श्रीमद्‌भागवत महापुराण

सप्तमः स्कंधः - द्वितीयोऽध्यायः

हिरण्यकशिपोः स्वभृतेभ्यः प्रजापीडनार्थमादेशः,
पुत्रशोकाकुलाया दितेघ् स्वज्ञातीनां च सान्त्वनार्थं उपदेशश्च -

[ Right click to 'save audio as' for downloading Audio ]

नारद उवाच -
(अनुष्टुप्)
भ्रातरि एवं विनिहते हरिणा क्रोडमूर्तिना ।
हिरण्यकशिपू राजन् पर्यतप्यद् रुषा शुचा ॥ १ ॥
आह चेदं रुषा घूर्णः सन्दष्टदशनच्छदः ।
कोपोज्ज्वलद्‍भ्यां चक्षुर्भ्यां निरीक्षन् धूम्रमम्बरम् ॥ २ ॥
करालदंष्ट्रोग्रदृष्ट्या दुष्प्रेक्ष्य भ्रुकुटीमुखः ।
शूलमुद्यम्य सदसि दानवान् इदमब्रवीत् ॥ ३ ॥
भो भो दानवदैतेया द्विमूर्धंन् त्र्यक्ष शम्बर ।
शतबाहो हयग्रीव नमुचे पाक इल्वल ॥ ४ ॥
विप्रचित्ते मम वचः पुलोमन् शकुनादयः ।
श्रृणुत अनन्तरं सर्वे क्रियतां आशु मा चिरम् ॥ ५ ॥
सपत्‍नैर्घातितः क्षुद्रैः भ्राता मे दयितः सुहृत् ।
पार्ष्णिग्राहेण हरिणा समेनाप्युपधावनैः ॥ ६ ॥
तस्य त्यक्तस्वभावस्य घृणेः मायावनौकसः ।
भजन्तं भजमानस्य बालस्येवास्थिरात्मनः ॥ ७ ॥
मत् शूलभिन्नग्रीवस्य भूरिणा रुधिरेण वै ।
रुधिरप्रियं तर्पयिष्ये भ्रातरं मे गतव्यथः ॥ ८ ॥
तस्मिन्कूटेऽहिते नष्टे कृत्तमूले वनस्पतौ ।
विटपा इव शुष्यन्ति विष्णुप्राणा दिवौकसः ॥ ९ ॥
तावद्यात भुवं यूयं विप्रक्षत्रसमेधिताम् ।
सूदयध्वं तपोयज्ञ स्वाध्याय व्रतदानिनः ॥ १० ॥
विष्णुर्द्विजक्रियामूलो यज्ञो धर्ममयः पुमान् ।
देवर्षि पितृ भूतानां धर्मस्य च परायणम् ॥ ११ ॥
यत्र यत्र द्विजा गावो वेदा वर्णाश्रमक्रियाः ।
तं तं जनपदं यात सन्दीपयत वृश्चत ॥ १२ ॥
इति ते भर्तृनिर्देशं आदाय शिरसाऽऽदृताः ।
तथा प्रजानां कदनं विदधुः कदनप्रियाः ॥ १३ ॥
पुरग्राम व्रजोद्यान क्षेत्रारामाश्रमाकरान् ।
खेटखर्वटघोषांश्च ददहुः पत्तनानि च ॥ १४ ॥
केचित् खनित्रैर्बिभिदुः सेतु प्राकार गोपुरान् ।
आजीव्यांश्चिच्छिदुर्वृक्षाम् केचित् परशुपाणयः ।
प्रादहन् शरणान्येके प्रजानां ज्वलितोल्मुकैः ॥ १५ ॥
एवं विप्रकृते लोके दैत्येन्द्रानुचरैः मुहुः ।
दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः ॥ १६ ॥
हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः ।
कृत्वा कटोदकादीनि भ्रातृपुत्रानसान्त्वयत् ॥ १७ ॥
शकुनिं शम्बरं धृष्टिं भूतसन्तापनं वृकम् ।
कालनाभं महानाभं हरिश्मश्रुं अथ उत्कचम् ॥ १८ ॥
तन्मातरं रुषाभानुं दितिं च जननीं गिरा ।
श्लक्ष्णया देशकालज्ञ इदमाह जनेश्वर ॥ १९ ॥
हिरण्यकशिपुः उवाच -
अम्बाम्ब हे वधूः पुत्रा वीरं मार्हथ शोचितुम् ।
रिपोरभिमुखे श्लाघ्यः शूराणां वध ईप्सितः ॥ २० ॥
भूतानां इह संवासः प्रपायां इव सुव्रते ।
दैवेनैकत्र नीतानां उन्नीतानां स्वकर्मभिः ॥ २१ ॥
नित्य आत्माव्ययः शुद्धः सर्वगः सर्ववित् परः ।
धत्तेऽसावात्मनो लिङ्‌गं मायया विसृजन् गुणान् ॥ २२ ॥
यथाम्भसा प्रचलता तरवोऽपि चला इव ।
चक्षुषा भ्राम्यमाणेन दृश्यते चलतीव भूः ॥ २३ ॥
एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान् ।
याति तत् साम्यतां भद्रे ह्यलिङ्गो लिङ्गवान् इव ॥ २४ ॥
एष आत्मविपर्यासो ह्यलिङ्गे लिङ्गभावना ।
एष प्रियाप्रियैर्योगो वियोगः कर्मसंसृतिः ॥ २५ ॥
सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः ।
अविवेकश्च चिन्ता च विवेकास्मृतिरेव च ॥ २६ ॥
अत्रापि उदाहरन्तीं इतिहासं पुरातनम् ।
यमस्य प्रेतबन्धूनां संवादं तं निबोधत ॥ २७ ॥
उशीनरेषु अभूद् राजा सुयज्ञ इति विश्रुतः ।
सपत्‍नैर्निहतो युद्धे ज्ञातयः तं उपासत ॥ २८ ॥
विशीर्णरत्‍नकवचं विभ्रष्टाभरणस्रजम् ।
शरनिर्भिन्नहृदयं शयानं असृगाविलम् ॥ २९ ॥
प्रकीर्णकेशं ध्वस्ताक्षं रभसा दष्टदच्छदम् ।
रजःकुण्ठमुखाम्भोजं छिन्नायुधभुजं मृधे ॥ ३० ॥
उशीनरेन्द्रं विधिना तथा कृतं
     पतिं महिष्यः प्रसमीक्ष्य दुःखिताः ।
हताः स्म नाथेति करैरुरो भृशं
     घ्नन्त्यो मुहुस्तत् पदयोरुपापतन् ॥ ३१ ॥
रुदत्य उच्चैर्दयिताङ्घ्रिपङ्कजं
     सिञ्चन्त्य अस्रैः कुचकुङ्कुमारुणैः ।
विस्रस्तकेशाभरणाः शुचं नृणां
     सृजन्त्य आक्रन्दनया विलेपिरे ॥ ३२ ॥
अहो विधात्राकरुणेन नः प्रभो
     भवान् प्रणीतो दृगगोचरां दशाम् ।
उशीनराणामसि वृत्तिदः पुरा
     कृतोऽधुना येन शुचां विवर्धनः ॥ ३३ ॥
त्वया कृतज्ञेन वयं महीपते
     कथं विना स्याम सुहृत्तमेन ते ।
तत्रानुयानं तव वीर पादयोः
     शुश्रूषतीनां दिश यत्र यास्यसि ॥ ३४ ॥
(अनुष्टुप्)
एवं विलपतीनां वै परिगृह्य मृतं पतिम् ।
अनिच्छतीनां निर्हारं अर्कोऽस्तं संन्यवर्तत ॥ ३५ ॥
तत्र ह प्रेतबन्धूनां आश्रुत्य परिदेवितम् ।
आह तान् बालको भूत्वा यमः स्वयमुपागतः ॥ ३६ ॥
यम उवाच -
अहो अमीषां वयसाधिकानां
     विपश्यतां लोकविधिं विमोहः ।
यत्रागतस्तत्र गतं मनुष्यं
     स्वयं सधर्मा अपि शोचन्त्यपार्थम् ॥ ३७ ॥
अहो वयं धन्यतमा यदत्र
     त्यक्ताः पितृभ्यां न विचिन्तयामः ।
अभक्ष्यमाणा अबला वृकादिभिः
     स रक्षिता रक्षति यो हि गर्भे ॥ ३८ ॥
य इच्छयेशः सृजतीदमव्ययो
     य एव रक्षत्यवलुम्पते च यः ।
तस्याबलाः क्रीडनमाहुरीशितुः
     चराचरं निग्रहसङ्ग्रहे प्रभुः ॥ ३९ ॥
पथि च्युतं तिष्ठति दिष्टरक्षितं
     गृहे स्थितं तद् विहतं विनश्यति ।
जीवत्यनाथोऽपि तदीक्षितो वने
     गृहेऽभिगुप्तोऽस्य हतो न जीवति ॥ ४० ॥
भूतानि तैस्तैर्निजयोनिकर्मभिः
     भवन्ति काले न भवन्ति सर्वशः ।
न तत्र हात्मा प्रकृतावपि स्थितः
     तस्या गुणैः अन्यतमो हि बध्यते ॥ ४१ ॥
इदं शरीरं पुरुषस्य मोहजं
     यथा पृथग्भौतिकमीयते गृहम् ।
यथौदकैः पार्थिवतैजसैर्जनः
     कालेन जातो विकृतो विनश्यति ॥ ४२ ॥
यथानलो दारुषु भिन्न ईयते
     यथानिलो देहगतः पृथक् स्थितः ।
यथा नभः सर्वगतं न सज्जते
     तथा पुमान् सर्वगुणाश्रयः परः ॥ ४३ ॥
(अनुष्टुप्)
सुयज्ञो नन्वयं शेते मूढा यं अनुशोचथ ।
यः श्रोता योऽनुवक्तेह स न दृश्येत कर्हिचित् ॥ ४४ ॥
न श्रोता नानुवक्तायं मुख्योऽप्यत्र महानसुः ।
यस्तु इह इंद्रियवान् आत्मा स चान्यः प्राणदेहयोः ॥ ४५ ॥
भूतेन्द्रियमनोलिङ्गान् देहानुच्चावचान् विभुः ।
भजति उत्सृजति ह्यन्यः तच्चापि स्वेन तेजसा ॥ ४६ ॥
यावलिङ्गान्वितः ह्यात्मा तावत् कर्मनिबन्धनम् ।
ततो विपर्ययः क्लेशो मायायोगोऽनुवर्तते ॥ ४७ ॥
वितथाभिनिवेशोऽयं यद् गुणेष्वर्थदृग्वचः ।
यथा मनोरथः स्वप्नः सर्वं ऐंन्द्रियकं मृषा ॥ ४८ ॥
अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः ।
नान्यथा शक्यते कर्तुं स्वभावः शोचतामिति ॥ ४९ ॥
लुब्धको विपिने कश्चित् पक्षिणां निर्मितोऽन्तकः ।
वितत्य जालं विदधे तत्र तत्र प्रलोभयन् ॥ ५० ॥
कुलिङ्गमिथुनं तत्र विचरत् समदृश्यत ।
तयोः कुलिङ्गी सहसा लुब्धकेन प्रलोभिता ॥ ५१ ॥
आसज्जत सिचस्तन्त्यां महिष्यः कालयन्त्रिता ।
कुलिङ्गस्तां तथाऽऽपन्नां निरीक्ष्य भृशदुःखितः ।
स्नेहाद् अकल्पः कृपणः कृपणां पर्यदेवयत् ॥ ५२ ॥
अहो अकरुणो देवः स्त्रियाऽऽकरुणया विभुः ।
कृपणं मामनुशोचन्त्या दीनया किं करिष्यति ॥ ५३ ॥
कामं नयतु मां देवः किमर्धेनात्मनो हि मे ।
दीनेन जीवता दुःखं अनेन विधुरायुषा ॥ ५४ ॥
कथं त्वजातपक्षांस्तान् मातृहीनान् बिभर्म्यहम् ।
मन्दभाग्याः प्रतीक्षन्ते नीडे मे मातरं प्रजाः ॥ ५५ ॥
एवं कुलिङ्गं विलपन्तमारात्
     प्रियावियोगातुरं अश्रुकण्ठम् ।
स एव तं शाकुनिकः शरेण
     विव्याध कालप्रहितो विलीनः ॥ ५६ ॥
(अनुष्टुप्)
एवं यूयं अपश्यन्त्य आत्मापायं अमबुद्धयः ।
नैनं प्राप्स्यथ शोचन्त्यः पतिं वर्षशतैरपि ॥ ५७ ॥
हिरण्यकशिपुरुवाच -
बाल एवं प्रवदति सर्वे विस्मितचेतसः ।
ज्ञातयो मेनिरे सर्वं अनित्यं अयथोत्थितम् ॥ ५८ ॥
यम एतद् उपाख्याय तत्रैवान्तरधीयत ।
ज्ञातयो हि सुयज्ञस्य चक्रुर्यत् साम्परायिकम् ॥ ५९ ॥
ततः शोचत मा यूयं परं चात्मानमेव वा ।
क आत्मा कः परो वात्र स्वीयः पारक्य एव वा ।
स्वपराभिनिवेशेन विनाज्ञानेन देहिनाम् ॥ ६० ॥
नारद उवाच -
इति दैत्यपतेर्वाक्यं दितिराकर्ण्य सस्नुषा ।
पुत्रशोकं क्षणात् त्यक्त्वा तत्त्वे चित्तं अधारयत् ॥ ६१ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
सप्तमस्कन्धे दितिशोकापनयनं नाम द्वितीयोऽध्यायः ॥ २ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP