ब्रह्मवैवर्तपुराणम्
द्वितीयं प्रकृतिखण्डम् - एकोनपञ्चाशत्तमोऽध्यायः
राधोपाख्याने राधायाः सुदामशापादिकथनम् -
पार्वत्युवाच
कथं सुदामशापं च सा च देवी ललाभ ह ।
कथं शशाप भृत्यो हि स्वाभीष्टदेवकामिनीम् ॥ १ ॥
महादेव उवाच
शृणु देवि प्रवक्ष्यामि रहस्यं परमाद्भुतम् ।
गोप्यं सर्वपुराणेषु शुभदं भक्तिमुक्तिदम् ॥ २ ॥
एकदा राधिकेशश्च गोलोके रासमण्डले ।
शतशृङ्गाख्यगिर्येकदेशे वृन्दावने वने ॥ ३ ॥
गृहीत्वा विरजां गोपीं सुभाग्यां राधिकासमाम् ।
क्रीडां चकार भगवान् रत्नभूषणभूषितः ॥ ४ ॥
रत्नप्रदीपसंयुक्ते रत्ननिर्माणमण्डपे ।
अमूल्यरत्नखचितमञ्चके पुष्पतल्पके ॥ ५ ॥
कस्तूरीकुङ्कुमारक्ते सुचन्दनसुधूपिते ।
सुगन्धिमालतीमालासमूहपरिमण्डिते ॥ ६ ॥
सुरताद्विरतिर्नास्ति दम्पती रतिपण्डितौ ।
तौ द्वौ परस्परासक्तौ सुखसंभोगतन्द्रितौ ॥ ७ ॥
मन्वन्तराणां लक्षश्च कालः परिमितो गतः ।
गोलोकस्य स्वल्पकाले जन्मादिरहितस्य च ॥ ८ ॥
दूत्यश्चतस्रो ज्ञात्वाथ जगदुस्तां तु राधिकाम् ।
श्रुत्वा परमरुष्टा सा तत्याज हरिमीश्वरी ॥ ९ ॥
प्रबोधिता च सखिभिः कोपरक्तास्यलोचना ।
विहाय रत्नालंकारं वह्निशुद्धाशुके शुभे ॥ १० ॥
क्रीडापद्मं च सद्रत्नामूल्यदर्पणमुज्ज्वलम् ।
निर्मार्जयामास सती सिन्दूरं चित्रपत्रकम् ॥ ११ ॥
प्रक्षाल्य तोयाञ्जलिभिर्मुखरागमलक्तम् ।
विस्रस्तकबरीभारा मुक्तकेशी प्रकम्पिता ॥ १२ ॥
शुक्लवस्त्रपरीधाना रूक्षा वेषादिवर्जिता ।
ययौ यानान्तिकं तूर्णं प्रियालीभिर्निवारिता ॥ १३ ॥
आजुहाव सखीसंघं रोषविस्फुरिताधरा ।
शश्वत्कम्पान्विताङ्गी सा गोपीभिः परिवारिता ॥ १४ ॥
ताभिर्भक्त्या नताभिश्च कातराभिश्च संस्तुता ।
आरुरोह रथं दिव्यममूल्यं रत्ननिर्मितम् ॥ १५ ॥
दशयोजनविस्तीर्णं दैर्ध्ये तच्छतयोजनम् ।
सहस्रचक्रयुक्तं च नानाचित्रसमन्वितम् ॥ १६ ॥
नानाविचित्रवसनैः सूक्ष्मैः क्षौमैर्विराजितम् ।
अमूल्यरत्ननिर्माणदर्पणैः परिशोभितम् ॥ १७ ॥
मणीन्द्रजालमालाभैः पुष्पमालासहस्रकैः ।
सद्रत्नकलशैर्युक्तं रम्येर्मन्दिरकोटिभिः ॥ १८ ॥
त्रिलक्षकोटिभिः सार्धं गोपीभिश्च प्रियालिभिः ।
ययौ रथेन तेनैव सुमनोमालिना प्रिये ॥ १९ ॥
श्रुत्वा कोलाहलं गोपः सुदामा कृष्णपार्षदः ।
कृष्णं कृत्वा सावधानं गोपैः सार्धं पलायितः ॥ २० ॥
भयेन कृष्णः संत्रस्तो विहाय विरजां सतीम् ।
स्वप्रेममग्नः कृष्णोऽपि तिरोधानं चकार सः ॥ २१ ॥
सा सती समयं ज्ञात्वा विचार्य स्वहृदि क्रुधा ।
राधाप्रकोपभीता च प्राणांस्तत्याज तत्क्षणम् ॥ २२ ॥
विरजालिगणास्तत्र भयविह्वलकातराः ।
प्रययुः शरणं साध्वीं विरजां तत्क्षणं भिया ॥ २३ ॥
गोलोके सा सरिद्रूपा जाता वै शैलकन्यके ।
कोटियोजनविस्तीर्णा दैर्घ्ये शतगुणा तथा ॥ २४ ॥
गोलोकं वेष्टयामास परिखेव मनोहरा ।
बभूवुः क्षुद्रनद्यश्च तदाऽन्या गोप्य एव च ॥ २५ ॥
सर्वा नद्यस्तदंशाश्च प्रतिविश्वेषु सुन्दरि ।
इमे सप्त समुद्राश्च विरजानन्दना भुवि ॥ २६ ॥
अथाऽऽगत्य महाभागा राधा रासेश्वरी परा ।
न दृष्ट्वा विरजां कृष्णं स्वगृहं च पुनर्ययौ ॥ २७ ॥
जगाम कृष्णस्तां राधां गोपालैरष्टभिः सह ।
गोपीभिर्द्वारि युक्ताभिर्वारितोऽपि पुनः पुनः ॥ २८ ॥
दृष्ट्वा कृष्णं च सा देवी भर्त्सयामास तं तदा ।
सुदामा भर्त्सयामास तां तथा कृष्णसंनिधौ ॥ २९ ॥
क्रुद्धा शशाप सा देवी सुदामानं सुरेश्वरी ।
गच्छ त्वमासुरीं योनिं गच्छ दूरमतो द्रुतम् ॥ ३० ॥
शशाप तां सुदामा च त्वमितो गच्छ भारतम् ।
भवगोपी गोपकन्या मुख्याभिः स्वाभिरेवच ॥ ३१ ॥
तत्र ते कृष्णविच्छेदो भविष्यति शतं समाः ।
तत्र भारावतरणं भगवांश्च करिष्यति ॥ ३२ ॥
इति शप्त्वा सुदामाऽसौ प्रणम्य जननीं हरिम् ।
साश्रुनेत्रो मोहयुक्तस्ततो गन्तुं समुद्यतः ॥ ३३ ॥
राधा जगाम तत्पश्चात्साश्रुनेत्राऽतिविह्वला ।
वत्स क्व यासीत्युच्चार्य पुत्रविच्छेदकातरा ॥ ३४ ॥
कृष्णस्तां बोधयामास विद्यया च कृपानिधिः ।
शीघ्रं संप्राप्स्यसि सुतं मा रुदस्त्वं वरानने ॥ ३५ ॥
स चासुरः शङ्खचूडो बभूव तुलसीपतिः ।
मच्छूलभिन्नकायेन गोलोकं वै जगाम सः ॥ ३६ ॥
राधा जगाम वाराहे गोकुलं भारतं सती ।
वृषभानोश्च वैश्यस्य सा च कन्या बभूव ह ॥ ३७ ॥
अयोनिसंभवा देवी वायुगर्भा कलावती ।
सुषुवे मायया वायुं सा तत्राऽऽविर्बभूव ह ॥ ३८ ॥
अतीते द्वादशाब्दे तु दृष्टा तां नवयौवनाम् ।
सार्धं रायणवैश्येन तत्संबन्धं चकार सः ॥ ३९ ॥
छायां संस्थाप्य तद्गेहे साऽन्तर्धानमवाप ह ।
बभूव तस्य वैश्यस्य विवाहश्छायया सह ॥ ४० ॥
गते चतुर्दशाब्दे तु कंसभीतेश्छलेन च ।
जगाम गोकुलं कृष्णः शिशुरूपी जगत्पतिः ॥ ४१ ॥
कृष्णमातुर्यशोदाया रायणस्तत्सहोदरः ।
गोलोके गोपकृष्णांशः संबन्धात्कृष्णमातुलः ॥ ४२ ॥
कृष्णेन सह राधायाः पुण्ये वृन्दावने वने ।
विवाहं कारयामास विधिना जगतां विधिः ॥ ४३ ॥
स्वप्ने राधापदाम्भोजं नहि पश्यन्ति बल्लवाः ।
स्वयं राधा हरेः क्रोडे छाया रायणमन्दिरे ॥ ४४ ॥
षष्टिवर्षसहस्राणि तपस्तेपे पुरा विधिः ।
राधिकाचरणाम्भोजदर्शनार्थो च पुष्करे ॥ ४५ ॥
भारावतरणे भूमेर्भारते नन्दगोकुले ।
ददर्श तत्पदाम्भोजं तपसस्तत्फलेन च ॥ ४६ ॥
किंचित्कालं स वै कृष्णः पुण्ये वृन्दावने वने ।
रेमे गोलोकनाथश्च राधया सह भारते ॥ ४७ ॥
ततः सुदामशापेन विच्छेदश्च बभूव ह ।
तत्र भारावतरणं भूमेः कृष्णश्चकार सः ॥ ४८ ॥
शताब्दे समतीते तु तीर्थयात्राप्रसङ्गतः ।
ददर्श कृष्णं सा राधा स च तां च परस्परम् ॥ ४९ ॥
ततो जगाम गोलोकं राधया सह न तत्त्ववित् ।
कलावती यशोदा च पर्यगाद्राधया सह ॥ ५० ॥
वृषभानुश्च नन्दश्च ययौ गोलोकमुत्तमम् ।
सर्वे गोपाश्च गोप्यश्च ययुस्ता याः समागताः ॥ ५१ ॥
छायागोपाश्च गोप्यश्च प्रापुर्मुक्ति च संनिधौ ।
रेमिरे ताश्च तत्रैव सार्धं कृष्णेन पार्वति ॥ ५२ ॥
षट्त्रिंशल्लक्षकोट्यश्च गोप्यो गोपाश्च तत्समाः ।
गोलोकं प्रययुर्मुक्ताः सार्धं कृष्णेन राधया ॥ ५३ ॥
द्रोणः प्रजापतिर्नन्दो यशोदा तत्प्रिया धरा ।
संप्राप पूर्वतपसा परमात्मानमीश्वरम् ॥ ५४ ॥
वसुदेवः कश्यपश्च देवकी चादितिः सती ।
देवमाता देवपिता प्रतिकल्पे स्वभावतः ॥ ५५ ॥
पितृणां मानसी कन्या राधामाता कलावती ।
वसुदामाऽपि गोलोकाद् वृषभानुः समाययौ ॥ ५६ ॥
इत्येवं कथितं दुर्गे राधिकाख्यानमुत्तमम् ।
संपत्करं पापहरं पुत्रपौत्रविवर्धनम् ॥ ५७ ॥
श्रीकृष्णश्च द्विधारूपो द्विभुजश्च चतुर्भुजः ।
चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम् ॥ ५८ ॥
चतुर्भुजस्य पत्नी च महालक्ष्मीः सरस्वती ।
गङ्गा च तुलसी चैव देव्यो नारायणप्रियाः ॥ ५९ ॥
श्रीकृष्णपत्नी सा राधा तदर्धाङ्गसमुद्भवा ।
तेजसा वयसा साध्वी रूपेण च गुणेन च ॥ ६० ॥
आदौ राधां समुच्चार्य पश्चात्कृष्णं वदेद्बुधः ।
व्यतिक्रमे ब्रह्महत्यां लभते नात्र संशयः ॥ ६१ ॥
कार्तिके पूर्णिमायां च गोलोके रासमण्डले ।
चकार पूजां राधायास्तत्संबन्धिमहोत्सवम् ॥ ६२ ॥
सद्रत्नगुटिकायाश्च कृत्वा तत्कवचं हरिः ।
दधार कण्ठे बाहौ च दक्षिणे सह गोपकैः ॥ ६३ ॥
कृत्वा ध्यानं च पूजां च स्तोत्रमेतच्चकार सः ।
राधाचर्वितताम्बूलं चखाद मधुसूदनः ॥ ६४ ॥
राधा पूज्या च कृष्णस्य तत्पूज्यो भगवान्प्रभुः ।
परस्पराभीष्टदेवे भेदकृन्नरकं व्रजेत् ॥ ६५ ॥
द्वितीये पूजिता सा च धर्मेण ब्रह्मणा मया ।
अनन्तवासुकिभ्यां च रविणा शशिना पुरा ॥ ६६ ॥
महेन्द्रेण च रुद्रैश्च मनुना मानवेन च ।
सुरेन्द्रश्च मुनीन्द्रैश्च सर्वविश्वैश्च पूजिता ॥ ६७ ॥
तृतीये पूजिता सा च सप्तद्वीपेश्वरेण च ।
भारते च सुयत्नेन पुत्रैर्मित्रैर्मुदाऽऽन्वितैः ॥ ६८ ॥
ब्राह्मणेनाभिशप्तेन दैवदोषेण भूभृता ।
व्याधिग्रस्तेन हस्तेन दुःखिना च विदूयता ॥ ६९ ॥
संप्राप राज्यं भष्टश्रीः स च राधावरेण च ।
स्तोत्रेण ब्रह्मदत्तेन स्तुत्वा च परमेश्वरीम् ॥ ७० ॥
अभेद्यं कवचं तस्याः कण्ठे बाहौ दधार सः ।
ध्यात्वा चकार पूजां च पुष्करे शतवत्सरान् ॥ ७१ ॥
अन्ते जगाम गोलोकं रत्नयानेन भूमिपः ।
इति ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ॥ ७२ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे हरगौरिसंवादे राधोपाख्याने राधायाः
सुदामशापादिकथनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥
GO TOP
|