ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - एकत्रिंशोऽध्यायः

कर्मविपाके पापिनां कुण्डनिर्णयः -


यम उवाच
हरिसेवां विना साध्वि न लभेत्कर्मखण्डनम् ।
शुभकर्म स्वर्गबीजं नरकं च कुकर्मतः ॥ १ ॥
पुश्चल्यन्नं च यो भुङक्ते वेश्यान्नं च पतिव्रते ।
तां व्रजेत्तु द्विजो योहि कालसूत्रं प्रयाति सः ॥ २ ॥
शतवर्षं कालसूत्रे स्थित्वा शूद्रो भवेद्ध्रुवम् ।
तत्र जन्मनि रोगी च ततः शुद्धो भवेद्‌द्विजः ॥ ३ ॥
पतिव्रता चैकपत्‍नी द्वितीये कुलटा स्मृता ।
तृतीये धर्षिणी ज्ञेया चतुर्थे पुंश्चली स्मृता ॥ ४ ॥
वेश्या च पञ्चमे षष्ठे युग्मी च सप्तमेऽष्टमे ॥
ततः ऊर्ध्वं महावेश्या साऽस्पृश्या सर्वजातिषु ॥ ५ ॥
यो द्विजः कुलटां गच्छेद्धर्षिणीं पुंश्चलीमपि ।
वेश्यां युग्मीं महावेश्यामवटोदं प्रयाति सः ॥ ६ ॥
शताब्दं कुलटागामी धृष्टागामी चतुर्गुणम् ।
षड्गुणं पुंश्चलीगामी वेश्यागामी गुणाष्टकम् ॥ ७ ॥
युग्मीगामी दशगुणं वसेत्तत्र न संशयः ।
महावेश्याकामुकश्च ततः शतगुणं वसेत् ॥ ८ ॥
तदा हि सर्वगामी चेत्येवमाह पितामहः ।
तत्रैव यातनां भुङ्क्ते यमदूतेन ताडितः ॥ ९ ॥
तित्तिरः कुलटागामी धृष्टागामी च वायसः ।
कोकिलः पुंश्चलीगामी वेश्यागामी वृकस्तथा ॥ १ ० ॥
युग्मीगामी सूकरश्च सप्तजन्मसु भारते ।
महावेश्याकामुकश्च श्मशाने शाल्मलिस्तरुः ॥ ११ ॥
यो भुङ्क्ते ज्ञानहीनश्च ग्रहणे चन्द्रसूर्ययोः ।
अरुंतुदं स यात्येव चन्द्रमानाब्दमेव च ॥ १२ ॥
ततो भवेन्मानवश्चाप्युदरव्याधिसंयुतः ।
गुल्मयुक्तश्च काणश्च दन्तहीनस्ततः शुचिः ॥ १ ३ ॥
वाक्प्रदत्तां हि कन्यां च यश्चान्यस्मै ददाति च ।
स वसेत्पांशुभोगे च तद्‌भोजो च शताब्दकम् ॥ १४ ॥
दत्तापहारी यः साध्वि पाशवेष्टं शताब्दकम् ।
निवसेच्छरशय्यायां यमदूतेन ताडितः ॥ १५ ॥
न पूजयेद्यो हि भक्त्या शिवलिङ्‌गं च पार्थिवम् ।
स याति शूलिनः कोपाच्छूलप्रोतं सुदारुणम् ॥ १६ ॥
स्थित्वा शताब्दं तत्रैव श्वापदः सप्तजन्मसु ।
ततो भवेद्‌देवलश्च सप्तजन्मस्वतः शुचिः ॥ १७ ॥
करोति दण्डं यो विप्रे यद्‌भयात्कम्पते द्विजः ।
प्रकम्पने वसेत्सोऽपि विप्रलोमाब्दमेव च ॥ १८ ॥
प्रकोपवदना कोपात्स्वामिनं या च पश्यति ।
कटूक्तिं तं च वदति याति चोल्कामुखं च सा ॥ १९ ॥
उल्कां ददाति वक्त्रे च सततं यमकिङ्‌करः ।
दण्डेन ताडयेन्मूर्ध्नि तल्लोमाब्दप्रमाणकम् ॥ २० ॥
ततो भवेन्मानवी च विधवा सप्तजन्मसु ।
भुक्त्वा दुःखं च वैधव्यं व्याधियुक्ता ततः शुचिः ॥ २१ ॥
या ब्राह्मणी शूद्रभोग्या साऽन्धकूपं प्रयाति च ।
तप्तशौचोदके ध्वान्ते तदाहारा दिवानिशम् ॥ २२ ॥
निवसेदतिसंतप्ता यमदूतेन ताडिता ।
शौचोदके निमग्ना च यावदिन्द्राश्चतुर्दश ॥ २३ ॥
काकी जन्मसहस्राणि शतजन्मानि सूकरी ।
कुक्कुटी शतजन्मानि शृगाली सप्तजन्मसु ॥ २४ ॥
पारावती सप्तजनौ वानरी सप्तजन्मसु ।
ततो भवेत्सा चण्डाली सर्वभोग्या च भारते ॥ २५ ॥
ततो भवेच्च रजकी यक्ष्मग्रस्ता च पुंश्चली ।
ततः कुष्ठयुता तैलकारी शुद्धा भवेत्ततः ॥ २६ ॥
वेश्या वसेद्वेधने च युग्मी वै दण्डताडने ।
जालबन्धे महावेश्या कुलटा देहचूर्णके ॥ २७ ॥
स्वैरिणी दलने चैव धृष्टा वै शोषणे तथा ।
निवसेद्यातनायुक्ता यमदूतेन ताडिता ॥ २८ ॥
विण्मूत्रभक्षणं तत्र यावन्मन्वन्तरं सति ।
ततो भवेद्विट्कृमिश्च वर्षलक्षं ततः शुचिः ॥ २९ ॥
ब्राह्मणो ब्राह्मणीं गच्छेत्क्षत्रियामपि क्षत्रियः ।
वैश्यो वैश्यां च शूद्रां च शूद्रो वाऽपि व्रजेद्यदि ॥ ३० ॥
स्ववर्णपरदारी च कषं याति तथा सह ।
भुक्त्वा कषायतप्तोदं निवसेद्‌द्वादशाब्दकम् ॥ ३१ ॥
ततो विप्रो भवेच्छुद्धश्चैवं च क्षत्रियादयः ।
योषितश्चापि शुध्यन्तीत्येवमाह पितामहः ॥ ३२ ॥
क्षत्रियो ब्राह्मणीं गच्छेद्वैश्यो वाऽपि पतिव्रते ।
मातृगामी भवेत्सोऽपि शूर्पं च नरकं व्रजेत् ॥ ३३ ॥
शूर्पाकारैश्च कृमिभिर्ब्राह्मण्या सह भक्षितः ।
प्रतप्तमूत्रभोजी च यमदूतेन ताडितः ॥ ३४ ॥
तत्रैव यातनां भुङ्‍क्ते यावदिन्द्राश्चतुर्दश ।
सप्तजन्मसु वाराहश्छागलश्च ततः शुचिः ॥ ३५ ॥
करे धृत्वा च तुलसीं प्रतिज्ञां यो न पालयेत् ।
मिथ्या वा शपथं कुर्यात्स च ज्वालामुखं व्रजेत् ॥ ३६ ॥
गङ्गातोयं करे धृत्वा प्रतिज्ञां यो न पालयेत् ।
शिलां च देवप्रतिमां स च ज्वालामुखं व्रजेत् ॥ ३७ ॥
दत्त्वा च दक्षिणं हस्तं प्रतिज्ञां यो न पालयेत् ।
स्थित्वा देवगृहे वाऽपि स च ज्वालामुखं व्रजेत् ॥ ३८ ॥
स्पृष्ट्‍वा च ब्राह्मणं गां च वह्निं विष्णुसमं सति ।
न पालयेत्प्रतिज्ञां च स च ज्वालामुखं व्रजेत् ॥ ३९ ॥
मित्रद्रोही कृतघ्नश्च यो हि विश्वासघातकः ।
मिथ्यासाक्ष्यप्रदश्चैव स च ज्वालामुखं व्रजेत् ॥ ४० ॥
एते तत्र वसन्त्येव यावदिन्द्राश्चतुर्दश ।
यथाऽङ्‌गारप्रदग्धाश्च यमदूतैश्च ताडिताः ॥ ४१ ॥
चण्डालस्तुलसीस्पर्शी सप्तजन्मस्वतः शुचिः ।
म्लेच्छो गङ्‌गाजलस्पर्शी पञ्चजन्मस्वतः शुचिः ॥ ४२ ॥
शिलास्पर्शी विट्कृमिश्च सप्तजन्मसु सुन्दरि ।
अर्चास्पर्शी व्रणकृमिः सप्तजन्मस्वतः शुचिः ॥ ४३ ॥
दक्षहस्तप्रदाता च सर्पः स्यात्सप्तजन्मसु ।
ततो भवेद्धस्तहीनो मानवश्च ततः शुचिः ॥ ४४ ॥
मिथ्यावादी देवगृहे देवलः सप्तजन्मसु ।
विप्रादिस्पर्शकारी च सोऽग्रदानी भवेद्ध्रुवम् ॥ ४५ ॥
ततो भवन्ति मूकास्ते बधिराश्च त्रिजन्मसु ।
भार्याहीना वंशहीना बुद्धिहीनास्ततः शुचिः ॥ ४६ ॥
मित्रद्रोही च नकुलः कृतघ्नश्चापि गण्डकः ।
विश्वासघाती व्याघ्रश्च सप्तजन्मसु भारते ॥ ४७ ॥
मिथ्यासाक्ष्यप्रदश्चैव भल्लूकः सप्तजन्मसु ।
पूर्वान्सप्त परान्सप्त पुरुषान्हन्ति चाऽऽत्मनः ॥ ४८ ॥
नित्यक्रियाविहीनश्च जडत्वेन युतो द्विजः ।
यस्यानास्था वेदवाक्ये मन्दं हसति संततम् ॥ ४९ ॥
व्रतोपवासहीनश्च सद्वाक्यपरिनिन्दकः ।
जिह्मे जिह्मो वसेत्सोऽपि शताब्दं च हिमोदके ॥ ५० ॥
जलजन्तुर्भवेत्सोऽपि शतजन्मक्रमेण च ।
ततो नानाप्रकारा च मत्स्यजातिस्ततः शुचिः ॥ ५१ ॥
यो वा धनस्यापहारं देवब्राह्मणयोश्चरेत् ।
पातयित्वा स्वपुरुषान्दश पूर्वान्दशापरान् ॥ ५२ ॥
स्वयं याति च धूमान्धं धूमध्वान्तसमन्वितम् ।
धूमक्लिष्टो धूमभोजी वसेत्तत्र चतुर्युगम् ॥ ५३ ॥
ततो मूषकजातिश्च शतजन्मानि भारते ।
ततो नानाविधाः पक्षिजातयः कृमिजातयः ॥ ५४ ॥
ततो नानाविधा वृक्षजातयश्च ततो नरः ।
भार्याहीनो वंशहीनः शबरो व्याधिसंयुतः ॥ ५५ ॥
ततो भवेत्स्वर्णकारः सुवर्णस्य वणिक्तथा ।
ततो यवनसेवी च ब्राह्मणो गणकस्ततः ॥ ५६ ॥
विप्रो दैवज्ञोपजीवी वैद्यजीवी चिकित्सकः ।
व्यापारी लोहलाक्षादे रसादेर्विक्रयी च यः ॥ ५७ ॥
स याति नागवेष्टं च नागैर्वेष्टित एव च ।
वसेत्स्वलोममानाब्दं तत्र वै नागदंशितः ॥ ५८ ॥
ततो भवेत्स गणको वैद्यो वै सप्तजन्मसु ।
गोपश्च कर्मकारश्च शङखकारस्ततः शुचिः ॥ ५९ ॥
प्रसिद्धानि च कुण्डानि कथितानि पतिव्रते ।
अन्यानि चाप्रसिद्धानि तत्र क्षुद्राणि सन्ति वै ॥ ६० ॥
सन्ति पातकिनस्तेषु स्वकर्मफलभोगिनः ।
भ्रमन्ति तावत्संसारे किं भूयः श्रोतुमिच्छसि ॥ ६१ ॥
इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे सावित्र्युपाख्याने
यमसावित्रीसंवादे कर्मविपाके पापिनां
कुण्डनिर्णयो नामैकत्रिंशोऽध्यायः ॥ ३१ ॥


GO TOP