अग्निपुराणम्

द्वादशोऽध्यायः

कृष्णावतारवर्णनम् -


अग्निरुवाच -
हरिवंशं प्रवक्ष्यामि विष्णुनाभ्यम्बुजादजः ।
ब्रह्मणोऽत्रिस्ततः सोमः सोमाज्जातः पुरूरवाः ॥ १ ॥
तस्मादायुरभूत्तस्मान् नहुषोऽतो ययातिकः ।
यदुञ्च तुर्वसुन्तस्माद् देवयानी व्यजायत ॥ २ ॥
द्रुह्युञ्चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ।
यदोः कुले यादवाश्च वसुदेवस्तदुत्तमः ॥ ३ ॥
भुवो भारावतारार्थं देवक्यां वसुदेवतः ।
हिरण्यकशिपोः पुत्राः षड्गर्भा योगनिद्रया ॥ ४ ॥
विष्णुप्रयुक्तया नीता देवकीजठरं पुरा ।
अभूच्च सप्तमो गर्भो देवक्या जठराद् बलः ॥ ५ ॥
सङ्क्रामितोऽभूत् रोहिण्यां रौहिणेयस्ततो हरिः ।
कृष्णाष्टम्याञ्च नभसि अर्धरात्रे चतुर्भुजः ॥ ६ ॥
देवक्या वसुदेवेन स्तुतो बालो द्विबाहुकः ।
वसुदेवः कंसभयाद् यशोदाशयनेऽनयत् ॥ ७ ॥
यशोदाबालिकां गृह्य देवकीशयनेऽनयत् ।
कंसो बालध्वनिं श्रुत्वा ताञ्चिक्षेप शिलातले ॥ ८ ॥
वारितोऽपि स देवक्या मृत्युर्गर्भोऽष्टमो मम ।
श्रुत्वाऽशरीरिणीं वाचं मत्तो गर्भास्तु मारिताः ॥ ९ ॥
समर्पितास्तु देवक्या विवाहसमयेरिताः ।
सा क्षिप्ता बालिका कंसं आकाशस्थाब्रवीदिदम् ॥ १० ॥
किं मया क्षिप्तया कंस ! जातो यस्त्वां वधिष्यति ।
सर्वस्वभूतो देवानां भूभारहरणाय सः ॥ ११ ॥
इत्युक्त्वा सा च शुम्भादीन् हत्वेन्द्रेण च संस्तुता ।
आर्या दुर्गा वेदगर्भा अम्बिका भद्रकाल्यपि ॥ १२ ॥
भद्रा क्षेम्या क्षेमकरी नैकबाहुः नमामि ताम् ।
त्रिसन्ध्यं यः पठेन्नाम सर्वान् कामानवाप्नुयात् ॥ १३ ॥
कंसोऽपि पूतनादींश्च प्रेषयद्‌बालनाशने ।
यशोदापतिनन्दाय वसुदेवेन चार्पितौ ॥ १४ ॥
रक्षणाय च कंसादेः भीतेनैव हि गोकुले ।
रामकृष्णौ चेरतुस्तौ गोभिर्गोपालकैः सह ॥ १५ ॥
सर्वस्य जगतः पालौ गोपालौ तौ बभूवतुः ।
कृष्णश्चोलूखले बद्धो दाम्ना व्यग्रयशोदया ॥ १६ ॥
यमलार्जुनमध्येऽगाद् भग्नौ च यमलार्जुनौ ।
परिवृत्तश्च शकटः पादक्षेपात् स्तनार्थिना ॥ १७ ॥
पूतना स्तनपानेन सा हता हन्तुमुद्यता ।
वृन्दावनगतः कृष्णः कालियं यमुनाह्रदात् ॥ १८ ॥
जित्वा निःसार्य चाब्धिस्थञ्चकार बलसंस्तुतः ।
क्षेमं तालवनं चक्रे हत्वा धेनुकगर्दभम् ॥ १९ ॥
अरिष्टवृषभं हत्वा केशिनं हयरूपिणम् ।
शक्रोत्सवं परित्यज्य कारितो गोत्रयज्ञकः ॥ २० ॥
पर्वतं धारयित्वा च शक्राद्वृष्टिः निवारिता ।
नमस्कृतो महेन्द्रेण गोविन्दोऽथार्जुनोर्पितः ॥ २१ ॥
इन्द्रोत्सवस्तु तुष्टेन भूयः कृष्णेन कारितः ।
रथस्थो मथुराञ्चागात् कंसोक्ताक्रूरसंस्तुतः ॥ २२ ॥
गोपीभिरनुरक्ताभिः क्रीडिताभिः निरीक्षितः ।
रजकं चाप्रयच्छन्तं हत्वा वस्त्राणि चाग्रहीत् ॥ २३ ॥
सह रामेण मालाभृन् मालाकारे वरं ददौ ।
दत्तानुलेपनां कुब्जां ऋजुं चक्रेऽहनद् गजम् ॥ २४ ॥
मत्तं कुवलयापीडं द्वारि रङ्गं प्रविश्य च ।
कंसादीनां पश्यतां च मञ्चस्थानां नियुद्धकम् ॥ २५ ॥
चक्रे चाणूरमल्लेन मुष्टिकेन बलोऽकरोत् ।
चाणूरमुष्टिकौ ताभ्यां हतौ मल्लौ तथापरे ॥ २६ ॥
मथुराधिपतिं कंसं हत्वा तत्पितरं हरिः ।
चक्रे यादवराजानं अस्तिप्राप्ती च कंसगे ॥ २७ ॥
जरासन्धस्य ते पुत्र्यौ जरासन्धस्तदीरितः ।
चक्रे स मथुरारोधं यादवैः युयुधे शरैः ॥ २८ ॥
रामकृष्णौ च मथुरां त्यक्त्वा गोमन्तमागतौ ।
जरासन्धं विजित्याजौ पौण्ड्रकं वासुदेवकम् ॥ २९ ॥
पुरीं च द्वारकां कृत्वा न्यवसद् यादवैः वृतः ।
भौमं तु नरकं हत्वा तेनानीताश्च कन्यकाः ॥ ३० ॥
देवगन्धर्वयक्षाणां ता उवाह जनार्दनः ।
षोदशस्त्रीसहस्राणि रुक्मिण्याद्यास्तथाष्ट च ॥ ३१ ॥
सत्यभामासमायुक्तो गरुडे नरकार्दनः ।
मणिशैलं सरत्‍नंञ्च इन्द्रं जित्वा हरिर्दिवि ॥ ३२ ॥
पारिजातं समानीय सत्यभामागृहेऽकरोत् ।
सान्दीपनेश्च शस्त्रास्त्रं ज्ञात्वा तद्बालकं ददौ ॥ ३३ ॥
जित्वा पञ्चजनं दैत्यं यमेन च सुपूजितः ।
अवधीत् कालयवनं मुचुकुन्देन पूजितः ॥ ३४ ॥
वसुदेवं देवकीञ्च भक्तविप्रांश्च सोऽर्चयत् ।
रेवत्यां बलभद्राच्च यज्ञाते निशठोल्मुकौ ॥ ३५ ॥
कृष्णात् शाम्बो जाम्बवत्यामन्यास्वन्येऽभवन् सुताः ।
प्रद्युम्नोऽभूच्च रुक्मिण्यां षष्ठेऽह्नि स हृतो बलात् ॥ ३६ ॥
शम्बरेणाम्बुधौ क्षिप्तौ मत्स्यो जग्राह धीवरः ।
तं मत्स्यं शम्बरायादान्मायावत्यै च शम्बरः ॥ ३७ ॥
मायावती मत्स्यमध्ये दृष्ट्वा स्वं पतिमादरात् ।
पुपोष सा तं चोवाच रतिस्तेऽहं पतिर्मम ॥ ३८ ॥
कामस्त्वं शम्भुनानङ्गः कृतोऽहं शम्बरेण च ।
हृता न तस्य पत्‍नी त्वं मायाज्ञः शम्बरं जहि ॥ ३९ ॥
तच्छ्रुत्वा शम्बरं हत्वा प्रद्युम्नः सह मायया ।
मायावत्या ययौ कृष्णं कृष्णो हृष्टोऽथ रुक्मिणी ॥ ४० ॥
प्रद्युम्नादनिरुद्धोऽभूद् उषापतिरुदारधीः ।
बाणो बलिसुतस्तस्य सुतोषा शोणितं पुरम् ॥ ४१ ॥
तपसा शिवपुत्रोऽभूत् मायूरध्वजपातितः ।
युद्धं प्राप्स्यसि बाण त्वं बाणं तुष्टः शिवोऽभ्यधात् ॥ ४२ ॥
शिवेन क्रीडती गौरीं दृष्ट्वोषा सस्पृहा पतौ ।
तामाह गौरी भर्ता ते निशि सुप्तेति दर्शनात् ॥ ४३ ॥
वैशाखमासद्वादश्यां पुंसो भर्ता भविष्यति ।
गौर्युक्ता हर्षिता चोषा गृहे सुप्ता ददर्श तम् ॥ ४४ ॥
आत्मना सङ्गतं ज्ञात्वा तत्सख्या चित्रलेखया ।
लिखिताद्वै चित्रपटाद् अनिरुद्धं समानयत् ॥ ४५ ॥
कृष्णपौत्रं द्वारकातो दुहिता वाणमन्त्रिणः ।
कुम्भाण्डस्यानिरुद्धोगाद् रराम ह्युषया सह ॥ ४६ ॥
बाणध्वजस्य सम्पातै रक्षिभिः स निवेदितः ।
अनिरुद्धस्य बाणेन युद्धमासीत् सुदारुणम् ॥ ४७ ॥
श्रुत्वा तु नारदात् कृष्णः प्रद्युम्नबलभद्रवान् ।
गरुडस्थोथ जित्वाग्नीन् ज्वरं माहेश्वरं तथा ॥ ४८ ॥
हरिशङ्करयोर्युद्धं बभूवाथ शराशरि ।
नन्दिविनायकस्कन्दमुखास्तार्क्षादिभिर्जिताः ॥ ४९ ॥
जृम्भिते शङ्करे नष्टे जृम्भणास्त्रेण विष्णुना ।
छिन्नं सहस्रं बाहूनां रुद्रेणाभयमर्थितम् ