अग्निपुराणम्
चतुश्चत्वारिंशोऽध्यायः
वासुदेवादिप्रतिमानां लक्षणानि -
भगवानुवाच -
वासुदेवादिप्रतिमालक्षणं प्रवदामि ते ।
प्रासादस्योत्तरे पूर्वमुखीं वा चोत्तराननाम् ॥ १ ॥
संस्थाप्य पूज्य च बलिं दत्वाऽथो मध्यसूचकम् ।
शिलां शिल्पी तु नवधा विभज्य नवमेंऽशके ॥ २ ॥
सूर्पभक्तैः शिलायां तु भागं स्वाङ्गुलमुच्यते ।
द्व्यङ्गुलं गोलकं नाम्ना कालनेत्रं तदुच्यते ॥ ३ ॥
भागमेकं त्रिधा भक्त्या पार्ष्णिभागं प्रकल्पयेत् ।
भागमेकं तथा जानौ ग्रीवायां भागमेव च ॥ ४ ॥
मुकुटं तालमात्रं स्यात् तालमात्रं तथा मुखम् ।
तालेनैकेन कण्ठन्तु तालेन हृदयं तथा ॥ ५ ॥
नाभिमेढ्रान्तरन्तालं द्वितालावूरुकौ तथा ।
तालद्वयेन जङ्घा स्यात् सूत्राणि शृणु साम्प्रतम् ॥ ६ ॥
कार्यं सूत्रद्वयं पादे जङ्घामध्ये तथापरम् ।
जानौ सूत्रद्वयं कार्यं ऊरूमध्ये तथापरम् ॥ ७ ॥
मेढ्रे तथापरं कार्यं कट्यां सूत्रन्तथापरम् ।
मेखलाबन्धसिद्ध्यर्थं नाभ्यां चैवापरन्तथा ॥ ८ ॥
हृदये च तथा कार्यं कण्ठे सूत्रद्वयं तथा ।
ललाटे चापरं कार्यं मस्तके च तथापरम् ॥ ९ ॥
मुकुटोपरि कर्तव्यं सूत्रमेकं विचक्षणैः ।
सूत्राण्यूर्ध्वं प्रदेयानि सप्तैव कमलोद्भव ॥ १० ॥
कक्षात्रिकान्तरेणैव षट् सूत्राणि प्रदापयेत् ।
मध्यसूत्रं तु सन्त्यज्य सूत्राण्येव निवेदयेत् ॥ ११ ॥
ललाटं नासिकावक्त्रं कर्तव्यञ्चतुरङ्गुलम् ।
ग्रीवाकर्णौ तु कर्तव्यौ आयामाच्चतुरङ्गुलौ ॥ १२ ॥
द्व्यङ्गुले हनुके कार्ये विस्ताराच्चिबुकन्तथा ।
अष्टाङ्गुलं ललाटन्तु विस्तारेण प्रकीर्तितम् ॥ १३ ॥
परेण द्व्यङ्गुलौ शङ्खौ कर्तव्यावलकान्वितौ ।
चतुरङ्गुलमाख्यातं अन्तरं कर्णनेत्रयोः ॥ १४ ॥
द्व्यङ्गुलौ पृथुकौ कर्णौ कर्णापाङ्गार्द्धपञ्चमे ।
भ्रूसमेन तु सूत्रेण कर्णश्रोत्रं प्रकीर्तितम् ॥ १५ ॥
विद्धं षडङ्गुलं कर्णमविद्धञ्चतुरङ्गुलम् ।
चिबुकेन समं विद्धमविद्धं वा षडङ्गुलम् ॥ १६ ॥
गन्धपात्रं तथावर्तं शष्कुलीं कल्पयेत् तथा ।
द्व्यङ्गुलेनाधरः कार्यस्तस्यार्द्धेनोत्तराधरः ॥ १७ ॥
अर्धाङ्गुलं तथा नेत्रं वक्त्रन्तु चतुरङ्गुलम् ।
आयामेन तु वैपुल्यात् सार्धमङ्गुलमुच्यते ॥ १८ ॥
अव्यात्तमेवं स्याद् वक्त्रं व्यात्तं त्र्यङ्गुलमिष्यते ।
नासावंशसमुच्छ्रायं मूले त्वेकाङ्गुलं मतम् ॥ १९ ॥
उच्छ्राया द्व्यङ्गुलं चाग्रे करवीरोपमाः स्मृताः ।
अन्तरं चक्षुषोः कार्यं चतुरङ्गुलमानतः ॥ २० ॥
द्व्यङ्गुलं चाक्षिकोणं च द्व्यङ्गुलं चान्तरं तयोः ।
तारा नेत्रत्रिभागेण दृक्तारा पञ्चमांशिका ॥ २१ ॥
त्र्यङ्गुलं नेत्रविस्तारं द्रोणी चार्द्धाङ्गुला मता ।
तत्समाणा भ्रुवोर्लेखा भ्रुवौ चैव समे मते ॥ २२ ॥
भ्रूमध्यं द्व्यङ्गुलं कार्यं भ्रूदैर्घ्यं चतुराङ्गुलम् ।
षट्त्रिंशदङ्गुलायामं मस्तकस्य तु वेष्टनम् ॥ २३ ॥
मूर्तीनां केशवादीनां द्वात्रिंशद्वेष्टनं भवेत् ।
पञ्चनेत्रा त्वधोग्रीवा विस्ताराद्वेष्टनं पुनः ॥ २४ ॥
त्रिगुणं तु भवेदूर्ध्वं विस्तृताष्टाङ्गुलं पुनः ।
ग्रीवात्रिगुणमायामं ग्रीवावक्षोन्तरं भवेत् ॥ २५ ॥
स्कन्धावष्टाङ्गुलौ कार्यौ त्रिकलावंशकौ शुभौ ।
सप्तनेत्रौ स्मृतौ बाहू प्रबाहू षोडशाङ्गुलौ ॥ २६ ॥
त्रिकलौ विस्तृतौ बाहू प्रबाहू चापि तत्समौ ।
बाहुदण्डोर्ध्वतो ज्ञेयः परिणाहः कला नव ॥ २७ ॥
सप्तदशाङ्गुलो मध्ये कूर्परोऽर्द्धे च षोडश ।
कूर्परस्य भवेन्नाहः त्रिगुणः कमलोद्भव ॥ २८ ॥
नाहः प्रबाहुमध्ये तु षोडशाङ्गुल उच्यते ।
अग्रहस्ते परीणाहो द्वादशाङ्गुल उच्यते ॥ २९ ॥
विस्तारेण करतलं कीर्तितं तु षडङ्गुलम् ।
दैर्घ्यं सप्ताङ्गुलं कार्यं मध्या पञ्चाङ्गुला मता ॥ ३० ॥
तर्जन्यनामिका चैव तस्मादर्द्धाङ्गुलं विना ।
कनिष्ठाङ्गुष्ठकौ कार्यौ चतुरङ्गुलसम्मितौ ॥ ३१ ॥
द्विपर्वोऽङ्गुष्ठकः कार्यः शेषागुल्यस्त्रिपर्विकाः ।
सर्वासां पर्वणोऽर्द्धेन नखमानं विधीयते ॥ ३२ ॥
वक्षसो यत् प्रमाणन्तु जठरं तत्प्रमाणतः ।
अङ्गुलैकं भवेन्नाभी वेधेन च प्रमाणतः ॥ ३३ ॥
ततो मेढ्रान्तरं कार्यं तालमात्रं प्रमाणतः ।
नाभिमध्ये परीणाहो द्विचत्वारिंशदङ्गुलैः ॥ ३४ ॥
अन्तरं स्तनयोः कार्यं तालमात्रं प्रमाणतः ।
चिबुकौ यवमानौ तु मण्डलं द्विपदं भवेत् ॥ ३५ ॥
चतुःषष्ट्यङ्गुलं कार्यं वेष्टनं वक्षसः स्फुटम् ।
चतुर्मुखञ्च तदधोवेष्टनं परिकीर्तितम् ॥ ३६ ॥
परिणाहस्तथा कट्यां चतुःपञ्चाशदङ्गुलैः ।
विस्तारश्चोरुमूले तु प्रोच्यते द्वादशङ्गुलः ॥ ३७ ॥
तस्मादभ्यधिकं मध्ये ततो निम्नतरं क्रमात् ।
विस्तृताष्टाङ्गुलं जानुत्रिगुणा परिणाहतः ॥ ३८ ॥
जङ्घामध्ये तु विस्तारः सप्ताङ्गुल उदाहृतः ।
त्रिगुणा परिधिश्चास्य जङ्घाग्रं पञ्चविस्तरात् ॥ ३९ ॥
त्रिगुणा परिधिश्चास्य पादौ तालप्रमाणकौ ।
आयामादुत्थितौ पादौ चतुरङ्गुलमेव च ॥ ४० ॥
गुल्फात् पूर्वं तु कर्तव्यं प्रमाणाच्चतुरङ्गुलम् ।
त्रिकलं विस्तृतौ पादौ त्र्यङ्गुलो गुह्यकः स्मृतः ॥ ४१ ॥
पञ्चाङ्गुलस्तु नाहोऽस्य दीर्घा तद्वत् प्रदेशिनी ।
अष्टमाष्टांशतोन्यूनाः शेषाङ्गुल्यः क्रमेण तु ॥ ४२ ॥
सपादाङ्गुलमुत्सेधमङ्गुष्ठस्य प्रकीर्तितम् ।
यवोनमङ्गुलं कार्यं अङ्गुष्ठस्य नखं तथा ॥ ४३ ॥
अर्द्धाङ्गुलं तथान्यासं क्रमान् न्यूनं तु कारयेत् ।
त्र्यङ्गुलौ वृषणौ कार्यौ मेढ्रं तु चतुरङ्गुलम् ॥ ४४ ॥
परिणाऽहोत्र कोषाग्रं कर्तव्यञ्चतुरङ्गुलम् ।
षडङ्गुलपरीणाहौ वृषणौ परिकीर्तितौ ॥ ४५ ॥
प्रतिमा भूषणाढ्या स्याद् एतद् उद्देशलक्षणम् ।
अनयैव दिशा कार्यं लोके दृष्ट्वा तु लक्षणम् ॥ ४६ ॥
दक्षिणे तु करे चक्रमधस्तात् पद्ममेव च ।
वामे शङ्खं गदाऽधस्ताद्वासुदेवस्य लक्षणात् ॥ ४७ ॥
श्रीपुष्टी वापि कर्तव्ये पद्मवीणाकरान्विते ।
ऊरुमात्रोच्छ्रितायामे मालाविद्याधरौ तथा ॥ ४८ ॥
प्रभामण्डलसंस्थौ तौ प्रभा हस्त्यादिभूषणा ।
पद्माभं पादपीठन्तु प्रतिमास्वेवमाचरेत् ॥ ४९ ॥
इति आदिमहापुराणे आग्नेये
वासुदेवादिप्रतिमालक्षणकथनं चतुश्चत्वारिंशोध्यायः ॥ ४४ ॥
GO TOP
|