श्रीमद्भागवत महापुराण
पञ्चमः स्कन्धः - दशमोऽध्यायः
जडभरतचरितः -
[ Right click to 'save audio as' for downloading Audio ]
श्रीशुक उवाच
अथ सिन्धुसौवीरपते रहूगणस्य व्रजत
इक्षुमत्यास्तटे तत्कुलपतिना शिबिकावाह -
पुरुषान्वेषणसमये दैवेनोपसादितः स द्विजवर
उपलब्ध एष पीवा युवा संहननाङ्गो गोखरवद्धुरं
वोडुमलमिति पूर्वविष्टिगृहीतैः सह गृहीतः
प्रसभमतदर्ह उवाह शिबिकां स महानुभावः ॥ १ ॥
यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न
समाहिता पुरुषगतिस्तदा विषमगतां स्वशिबिकां
रहूगण उपधार्य पुरुषानधिवहत आह हे वोढारः वै
साध्वतिक्रमत किमिति विषममुह्यते यानमिति ॥ २ ॥
अथ त ईश्वरवचः सोपालम्भमुपाकर्ण्योपाय-
तुरीयाच्छङ्कितमनसस्तं विज्ञापयाम्बभूबुः ॥ ३ ॥
न वयं नरदेव प्रमत्ता भवन्नियमानुपथाः
साध्वेव वहामः अयमधुनैव नियुक्तोऽपि न द्रुतं
व्रजति नानेन सह वोढुमु ह वयं पारयाम इति ॥ ४ ॥
सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां
सांसर्गिकाणां भवितुमर्हतीति निश्चित्य निशम्य
कृपणवचोराजा रहूगणउपासितवृद्धोऽपि निसर्गेण
बलात्कृत ईषदुत्थितमन्युरविस्पष्टब्रह्मतेजसं
जातवेदसमिव रजसाऽऽवृतमतिराह ॥ ५ ॥
अहो कष्टं भातर्व्यक्तमुरुपरिश्रान्तो
दीर्घमध्वानमेक एव ऊहिवान् सुचिरं नातिपीवा न
सहननाङ्गो जरसा चोपद्रुतोभवान् सखे नो एवापर
एते सङ्घट्टिन इति बहुविप्रलब्धोऽप्यविद्यया
रचितद्रव्यगुणकर्माशयस्वचरमकलेवरेऽवस्तुनि
संस्थानविशेषेऽहं ममेत्यनध्यारोपितमिथ्याप्रत्ययो
ब्रह्मभूतस्तूष्णीं शिबिकां पूर्ववदुवाह ॥ ६ ॥
अथ पुनः स्वशिबिकायां विषमगतायां
प्रकुपितउवाचरहूगणः किमिदमरे त्वं जीवन्मृतो
मां कदर्थीकृत्य भर्तृशासनमतिचरसि प्रमत्तस्य च
ते करोमि चिकित्सां दण्डपाणिरिव जनताया
यथा प्रकृतिं स्वां भजिष्यस इति ॥ ७ ॥
एवं बह्वबद्धमपि भाषमाणं नरदेवाभिमानं
रजसा तमसानुविद्धेन मदेन तिरस्कृताशेषभगव-
त्प्रियनिकेतं पण्डितमानिनं स भगवान् ब्राह्मणो
ब्रह्मभूतः सर्वभूतसुहृदात्मा योगेश्वरचर्यायां
नातिव्युत्पन्नमतिं स्मयमान इव विगतस्मय
इदमाह ॥ ८ ॥
ब्राह्मणउवाच
त्वयोदितं व्यक्तमविप्रलब्धं
भर्तुः स मे स्याद्यदि वीर भारः ।
गन्तुर्यदि स्यादधिगम्यमध्वा
पीवेति राशौ न विदां प्रवादः ॥ ९ ॥
स्थौल्यंकार्श्यं व्याधय आधयश्च
क्षुतृड्भयं कलिरिच्छा जरा च ।
निद्रा रतिर्मन्युरहंमदः शुचो
देहेन जातस्य हि मे न सन्ति ॥ १० ॥
जीवन्मृतत्वं नियमेन राजन्
आद्यन्तवद्यद्विकृतस्य दृष्टम् ।
स्वस्वाम्यभावो ध्रुव ईड्य यत्र
तर्ह्युच्यतेऽसौविधिकृत्ययोगः ॥ ११ ॥
विशेषबुद्धेर्विवरं मनाक् च
पश्याम यन्न व्यवहारतोऽन्यत् ।
क ईश्वरस्तत्र किमीशितव्यं
तथापि राजन् करवाम किं ते ॥ १२ ॥
उन्मत्तमत्तजडवक्त्यसंस्था
गतस्य मे वीर चिकित्सितेन ।
अर्थः कियान् भवता शिक्षितेन
स्तब्धप्रभत्तस्यचपिष्टपेषः ॥ १३ ॥
श्रीशुकउवाच
एतावदनुवादपरिभाषया प्रत्युदीर्य मुनिवर
उपशमशील उपरतानात्म्यनिमित्त उपभोगेन
कर्मारब्धं व्यपनयन् राजयानमपितथोवाह ॥ १४ ॥
स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्व-
जिज्ञासायां सम्यक् श्रद्धयाधिकृताधिकारस्तद्
हृदयग्रन्थिमोचनं द्विजवच आश्रुत्य बहुयोग-
ग्रन्थसम्मतं त्वरयावरुह्य शिरसा पादमूलमुपसृतः
क्षमापयन् विगतनृपदेवस्मय उवाच ॥ १५ ॥
कस्त्वं निगूढश्चरसि द्विजानां
बिभर्षि सूत्रं कतमोऽवधूतः ।
कस्यासि कुत्रत्य इहापि कस्मात्
क्षेमाय नश्चेदसि नोत शुक्लः ॥ १६ ॥
नाहं विशङ्के सुरराजवज्रा-
न्न त्र्यक्षशलान्न यमस्य दण्डात् ।
नाग्न्यर्कसोमानिलवित्तपास्त्रा-
च्छङ्के भृशं ब्रह्मकुलावमानात् ॥ १७ ॥
तद् ब्रूह्यसङ्गो जडवन्निगूढ-
विज्ञानवीर्यो विचरस्यपारः ।
वचांसि योगग्रथितानि साधो
नन क्षमन्तेमनसापि भेत्तुम् ॥ १८ ॥
अहं च योगेश्वरमात्मतत्त्व-
विदां मुनीनां परमं गुरुं वै ।
प्रष्टुं प्रवृत्तः किमिहारणं तत्
साक्षाद्धरिंज्ञानकलावतीर्णम् ॥ १९ ॥
स वै भवाँल्लोकनिरीक्षणार्थ-
मव्यक्तलिङ्गो विचरत्यपिस्वित् ।
योगेश्वराणां गतिमन्धबुद्धिः
कथं विचक्षीत गृहानुबन्धः ॥ २० ॥
दृष्टः श्रमः कर्मत आत्मनो वै
भर्तुर्गन्तुर्भवतश्चानुमन्ये ।
यथासतोदानयनाद्यभावात्
समूल इष्टो व्यवहारमार्गः ॥ २१ ॥
स्थाल्यग्नितापात्पयसोऽभिताप-
स्तत्तापतस्तण्डुलगर्भरन्धिः ।
देहेन्द्रियास्वाशयसन्निकर्षात्
तत्संसृतिः पुरुषस्यानुरोधात् ॥ २२ ॥
शास्ताभिगोप्ता नृपतिः प्रजानां
यः किङ्करो वै न पिनष्टि पिष्टम् ।
स्वधर्ममाराधनमच्युतस्य
यदीहमानो विजहात्यघौघम् ॥ २३ ॥
तन्मे भवान्नरदेवाभिमान-
मदेन तुच्छीकृतसत्तमस्य ।
कृषीष्ट मैत्रीदृशमार्तबन्धो
यथा तरे सदवध्यानमंहः ॥ २४ ॥
न विक्रिया विश्वसुहृत्सखस्य
साम्येन वीताभिमतेस्तवापि ।
महद्विमानात् स्वकृताद्धि मादृङ्
नङ्क्ष्यत्यदूरादपि शूलपाणिः ॥ २५ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां संहितायां पञ्चमस्कन्धे दशमोऽध्यायः ॥ १० ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
GO TOP
|