अग्निपुराणम्

सप्तचत्वारिंशोध्यायः

शालग्रामादिपूजाकथनम् -


भगवानुवाच -
शालग्रामादिचक्राङ्‌कपूजाः सिद्ध्यै वदामि ते ।
त्रिविधा स्याद्धरेः पूजा काम्याकाम्योभयात्मिका ॥ १ ॥
मीनादीनान्तु पञ्चानां काम्याथो वोभयात्मिका ।
वराहस्य नृसिंहस्य वामनस्य च मुक्तये ॥ २ ॥
चक्रादीनां त्रयाणान्तु शालग्रामार्चनं शृणु ।
उत्तमा निष्फला पूजा कनिष्ठा सफलार्चना ॥ ३ ॥
मध्यमा मूर्तिपूजा स्याच्चक्राब्जे चतुरस्रके ।
प्रणवं हृदि विन्यस्य षडङ्‌गङ्‌करदेहयोः ॥ ४ ॥
कृतमुद्रात्रयश्चक्राद् बहिः पूर्वे गुरुं यजेत् ।
आप्ये गणं वायवे च धातारं नैर्ऋते यजेत् ॥ ५ ॥
विधातारञ्च कर्तारं हर्तारं दक्षसौम्ययोः ।
विश्वक्सेनं यजेदीशे आग्नेये क्षेत्रपालकम् ॥ ६ ॥
ऋगादिवेदान् प्रागादौ आधारानन्तकं भुवम् ।
पीठं पद्मं चार्कचन्द्रवह्न्याख्यं मण्डलत्रयम् ॥ ७ ॥
आसनं द्वादशार्णेन तत्र स्थाप्य शिलां यजेत् ।
अस्तेन च समस्तेन स्वबीजेन यजेत् क्रमात् ॥ ८ ॥
पूर्वादावथ वेदाद्यैः गायत्रीभ्यां जितादिना ।
प्रणवेनार्चयेत् पञ्चान्मुद्रास्तिस्रः प्रदर्शयेत् ॥ ९ ॥
विश्वक्सेनस्य चक्रस्य क्षेत्रपालस्य दर्शयेत् ।
शालग्रामस्य प्रथमा पूजार्थो निष्फलोच्यते ॥ १० ॥
पूर्ववत् षोडशारञ्च सपद्मं मण्डलं लिखेत् ।
शङ्खचक्रगदाखड्गैर्गुर्वाद्यं पूर्ववद्यजेत् ॥ ११ ॥
पूर्वे सौम्ये धनुर्बाणान् वेदाद्यैः आसनं ददेत् ।
शिलां न्यसेद् द्वादशार्णैस्तृतीयं पूजनं शृणु ॥ १२ ॥
अष्टारमब्जं विलिखेत् गुर्वाद्यं पूर्ववद् यजेत् ।
अष्टार्णेनासनं दत्वा तेनैव च शिलां न्यसेत् ।
पूजयेद् दशधा तेन गायत्रीभ्यां जितं तथा ॥ १३ ॥
इति आदिमहापुराणे आग्नेये
शालग्रामादिपूजाकथनं नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥


GO TOP