ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - सप्तविंशोऽध्यायः

सावित्र्युपाख्याने यमसावित्रीसंवादे शुभकर्मविपाककथनम् -


सावित्र्युवाच
प्रयान्ति स्वर्गमन्यं च येन येनैव कर्मणा ।
मानवाः पुण्यवन्तश्च तन्मे व्याख्यातुमर्हसि ॥ १ ॥
यम उवाच
अन्नदानं च विप्राय यः करोति च भारते ।
अन्नप्रमाणवर्षं च शक्रलोके महीयते ॥ २ ॥
अन्नदानात्परं दानं न भूतं न भविष्यति ।
नात्र पात्रपरीक्षा स्यान्न कालनियमः क्वचित् ॥ ३ ॥
देवेभ्यो ब्राह्मणेभ्यो वा ददाति चाऽऽसनं यदि ।
महीयते वह्निलोके वर्षाणामयुतं ध्रुवम् ॥ ४ ॥
यो ददाति च विप्राय दिव्यां धेनुं पयस्विनीम् ।
तल्लोममानवर्षं च वैकुण्ठे च महीयते ॥ ५ ॥
चतुर्गुणं पुण्यदिने तीर्थे शतगुणं फलम् ।
दानं नारायणक्षेत्रे फलं कोटिगुणं भवेत् ॥ ६ ॥
गां यो ददाति विप्राय भारते भक्तिपूर्वकम् ।
वर्षाणामयुतं चैव चन्द्रलोके महीयते ॥ ७ ॥
यश्चोभयमुखीदानं करोति ब्राह्मणाय च ।
तल्लोममानवर्षं च वैकुण्ठे च महीयते ॥ ८ ॥
यो ददाति ब्राह्मणाय शालिग्रामं सवस्त्रकम् ।
महीयते स वैकुण्ठे यावच्चन्द्रदिवाकरौ ॥ ९ ॥
यो ददाति ब्राह्मणाय च्छत्रं च सुमनोहरम् ।
वर्षाणामयुतं सोऽपि मोदते वरुणालये ॥ १० ॥
विप्राय पादुकायुग्मं यो ददाति च भारते ।
महीयते वायुलोके वर्षाणामयुतं सति ॥ ११ ॥
यो ददाति ब्राह्मणाय शय्यां दिव्यां मनोहराम् ।
महीयते चन्द्रलोके यावच्चन्द्रदिवाकरौ ॥ १२ ॥
यो ददाति प्रदीपं च देवाय ब्राह्मणाय च ।
यावन्मन्वन्तरं सोऽपि ब्रह्मलोके महीयते ॥ १३ ॥
संप्राप्य मानवीं योनिं चक्षुष्मांश्च भवेद्ध्रुवम् ।
न याति यमलोकं च तेन पुण्येन सुन्दरि ॥ १४ ॥
करोति गजदानं च यो हि विप्राय भारते ।
यावदिन्द्रादिदेवस्य लोके चार्धासने वसेत् ॥ १५ ॥
भारते योऽश्वदानं च करोति ब्राह्मणाय च ।
मोदते वारुणे लोके यावदिन्द्राश्चतुर्दश ॥ १६ ॥
प्रकृष्टां शिबिकां यो हि ददाति ब्राह्मणाय च ।
महीयते विष्णुलोके यावन्मन्वन्तरं सति ॥ १७ ॥
यो ददाति च विप्राय व्यजनं श्वेतचामरम् ।
महीयते वायुलोके वर्षाणामयुतं ध्रुवम् ॥ १८ ॥
धान्याचलं यो ददाति ब्राह्मणाय च भारते ।
स च धान्यप्रमाणाब्दं विष्णुलोके महीयते ॥ १९ ॥
ततः स्वयोनिं संप्राप्य चिरजीवी भवेत्सुखी ।
दाता ग्रहीता तौ द्वौ च ध्रुवं वैकुण्ठगामिनौ ॥ २० ॥
सततं श्रीहरेर्नाम भारते यो जपेन्नरः ।
स एव चिरजीवी च ततो मृत्युः पलायते ॥ २१ ॥
यो नरो भारते वर्षे दोलनं कारयेद्धरेः ।
पूर्णिमारजनीशेषे जीवन्मुक्तो भवेन्नरः ॥ २२ ॥
इह लोके सुखं भुक्त्वा यात्यन्ते विष्णुमन्दिरम् ।
निश्चितं निवसेत्तत्र शतमन्वन्तरावधि ॥ २३ ॥
फलमुत्तरफाल्गुन्यां ततोऽपि द्विगुणं भवेत् ।
कल्पान्तजीवी स भवेदित्याह कमलोद्‌भवः ॥ २४ ॥
तिलदानं ब्राह्मणाय यः करोति च भारते ।
तिलप्रमाणवर्षं च मोदते विष्णुमन्दिरे ॥ २५ ॥
ततः स्वयोनिं संप्राप्य चिरजीवी भवेत्सुखी ।
ताम्रपात्रस्थदानेन द्विगुणं च फलं लभेत् ॥ २६ ॥
सालंकृतां च भोग्यां च सवस्त्रां सुन्दरीं प्रियाम् ।
यो ददाति ब्राह्मणाय भारते च पतिव्रताम् ॥ २७ ॥
महीयते चन्द्रलोके यावदिन्द्राश्चतुर्दश ।
तत्र स्वर्वेश्यया सार्धं मोदते च दिवानिशम् ॥ २८ ॥
ततो गन्धर्वलोके च वर्षाणामयुतं सति ।
दिवानिशं कौतुकेन चोर्वश्या सह मोदते ॥ २९ ॥
ततो जन्मसहस्रं च प्राप्नोति सुन्दरीं प्रियाम् ।
सतीं सौभाग्ययुक्तां च कोमलां प्रियवादिनीम् ॥ ३० ॥
ददाति सफलं वृक्षं ब्राह्मणाय च यो नरः ।
फलप्रमाणवर्षं च शक्रलोके महीयते ॥ ३१ ॥
पुनः स्वयोनिं संप्राप्य लभते सुतमुत्तमम् ।
सफलानां च वृक्षाणां सहस्रं च प्रशंसितम् ॥ ३२ ॥
केवलं फलदानं च ब्राह्मणाय ददाति यः ।
सुचिरं स्वर्गवासं च कृत्वा याति च भारतम् ॥ ३३ ॥
नानाद्रव्यसमायुक्तं नानासस्यसमन्वितम् ।
ददाति यश्च विप्राय भारते विपुलं गृहम् ॥ ३४ ॥
कुबेरलोके वसति स च मन्वन्तरावधि ।
ततः स्वयोनिं संप्राप्य महांश्च धनवान्भवेत् ॥ ३५ ॥
यो जनः सस्यसंयुक्तां भूमिं च रुचिरां सति ।
ददाति भक्त्या विप्राय पुण्यक्षेत्रे च वा सति ॥ ३६ ॥
महीयते स वैकुण्ठे मन्वन्तरशतं ध्रुवम् ।
पुनः स्वयोनिं संप्राप्य महांश्च भूमिवान्भवेत् ॥ ३७ ॥
तं न त्यजति भूमिश्च जन्मनां शतकं परम् ।
श्रीमांश्च धनवांश्चैव पुत्रवांश्च प्रजेश्वरः ॥ ३८ ॥
सप्रजं च प्रकृष्टं च ग्रामं दद्याद्‌द्विजातये ।
लक्षमन्वन्तरं चैव वैकुण्ठे स महीयते ॥ ३९ ॥
पुनः स्वयोनिं संप्राप्य ग्रामलक्षं लभेद्ध्रुवम् ।
न जहाति च तं पृथ्वी जन्मनां लक्षमेव च ॥ ४० ॥
सप्रजं सुप्रकृष्टं च पक्वसस्यसमन्वितम् ।
नानापुष्करिणीवृक्षं फलभोगसमन्वितम् ॥ ४१ ॥
नगरं यश्च विप्राय ददाति भारते भुवि ।
महीयते स वैकुण्ठे दशलक्षेन्द्रकालकम् ॥ ४२ ॥
पुनः स्वयोनिं संप्राप्य राजेन्द्रो भारते भवेत् ।
नगराणां च नियुतं लभते नात्र संशयः ॥ ४३ ॥
धरा तं न जहात्येव जन्मनां नियुतं ध्रुवम् ।
परमैश्वर्यसंयुक्तो भवेदेव महीतले ॥ ४४ ॥
नगराणां च शतकं देशं यो हि द्विजातये ।
सुप्रकृष्टप्रजायुक्तं ददाति भक्तिपूर्वकम् ॥ ४५ ॥
वापीतडागसंयुक्तं नानावृक्षसमन्वितम् ।
महीयते स वैकुण्ठे कोटिमन्वन्तरावधि ॥ ४६ ॥
पुनः स्वयोनिं संप्राप्य जम्बूद्वीपपतिर्भवेत् ।
परमैश्वर्यसंयुक्तो यथा शक्रस्तथा भुवि ॥ ४७ ॥
मही तं न जहात्येव जन्मनां कोटिमेव च ।
कल्पान्तजीवी स भवेद्‌राजराजेश्वरो महान् ॥ ४८ ॥
स्वाधिकारं समग्रं च यो ददाति द्विजातये ।
चतुर्गुणं फलं चातो भवेत्तस्य न संशयः ॥ ४९ ॥
जम्बूद्वीपं यो ददाति ब्राह्मणाय पतिव्रते ।
फलं शतगुणं चातो भवेत्तस्य न संशयः ॥ ५० ॥
सप्तद्वीपमहीदातुः सर्वतीर्थानुसेविनः ।
सर्वेषां तपसां कर्तुः सर्वोपवासकारिणः ॥ ५१ ॥
सर्वदानप्रदातुश्च सर्वसिद्धेश्वरस्य च ।
अन्त्येव पुनरावृत्तिर्न भक्तस्य हरेरहो ॥ ५२ ॥
असंख्यब्रह्मणां पातं पश्यन्ति वैष्णवाः सति ।
निवसन्ति हि गोलोके वैकुण्ठे वा हरेः पदे ॥ ५३ ॥
विष्णुमन्त्रोपासकश्च विहाय मानवीं तनुम् ।
बिभर्ति दिव्यरूपं च जन्ममृत्युजरापहम् ॥ ५४ ॥
लब्ध्वा विष्णोश्च सारूप्यं विष्णुसेवां करोति च ।
स च पश्यति गोलोके ह्यसंख्यं प्राकृतं लयम् ॥ ५५ ॥
नश्यन्ति देवाः सिद्धाश्च विश्वानि निखिलानि च ।
कृष्णभक्ता न नश्यन्ति जन्ममृत्युजराहराः ॥ ५६ ॥
कार्तिके तुलसीदानं करोति हरये च यः ।
युगं पत्रप्रमाणं च मोदते हरिमन्दिरे ॥ ५७ ॥
पुनः स्वयोनिं संप्राप्य हरिभक्ति लभेद्ध्रुवम् ।
सुखी च चिरजीवी च स भवेद्‌भारते भुवि ॥ ५८ ॥
घृतप्रदीपं हरये कार्तिके यो ददाति च ।
पलप्रमाणं वर्षं च मोदते हरिमन्दिरे ॥ ५९ ॥
पुनः स्वयोनिं संप्राप्य विष्णुभक्तिं लभेद्ध्रुवम् ।
महाधनाढ्यः स भवेच्चक्षुष्मांश्चैव दीप्तिमान् ॥ ६० ॥
माघे यः स्नाति गङ्गायामरुणोदयकालतः ।
युगषष्टिसहस्राणि मोदते हरिमन्दिरे ॥ ६१ ॥
पुनः स्वयोनिं संप्राप्य विष्णुर्भक्तिं लभेद्ध्रुवम् ।
जितेन्द्रियाणां प्रवरः स भवेद्‌भारते भुवि ॥ ६२ ॥
माघे यः स्नाति गङ्‌गायां प्रयागे चारुणोदये ।
वैकुण्ठे मोदते सोऽपि लक्षमन्वन्तरावधि ॥ ६३ ॥
पुनः स्वयोनिं संप्राप्य विष्णुमन्त्रं लभेद्ध्रुवम् ।
त्यक्त्वा च मानुषं देहं पुनर्यातिहरेः पदम् ॥ ६४ ॥
नास्ति तत्पुनरावृत्तिर्वैकुण्ठाच्च महीतले ।
