॥ १७ ॥
सिन्दूरबिन्दुना चारुसीमन्ताधःस्थलोज्ज्वलाम् ।
नित्यं सुपूजिता भक्त्या कृष्णेन परमात्मना ॥ १८ ॥
कृष्णसौभाग्यसंयुक्तां कृष्णप्राणाधिकां वराम् ।
कृष्णप्राणाधिदेवीं च निर्गुणां च परात्पराम् ॥ १९ ॥
महाविष्णुविधात्रीं च प्रदात्रीं सर्वसंपदाम् ।
कृष्णभक्तिप्रदां शान्तां मूलप्रकृतिमीश्वरीम् ॥ २० ॥
वैष्णवीं विष्णुमायां च कृष्णप्रेममयीं शुभाम् ।
रासमण्डलमध्यस्थां रत्नसिंहासनस्थिताम् ॥ २१ ॥
रासे रासेश्वरयुतां राधां रासेश्वरीं भजे ॥ २२ ॥
ध्यात्वा पुष्पं मूर्ध्नि दत्त्वा पुनर्ध्यायेज्जगत्प्रसूम् ।
दद्यात्पुष्पं पुनर्ध्यात्वा चोपचाराणि षोडश ॥ २३ ॥
आसनं वसनं पाद्यमर्घ्यं गन्धानुलेपनम् ।
धूपं दीपं सुपुष्पं च स्नानीयं रत्नभूषणम् ॥ २४ ॥
नानाप्रकारनैवेद्यं ताम्बूलं वासितं जलम् ।
मधुपर्कं रत्नतल्पमुपचाराणि षोडश ॥ २५ ॥
प्रत्येकं वेदमन्त्रेण दत्तं भक्त्या च भूभृता ।
मन्त्रांश्चश्रूयतां दुर्गे वेदोक्तान्सर्वसंमतान् ॥ २६ ॥
रत्नसारविकारं च निर्मितं विश्वकर्मणा ।
वरं सिंहासनं रम्यं राधे पूजासु गृह्यताम् ॥ २७ ॥
अमूल्यरत्नखचितममूल्यं सूक्ष्ममेव च ।
वह्निशुद्धं निर्मलं च वसनं देवि गृह्यताम् ॥ २८ ॥
सद्रत्नसारपात्रस्थं सर्वतीर्थोदकं शुभम् ।
पादप्रक्षालनार्थं च राधे पाद्यं च गृह्यताम् ॥ २९ ॥
दक्षिणावर्तशङ्खस्थं सदूर्वापुष्पचन्दनम् ।
पूतं युक्तं तीर्थतोये राधेऽर्घ्यं प्रतिगृह्यताम् ॥ ३० ॥
पार्थिवद्रव्यसंभूतमतीव सुरभीकृतम् ।
मङ्गलार्हं पवित्रं च राधे गन्धं गृहाण मे ॥ ३१ ॥
श्रीखण्डचूर्णं सुस्निग्धं कस्तूरीकुङ्कुमान्वितम् ।
सुगन्धयुक्तं देवेशि गृह्यतामनुलेपनम् ॥ ३२ ॥
वृक्षनिर्याससंयुक्तं पार्थिवद्रव्यसंयुतम् ।
अग्निखण्डशिखाजातं धूपं देवि गृहाण मे ॥ ३३ ॥
अन्धकारे भयहरममूल्यमणिशोभितम् ।
रत्नप्रदीपं शोभाढ्यं गृहाण परमेश्वरि ॥ ३४ ॥
पारिजातप्रसूनं च गन्धचन्दनचर्चितम् ।
अतीव शोभनं रम्यं गृह्यतां परमेश्वरि ॥ ३५ ॥
सुगन्धामलकीचूर्णं सुस्निग्धं सुमनोहरम् ।
विष्णुतैलसमायुक्तं स्नानीयं देवि गृह्यताम् ॥ ३६ ॥
अमूल्यरत्नखचितं केयूरवलयादिकम् ।
शश्वत्सुशोभनं राधे गृह्यतां भूषणं मम ॥ ३७ ॥
कालदेशोद्भवं पक्वफलं वै लड्डुकादिम् ।
परमान्नं च मिष्टान्नं नैवेद्यं देवि गृह्यताम् ॥ ३८ ॥
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।
सर्वभोगाधिकं स्वादु ताम्बूलं देवि गृहताम् ॥ ३९ ॥
अशनं रत्नपात्रस्थं सुस्वादु सुमनोहरम् ।
मया निवेदितं भक्त्या गृह्यतां परमेश्वरि ॥ ४० ॥
रत्नेन्द्रसारखचितं वह्निशुद्धांशुकान्वितम् ।
पुष्पचन्दनचर्चाढ्यं पर्यङ्कं देवि गृह्यताम् ॥ ४१ ॥
एवं संपूज्य देवीं तां दद्यात्पुष्पाञ्जलित्रयम् ।
यत्नेन पूजयेद्देवीं नायिकाश्च व्रते व्रती ॥ ४२ ॥
प्रागादिक्रमयोगेन दक्षिणावर्ततः प्रिये ।
भक्त्या पञ्चोपचारेण सुप्रियाः परिचारिकाः ॥ ४३ ॥
मालावतीं पूर्वकोणे वह्निकोणे च माधवीम् ।
दक्षिणे रत्नमालां च सुशीलां नैर्ऋते सतीम् ॥ ४४ ॥
पश्चिमे वै शशिकलां पारिजातां च मारुते ।
पद्मावतीमुत्तरे चाथैशान्यां सुन्दरीं तथा ॥ ४५ ॥
यूथिकामालतीपद्ममाला दद्याद्व्रते व्रती ।
परीहारं च कुरुते सामवेदोक्तमेव च ॥ ४६ ॥
त्वं देवि जगतां माता विष्णुमाया सनातनी ।
कृष्णप्राणाधिदेवी च कृष्णप्राणाधिका शुभा ॥ ४७ ॥
कृष्णप्रेममयी शक्तिः कृष्णे सौभाग्यरूपिणी ।
कृष्णभक्तिप्रदे राधे नमस्ते मङ्गलप्रदे ॥ ४८ ॥
अद्य मे सफलं जन्म जीवनं सार्थकं मम ।
पूजिताऽसि मया सा च या श्रीकृष्णेन पूजिता ॥ ४९ ॥
कृष्णवक्षसि या राधा सर्वसौभाग्यसंयुता ।
रासे रासेश्वरीरूपा वृन्दा वृन्दावने वने ॥ ५० ॥
कृष्णप्रिया च गोलोके तुलसीकानने तुला ।
चम्पावती कृष्णसङ्गे क्रीडा चम्पकानने ॥ ५१ ॥
मुचन्द्रावली चन्द्रवने शतशृङ्गे सतीति च ।
विरजादर्पहन्त्री च विरजातटकानने ॥ ५२ ॥
पद्मावती पद्मवने कृष्णा कृष्णसरोवरे ।
भद्रा कुञ्जकुटीरे च काम्या वै काम्यके वने ॥ ५३ ॥
वैकुण्ठे च महालक्ष्मीर्वाणी नारायणोरसि ।
क्षीरोदे सिन्धुकन्या च मर्त्ये लक्ष्मीर्हरिप्रिया ॥ ५४ ॥
सर्वस्वर्गे स्वर्गलक्ष्मीर्देवदुःखविनाशिनी ।
सनातनी विष्णुमाया दुर्गा शंकरवक्षसि ॥ ५५ ॥
सावित्री वेदमाता च कलया ब्रह्मवक्षसि ।
कलया धर्मपत्नी त्वं नरनारायणप्रभोः ॥ ५६ ॥
कलया तुलसी त्वं च गङ्गा भुवनपावनी ।
लोमकूपोद्भवा गोप्यः कलांशा रोहिणी रतिः ॥ ५७ ॥
कलाकलांशरूपा च शतरूपा शची दितिः ।
अदितिर्देवमाता च त्वत्कलांशा हरिप्रिया ॥ ५८ ॥
देव्यश्च मुनिपत्न्यश्च त्वत्कलाकलया शुभे ।
कृष्णभक्तिं कृष्णदास्यं देहि मे कृष्णपूजिते ॥ ५९ ॥
एवं कृत्वा परीहारं स्तुत्वा च कवचं पठेत् ।
पुरा कृतं स्तोत्रमेतद्भक्तिदास्यप्रदं शुभम् ॥ ६० ॥
एवं नित्यं पूजयेद्यो विष्णुतुल्यः स भारते ।
जीवन्मुक्तश्च पूतश्च गोलोकं याति निश्चितम् ॥ ६१ ॥
कार्तिके पूर्णिमायां च राधां यः पूजयेच्छिवे ।
एवं क्रमेण प्रत्यब्दं राजसूयफलं लभेत् ॥ ६२ ॥
परमैश्वर्ययुक्तः स्यादिह लोके स पुण्यवान् ।
सर्वपापाद्विनिर्मुक्तो यात्यन्ते विष्णुमन्दिरम् ॥ ६३ ॥
आदावेवं क्रमेणैव रासे वृन्दावने वने ।
स्तुता सा पूजिता राधा श्रीकृष्णेन पुरा सती ॥ ६४ ॥
संपूजिता द्वितीये च धात्रा त्वेवं क्रमेण च ।
त्वद्वरेण च संप्राप्य विधाता वेदमातरम् ॥ ६५ ॥
नारायणो महालक्ष्मीं प्राप संपूज्य भारतीम् ।
गङ्गां च तुलसीं चैव परां भुवनपावनीम् ॥ ६६ ॥
विष्णुः क्षीरोदशायी च प्राप सिन्धुसुतां तथा ।
मृतायां दक्षकन्यायां मया कृष्णाज्ञया पुरा ॥ ६७ ॥
त्वमेव दुर्गा संप्राप्ता पूजिता पुष्करे च सा ।
अदितिं कश्यपः प्राप चन्द्रः संप्राप रोहिणीम् ॥ ६८ ॥
कामो रतिं च संप्राप धर्मो मूर्तिं पतिव्रताम् ।
देवाश्च मुनयश्चैव या संपूज्य पतिव्रताम् ॥ ६९ ॥
संप्रापुर्यद्वरेणैव धर्मकामार्थमोक्षकम् ।
एवं पूजाविधानं च कथितं च स्तवं शृणु ॥ ७० ॥
महेश्वर उवाच
एकदा मानिनी राधा बभूवागोचरा प्रभोः ।
संसक्तस्य तुलस्यां च गोप्या च तुलसीवने ॥ ७१ ॥
सा संहृत्य स्वमूर्तीश्च कलाःसर्वाश्च लीलया ।
सर्वे बभूवुर्देवाश्च ब्रह्मविष्णुशिवादयः ॥ ७२ ॥
भ्रष्टैश्वर्याश्च निःश्रीका भार्याहीना ह्युपद्रुताः ।
ते च सर्वे समालोच्य श्रीकृष्णं शरणं ययुः ॥ ७३ ॥
तेषां स्तोत्रेण संतुष्टः स्नात्वा संपूज्य तां शुचिः ।
तुष्टावपरमात्मा स सर्वेषां राधिकां सतीम् ॥ ७४ ॥
श्रीकृष्ण उवाच
एवमेव प्रितोऽहं ते प्रमोदश्चैव ते मयि ।
सुव्यक्तमद्य कापट्यवचनं ते वरानने ॥ ७५ ॥
हे कृष्ण त्वं मम प्राणा जीवात्मेति च संततम् ।
यद्ब्रूहि नित्यं प्रेम्णा त्वं साप्रतं तत्कुतो गतम् ॥ ७६ ॥
तस्मात्सर्वमलीकं ते वचनं जगदम्बिके ।
क्षुरधारं च हृदयं स्त्रीजातीनां च सर्वतः ॥ ७७ ॥
अस्माकं वचनं सत्यं यद्ब्रवीमि च तद्ध्रुवम् ।
पञ्चप्राणाधिदेवी त्वं राधा प्राणाधिकेति मे ॥ ७८ ॥
शक्तो न रक्षितुं त्वां च यान्ति प्राणास्त्वया विना ।
विनाऽधिष्ठात्रुदेवी च को वा कुत्र च जीवति ॥ ७९ ॥
महाविष्णोश्च माता त्वं मूलप्रकृतिरीश्वरी ।
सगुणा त्वं च कलया निर्गुणा स्वयमेव तु ॥ ८० ॥
ज्योतीरूपा निराकारा भक्तानुग्रहविग्रहा ।
भक्तानां रुचिवैचित्र्यान्नानामूर्तीश्च विश्वतो ॥ ८१ ॥
महालक्ष्मीश्च वैकुण्ठे भारती च गिरां प्रसूः ।
पुण्यक्षेत्रे भारते च सती त्वं पार्वती तथा ॥ ८२ ॥
तुलसी पुण्यरूपा च गङ्गा भुवनपावनी ।
ब्रह्मलोके च सावित्री कलया त्वं वसुंधरा ॥ ८३ ॥
गोलोके राधिका त्वं च सर्वगोपालकेश्वरी ।
त्वया विनाऽहं निर्जीवो ह्यशक्तः सर्वकर्मसु ॥ ८४ ॥
शिवः शक्तस्त्वया शक्त्या शवाकारस्त्वया विना ।
वेदकर्ता स्वयं ब्रह्मा वेदमात्रा त्वया सह ॥ ८५ ॥
नारायणस्त्वया लक्ष्म्या जगत्पाता जगत्पतिः ।
फलं ददाति यज्ञश्च त्वया दक्षिणया सह ॥ ८६ ॥
बिभर्ति सृष्टिं शेषश्च त्वां कृत्वा मस्तके भुवम् ।
बिभर्ति गङ्गारूपां त्वां मूर्ध्नि गङ्गाधरः शिवः ॥ ८७ ॥
शक्तिमच्च जगत्सर्वं शवरूपं त्वया विना ।
वक्ता सर्वस्त्वया वाण्या मृतो मूकस्त्वयाविना ॥ ८८ ॥
यथा मृदा घटं कर्तुं कुलालः शक्तिमान्सदा ।
सृष्टिं स्रष्टुं तथाऽहं च प्रकृत्या च त्वया सह ॥ ८९ ॥
त्वया विना जडश्चाहं सर्वत्र च न शक्तिमान् ।
सर्वशक्तिस्वरूपा त्वं त्वमागच्छममान्तिकम् ॥ ९० ॥
वह्नौ त्वं दाहिका शक्तिर्नाग्निः शक्तस्त्वया विना ।
शोभास्वरूपा चन्द्रे त्वं त्वां विना न स सुन्दरः ॥ ९१ ॥
प्रभारूपा हि सूर्ये त्वं त्वां विना न सभानुमान् ।
न कामः कामिनीबन्धुस्त्वया रत्या विना प्रिये ॥ ९२ ॥
इत्येवं स्तवनं कृत्वा तां संप्राप जगत्प्रभुः ।
देवा बभूवुः सश्रीकाः सभार्याः शक्तिसंयुताः ॥ ९३ ॥
सस्त्रीकं च जगत्सर्वं समभूच्छैलकन्यके ।
गोपीपूर्णश्च गोलोको ह्यभवत्तत्प्रसादतः ॥ ९४ ॥
राजा जगाम गोलोकमिति स्तुत्वा हरिप्रियाम् ।
श्रीकृष्णेन कृतं स्तोत्रं राधाया यः पठेन्नरः ॥ ९५ ॥
कृष्णभक्तिं च तद्दास्यं संप्राप्नोति न संशयः ।
स्त्रीविच्छेदे यः शृणोति मासमेकमिदं शुचिः ॥ ९६ ॥
अचिराल्लभते भार्यां सुशीलां सुन्दरीं सतीम् ।
भार्याहीनो भाग्यहीनो वर्षमेकं शृणोति यः ॥ ९७ ॥
अचिराल्लभते भार्यां सुशीलां सुन्दरीं सतीम् ।
पुरा मया च त्वं प्राप्ता स्तोत्रेणानेन पार्वति ॥ ९८ ॥
मृतायां दक्षकन्यायामाज्ञया परमात्मनः ।
स्तोत्रेणानेन संप्राप्ता सावित्री ब्रह्मणा पुरा ॥ ९९ ॥
पुरा दुर्वाससः शापान्निःश्रीके देवतागणे ।
स्तोत्रेणानेन देवैस्तैः संप्राप्ता श्रीः सुदुर्लभा ॥ १०० ॥
शृणोति वर्षमेकं च पुत्रार्थी लभते सुतम् ।
महाव्याधी रोगमुक्तो भवेत्स्तोत्रप्रसादतः ॥ १०१ ॥
कार्तिके पूर्णिमायां तु तां संपूज्य पठेत्तु यः ।
अचलां श्रियमाप्नोति राजसूयफलं लभेत् ॥ १०२ ॥
नारीशृणोति चेत्स्तोत्रं स्वामिसौभाग्यसंयुता ।
भक्त्याशृणोति यः स्तोत्रं बन्धनान्मुच्यते ध्रुवम् ॥ १०३ ॥
नित्यं पठति यो भक्त्या राधां संपूज्य भक्तितः ।
स प्रयाति च गोलोकं निर्मुक्तो भवबन्धनात् ॥ १०४ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे हरगौरीसंवादे
राधोपाख्याने राधापूजास्तोत्रादिकथनं
नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥
GO TOP
|