श्रीमद्‌भागवत महापुराण

पञ्चमः स्कन्धः - एकादशोऽध्यायः

ब्राह्मणरहूगणसंवादः -

[ Right click to 'save audio as' for downloading Audio ]

ब्राह्मण उवाच
अकोविदः कोविदवादवादान्
     वदस्यथो नातिविदां वरिष्ठः ।
न सूरयो हि व्यवहारमेनं
     तत्त्वावमर्शेन सहामनन्ति ॥ १ ॥
तथैव राजन्नुरुगार्हमेध-
     वितानविद्योरुविजृम्भितेषु ।
न वेदवादेषु हि तत्त्ववादः
     प्रायेण शुद्धो नु चकास्ति साधुः ॥ २ ॥
न तस्य तत्त्वग्रहणाय साक्षाद्
     वरीयसीरपि वाचः समासन् ।
स्वप्ने निरुक्त्या गहमेधिसौख्यं
     न यस्य हेयानुमितं स्वयं स्यात् ॥ ३ ॥
यावन्मनो रजसा पूरुषस्य
     सत्त्वेन वा तमसा वानुरुद्धम् ।
चेतोभिराकूतिभिरातनोति
     निरङ्कुशं कुशलं चेतरं वा ॥ ४ ॥
स वासनात्मा विषयोपरक्तो
     गुणप्रवाहो विकृतः षोडशात्मा ।
बिभ्रत्पृथङ्नामभि रूपभेद-
     मन्तर्बहिष्टुं च पुरैस्तनोति ॥ ५ ॥
दुःखं सुखं व्यतिरिक्तं च तीव्रं
     कालोपपन्नं फलमाव्यनक्ति ।
आलिङ्ग्य मायारचितान्तरात्मा
     स्वदेहिनं संसृतिचक्रकूटः ॥ ६ ॥
तावानयं व्यवहारः सदाविः
     क्षेत्रज्ञसाक्ष्यो भवति स्थूलसूक्ष्मः ।
तस्मान्मनो लिङ्गमदो वदन्ति
     गुणागुणत्वस्य परावरस्य ॥ ७ ॥
गुणानुरक्तं व्यसनाय जन्तोः
     क्षेमाय नैर्गुण्यमथो मनः स्यात् ।
यथा प्रदीपो घृतवर्तिमश्नन्
     शिखाः सधूमा भजति ह्यन्यदा स्वम् ।
पदं तथा गुणकर्मानुबद्धं
     वृत्तीर्मनः श्रयतेऽन्यत्र तत्त्वम् ॥ ८ ॥
एकादशासन्मनसो हि वृत्तय
     आकूतयः पञ्च धियोऽभिमानः ।
मात्राणि कर्माणि पुरं च तासां
     वदन्ति हैकादश वीर भूमीः ॥ ९ ॥
गन्धाकृतिस्पर्शरसश्रवांसि
     विसर्गरत्यर्त्यभिजल्पशिल्पाः ।
एकादशं स्वीकरणं ममेति
     शय्यामहं द्वादशमेक आहुः ॥ १० ॥
द्रव्यस्वभावाशयकर्मकालै-
     रेकादशामी मनसो विकाराः ।
सहस्रशः शतशः कोटिशश्च
     क्षेत्रज्ञतो न मिथो न स्वतः स्युः ॥ ११ ॥
क्षेत्रज्ञ एता मनसो विभूती-
     र्ज्जीवस्य मायारचितस्य नित्याः ।
आविर्हिताः क्वापि तिरोहिताश्च
     शुद्धो विचष्टे ह्यविशुद्धकर्तुः ॥ १२ ॥
क्षेत्रज्ञ आत्मा पुरुषः पुराणः
     सा क्षात्स्वयं ज्योतिरजः परेशः ।
नारायणो भगवान् वासुदेवः
     स्वमाययाऽऽत्मन्यवधीयमानः ॥ १३ ॥
यथानिलः स्थावरजङ्गमाना -
     मात्मस्वरूपेण निविष्ट ईशेत् ।
एवं परो भगवान् वासुदेवः
     क्षेत्रज्ञ आत्मेदमनुप्रविष्टः ॥ १४ ॥
न यावदेतां तनुभृन्नरेन्द्र
     विधूय मायां वयुनोदयेन ।
विमुक्तसङ्गो जितषट्सपत्‍नो
     वेदात्मतत्त्वं भ्रमतीह तावत् ॥ १५ ॥
न यावदेतन्मन आत्मलिङ्गं
     संसारतापावपन जनस्य ।
यच्छोकमोहामयरागलोभ -
     वैरानुबन्धं ममतां वि धत्ते ॥ १६ ॥
भातृव्यमेनं तददभ्रवीर्य -
     मुपे क्षयाध्येधितमप्रमत्तः ।
गुरोर्हश्चरणोपासनास्त्रो
     जहि व्यलीकं स्वयमात्ममोषम् ॥ १७ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे एकादशोऽध्यायः ॥ ११ ॥


हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP