श्रीमद्‌भागवत महापुराण

अथ षष्टितमोऽध्यायः

रुक्मिणी श्रीकृष्णयोः प्रणयकलहः -

[ Right click to 'save audio as' for downloading Audio ]

शुक उवाच -
( अनुष्टुप् )
कर्हिचित् सुखमासीनं स्वतल्पस्थं जगद्गुरुम् ।
पतिं पर्यचरद्‌ भैष्मी व्यजनेन सखीजनैः ॥ १ ॥
यस्त्वेतल्लीलया विश्वं सृजत्यत्त्यवतीश्वरः ।
स हि जातः स्वसेतूनां गोपीथाय यदुष्वजः ॥ २ ॥
तस्मिन्नन्तर्गृहे भ्राजन्मुक्तादामविलम्बिना ।
विराजिते वितानेन दीपैर्मणिमयैरपि ॥ ३ ॥
मल्लिकादामभिः पुष्पैर्द्विरेफकुलनादितैः ।
जालरन्ध्रप्रविष्टैश्च गोभिश्चन्द्रमसोऽमलैः ॥ ४ ॥
पारिजातवनामोदवायुनोद्यानशालिना ।
धूपैरगुरुजै राजन् जालरन्ध्रविनिर्गतैः ॥ ५ ॥
पयःफेननिभे शुभ्रे पर्यङ्‌के कशिपूत्तमे ।
उपतस्थे सुखासीनं जगतामीश्वरं पतिम् ॥ ६ ॥
वालव्यजनमादाय रत्‍नदण्डं सखीकरात् ।
तेन वीजयती देवी उपासांचक्र ईश्वरम् ॥ ७ ॥
( वसंततिलका )
सोपाच्युतं क्वणयती मणिनूपुराभ्यां
     रेजेऽङ्‌गुलीयवलयव्यजनाग्रहस्ता ।
वस्त्रान्तगूढकुचकुङ्‌कुमशोणहार-
     भासा नितम्बधृतया च परार्ध्यकाञ्च्या ॥ ८ ॥
तां रूपिणीं श्रीयमनन्यगतिं निरीक्ष्य
     या लीलया धृततनोरनुरूपरूपा ।
प्रीतः स्मयन्नलककुण्डलनिष्ककण्ठ-
     वक्त्रोल्लसत्स्मितसुधां हरिराबभाषे ॥ ९ ॥
श्रीभगवानुवाच -
( अनुष्टुप् )
राजपुत्रीप्सिता भूपैर्लोकपालविभूतिभिः ।
महानुभावैः श्रीमद्‌भी रूपौदार्यबलोर्जितैः ॥ १० ॥
तान्प्राप्तानर्थिनो हित्वा चैद्यादीन् स्मरदुर्मदान् ।
दत्ता भ्रात्रा स्वपित्रा च कस्मान्नो ववृषेऽसमान् ॥ ११ ॥
राजभ्यो बिभ्यतः सुभ्रु समुद्रं शरणं गतान् ।
बलवद्‌भिः कृतद्वेषान् प्रायस्त्यक्तनृपासनान् ॥ १२ ॥
अस्पष्टवर्त्मनां पुंसामलोकपथमीयुषाम् ।
आस्थिताः पदवीं सुभ्रु प्रायः सीदन्ति योषितः ॥ १३ ॥
निष्किञ्चना वयं शश्वन्निष्किञ्चनजनप्रियाः ।
तस्मात् प्रायेण न ह्याढ्या मां भजन्ति सुमध्यमे ॥ १४ ॥
ययोरात्मसमं वित्तं जन्मैश्वर्याकृतिर्भवः ।
तयोर्विवाहो मैत्री च नोत्तमाधमयोः क्वचित् ॥ १५ ॥
वैदर्भ्येतदविज्ञाय त्वयादीर्घसमीक्षया ।
वृता वयं गुणैर्हीना भिक्षुभिः श्लाघिता मुधा ॥ १६ ॥
अथात्मनोऽनुरूपं वै भजस्व क्षत्रियर्षभम् ।
येन त्वमाशिषः सत्या इहामुत्र च लप्स्यसे ॥ १७ ॥
चैद्यशाल्वजरासन्धदन्तवक्रादयो नृपाः ।
मम द्विषन्ति वामोरु रुक्मी चापि तवाग्रजः ॥ १८ ॥
तेषां वीर्यमदान्धानां दृप्तानां स्मयनुत्तये ।
आनितासि मया भद्रे तेजोऽपहरतासताम् ॥ १९ ॥
उदासीना वयं नूनं न स्त्र्यपत्यार्थकामुकाः ।
आत्मलब्ध्याऽऽस्महे पूर्णा गेहयोर्ज्योतिरक्रियाः ॥ २० ॥
शुक उवाच -
एतावदुक्त्वा भगवान् आत्मानं वल्लभामिव ।
मन्यमानामविश्लेषात् तद्दर्पघ्न उपारमत् ॥ २१ ॥
( मिश्र )
इति त्रिलोकेशपतेस्तदाऽऽत्मनः
     प्रियस्य देव्यश्रुतपूर्वमप्रियम् ।
आश्रुत्य भीता हृदि जातवेपथु-
     श्चिन्तां दुरन्तां रुदती जगाम ह ॥ २२ ॥
पदा सुजातेन नखारुणश्रीया
     भुवं लिखन्त्यश्रुभिरञ्जनासितैः ।
आसिञ्चती कुङ्‌कुमरूषितौ स्तनौ
     तस्थावधोमुख्यतिदुःखरुद्धवाक् ॥ २३ ॥
( वसंततिलका )
तस्याः सुदुःखभयशोकविनष्टबुद्धे-
     र्हस्ताच्छ्लथद्वलयतो व्यजनं पपात ।
देहश्च विक्लवधियः सहसैव मुह्यन्
     रम्भेव वायुविहता प्रविकीर्य केशान् ॥ २४ ॥
( अनुष्टुप् )
तद् दृष्ट्‍वा भगवान् कृष्णः प्रियायाः प्रेमबन्धनम् ।
हास्यप्रौढिमजानन्त्याः करुणः सोऽन्वकम्पत ॥ २५ ॥
पर्यङ्‌कादवरुह्याशु तामुत्थाप्य चतुर्भुजः ।
केशान् समुह्य तद्वक्त्रं प्रामृजत् पद्मपाणिना ॥ २६ ॥
प्रमृज्याश्रुकले नेत्रे स्तनौ चोपहतौ शुचा ।
आश्लिष्य बाहुना राजन्ननन्यविषयां सतीम् ॥ २७ ॥
सान्त्वयामास सान्त्वज्ञः कृपया कृपणां प्रभुः ।
हास्यप्रौढिभ्रमच्चित्तामतदर्हां सतां गतिः ॥ २८ ॥
श्रीभगवानुवाच -
मा मा वैदर्भ्यसूयेथा जाने त्वां मत्परायणाम् ।
त्वद्वचः श्रोतुकामेन क्ष्वेल्याऽऽचरितमङ्‌गने ॥ २९ ॥
मुखं च प्रेमसंरम्भस्फुरिताधरमीक्षितुम् ।
कटाक्षेपारुणापाङ्‌गं सुन्दरभ्रुकुटीतटम् ॥ ३० ॥
अयं हि परमो लाभो गृहेषु गृहमेधिनाम् ।
यन्नर्मैरीयते यामः प्रियया भीरु भामिनि ॥ ३१ ॥
शुक उवाच -
सैवं भगवता राजन् वैदर्भी परिसान्त्विता ।
ज्ञात्वा तत्परिहासोक्तिं प्रियत्यागभयं जहौ ॥ ३२ ॥
बभाष ऋषभं पुंसां वीक्षन्ती भगवन्मुखम् ।
सव्रीडहासरुचिरस्निग्धापाङ्‌गेन भारत ॥ ३३ ॥
रुक्मिण्युवाच -
( वसंततिलका )
नन्वेवमेतदरविन्दविलोचनाह
     यद् वै भवान् भगवतोऽसदृशी विभूम्नः ।
क्व स्वे महिम्न्यभिरतो भगवांस्त्र्यधीशः
     क्वाहं गुणप्रकृतिरज्ञगृहीतपादा ॥ ३४ ॥
सत्यं भयादिव गुणेभ्य उरुक्रमान्तः
     शेते समुद्र उपलम्भनमात्र आत्मा ।
नित्यं कदिन्द्रियगणैः कृतविग्रहस्त्वं
     त्वत्सेवकैर्नृपपदं विधुतं तमोऽन्धम् ॥ ३५ ॥
त्वत्पादपद्ममकरन्दजुषां मुनीनां
     वर्त्मास्फुटं नृपशुभिर्ननु दुर्विभाव्यम् ।
यस्मादलौकिकमिवेहितमीश्वरस्य
     भूमंस्तवेहितमथो अनु ये भवन्तम् ॥ ३६ ॥
निष्किञ्चनो ननु भवान् न यतोऽस्ति किञ्चिद्
     यस्मै बलिं बलिभुजोऽपि हरन्त्यजाद्याः ।
न त्वा विदन्त्यसुतृपोऽन्तकमाढ्यतान्धाः
     प्रेष्ठो भवान् बलिभुजामपि तेऽपि तुभ्यम् ॥ ३७ ॥
त्वं वै समस्तपुरुषार्थमयः फलात्मा
     यद्वाञ्छया सुमतयो विसृजन्ति कृत्स्नम् ।
तेषां विभो समुचितो भवतः समाजः
     पुंसः स्त्रियाश्च रतयोः सुखदुःखिनोर्न ॥ ३८४ ॥
त्वं न्यस्तदण्डमुनिभिर्गदितानुभाव
     आत्माऽऽत्मदश्च जगतामिति मे वृतोऽसि ।
हित्वा भवद्‌भ्रुव उदीरितकालवेग-
     ध्वस्ताशिषोऽब्जभवनाकपतीन् कुतोऽन्ये ॥ ३९ ॥
जाड्यं वचस्तव गदाग्रज यस्तु भूपान्
     विद्राव्य शार्ङ्‌गनिनदेन जहर्थ मां त्वम् ।
सिंहो यथा स्वबलिमीश पशून् स्वभागं
     तेभ्यो भयाद् यदुदधिं शरणं प्रपन्नः ॥ ४० ॥
यद्वाञ्छया नृपशिखामणयोऽङ्‌गवैन्य-
     जायन्तनाहुषगयादय ऐक्यपत्यम् ।
राज्यं विसृज्य विविशुर्वनमम्बुजाक्ष
     सीदन्ति तेऽनुपदवीं त इहास्थिताः किम् ॥ ४१ ॥
कान्यं श्रयेत तव पादसरोजगन्ध-
     माघ्राय सन्मुखरितं जनतापवर्गम् ।
लक्ष्म्यालयं त्वविगणय्य गुणालयस्य
     मर्त्या सदोरुभयमर्थविविक्तदृष्टिः ॥ ४२ ॥
तं त्वानुरूपमभजं जगतामधीश-
     मात्मानमत्र च परत्र च कामपूरम् ।
स्यान्मे तवाङ्घ्रिररणं सृतिभिर्भ्रमन्त्या
     यो वै भजन्तमुपयात्यनृतापवर्गः ॥ ४३ ॥
तस्याः स्युरच्युत नृपा भवतोपदिष्टाः
     स्त्रीणां गृहेषु खरगोश्वबिडालभृत्याः ।
यत्कर्णमूलमरिकर्षण नोपयायाद्
     युष्मत्कथा मृडविरिञ्चसभासु गीता ॥ ४४ ॥
त्वक्‌श्मश्रुरोमनखकेशपिनद्धमन्त-
     र्मांसास्थिरक्तकृमिविट्कफपित्तवातम् ।
जीवच्छवं भजति कान्तमतिर्विमूढा
     या ते पदाब्जमकरन्दमजिघ्रती स्त्री ॥ ४५ ॥
अस्त्वम्बुजाक्ष मम ते चरणानुराग
     आत्मन् रतस्य मयि चानतिरिक्तदृष्टेः ।
यर्ह्यस्य वृद्धय उपात्तरजोऽतिमात्रो
     मामीक्षसे तदु ह नः परमानुकम्पा ॥ ४६ ॥
( अनुष्टुप् )
नैवालीकमहं मन्ये वचस्ते मधुसूदन ।
अम्बाया एव हि प्रायः कन्यायाः स्याद् रतिः क्वचित् ॥ ४७ ॥
व्यूढायाश्चापि पुंश्चल्या मनोऽभ्येति नवं नवम् ।
बुधोऽसतीं न बिभृयात् ता बिभ्रदुभयच्युतः ॥ ४८ ॥
श्रीभगवानुवाच -
साध्व्येतच्छ्रोतुकामैस्त्वं राजपुत्री प्रलम्भिता ।
मयोदितं यदन्वात्थ सर्वं तत् सत्यमेव हि ॥ ४९ ॥
यान् यान् कामयसे कामान् मय्यकामाय भामिनि ।
सन्ति ह्येकान्तभक्तायास्तव कल्याणि नित्यदा ॥ ५० ॥
उपलब्धं पतिप्रेम पातिव्रत्यं च तेऽनघे ।
यद्वाक्यैश्चाल्यमानाया न धीर्मय्यपकर्षिता ॥ ५१ ॥
ये मां भजन्ति दाम्पत्ये तपसा व्रतचर्यया ।
कामात्मानोऽपवर्गेशं मोहिता मम मायया ॥ ५२ ॥
( इंद्रवंशा )
मां प्राप्य मानिन्यपवर्गसम्पदं
     वाञ्छन्ति ये सम्पद एव तत्पतिम् ।
ते मन्दभाग्या निरयेऽपि ये नृणां
     मात्रात्मकत्वात् निरयः सुसङ्‌गमः ॥ ५३ ॥
( मिश्र )
दिष्ट्या गृहेश्वर्यसकृन्मयि त्वया
     कृतानुवृत्तिर्भवमोचनी खलैः ।
सुदुष्करासौ सुतरां दुराशिषो
     ह्यसुंभराया निकृतिञ्जुषः स्त्रियाः ॥ ५४ ॥
( वसंततिलका )
न त्वादृशीं प्रणयिनीं गृहिणीं गृहेषु
     पश्यामि मानिनि यया स्वविवाहकाले ।
प्राप्तान्नृपानवगणय्य रहोहरो मे
     प्रस्थापितो द्विज उपश्रुतसत्कथस्य ॥ ५५ ॥
भ्रातुर्विरूपकरणं युधि निर्जितस्य
     प्रोद्वाहपर्वणि च तद्वधमक्षगोष्ठ्याम् ।
दुःखं समुत्थमसहोऽस्मदयोगभीत्या
     नैवाब्रवीः किमपि तेन वयं जितास्ते ॥ ५६ ॥
दूतस्त्वयाऽऽत्मलभने सुविविक्तमन्त्रः
     प्रस्थापितो मयि चिरायति शून्यमेतत् ।
मत्वा जिहास इदमङ्‌गमनन्ययोग्यं
     तिष्ठेत तत्त्वयि वयं प्रतिनन्दयामः ॥ ५७ ॥
शुक उवाच -
( अनुष्टुप् )
एवं सौरतसंलापैर्भगवाञ्जगदीश्वरः ।
स्वरतो रमया रेमे नरलोकं विडम्बयन् ॥ ५८ ॥
तथान्यासामपि विभुर्गृहेषु गृहवानिव ।
आस्थितो गृहमेधीयान् धर्मान् लोकगुरुर्हरिः ॥ ५९ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे
कृष्णरुक्मिणीसंवादो नाम षष्टितमोऽध्यायः ॥ ६० ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP