श्रीमद्‌भागवत महापुराण

सप्तमः स्कंधः - प्रथमोऽध्यायः

नारदयुधिष्ठिरसंवादारंभः, जयविजयोः सनकादिशापाद् दैत्यजन्मप्राप्तिः -

[ Right click to 'save audio as' for downloading Audio ]

राजोवाच -
(अनुष्टुप्)
समः प्रियः सुहृद्‍ब्रह्मन् भूतानां भगवान् स्वयम् ।
इन्द्रस्यार्थे कथं दैत्यान् अवधीद् विषमो यथा ॥ १ ॥
न ह्यस्यार्थः सुरगणैः साक्षात् निःश्रेयसात्मनः ।
नैवासुरेभ्यो विद्वेषो न उद्वेगश्च अगुणस्य हि ॥ २ ॥
इति नः सुमहाभाग नारायणगुणान् प्रति ।
संशयः सुमहान् जातः तद्‍भवांन् छेत्तुं अर्हति ॥ ३ ॥
श्रीशुक रुवाच -
साधु पृष्टं महाराज हरेश्चरितमद्‍भुतम् ।
यद्‍भागवतमाहात्म्यं भगवद् भक्तिवर्धनम् ॥ ४ ॥
गीयते परमं पुण्यं ऋषिभिः नारदादिभिः ।
नत्वा कृष्णाय मुनये कथयिष्ये हरेः कथाम् ॥ ५ ॥
निर्गुणोऽपि ह्यजोऽव्यक्तो भगवान् प्रकृतेः परः ।
स्वमायागुणमाविश्य बाध्यबाधकतां गतः ॥ ६ ॥
सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः ।
न तेषां युगपद् राजन् ह्रास उल्लास एव वा ॥ ७ ॥
जयकाले तु सत्त्वस्य देवर्षीन् रजसोऽसुरान् ।
तमसो यक्षरक्षांसि तत्कालानुगुणोऽभजत् ॥ ८ ॥
ज्योतिरादिरिवाभाति सङ्घातान्न विविच्यते ।
विदन्त्यात्मानं आत्मस्थं मथित्वा कवयोऽन्ततः ॥ ९ ॥
यदा सिसृक्षुः पुर आत्मनः परो
     रजः सृजत्येष पृथक् स्वमायया ।
सत्त्वं विचित्रासु रिरंसुः ईश्वरः
     शयिष्यमाणस्तम ईरयत्यसौ ॥ १० ॥
कालं चरन्तं सृजतीश आश्रयं
     प्रधानपुम्भ्यां नरदेव सत्यकृत् ।
य एष राजन्नपि काल ईशिता
     सत्त्वं सुरानीकमिवैधयत्यतः ।
तत्प्रत्यनीकान् असुरान् सुरप्रियो
     रजस्तमस्कान् प्रमिणोत्युरुश्रवाः ॥ ११ ॥
(अनुष्टुप्)
अत्रैव उदाहृतः पूर्वं इतिहासः सुरर्षिणा
प्रीत्या महाक्रतौ राजन् पृच्छतेऽजातशत्रवे ॥ १२ ॥
दृष्ट्वा महाद्‍भुतं राजा राजसूये महाक्रतौ ।
वासुदेवे भगवति सायुज्यं चेदिभूभुजः ॥ १३ ॥
तत्रासीनं सुरऋषिं राजा पाण्डुसुतः क्रतौ ।
पप्रच्छ विस्मितमना मुनीनां श्रृण्वतामिदम् ॥ १४ ॥
युधिष्ठिर उवाच -
अहो अत्यद्‍भुतं ह्येतद् दुर्लभा एकान्तिनामपि ।
वासुदेवे परे तत्त्वे प्राप्तिश्चैद्यस्य विद्विषः ॥ १५ ॥
एतद् वेदितुमिच्छामः सर्व एव वयं मुने ।
भगवन् निन्दया वेनो द्विजैस्तमसि पातितः ॥ १६ ॥
दमघोषसुतः पाप आरभ्य कलभाषणात् ।
सम्प्रति अमर्षी गोविन्दे दन्तवक्रश्च दुर्मतिः ॥ १७ ॥
शपतोः असकृद् विष्णुं यद्‍ब्रह्म परमव्ययम् ।
श्वित्रो न जातो जिह्वायां नान्धं विविशतुः तमः ॥ १८ ॥
कथं तस्मिम् भगवति दुरवग्राह्यधामनि ।
पश्यतां सर्वलोकानां लयं ईयतुः अञ्जसा ॥ १९ ॥
एतद्‍भ्राम्यति मे बुद्धिः दीपार्चिरिव वायुना ।
ब्रूह्येतद् अद्‍भुततमं भगवान् तत्र कारणम् ॥ २० ॥
श्रीशुक उवाच -
राज्ञस्तद्वच आकर्ण्य नारदो भगवान् ऋषिः ।
तुष्टः प्राह तमाभाष्य श्रृण्वत्यास्तत्सदः कथाः ॥ २१ ॥
नारद उवाच -
निन्दन स्तव सत्कार न्यक्कारार्थं कलेवरम् ।
प्रधानपरयो राजन् अविवेकेन कल्पितम् ॥ २२ ॥
हिंसा तदभिमानेन दण्डपारुष्ययोर्यथा ।
वैषम्यं इह भूतानां ममाहं इति पार्थिव ॥ २३ ॥
यन्निबद्धोऽभिमानोऽयं तद् वधात् प्राणिनां वधः ।
तथा न यस्य कैवल्याद् अभिमानोऽखिलात्मनः ।
परस्य दमकर्तुर्हि हिंसा केनास्य कल्प्यते ॥ २४ ॥
तस्माद् वैरानुबन्धेन निर्वैरेण भयेन वा ।
स्नेहात् कामेन वा युञ्ज्यात् कथञ्चित् न ईक्षते पृथक् ॥ २५ ॥
यथा वैरानुबन्धेन मर्त्यः तन्मयतां इयात् ।
न तथा भक्तियोगेन इति मे निश्चिता मतिः ॥ २६ ॥
कीटः पेशस्कृता रुद्धः कुड्यायां तं अनुस्मरन् ।
संरम्भभययोगेन विन्दते तत् स्वरूपताम् ॥ २७ ॥
एवं कृष्णे भगवति मायामनुज ईश्वरे ।
वैरेण पूतपाप्मानः तं आपुः नुचिन्तया ॥ २८ ॥
कामाद् द्वेषाद् भयात् स्नेहाद् यथा भक्त्येश्वरे मनः ।
आवेश्य तद् अघं हित्वा बहवः तद्‍गतिं गताः ॥ २९ ॥
गोप्यः कामाद् भयात् कंसो द्वेषात् चैद्यादयो नृपाः ।
सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो ॥ ३० ॥
कतमोऽपि न वेनः स्यात् पञ्चानां पुरुषं प्रति ।
तस्मात् केनापि उपायेन मनः कृष्णे निवेशयेत् ॥ ३१ ॥
मातृष्वस्रेयो वश्चैद्यो दन्तवक्रश्च पाण्डव ।
पार्षदप्रवरौ विष्णोः विप्रशापात् पदच्युतौ ॥ ३२ ॥
युधिष्ठिर उवाच -
कीदृशः कस्य वा शापो हरिदासाभिमर्शनः ।
अश्रद्धेय इवाभाति हरेः एकान्तिनां भवः ॥ ३३ ॥
देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम् ।
देहसम्बन्ध सम्बद्धं एतद् आख्यातुमर्हसि ॥ ३४ ॥
नारद उवाच -
एकदा ब्रह्मणः पुत्रा विष्णुलोकं यदृच्छया ।
सनन्दनादयो जग्मुः चरन्तो भुवनत्रयम् ॥ ३५ ॥
पञ्चषड्ढायनार्भाभाः पूर्वेषामपि पूर्वजाः ।
दिग्वाससः शिशून् मत्वा द्वाःस्थौ तान् प्रत्यषेधताम् ॥ ३६ ॥
अशपन् कुपिता एवं युवां वासं न चार्हथः ।
रजस्तमोभ्यां रहिते पादमूले मधुद्विषः ॥ ३७ ॥
पापिष्ठां आसुरीं योनिं बालिशौ यातमाश्वतः ॥ ३७३ ।
एवं शप्तौ स्वभवनात् पतन्तौ तौ कृपालुभिः ।
प्रोक्तौ पुनर्जन्मभिः वां त्रिभिर्लोकाय कल्पताम् ॥ ३८ ॥
जज्ञाते तौ दितेः पुत्रौ दैत्यदानव वन्दितौ ।
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः ॥ ३९ ॥
हतो हिरण्यकशिपुः हरिणा सिंहरूपिणा ।
हिरण्याक्षो धरोद्धारे बिभ्रता शौकरं वपुः ॥ ४० ॥
हिरण्यकशिपुः पुत्रं प्रह्लादं केशवप्रियम् ।
जिघांसुः अकरोत् नाना यातना मृत्युहेतवे ॥ ४१ ॥
तं सर्वभूतात्मभूतं प्रशान्तं समदर्शनम् ।
भगवत् तेजसा स्पृष्टं नाशक्नोत् हन्तुमुद्यमैः ॥ ४२ ॥
ततस्तौ राक्षसौ जातौ केशिन्यां विश्रवःसुतौ ।
रावणः कुम्भकर्णश्च सर्वलोकोपतापनौ ॥ ४३ ॥
तत्रापि राघवो भूत्वा न्यहनत् शापमुक्तये ।
रामवीर्यं श्रोष्यसि त्वं मार्कण्डेयमुखात् प्रभो ॥ ४४ ॥
तौ अत्र क्षत्रियौ जातौ मातृष्वस्रात्मजौ तव ।
अधुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ ॥ ४५ ॥
वैरानुबन्धतीव्रेण ध्यानेन अच्युतसात्मताम् ।
नीतौ पुनर्हरेः पार्श्वं जग्मतुः विष्णुपार्षदौ ॥ ४६ ॥
युधिष्ठिर उवाच -
विद्वेषो दयिते पुत्रे कथं आसीत् महात्मनि ।
ब्रूहि मे भगवन्येन प्रह्लादस्याच्युतात्मता ॥ ४७ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
सप्तमस्कन्धे प्रह्रादचरितोपक्रमे प्रथमोऽध्यायः ॥ १ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP