ब्रह्मवैवर्तपुराणम्
द्वितीयं प्रकृतिखण्डम् - षट्चत्वारिंशोऽध्यायः
मनसोपाख्याने तदुत्पत्तिपूजास्तोत्रादिकथनम् -
नारायण उवाच
पूजाविधानं स्तोत्रं च श्रूयतां मुनिपुंगव ।
ध्यानं च सामवेदोक्तं देवीपूजाविधानकम् ॥ १ ॥
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ।
वह्निशुद्धांशुकाधानां नागयज्ञोपवीतिनीम् ॥ २ ॥
महाज्ञानयुतां चैव प्रवरां ज्ञानिनां सताम् ।
सिद्धाधिष्ठातृदेवीं च सिद्धां सिद्धिप्रदां भजे ॥ ३ ॥
इति ध्यात्वा च तां देवीं मूलेनैव प्रपूजयेत् ।
नैवेद्यैर्विविधैर्दीपैः पुष्पैर्धूपानुलेपनैः ॥ ४ ॥
मूलमन्त्रश्च वेदोक्तो भक्तानां वाञ्छितप्रदः ।
मूलकल्पतरुर्नाम प्रसिद्धो द्वादशाक्षरः ॥ ५ ॥
ॐ ह्रीं श्रीं क्लीं ऐं मनसादेव्यै स्वाहेति कीर्तितः ।
पञ्चलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ॥ ६ ॥
मन्त्रसिद्धिर्भवेद्यस्य स सिद्धो जगतीतले ।
सुधासमं विषं तस्य धन्वन्तरिसमो भवेत् ॥ ७ ॥
ब्रह्मन्नाषाढसंक्रान्त्यां गुडाशाखासु यत्नतः ।
आवाह्य देवी मासान्तं पूजयेद्यो हि भक्तितः ॥ ८ ॥
पञ्चम्यां मनसाख्यायां देव्यै दद्याच्च यो बलिम् ।
धनवान्पुत्रवांश्चैव कीतिमान्स भवेद्ध्रुवम् ॥ ९ ॥
पूजाविधानं कथित तदाख्यानं निशामय ।
कथयामि महाभाग यच्छ्रुतं धर्मवक्त्रतः ॥ १० ॥
पुरा नागभयाक्रान्ता बभूवुर्मानवा भुवि ।
यान्यान्खादन्ति नागाश्च नते जीवन्ति नारद ॥ ११ ॥
मन्त्रांश्च ससृजे भीतः कश्यपो ब्रह्मणाऽर्थितः ।
वेदबीजानुसारेण चोपदेशेन वेधसः ॥ १२ ॥
मन्त्राधिष्ठातृदेवीं तां मनसां ससृजे ततः ।
तपसा मनसा तेन मनसा सा बभूव ह ॥ १३ ॥
कुमारी सा च संभूय चागमच्छंकरालयम् ।
भक्त्या संपूज्य कैलासे तुष्टुवे चन्द्रशेखरम् ॥ १४ ॥
दिव्यं वर्षसहस्रं च तं सिषेवे मुनेः सुता ।
आशुतोषो महेशश्च तां च तुष्टो बभूव ह ॥ १५ ॥
महाज्ञानं ददौ तस्यै पाठयामास साम च ।
कृष्णमन्त्रं कल्पतरुं ददावष्टाक्षरं मुने ॥ १६ ॥
लक्ष्मी माया कामबीजं ङेन्तं कृष्णपदं तथा ।
ॐ श्रीं ह्रीं क्लीं कृष्णाय ॥
त्रैलोक्यमङ्गलं नाम कवचं पूजनक्रमम् ॥ १७ ॥
स्तवनं सर्वपूज्य च ध्यानं भुवनपावनम् ।
पुरश्चर्याक्रमं चापि वदौक्त सर्वसंमतम् ॥ १८ ॥
प्राप्य मृत्युंजयाज्ञानं परं मृत्युंजयं सती ।
जगाम तपसे साध्वी पुष्करं शंकराज्ञया ॥ १९ ॥
त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः ।
सिद्धा बभूव सा देवी ददर्श पुरतः प्रभुम् ॥ २० ॥
दृष्ट्वा कृशाङ्गीं बालां च कृपया च कृपानिधिः ।
पूजां च कारयामास चकार च हरिः स्वयम् ॥ २१ ॥
वरं च प्रददौ तस्यै पूजिता त्वं भवे भव ।
वरं दत्त्वा च कल्याण्यै सद्यश्चान्तर्दधे विभुः ॥ २२ ॥
प्रथमे पूजिता सा च कृष्णेन परमात्मना ।
द्वितीये शंकरेणैव कश्यपेन सुरेण च ॥ २३ ॥
मनुना मुनिना चैव ह्यहिना मानवादिना ।
बभूव पूजिता सा च त्रिषु लोकेषु सुव्रता ॥ २४ ॥
जरत्कारुमुनीन्द्राय कश्यपस्तां ददौ पुरा ।
अयाचितो मुनिश्रेष्ठो जग्राह ब्राह्मणाज्ञया ॥ २५ ॥
कृत्वोद्वाहं महायोगी विश्रान्तस्तपसा चिरम् ।
सुष्वाप देव्या जघने वटमूले च पुष्करे ॥ २६ ॥
निद्रां जगाम स मुनिः स्मृत्वा निद्रेशमीश्वरम् ।
जगामास्तं दिनकरः सायंकाल उपस्थितः ॥ २७ ॥
संचिन्त्य मनसा तत्र मनसा च पतिव्रता ।
धर्मलोपभयेनैव चकाराऽऽलोचनं सती ॥ २८ ॥
अकृत्वा पश्चिमां संध्या नित्या चैव द्विजन्मनाम् ।
ब्रह्महत्यादिकं पापं लभिष्यति पतिर्मम ॥ २९ ॥
नोपतिष्ठति यः पूर्वां नोपास्ते यश्च पश्चिमाम् ।
स सर्वदाऽशुचिर्नित्यं ब्रह्महत्यादिकं लभेत् ॥ ३० ॥
वेदोक्तमिति संचिन्त्य बोधयामास तं मुनिम् ।
स च बुद्ध्वा मुनिश्रेष्ठस्तां चुकोप भृशं मुनिः ॥ ३१ ॥
जरत्कारुरुवाच
कथं मे सुव्रते साध्वि निद्राभङ्गः कृतस्त्वया ।
व्यर्थं व्रतादिकं तस्या या भर्तुश्चापकारिणी ॥ ३२ ॥
तपश्चानशनं चैव व्रतं दानादिकं च यत् ।
भर्तुरप्रियकारिण्याः सर्वं भवति निष्फलम् ॥ ३३ ॥
यया पतिः पूजितश्च श्रीकृष्णः पूजितस्तया ।
पतिव्रताव्रतार्थं च पतिरूपी हरिः स्वयम् ॥ ३४ ॥
सर्वदानं सर्वयज्ञं सर्वतीर्थनिषेवणम् ।
सर्वं तपो व्रतं सर्वमुपवासादिकं च यत् ॥ ३५ ॥
सर्वधर्मश्च सत्यं च सर्वदेवप्रपूजनम् ।
तत्सर्वं स्वामिसेवायाः कलां नार्हन्ति षोडशीम् ॥ ३६ ॥
सुपुण्ये भारते वर्षे पतिसेवां करोति या ।
वैकुण्ठं स्वामिना सार्धं सा याति ब्रह्मणः शतम् ॥ ३७ ॥
विप्रियं कुरुते भर्तुर्विप्रियं वदति प्रियम् ।
असत्कुलप्रजाता या तत्फलं श्रूयतां सति ॥ ३८ ॥
कुम्भीपाकं व्रजेत्सा च यावच्चन्द्रदिवाकरौ ।
ततो भवति चाण्डाली पतिपुत्रविवर्जिता ॥ ३९ ॥
इत्युक्त्वा च मुनिश्रेष्ठो बभूव स्फुरिताधरः ।
चकम्पे मनसा साध्वी भयेनोवाच तं पतिम् ॥ ४० ॥
मनसोवाच
संध्यालोपभयेनैव निद्राभङ्गः कृतस्तव ।
कुरु शान्ति महाभाग दुष्टाया मम सुव्रत ॥ ४१ ॥
शृङ्गाराहारनिद्राणां यश्च भङ्गं करोति च ।
स व्रजेत्कालसूत्रं च स्वामिनश्च विशेषतः ॥ ४२ ॥
इत्युक्त्वा मनसा देवी स्वामिनश्चरणाम्बुजे ।
पपात भक्त्या भीता च रुरोद च पुनः पूनः ॥ ४३ ॥
कुपितं च मुनिं दृष्ट्वा श्रीसूर्यं शप्तुमुद्यतम् ।
तत्राऽजगाम भगवान्संध्यया सह नारद ॥ ४४ ॥
तत्राऽऽगत्य मुनिश्रेष्ठमवोचद्भास्करः स्वयम् ।
विनयेन विनीतश्च तया सह यथोचितम् ॥ ४५ ॥
श्रीसूर्य उवाच
सूर्यास्तसमयं दृष्टत्वा धर्मलोपभयेन च ।
त्वां बोधयामास विप्र नाहमस्तं गतस्तदा ॥ ४६ ॥
क्षमस्व भगवन्ब्रह्मन्मां शप्तुं नोचितं मुने ।
ब्राह्मणानां च हृदयं नवनीतसमं सदा ॥ ४७ ॥
तेषां क्षणार्धं क्रोधश्चेत्ततो भस्म भवेज्जगत् ।
पुनः स्रष्टुं द्विजः शक्तो न तेजस्वी द्विजात्परः ॥ ४८ ॥
ब्रह्मणो वंशसंभूतः प्रज्वलन्ब्रह्मतेजसा ।
श्रीकृष्णं भावयेन्नित्यं ब्रह्मज्योति सनातनम् ॥ ४९ ॥
सूर्यस्य वचनं श्रुत्वा द्विजस्तुष्टो बभूव ह ।
सूर्यो जगाम स्वस्थानं गृहीत्वा ब्राह्मणाशिषम् ॥ ५० ॥
तत्याज मनसां विप्रः प्रतिज्ञापालनाय च ।
रुदतीं शोकयुक्तां च हृदयेन विदूयता ॥ ५१ ॥
सा सस्मार गुरुं शंभुमिष्टदेवं हरिं विधिम् ।
कश्यपं जन्मदातारं विपत्तौ भयकर्शिता ॥ ५२ ॥
तत्राऽजगाम भगवान्गोपीशः शंभुरेव च ।
विधिश्च कश्यपश्चैव मनसा परिचिन्तितः ॥ ५३ ॥
विप्रो दृष्ट्वाऽभीष्टदेवं निर्गुणं प्रकृतेः परम् ।
तुष्टाव परया भक्त्या प्रणनाम मुहुर्मुहुः ॥ ५४ ॥
नमश्चकार शंभुं च ब्रह्माणं कश्यपं तथा ।
कथमागमनं देवा इति प्रश्नं चकार सः ॥ ५५ ॥
ब्रह्मा तद्वचनं श्रुत्वा सहसा समयोचितम् ।
तमुवाच नमस्कृत्य हृषीकेशपदाम्बुजम् ॥ ५६ ॥
ब्रह्मोवाच
यदि त्यक्ता धर्मपत्नीं धर्मिष्ठा मनसा सती ।
कुरुष्वास्यां सुतोत्पत्तिं धर्मसंस्थापनाय वै ॥ ५७ ॥
यतिर्वा ब्रह्मचारी वा भिक्षुर्वनचरोऽपि वा ।
जायायां च सुतोत्पत्तिं कृत्वा पश्चाद्भवेन्मुनिः ॥ ५८ ॥
अकृत्वा तु सुतोत्पत्तिं विरागी यस्त्यजेत्प्रियाम् ।
स्रवेत्तपस्तत्पुण्यं च चालिन्यां च यथा जलम् ॥ ५९ ॥
ब्रह्मणो वचनं श्रुत्वा जरत्कारुर्मुनीश्वरः ।
चक्रे तन्नाभिसंस्पर्श योगाद्वै मन्त्रपूर्वकम् ॥ ६० ॥
तस्यै शुभाशिषं दत्त्वा ययुर्देवा मुदाऽन्विताः ।
मुदाऽन्विता च मनसा जरत्कारुर्मुदाऽन्वितः ॥ ६१ ॥
मुनेः करस्पर्शमात्रात्सद्यो गर्भो बभूव ह ।
मनसाया मुनिश्रेष्ठ मुनिश्रेष्ठ उवाच ताम् ॥ ६२ ॥
जरत्कारुरुवाच
गर्भेणानेन मनसे तव पुत्रो भविष्यति ।
जितेन्द्रियाणां प्रवरो धर्मिष्ठो वैष्णवाग्रणीः ॥ ६३ ॥
तेजस्वी च तपस्वी च यशस्वी च गुणान्वितः ।
वरो वेदविदां चैव योगिनां ज्ञानिनां तथा ॥ ६४ ॥
स च पुत्रो विष्णुभक्तो धार्मिकः कुलमुद्धरेत् ।
नृत्यन्ति पितरः सर्वे जन्ममात्रेण वै मुदा ॥ ६५ ॥
पतिव्रता सुशीला या सा प्रिया प्रियवादिनी ।
धर्मिष्ठा पुत्रमाता च कुलजा कुलपालिका ॥ ६६ ॥
हरिभक्तिप्रदो बन्धुस्तदिष्टं यत्सुखप्रदम् ।
यो बन्धच्छित्स च पिता हरेर्वर्त्मप्रदर्शकः ॥ ६७ ॥
सा गर्भधारिणी या च गर्भवासविमोचिनी ।
दयारूपा च भगिनी यमभीतिविमोचिनी ॥ ६८ ॥
विष्णुमन्त्रप्रदाता च स गुरुर्विष्णुभक्तिदः ।
गुरुश्च ज्ञानदाता च तज्ज्ञानं कृष्णभावनम् ॥ ६९ ॥
आब्रह्मस्तम्बपर्यन्तं यतो विश्वं चराचरम् ।
आविर्भूतं तिरोभूतं किं वा ज्ञानं तदन्यतः ॥ ७० ॥
वेदजं योगजं यद्यत्तत्सारं हरिसेवनम् ।
तत्त्वानां सारभूतं च हरेरन्यद्विडम्बनम् ॥ ७१ ॥
दत्तं ज्ञानं मया तुभ्यं स स्वामी ज्ञानदो हि यः ।
ज्ञानात्प्रमुच्यते बन्धात्स रिपुर्यो हि बन्धदः ॥ ७२ ॥
विष्णुभक्तियुतं ज्ञानं न ददाति हि योगतः ।
स विप्रः शिष्यघाती च यतो बन्धान्न मोचयेत् ॥ ७३ ॥
जननीगर्भजात्क्लेशाद्यमताडनजात्तथा ।
न मोचयेद्यः स कथं गुरुस्तातो हि बान्धवः ॥ ७४ ॥
परमानन्दरूपं च कृष्णमार्गमनश्वरम् ।
न दर्शयेद्यः स कथं कीदृशो बान्धवो नृणाम् ॥ ७५ ॥
भज साध्वि परं ब्रह्माच्युतं कृष्णं च निर्गुणम् ।
निर्मूलं च पुराकर्म भवेद्यत्सेवया ध्रुवम् ॥ ७६ ॥
मया छलेन त्वं त्यक्ता दोषं मे क्षम्यतां प्रिये ।
क्षमायुतानां साध्वीनां सत्त्वात्क्रोधो न विद्यते ॥ ७७ ॥
पुष्करे तपसे यामि गच्छ देवि यथासुखम् ।
श्रीकृष्णचरणाम्भोजे ध्यानविच्छेदकातरः ॥ ७८ ॥
धनादिषु स्त्रियां प्रीतिः प्रवृत्तिपथगामिनाम् ।
श्रीकृष्णचरणाम्भोजे निःस्पृहाणां मनोरथाः ॥ ७९ ॥
जरत्कारुवचः श्रुत्वा मनसा शोककातरा ।
सा साश्रुनेत्रा विनयादुवाच प्राणवल्लभम् ॥ ८० ॥
मनसोवाच
दोषेणाहं त्वया त्यक्ता निद्राभङ्गेन ते प्रभो ।
यत्र स्मरामि त्वां बन्धो तत्र मामागमिष्यसि ॥ ८१ ॥
बन्धुभेदः क्लेशतमः पुत्रभेदस्ततः परः ।
प्राणेशभेदः प्राणानां विच्छेदात् सर्वतः परः ॥ ८२ ॥
पतिः पतिव्रतानां च शतपुत्राधिकः प्रियः ।
सर्वस्माच्च प्रियः स्त्रीणां प्रियस्तेनोच्यते बुधैः ॥ ८३ ॥
पुत्रे यथैकपुत्राणां वैष्णवानां यथा हरौ ।
नेत्रे यथैकनेत्राणां तृषितानां यथा जले ॥ ८४ ॥
क्षुधितानां यथाऽन्ने च कामुकानां यथा स्त्रियाम् ।
यथा परस्वे चौराणां यथा जारे कुयोषिताम् ॥ ८५ ॥
विदुषां च यथा शास्त्रे वाणिज्ये वणिजां यथा ।
तथा शश्वन्मनः कान्ते साध्वीनां योषितां प्रभो ॥ ८६ ॥
इत्युक्त्वा मनसा देवी पपात स्वामिनः पदे ।
क्षणं चकार क्रोडे तां कृपया च कृपानिधिः ॥ ८७ ॥
नेत्रोदकेन मनसां स्नापयामास तां मुनिः ।
साऽश्रुणा च मुनेः क्रोडं सिषेवे भेदकातरा ॥ ८८ ॥
तदा ज्ञानेन तौ द्वौ च विशोकौ च बभूवतुः ।
स्मारं स्मारं पदाम्भोजं कृष्णस्य परमात्मनः ॥ ८९ ॥
जगाम तपसे विप्रः स कान्तां सुप्रबोध्य च ।
जगाम मनसा शंभोः कैलासं मन्दिरं गुरोः ॥ ९० ॥
पार्वती बोधयामास मनसां शोककर्शिताम् ।
शिवश्चातीव ज्ञानेन शिवेन च शिवालये ॥ ९१ ॥
सुप्रशस्ते दिने साध्वी सुषुवे मङ्गले क्षणे ।
नारायणांशं पुत्रं च ज्ञानिनां योगिनांगुरुम् ॥ ९२ ॥
गर्भस्थितो महाज्ञानं श्रुत्वा शंकरवक्त्रतः ।
स बभूव महायोगी योगिनां ज्ञानिनां गुरुः ॥ ९३ ॥
जातकं कारयामास वाचयामास मङ्गलम् ।
वेदांश्च पाठयामास शिवाय च शिवः शिशोः ॥ ९४ ॥
मणिरत्नत्रिकोटिं च ब्राह्मणेभ्यो ददौ शिवः ।
पार्वती च गवां लक्षं रत्नानि विविधानि च ॥ ९५ ॥
शंभुश्च चतुरो वेदान्वेदाङ्गानितरांस्तथा ।
बालकं पाठयामास ज्ञानं मृत्युंजयं परम् ॥ ९६ ॥
भक्तिरास्ते स्वकान्ते चाभीष्टे देवे हरौ गुरो ।
यस्यास्तेन च तत्पुत्रो बभूवास्तीक एव च ॥ ९७ ॥
जगाम तपसे विष्णोः पुष्करं शंकराज्ञया ।
संप्राप्य च महामन्त्रं तपश्च परमात्मनः ॥ ९८ ॥
दिव्यं वर्षत्रिलक्षं च तपस्तप्त्वा तपोधनः ।
आजगाम महायोगी नमस्कर्तुं शिवं प्रसूम् ॥ ९९ ॥
शंकरं च नमस्कृत्य पुरः कृत्वा च बालकम् ।
सा चाऽऽजगाम मनसा कश्यपस्याऽऽश्रमं पितुः ॥ १०० ॥
तां सपुत्रां सुतां दृष्ट्वा मुदं प्राप प्रजापतिः ।
शतलक्षं च रत्नानां ब्राह्मणेभ्योददौ मुने ॥ १०१ ॥
ब्राह्मणान्भोजयामास त्वसंख्याञ्छ्रेयसे शिशोः ।
अदितिश्च दितिश्चान्या मुदं प्रापुः परं तथा ॥ १०२ ॥
सा सपुत्रा च सुचिरं तस्थौ तातालये तदा ।
तदीयं पुनराख्यानं वक्ष्ये त्वं तन्निशामय ॥ १०३ ॥
अथाभिमन्युतनये ब्रह्मशापः परीक्षिते ।
बभूव सहसा ब्रह्मन्दैवदोषेण कर्मणा ॥ १०४ ॥
सप्ताहे समतीते तु तक्षकस्त्वां च दङ्क्ष्यति ।
शशाप शृङ्गी कौशिक्या जलं संस्पृश्य चेति सः ॥ १०५ ॥
राजा श्रुत्वा तत्प्रवृत्तिं गङ्गाद्वारं जगाम सः ।
तत्र तस्थौ च सप्ताहं शुश्रुवे धर्मसंहिताम् ॥ १०६ ॥
सप्ताहे समतीते तु गच्छन्तं तक्षकं पथि ।
धन्वन्तरिर्मोचयितुमपश्यद्गन्तुको नृपम् ॥ १०७ ॥
तयोर्बभूव संवादः सुप्रीतिश्च परस्परम् ।
धन्वन्तरेर्मणिं श्रेष्ठं तक्षकः स्वेच्छया ददौ ॥ १०८ ॥
स ययौ तं गृहीत्वा तु तुष्टः संहृष्टमानसः ।
तक्षको भक्षयामास नृपं मञ्चकसंस्थितम् ॥ १०९ ॥
राजा जगामवैकुण्ठं स्मारं स्मारं हरिं गुरुम् ।
संस्कारं कारयामास पितुर्वै जनमेजयः ॥ ११० ॥
राजा चकार यज्ञं च सर्पसत्राभिधं मुने ।
प्राणांस्तत्याज सर्पाणां समूहो ब्रह्मतेजसा ॥ १११ ॥
स तक्षकश्च भीतश्च महेन्द्रं शरणं ययौ ।
सेन्द्रं च तक्षकं हन्तुं विप्रवर्गः समुद्यतः ॥ ११२ ॥
अथ देवाश्च मुनयश्चाऽऽययुर्मनसान्तिकम् ।
तां तुष्टाव महेन्द्रश्च समक्षं भयकातरः ॥ ११३ ॥
तत आस्तीक आगत्य मातुर्यज्ञमथाऽऽज्ञया ।
महेन्द्रतक्षकप्राणान्ययाचे भूमिपं वरम् ॥ ११४ ॥
ददौ वरं नृपश्रेष्ठः कृपया ब्राह्मणाज्ञया ।
यज्ञं समाप्य विप्रेभ्यो दक्षिणां च ददौ मुदा ॥ ११५ ॥
विप्राश्च मुनयो देवा गत्वा च मनसान्तिकम् ।
मनमां पूजयामासुस्तुष्टुवुश्च पृथक्पृथक् ॥ ११६ ॥
शक्रः संभृतसंभारो भक्तियुक्तः सदा शुचिः ।
मनसां पूजयामास तुष्टाव परमादरात् ॥ ११७ ॥
उपचारैः षोडशभिर्बलिं दत्त्वा प्रियं तदा ।
प्रददौ परितुष्टश्च ब्रह्मन्विप्रसुराज्ञया ॥ ११८ ॥
संपूज्य मनसादेवीं प्रययुः स्वालयं च ते ।
इत्येवंकथितं सर्वं किं भूयः श्रोतुमिच्छसि ॥ ११९ ॥
नारद उवाच
केन स्तोत्रेण तुष्टाव महेन्द्रो मनसां सतीम् ।
पूजाविधिं क्रमं तस्याः श्रोतुमिच्छामितत्त्वतः ॥ १२० ॥
नारायण उवाच
सुस्नातः शुचिराचान्तो धृत्वा धौते च वाससी ।
रत्नसिंहासने देवीं वासयामास भक्तितः ॥ १२१ ॥
स्वर्गगङ्गाजलेनैव रत्नकुम्भस्थितेन च ।
स्नापयामास मनसां महेन्द्रो वेदमन्त्रतः ॥ १२२ ॥
वाससी वासयामास वह्निशुद्धे मनोरमे ।
सर्वाङ्गे चन्दनं लिप्त्वा पाद्यार्घ्यं भक्तिसंयुतः ॥ १२३ ॥
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ।
संपूज्याऽऽदौ देवषट्कं पूजयामास तां सतीम् ॥ १२४ ॥
ॐ ह्रीं श्रीं मनसादेव्यै स्वाहेत्येव च मन्त्रतः ।
दशाक्षरेण मन्त्रेण ददौ सर्वान्यथोचितम् ॥ १२५ ॥
उपचारान्षोडशकान्भक्तितो दुर्लभान्हरिः ।
पूजयामास भक्त्या च ब्रह्मणा प्रेरितो मुदा ॥ १२६ ॥
वाद्यं नानाप्रकारं च वादयामास तत्र वै ।
बभूव पुष्पवृष्टिश्च नभसो मनसोपरि ॥ १२७ ॥
देव विप्राज्ञया तत्र ब्रह्मविष्णुशिवाज्ञया ।
तुष्टाव साश्रुनेत्रश्च पुलकाञ्चितविग्रहः ॥ १२८ ॥
महेन्द्र उवाच
देवि त्वां स्तोतुमिच्छामि साध्वीनां प्रवरां पराम् ।
परात्परा च परमां नहि स्तोतुं क्षमोऽधुना ॥ १२९ ॥
स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतः परम् ।
न क्षमः प्रकृतिं वक्तुं गुणानां तव सुव्रते ॥ १३० ॥
शुद्धसत्त्वस्वरूपा त्वं कोपहिंसाविवर्जिता ।
न च शप्तो मुनिस्तेन त्यक्तया च त्वया यतः ॥ १३१ ॥
त्वं मया पूजिता साध्वी जननी च यथाऽदितिः ।
दयारूपा च भगिनी क्षमारूपा यथा प्रसूः ॥ १३२ ॥
त्वया मे रक्षिताः प्राणाः पुत्रदाराः सुरेश्वरि ।
अहं करोमि त्वां पूज्यां मम प्रीतिश्च वर्धते ॥ १३३ ॥
नित्यं यद्यपि पूज्या त्वं भवेऽत्र जगदम्बिके ।
तथाऽपि तव पूजां वै वर्धयामि पुनः पुनः ॥ १३४ ॥
ये त्वामाषाढसंक्रान्त्यां पूजयिष्यन्ति भक्तितः ।
पञ्चम्यां मनसाख्यायां मासान्ते वा दिने दिने ॥ १३५ ॥
पुत्रपौत्रादयस्तेषां वर्धन्ते च धनानि च ।
यशस्विनः कीर्तिमन्तो विद्यावन्तो गुणान्विताः ॥ १३६ ॥
ये त्वां न पूजयिष्यन्ति निन्दत्यज्ञानतो जनाः ।
लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा ॥ १३७ ॥
त्वं स्वर्गलक्ष्मीः स्वर्गे च वैकुण्ठे कमलाकला ।
नारायणांशो भगवाञ्जरत्कारुर्मुनीश्वरः ॥ १३८ ॥
तपसा तेजसा त्वां च मनसा ससृजे पिता ।
अस्माकं रक्षणायैव तेन त्वं मनसाभिधा ॥ १३९ ॥
मनसा देवितुं शक्ता चाऽऽत्मना सिद्धयोगिनी ।
तेन त्वं मनसादेवी पूजिता वन्दिता भवे ॥ १४० ॥
यां भक्त्या मनसा देवाः पूजयन्त्यनिशं भृशम् ।
तेन त्वां मनसादेवीं प्रवदन्ति पुराविदः ॥ १४१ ॥
सत्त्वरूपा च देवी त्वं शश्वत्सत्त्वनिषेवया ।
यो हि यद्भावयेन्नित्यं शतं प्राप्नोति तत्समम् ॥ १४२ ॥
इन्द्रश्च मनसां स्तुत्वा गृहीत्वा भगिनीं च ताम् ।
निर्जगाम स्वभवनं भषावासपरिच्छदाम् ॥ १४३ ॥
पुत्रेण सार्धं सा देवी चिरं तस्थौ पितुर्गृहे ।
भ्रातृभिः पूजिता शश्वन्नान्या वन्द्या च सर्वतः ॥ १४४ ॥
गोलोकात्सुरभी ब्रह्मंस्तत्राऽगत्य सुपूजिताम् ।
तां स्नापयित्वा क्षीरेण पूजयामास सादरम् ॥ १४५ ॥
ज्ञानस्य कथयामास स्वरूपं सर्वदुर्लभम् ।
तदा देवैः पूजिता सा स्वर्गलोकं पुनर्ययौ ॥ १४६ ॥
इदं स्तोत्रं पुण्यबीजं तां संपूज्य च यः पठेत् ।
तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ॥ १४७ ॥
विषं भवेत्सुधातुल्यं सिद्धस्तोत्रं यदा पठेत् ।
पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः ।
सर्पशायी भवेत्सोऽपि निश्चितं सर्पवाहनः ॥ १४८ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे मनसोपाख्याने तदुत्पत्तिपूजा-
स्तोत्रादिकथनं नाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥
GO TOP
|