श्रीमद्भागवत महापुराण    
तृतीय स्कंधः - तृतीयोऽध्यायः   
मथुरायां च द्वारकायां च सम्पन्नानां  श्रीकृष्णलीलानां वर्णनम्, यदूनां प्रभासक्षेत्र गमनं च -   
 
[ Right click to 'save audio as' for downloading Audio ] 
उद्धव उवाच -  
ततः स आगत्य पुरं स्वपित्रो-  
      श्चिकीर्षया शं बलदेवसंयुतः ।  
निपात्य तुङ्गाद्रिपुयूथनाथं  
      हतं व्यकर्षद् व्यसुमोजसोर्व्याम् ॥ १ ॥  
सान्दीपनेः सकृत्प्रोक्तं ब्रह्माधीत्य सविस्तरम् ।  
तस्मै प्रादाद्वरं पुत्रं मृतं पञ्चजनोदरात् ॥ २ ॥  
समाहुता भीष्मककन्यया ये  
      श्रियः सवर्णेन बुभूषयैषाम् ।  
गान्धर्ववृत्त्या मिषतां स्वभागं  
      जह्रे पदं मूर्ध्नि दधत्सुपर्णः ॥ ३ ॥  
ककुद्मिनोऽविद्धनसो दमित्वा  
      स्वयंवरे नाग्नजितीमुवाह ।  
तद्भग्नमानानपि गृध्यतोऽज्ञा-  
      ञ्जघ्नेऽक्षतः शस्त्रभृतः स्वशस्त्रैः ॥ ४ ॥  
प्रियं प्रभुर्ग्राम्य इव प्रियाया  
      विधित्सुरार्च्छद् द्युतरुं यदर्थे ।  
वज्र्याद्रवत्तं सगणो रुषान्धः  
      क्रीडामृगो नूनमयं वधूनाम् ॥ ५ ॥  
सुतं मृधे खं वपुषा ग्रसन्तं  
      दृष्ट्वा सुनाभोन्मथितं धरित्र्या ।  
आमंत्रितस्तत्तनयाय शेषं  
      दत्त्वा तदन्तःपुरमाविवेश ॥ ६ ॥  
तत्राहृतास्ता नरदेवकन्याः  
      कुजेन दृष्ट्वा हरिमार्तबन्धुम् ।  
उत्थाय सद्यो जगृहुः प्रहर्ष-  
      व्रीडानुरागप्रहितावलोकैः ॥ ७ ॥  
(अनुष्टुप्) 
आसां मुहूर्त एकस्मिन्नानागारेषु योषिताम् ।  
सविधं जगृहे पाणीननुरूपः स्वमायया ॥ ८ ॥  
तास्वपत्यान्यजनयदात्मतुल्यानि सर्वतः ।  
एकैकस्यां दश दश प्रकृतेर्विबुभूषया ॥ ९ ॥  
कालमागधशाल्वादीननीकै रुन्धतः पुरम् ।  
अजीघनत्स्वयं दिव्यं स्वपुंसां तेज आदिशत् ॥ १० ॥  
शम्बरं द्विविदं बाणं मुरं बल्वलमेव च ।  
अन्यांश्च दन्तवक्रादीनवधीत्कांश्च घातयत् ॥ ११ ॥  
अथ ते भ्रातृपुत्राणां पक्षयोः पतितान्नृपान् ।  
चचाल भूः कुरुक्षेत्रं येषामापततां बलैः ॥ १२ ॥  
स कर्णदुःशासनसौबलानां  
      कुमंत्रपाकेन हतश्रियायुषम् ।  
सुयोधनं सानुचरं शयानं  
      भग्नोरुमूर्व्यां न ननन्द पश्यन् ॥ १३ ॥  
कियान् भुवोऽयं क्षपितोरुभारो  
      यद्द्रोणभीष्मार्जुन भीममूलैः ।  
अष्टादशाक्षौहिणिको मदंशै-  
      रास्ते बलं दुर्विषहं यदूनाम् ॥ १४ ॥  
मिथो यदैषां भविता विवादो  
      मध्वामदाताम्रविलोचनानाम् ।  
नैषां वधोपाय इयानतोऽन्यो  
      मय्युद्यतेऽन्तर्दधते स्वयं स्म ॥ १५ ॥  
(अनुष्टुप्) 
एवं सञ्चिन्त्य भगवान् स्वराज्ये स्थाप्य धर्मजम् ।  
नन्दयामास सुहृदः साधूनां वर्त्म दर्शयन् ॥ १६ ॥  
उत्तरायां धृतः पूरोर्वंशः साध्वभिमन्युना ।  
स वै द्रौण्यस्त्रसंछिन्नः पुनर्भगवता धृतः ॥ १७ ॥  
अयाजयद्धर्मसुतमश्वमेधैस्त्रिभिर्विभुः ।  
सोऽपि क्ष्मामनुजै रक्षन् रेमे कृष्णमनुव्रतः ॥ १८ ॥  
भगवानपि विश्वात्मा लोकवेदपथानुगः ।  
कामान् सिषेवे द्वार्वत्यामसक्तः साङ्ख्यमास्थितः ॥ १९ ॥  
स्निग्धस्मितावलोकेन वाचा पीयूषकल्पया ।  
चरित्रेणानवद्येन श्रीनिकेतेन चात्मना ॥ २० ॥  
इमं लोकममुं चैव रमयन् सुतरां यदून् ।  
रेमे क्षणदया दत्तक्षणस्त्रीक्षणसौहृदः ॥ २१ ॥  
तस्यैवं रममाणस्य संवत्सरगणान् बहून् ।  
गृहमेधेषु योगेषु विरागः समजायत ॥ २२ ॥  
दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान् ।  
को विस्रम्भेत योगेन योगेश्वरमनुव्रतः ॥ २३ ॥  
पुर्यां कदाचित् क्रीडद्भिर्यदुभोजकुमारकैः ।  
कोपिता मुनयः शेपुर्भगवन्मतकोविदाः ॥ २४ ॥  
ततः कतिपयैर्मासैर्वृष्णिभोजान्धकादयः ।  
ययुः प्रभासं संहृष्टा रथैर्देवविमोहिताः ॥ २५ ॥  
तत्र स्नात्वा पितॄन्देवानृषींश्चैव तदम्भसा ।  
तर्पयित्वाथ विप्रेभ्यो गावो बहुगुणा ददुः ॥ २६ ॥  
हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान् ।  
यानं रथानिभान् कन्या धरां वृत्तिकरीमपि ॥ २७ ॥  
अन्नं चोरुरसं तेभ्यो दत्त्वा भगवदर्पणम् ।  
गोविप्रार्थासवः शूराः प्रणेमुर्भुवि मूर्धभिः ॥ २८ ॥  
 
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां  
तृतीयस्कन्धे विदुरोद्धवसंवादे तृतीयोऽध्यायः ॥ ३ ॥ 
 
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ 
  
GO TOP 
  
 |