करोति हरिदास्यं च लब्ध्वा सारूप्यमेव च ॥ ६५ ॥
नित्यस्नायी च गङ्‌गायां स पूतः सूर्यवद्‌भुवि ।
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ॥ ६६ ॥
तस्यैव पादरजसा सद्यः पूता वसुंधरा ।
मोदते स च वैकुण्ठे यावच्चन्द्रदिवाकरौ ॥ ६७ ॥
पुनः स्वयोनिं संप्राप्य तपस्विप्रवरो भवेत् ।
स्वधर्मनिरतः शुद्धो विद्वांश्च सुजितेद्रियः ॥ ६८ ॥
मीनकर्कटयोर्मध्ये गाढं तपति भास्करे ।
भारते यो ददात्येव जलमेव सुवासितम् ॥ ६९ ॥
मोदते स च वैकुण्ठे यावदिन्द्राश्चतुर्दश ।
पुनः स्वयोनिं संप्राप्य सुखी निष्कपटो भवेत् ॥ ७० ॥
वैशाखे हरये भक्त्या यो ददाति च चन्दनम् ।
युगषष्टिसहस्राणि मोदते विष्णुमन्दिरे ।
पुनः स्वयोनिं संप्राप्य रूपवांश्च सुखी भवेत् ॥ ७१ ॥
यज्ञसूत्रेण तत्पुण्यं लभते नात्र संशयः ।
वैकुण्ठे मोदते सोऽपि कृष्णभक्तिं लभेद्ध्रुवम् ॥ ७२ ॥
वैशाखे सक्तुदानं च यः करोति द्विजातये ।
सक्तुरेणुप्रमाणाब्दं मोदते विष्णुमन्दिरे ॥ ७३ ॥
करोति भारते यो हि कृष्णजन्माष्टमीव्रतम् ।
शतजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥ ७४ ॥
वैकुण्ठे मोदते सोऽपि यावदिन्द्राश्चतुर्दश ।
पुनः स्वयोनिं संप्राप्य कृष्णभक्ति लभेद्ध्रुवम् ॥ ७५ ॥
इहैव भारते वर्षे शिवरात्रिं करोति यः ।
मोदते शिवलोके च सप्तमन्वन्तरावधि ॥ ७६ ॥
शिवाय शिवरात्रौ च बिल्वपत्रं ददाति यः ।
पत्रप्रमाणं च युगं मोदते शिवमन्दिरे ॥ ७७ ॥
पुनः स्वयोनिं संप्राप्य शिवभक्तिं लभेद्ध्रुवम् ।
विद्यावान्पुत्रवाञ्छ्रीमान्प्रजावान्भूमिमान्भवेत् ॥ ७८ ॥
चैत्रमासेऽथवा माघे शंकरं योऽर्चयेद्‌व्रती ।
करोति नर्तनं भक्त्या वेत्रपाणिर्दिवानिशम् ॥ ७९ ॥
मासं वाऽप्यर्धमासं वा दश सप्त दिनानि वा ।
दिनमानं युगं सोऽपि शिवलोके महीयते ॥ ८० ॥
श्रीरामनवमीं यो हि करोति भारते नरः ।
सप्तमन्वन्तरं यावन्मोदते विष्णुमन्दिरे ॥ ८१ ॥
पुनः स्वयोनिं संप्राप्य रामभक्ति लभेद्ध्रुवम् ।
जितेन्द्रियाणां प्रवरो महांश्च धार्मिकोभवेत् ॥ ८२ ॥
शारदीयां महापूजां प्रकृतेर्यः करोति च ।
महिषैश्छागलैर्मेषैरिक्षुकूष्माण्डकैस्तथा ॥ ८३ ॥
नैवेद्यैरुपहारैश्च धूपदीपादिभिस्तथा ।
नृत्यगीतादिभिर्वाद्यैर्नानाकौतुकमङ्‌गलैः ॥ ८४ ॥
शिवलोके वसेत्सोऽपि सप्तमन्वन्तरावधि ।
पुनः स्वयोनिं संप्राप्य बुद्धिं च निर्मलां लभेत् ॥ ८५ ॥
अचलां श्रियमाप्नोति पुत्रपौत्रादिवर्धिनीम् ।
महाप्रभावयुक्तश्च गजवाजिसमन्वितः ॥ ८६ ॥
राजराजेश्वरः सोऽपि भवेदेव न संशयः ।
भाद्रशुक्लाष्टमीं प्राप्य महालक्ष्मीं च योऽर्चयेत् ॥ ८७ ॥
नित्यं भक्त्या पक्षमेकं पुण्यक्षेत्रे च भारते ।
दत्त्वा तस्यै प्रकृष्टानि चोपचाराणि षोडश ॥ ८८ ॥
वैकुण्ठे मोदते सोऽपि यावच्चन्द्रदिवाकरौ ।
पुनः स्वयोनिं संप्राप्य राजराजेश्वरो भवेत् ॥ ८९ ॥
कार्तिके पूर्णिमायां च कृत्वा तु रासमण्डलम् ।
गोपानां शतकं कृत्वा गोपीनां शतकं तथा ॥ ९० ॥
शिलायां प्रतिमायां वा श्रीकृष्णं राधया सह ।
भारते पूजयेद्‌दत्त्वा चोपचाराणि षोडश ॥ ९१ ॥
गोलोके च वसेत्सोऽपि यावद्वै ब्रह्मणो वयः ।
भारतं पुनरागत्य कृष्णभक्तिं लभेद्ध्रुवम् ॥ ९२ ॥
क्रमेण सुदृढां भक्तिं लब्ध्वा मन्त्रं हरेरपि ।
देहं त्वक्त्वा च गोलोकं पुनरेव प्रयाति सः ॥ ९३ ॥
तत्र कृष्णस्य सारूप्यं संप्राप्य पार्षदो भवेत् ।
पुनस्तत्पतनं नास्ति जरामृत्युहरो महान् ॥ ९४ ॥
शुक्लां वाप्यथवा कृष्णा करोत्येकादशीं च यः ।
वैकुण्ठे मोदते सोऽपि यावद्वै ब्रह्मणो वयः ॥ ९५ ॥
भारतं पुनरागत्य हरिभक्तिं लभेद् ध्रुवम् ।
पुनर्याति च वैकुण्ठं न तस्य पतनं भवेत् ॥ ९६ ॥
भाद्रे शुक्ले च द्वादश्यां यः शक्रं पूजयेन्नरः ।
षष्टिवर्षसहस्राणि शक्रलोके महीयते ॥ ९७ ॥
रविवारेऽर्कसंक्रान्त्यां सप्तम्यां शुक्लपक्षतः ।
संपूज्यार्क हविष्यान्नं यः करोति च भारते ॥ ९८ ॥
महीयते सोऽर्कलोके यावच्चन्द्रदिवाकरौ ।
भारतं पुनरागत्य चारोगी श्रीयुतो भवेत् ॥ ९९ ॥
ज्येष्ठशुक्लचतुर्दश्यां सावित्रीं यो हि पूजयेत् ।
महीयते ब्रह्मलोके सप्तमन्वन्तरावधि ॥ १०० ॥
पुनर्महीं समागत्य श्रीमानतुलविक्रमः ।
चिरजीवी भवेत्सोऽपि ज्ञानवान्संपदा युतः ॥ १०१ ॥
माघस्य शुक्लपञ्चम्यां पूजयेद्यः सरस्वतीम् ।
संयतो भक्तितो दत्त्वा चोपचाराणि षोडश ॥ १०२ ॥
महीयते स वैकुण्ठे यावद्‌ब्रह्मदिवानिशम् ।
संप्राप्य च पुनर्जन्म स भवेत्कविपण्डितः ॥ १०३ ॥
गां सुवर्णादिकं यो हि ब्राह्मणाय ददाति च ।
नित्यं जीवनपर्यन्तं भक्तियुक्तश्च भारते ॥ १०४ ॥
गवां लोमप्रमाणाब्दं द्विगुणं विष्णुमन्दिरे ।
मोदते हरिणा सार्धं क्रीडाकौतुकमङ्‌गलैः ॥ १०५ ॥
ततः पुनरिहाऽऽगत्य विष्णुभक्तिं लभेद्ध्रुवम् ।
ततः पुनरिहाऽऽगत्य राजराजेश्वरो भवेत् ।
गोमांश्च पुत्रवान्विद्वाञ्ज्ञानवान्सर्वतः सुखी ॥ १०६ ॥
भोजयेद्यो हि मिष्टान्नं ब्राह्मणेभ्यश्च भारते ।
विप्रलोमप्रमाणाब्दं मोदते विष्णुमन्दिरे ॥ १०७ ॥
ततः पुनरिहाऽऽगत्य स सुखी धनवान्भवेत् ।
विद्वान्सुचिरजीवी च श्रीमानतुलविक्रमः ॥ १०८ ॥
यो वक्ति वा ददात्येव हरेर्नामानि भारते ।
युगं नामप्रमाणं च विष्णुलोके महीयते ॥ १०९ ॥
ततः पुनरिहाऽऽगत्य विष्णुभक्तिं लभेद्ध्रुवम् ।
यदि नारायणक्षेत्रे फलं कोटिगुणं लभेत् ॥ ११० ॥
नाम्नां कोटिं हरेर्यो हि क्षेत्रे नारायणे जपेत् ।
सर्वपापविनिर्मुक्तो जीवन्मुक्तो भवेद्ध्रुवम् ॥ १११ ॥
लभते न पुनर्जन्म वैकुण्ठे स महीयते ।
लभेद्विष्णोश्च सारूप्यं न तस्य पतनं भवेत् ॥ ११२ ॥
यः शिवं पूजयेन्नित्यं कृत्वा लिङ्‌गं च पार्थिवम् ।
यावज्जीवनपर्यन्तं स याति शिवमन्दिरम् ॥ ११३ ॥
मृदां रेणुप्रमाणाब्दं शिवलोके महीयते ।
ततः पुनरिहाऽऽगत्य राजेन्द्रो भारते भवेत् ॥ ११४ ॥
शिलां च योऽर्चयेन्नित्यं शिलातोयं च भक्षति ।
महीयते स वैकुण्ठे यावद्वै ब्रह्मणः शतम् ॥ ११५ ॥
ततो लब्ध्वा पुनर्जन्म हरिभक्तिं सुदुर्लभाम् ।
महीयते विष्णुलोके न तस्य पतनं भवेत् ॥ ११६ ॥
तपांसि चैव सर्वाणि व्रतानि निखिलानि च ।
कृत्वा तिष्ठति वैकुण्ठे यावदिन्द्राश्चतुर्दश ॥ ११७ ॥
ततो लब्ध्वा पुनर्जन्म राजेन्द्रो भारते भवेत् ।
ततो मुक्तो भवेत्पश्चात्पुनर्जन्म न विद्यते ॥ ११८ ॥
यः स्नाति सर्वतीर्थेषु भुवः कृत्वा प्रदक्षिणाम् ।
स च निर्वाणतां याति न तज्जन्म भवेद्‌भुवि ॥ ११९ ॥
पुण्यक्षेत्रे भारते च योऽश्वमेधं करोति च ।
अश्वलोमप्रमाणाब्दं शक्रस्यार्धासने वसेत् ॥ १२० ॥
चतुर्गणं राजसूये फलमाप्नोति मानवः ।
नरमेधेऽश्वमेधार्धं गोमेधे च तदेव च ॥ १२१ ॥
पुत्रेष्टौ च तदर्धं च सुपुत्रं च लभेद्ध्रुवम् ।
लभते लाङ्‌गलेष्टौ च गोमेधसदृशं फलम् ॥ १२२ ॥
तत्समानं च विप्रेष्टौ वृद्धियागे च तत्फलम् ।
पद्मयज्ञे तदर्धं च फलमाप्नोति मानवः ॥ १२३ ॥
विशोके च विशोकं च पद्मार्धं स्वर्गमश्नुते ।
विजये विजयी राजा स्वर्गं पद्मसमं लभेत् ॥ १२४ ॥
प्राजापत्ये प्रजालाभो भूवृद्धिर्भूभृतां भवेत् ।
इह राजश्रियं लब्ध्वा पद्मार्धं स्वर्गमश्नुते ॥
ऋद्धियागे महैश्वर्यं स्वर्गं पद्मसमं भवेत् ॥ १२५ ॥
विष्णुयज्ञः प्रधानं च सर्वयज्ञेषु सुन्दरि ।
ब्रह्मणा च कृतः पूर्वं महासंभारसंयुतः ॥ १२६ ॥
बभूव कलहो यत्र दक्षशंकरयोःसति ।
शेपुश्च नन्दिनं विप्रा नन्दी विप्रांश्च कोपतः ॥ १२७ ॥
यतो हेतोर्दक्षयज्ञं बभञ्ज चन्द्रशेखरः ।
चकार विष्णुयज्ञं च पुरा दक्षप्रजापतिः ॥ १२८ ॥
धर्मश्च कश्यपश्चैव शेषश्चापि च कर्दमः ।
स्वायंभुवो मनुश्चैव तत्पुत्रश्च प्रियव्रतः ॥ १२९ ॥
शिवः सनत्कुमारश्च कपिलश्च ध्रुवस्तथा ।
राजसूयसहस्राणां समृद्ध्या च क्रतुर्भवेत् ॥ १३० ॥
राजसूयसहस्राणां फलमाप्नोति निश्चितम् ।
विष्णुयज्ञात्परो यज्ञो नास्ति वेदे फलप्रदः ॥ १३१ ॥
बहुकल्पान्तजीवी च जीवन्मुक्तो भवेद्ध्रुवम् ।
ज्ञानेन तेजसा चैव विष्णुतुल्यो भवेदिह ॥ १३२ ॥
देवानां च यथा विष्णुर्वैष्णवानां यथा शिवः ।
शास्त्राणां च यथा वेदा आश्रमाणां च ब्राह्मणाः ॥ १३३ ॥
तीर्थानां च यथा गङ्‌गा पवित्राणां च वैष्णवाः ।
एकादशी व्रतानां च पुष्पाणां तुलसी यथो ॥ १३४ ॥
नक्षत्राणां यथा चन्द्रः पक्षिणां गरुडो यथा ।
यथा स्त्रीणां च प्रकृतिराधाराणां वसुंधरा ॥ १३५ ॥
शीघ्रगानां चेन्द्रियाणां चञ्चलानां यथा मनः ।
प्रजापतीनां ब्रह्मा च प्रजेशानां प्रजापतिः ॥ १३६ ॥
वृन्दावनं वनानां च वर्षाणां भारतं यथा ।
श्रीमतां च यथा श्रीश्च विदुषां च सरस्वती ॥ १३७ ॥
पतिव्रतानां दुर्गा च सौभाग्यानां च राधिका ।
विष्णुयज्ञस्तथा वत्से यज्ञेषु च महानिति ॥ १३८ ॥
अश्वमेधशतेनैव शक्रत्वं लभते ध्रुवम् ।
सहस्रेण विष्णुपदं संप्राप पृथुरेव च ॥ १३९ ॥
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणम् ।
सर्वेषां च व्रतानां च तपसां फलमेव च ॥ १४० ॥
पाठश्चतुर्णा वेदानां प्रादक्षिण्यं भुवस्तथा ।
फलं बीजमिदं सर्वं मुक्तिदं कृष्णसेवनम् ॥ १४१ ॥
पुराणेषु च वेदेषु चेतिहासेषु सर्वतः ।
निरूपितं सारभूतं कृष्णपादाम्बुजार्चनम् ॥ १४२ ॥
तद्वर्णनं च तद्ध्यानं तन्नामगुणकीर्तनम् ।
तत्स्तोत्रं स्मरणं चैव वन्दनं जप एव च ॥ १४३ ॥
तत्पादोदकनैवेद्यभक्षणं नित्यमेव च ।
सर्वसंमतमित्येवं सर्वेप्सितमिदं सति ॥ १४४ ॥
भज कृष्णं परं ब्रह्म निर्गुणं प्रकृतेः परम् ।
गृहाण स्वामिनं वत्से सुखं गच्छ स्वमन्दिरम् ॥ १४५ ॥
एतत्ते कथितं सर्व विपाकं कर्मणां नृणाम् ।
सर्वेप्सितं सर्वमतं परं तत्त्वप्रदं नृणाम् ॥ १४६ ॥
इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे सावित्र्युपाख्याने यमसावित्रीसंवादे
शुभकर्मविपाककथनं नाम सप्तविंशोऽध्यायः ॥ २७ ॥


GO TOP