ब्रह्मवैवर्तपुराणम्
द्वितीयं प्रकृतिखण्डम् - अष्टाविंशोऽध्यायः
सावित्र्युपाख्याने सावित्रीकृतयमस्तोत्रम् -
श्रीनारायण उवाच
हरेरुत्कीर्तनं श्रुत्वा सावित्री यमवक्त्रतः ।
साश्रुनेत्रा सपुलका यमं पुनरुवाच सा ॥ १ ॥
सावित्र्युवाच
हरेरुत्कीर्तनं धर्म स्वकुलोद्धारकारणम् ।
श्रोतृणां चैव वक्तृणां जन्ममृत्युजराहरम् ॥ २ ॥
दानानां च व्रतानां च सिद्धीनां तपसां परम् ।
योगानां चैव वेदानां सेवनं कीर्तनं हरेः ॥ ३ ॥
मुक्तत्वममरत्वं वा सर्वसिद्धित्वमेव वा ।
श्रीकृष्णसेवनस्यैव कलां नार्हन्ति षोडशीम् ॥ ४ ॥
भजामि केन विधिना श्रीकृष्णं प्रकृतेः परम् ।
मूढां मामबलां तात वद वेदविदां वर ॥ ५ ॥
शुभकर्मविपाकं च श्रुतं नृणां मनोहरम् ।
कर्माशुभविपाकं च तन्मे व्याख्यातुमर्हसि ॥ ६ ॥
इत्युक्त्वा सा सती ब्रह्मन्भक्तिनम्रात्मकंधरा ।
तुष्टाव धर्मराजं च वेदोक्तेन स्तवेन च ॥ ७ ॥
सावित्र्युवाच
तपसा धर्ममाराध्य पुष्करे भास्करः पुरा ।
धर्मांशं यं सुतं प्राप धर्मराजं नमाम्यहम् ॥ ८ ॥
समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः ।
अतो यन्नाम शमनमिति तं प्रणमाम्यहम् ॥ ९ ॥
येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् ।
कर्मानुरूपकालेन तं कृतान्तं नमाम्यहम् ॥ १ ० ॥
बिभर्ति दण्डं दण्ड्याय पापिनां शुद्धिहेतवे ।
नमामि तं दण्डधरं यः शास्ता सर्वकर्मणाम् ॥ ११ ॥
विश्वे यः कलयत्येव सर्वायुश्चापि संततम् ।
अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् ॥ १२ ॥
तपस्वी वैष्णवो धर्मी संयमी विजितेन्द्रियः ।
जीविनो कर्मफलदं तं यमं प्रणमाम्यहम् ॥ १ ३ ॥
स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् ।
पापिनं क्लेशदो यस्य पुत्रो मित्रो नमाम्यहम् ॥ १४ ॥
यज्जन्म ब्रह्मणो वंशे ज्वलन्तं ब्रह्मतेजसा ।
यो ध्यायति परं ब्रह्म ब्रह्मवंशं नमाम्यहम् ॥ १५ ॥
इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने ।
यमस्तां विष्णुभजनं कर्मपाकमुवाच ह ॥ १६ ॥
इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् ।
यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते ॥ १७ ॥
महापापी यदि पठेन्नित्यं भक्त्या च नारद ।
यमः करोति तं शुद्धं कायव्यूहेन निश्चितम् ॥ १८ ॥
इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे सावित्र्युपाख्याने
सावित्रीकृतयमस्तोत्र नामाष्टाविशोऽध्यायः ॥ २८ ॥
GO TOP
|