ब्रह्मवैवर्तपुराणम्
प्रथमं ब्रह्मखण्डम् - षष्ठोऽध्यायः
सृष्टिनिरूपणम् -
सौतिरुवाच
अथ कृष्णो महालक्ष्मीं सादरं च सरस्वतीम् ।
नारायणाय प्रददौ रत्नेन्द्रं मालया सह ॥ १॥
सावित्रीं ब्रह्मणे प्रादान्मूर्तिं धर्माय सादरम् ।
रतिं कामाय रूपाढ्यां कुबेराय मनोरमाम् ॥२॥
अन्याश्च या या अन्येभ्यो याश्च येभ्यः समुद्भवाः ।
तस्मै तस्मै ददौ कृष्णस्तां तां रूपवतीं सतीम् ॥३॥
ततः शंकरमाहूय सर्वेशो योगिनां गुरुम् ।
उवाच प्रियमित्येवं गृहणीयाः सिंहवाहिनीम् ॥४॥
श्रीकृष्णस्य वचः श्रुत्वा प्रहसन्नीललोहितः ।
उवाच भीतः प्रणतः प्राणेशं प्रभुमच्युतम् ॥५॥
श्रीमहेश्वर उवाच
अधुनाऽहं च गृह्णामि प्रकृतिं प्राकृतो यथा ।
त्वद्भक्त्यैकव्यवहितां दास्यमार्गविरोधिनीम् ॥६॥
तत्त्वज्ञानसमाच्छन्नां योगद्वारकपाटिकाम् ।
मुक्तीच्छाध्वंसरूपां च सकामां कामवर्धिनीम् ॥७॥
तपस्याच्छन्नरूपां च महामोहकरण्डिकाम् ।
भवकारागृहे घोरे दृढां निगडरूपिणोम् ॥८॥
शश्वद्विबुद्धिजननीं सद्बुद्धिच्छेदकारिणीम् ।
शश्वद्विभोगसारां च विषयेच्छाविवर्द्धिनीम् ॥९॥
नेच्छामि गृहिणीं नाथ वरं देहि मदीप्सितम् ।
यस्य यद्वाञ्छितं तस्मै तद्ददाति तदीश्वरः ॥ १०॥
त्वद्भक्तिविषये दास्ये लालसा वर्धतेऽनिशम् ।
तृप्तिर्न जायते नामजपने पादसेवने ॥ ११॥
त्वन्नाम पञ्चवक्त्रेण गुणं सन्मङ्गलालयम् ।
स्वप्ने जागरणे शश्वद्गायन्गायन्भ्रमाम्यहम् ॥ १२॥
आकल्पकोटि कोटिं च त्वद्रूपध्यानतत्परम् ।
भोगेच्छाविषये नैव योगे तपसि मन्मनः ॥ १३॥
त्वत्सेवने पूजने च वन्दने नामकीर्तने ।
सदोल्लसितमेषा च विरतौ विरतिं लभेत् ॥१४॥
स्मरणं कीर्तनं नामगुणयोः श्रवणं जपः ।
त्वच्चारुरूपध्यानं त्वत्पादसेवाभिवन्दनम् ॥ १५॥
समर्पणं चाऽऽत्मनश्च नित्यं नैवेद्यभोजनम् ।
वरं वरेश देहीदं नवधाभक्तिलक्षणम् ॥ १६॥
सार्ष्टिसालोक्यसारूप्यसामीप्यं साम्यलीनताम् ।
वदन्ति षड्विधां मुक्तिं मुक्ता मुक्तिविदो विभो ॥ १७॥
अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा ।
ईशित्वं च वशित्वं च सर्वकामावसायिता ॥ १८॥
सार्वज्ञं दूरश्रवणं परकायप्रवेशनम् ।
वाक्सिद्धिः कल्पवृक्षत्वं स्रष्टुं संहर्तुमीशता ॥ १९॥
अमरत्वं च सर्वाग्र्यं सिद्धयोऽष्टादश स्मृताः ।
योगास्तपांसि सर्वाणि दानानि च व्रतानि च ॥२०॥
यशः कीर्तिर्वचः सत्यं धर्माण्यनशनानि च ।
भ्रमणं सर्वतीर्थेषु स्नानमन्यसुरार्चनम् ॥२१ ॥
सुरार्चादर्शनं सप्तद्वीपसप्तप्रदक्षिणम् ।
स्नानं सर्वसमुद्रेषु सर्वस्वर्गप्रदर्शनम् ॥२२॥
ब्रह्मत्वं चैव रुद्रत्वं विष्णुत्वं च परं पदम् ।
अतोऽनिर्वचनोयानि वाञ्छनीयानि सन्ति ता ॥२३॥
सर्वाण्येतानि सर्वेश कथितानि च यानि च ।
तव भक्तिकलांशस्य कलां नार्हन्ति षोडशीम् ॥२४॥
शर्वस्य वचनं श्रुत्वा कृष्णस्तं योगिनां गुरुम् ।
प्रहस्योवाच वचनं सत्यं सर्वसुखप्रदम् ॥२५॥
श्रीभगवानुवाच
मत्सेवां कुरु सर्वेश शर्व सर्वविदां वर ।
कल्पकोटिशतं यावत्पूर्णं शश्वदहर्निशम् ॥२६॥
वरस्तपस्विनां त्वं च सिद्धानां योगिनां तथा ।
ज्ञानिनां वैष्णवानां च सुराणां च सुरेश्वर ॥२७॥
अमरत्वं लभ भव भव मृत्युंजयो महान् ।
सर्वसिद्धिं च वेदांश्च सर्वज्ञत्वं च मद्वरात् ॥ २८॥
असंख्यं ब्रह्मणां पात्रं लीलया वत्स पश्यसि ।
अद्यप्रभृति ज्ञानेन तेजसा वचसा शिव ॥ २९ ॥
पराक्रमेण यशसा महता मत्समो भव ।
प्राणानामधिकस्त्वं च न भक्तस्त्वपरो मम ॥ ३० ॥
त्वत्परो नास्ति मे प्रेयांस्त्वं मदीयात्मनः परः ।
ये त्वां निन्दन्ति पापिष्ठा ज्ञानहीना विचेतनाः ॥ ३१ ॥
पच्यन्ते ते कालसूत्रे तावच्चतन्द्रदिवाकरौ ।
कल्पकोटिशतान्ते च ग्रहीष्यसि शिवां शिव ॥ ३२॥
ममाव्यर्थ त्व वचनं पालनं कर्तुमर्हसि ।
त्वन्मुखान्निर्गतं वाक्यं न करोम्यधुनेति च ॥ ३३ ॥
मद्वाक्यं च तव्याक्यं च पालनं तत्करिष्यसि ।
गृहीत्वा प्रकृतिं शंभो दिव्यं वर्षसहस्रकम् ॥ ३४॥
सुखं महच्च शृङ्गारं करिष्यसि न संशयः ।
न केवलं तपस्वी त्वमीश्वरो मत्समो महान् ॥ ३५ ॥
काले गृही तपस्वी च योगी स्वेच्छामयो हि यः ।
दुःखं च दारसंयोगे यत्त्वया कथितं शिव ॥ ३६ ॥
कुस्त्री ददाति दुःखं च स्वामिने न पतिव्रता ।
कुले महति या जाता कुलजा कुलपालिका ॥ ३७॥
करोति पालनं स्नेहात्सत्पुत्रस्य समं पातम् ।
पतिर्बन्धुर्गतिर्भर्ता दैवतं कुलयोषिताम् ॥ ३८॥
पतितोऽपतितो वाऽपि कृपणश्चेश्वरोऽथवा ।
असत्कुलप्रसूता याः पित्रोर्दुःशीलमिश्रिताः ॥ ३९॥
ध्रुवं ताः परभोग्याश्च पतिं निन्दन्ति संततम् ।
आवयोरतिरिक्तं च या पश्यति पतिं सती ॥४०॥
गोलोके स्वामिना सार्द्धं कोटिकल्पं प्रमोदते ।
भविता सा शिवा शैवी प्रकृतिवैष्णवी शिव ॥४१ ॥
मदाज्ञया च तां साध्वीं ग्रहीष्यसि भवाय च ।
प्रकृत्या योनिसंयुक्तं त्वल्लिङ्गं तीर्थमृत्कृतम् ॥४२॥
तीर्थे सहस्रं संपूज्य भक्त्या पञ्चोपचारतः ।
सदक्षिणं संयतो यः पवित्रश्च जितेन्द्रियः ॥४३॥
कोटिकल्पं च गोलोके मोदते च मया सह ।
लक्षं तीर्थे पूजयेद्यो विधिवत्साधुदक्षिणम् ॥४४॥
न च्युतिस्तस्य गोलोकात्स भवेदावयोः समः ।
मृद्भस्मगोशकृत्पिण्डैस्तीर्तवालुकयाऽपि वा ॥४५॥
कृत्वा लिङ्गं सकृत्पूज्य वसेत्कल्पायुतं दिवि ।
प्रजावान्भूमिमान्विद्वान्पुत्रवान्धनवांस्तथा ॥४६॥
ज्ञानवान्मुक्तिमान्साधुः शिवलिङ्गार्चनाद्भवेत् ।
शिवलिङ्गार्चनस्थानमतीर्थं तीर्थमेव तत् ।
भवेत्तत्र मृतः पापी शिवलोकं स गच्छति ॥४७॥
महादेव महादेव महादेवेति वादिनः ।
पश्चाद्यामि महास्तोत्रनामश्रवणलोभतः ॥४८॥
शिवेति शब्दमुच्चार्य प्राणांस्त्यजति यो नरः ।
कोटिजन्माजितात्पापान्मुक्तोमुक्ति प्रयाति सः ॥४९॥
शिवकल्याणवचनं कल्याणं मुक्तिवाचकम् ।
यतस्तत्प्रभवेत्तेन स शिवः परिकीर्तितः ॥५०॥
विच्छेदे धनबन्धूनां निमग्नः शोकसागरे ।
शिवेति शब्दमुच्चार्य लभेत्सर्वशिवं नरः ॥५१॥
पापघ्ने वर्तते शिश्च वश्च मुक्तिप्रदे तथा ।
पापघ्नो मोक्षदो नृणां शिवस्तेन प्रकीर्तितः ॥५२॥
शिवेति च शिवं नाम यस्य वाचि प्रवर्तते ।
कोटिजन्मार्जितं पापं तस्य नश्यति निश्चितम् ॥५३॥
इत्युक्त्वा शूलिने कृष्णो दत्त्वा कल्पतरुं मनुम् ।
तत्त्वज्ञानं मृत्युजयमवोचत्सिंहवाहिनीम् ॥५४॥
श्रीभगवानुवाच
अधुना तिष्ठ वत्से त्वं गोलोके मम संनिधौ ।
काले भजिष्यसि शिवं शिवदं च शिवायनम् ॥५५॥
तेजःसु सर्वदेवानामाविर्भूय वरानने ।
संहृत्य दैत्यान्सर्वांश्च भविता सर्वपूजिता ॥५६॥
ततः कल्पविशेषे च सत्यं सत्ययुगे सति ।
भविता दक्षकन्या त्वं सुशीला शंभुगेहिनी ॥५७॥
ततः शरीरं संत्यज्य यज्ञे भर्तुश्च निन्दया ।
मेनायां शैलभार्यायां भविता पार्वतीति च ॥५८॥
दिव्यं वर्षसहस्रं च विहरिष्यसि शंभुना ।
पूर्णं ततः सर्वकालमभेदं त्वं लभिष्यसि ॥५९॥
काले सर्वेषु विश्वेषु महापूजा सुपूजिते ।
भविता प्रतिवर्षे च शारदीया सुरेश्वरि ॥६०॥
ग्रामेषु नगरेष्वेव पूजिता ग्रामदेवता ।
भवती भवितेत्येवं नामभेदेन चारुणा ॥६१॥
मदाज्ञया शिवकृतैस्तन्त्रैर्नानाविधैरपि ।
पूजाविधिं विधास्यामि कवचं स्तोत्रसंयुतम् ॥६२॥
भविष्यन्ति महान्तश्च तवैव परिचारकाः ।
धर्मार्थकाममोक्षाणां सिद्धाश्च फलभागिनः ॥६३॥
ये त्वां मातर्भजिष्यन्ति पुण्यक्षेत्रे च भारते ।
तेषां यशश्च कीर्तिश्च धर्मैश्वर्यं च वर्द्धते ॥६४॥
इत्युक्त्वा प्रकृतिं तस्यै मन्त्रमेकादशाक्षरम् ।
दत्त्वा सकामबीजं च मन्त्रराजमनुत्तमम् ॥६५॥
चकार विधिना ध्यानं भक्तं भक्तानुकम्पया ।
श्रीमायाकामबीजाढ्यं ददौ मन्त्रं दशाक्षरम् ॥६६॥
सृष्ट्यौपयौगिकीं शक्तिं सर्वसिद्धिं च कामदाम् ।
तद्विशिष्टोत्कृष्टतत्त्वं ज्ञानं तस्यै ददौ विभुः ॥६७॥
त्रयोदशाक्षरं मन्त्रं दत्त्वा तस्मै जगत्पतिः ।
कवचं स्तोत्रसहितं शंकराय तथा द्विज ॥६८॥
दत्त्वा धर्माय तं मन्त्रं सिद्धिज्ञानं तदेव च ।
कामाय वह्नये चैव कुबेराय च वायवे ॥६९॥
एवं कुबेरादिभ्यस्तु दत्त्वा मन्त्रादिकं परम् ।
विधिं प्रोवाच सृष्ट्यर्थं विधातुर्विधिरेव सः ॥७०॥
श्रीभगवानुवाच
मदीयं च तपः कृत्वा दिव्यं वर्षसहस्रकम् ।
सृष्टिं कुरु महाभाग विधे नानाविधां पराम् ॥७१॥
इत्युक्त्वा ब्रह्मणे कृष्णो ददौ मालां मनोरमाम् ।
जगाम सार्धं गोपीभिर्गोपैर्वृन्दावनं वनम् ॥७२॥
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे
ब्रह्मखण्डे सृष्टिनिरूपणं नाम षष्ठोऽध्यायः ॥६॥
GO TOP
|