ब्रह्मवैवर्तपुराणम्
द्वितीयं प्रकृतिखण्डम् - पञ्चचत्वारिंशोऽध्यायः
मनसोपाख्याने मनसास्तोत्रादिकथनम् -
नारायण उवाच
उक्तं द्वयोरुपाख्यानं ब्रह्मपुत्र यथागमम् ।
श्रूयतां मनसाख्यानं यच्छ्रुतं धर्मवक्त्रतः ॥ १ ॥
कन्या भगवती सा च कश्यपस्य च मानसी ।
तेनेयं मनसादेवी मनसा या च दीव्यति ॥ २ ॥
मनसा ध्यायते या वा परमात्मानमीश्वरम् ।
तेन सा मनसादेवी योगेनैतेन दीव्यति ॥ ३ ॥
आत्मारामा च सा देवी वैष्णवी सिद्धयोगिनी ।
त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः ॥ ४ ॥
जरत्कारुशरीरं च दृष्ट्वा यां क्षणमीश्वरः ।
गोपीपतिर्नाम चक्रे जरत्कारुरिति प्रभुः ॥ ५ ॥
वाञ्छितं च ददौ तस्यै कृपया च कृपानिधिः ।
पूजां च कारयामास चकार च पुनः स्वयम् ॥ ६ ॥
स्वर्गे च नागलोके च पृथिव्यां ब्रह्मलोकतः ।
भृशं जगत्सु गौरी सा सुन्दरी च मनोहरा ।
जगद्गौरीति विख्याता तेन सा पूजिता सती ॥ ७ ॥
शिवशिष्या च सा देवी तेन शैवीति कीर्तिता ।
विष्णुभक्ताऽतीव रम्या वैष्णवी तेन नारद ॥ ८ ॥
नागानां प्राणरक्षित्री जनमेजययज्ञके ।
नागेश्वरीति विख्याता सा नागभगिनी तथा ॥ ९ ॥
विषं संहर्तुमीशा सा तेन सा विषहारिणी ।
सिद्धं योगं हरात्प्राप तेनासौ सिद्धयोगिनी ॥ १० ॥
महाज्ञानं च गोप्यं च मृतसंजीविनीं पराम् ।
महाज्ञानयुतां तां च प्रवदन्ति मनीषिणः ॥ ११ ॥
आस्तीकस्य मुनीन्द्रस्य माता सा वै तपस्विनः ।
आस्तीकमाता विख्याता जरत्कारुरिति स्मृता ॥ १२ ॥
प्रिया मुनेर्जरत्कारोर्मुनीन्द्रस्य महात्मनः ।
योगिनी विश्वपूज्यस्य जरत्कारोः प्रिया ततः ॥ १३ ॥
२ नमो मनसायै ॥ १४ ॥
जरत्कारुर्जगद्गौरी मनसा सिद्धयोगिनी ।
वैष्णवी नागभगिनी शैवी नागेश्वरी तथा ॥ १५ ॥
जरत्कारुप्रियाऽऽस्तीकमाता विषहरीति च ।
महाज्ञानयुता चैव सा देवी विश्वपूजिता ॥ १६ ॥
द्वादशैतानि नामानि पूजाकाले च यः पठेत् ।
तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ॥ १७ ॥
नागभीदे च शयने नागग्रस्ते च मन्दिरे ।
नागक्षते नागदुर्गे नागवेष्टितविग्रहे ॥ १८ ॥
इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः ।
नित्यं पठेद्यस्तं दृष्ट्वा नागवर्गः पलायते ॥ १९ ॥
दशलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ।
स्तोत्रं सिद्धं भवेद्यस्य स विषं भोक्तुमीश्वरः ॥ २० ॥
नागौघं भूषणं कृत्वा स भवेन्नागवाहनः ।
नागासनो नागतल्पो महासिद्धो भवेन्नरः ॥ २१ ॥
इति श्री ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे मनसोपाख्याने
मनसास्तोत्रादिकथनं नाम पञ्चचत्वारिशोऽध्यायः ॥ ४५ ॥
GO TOP
|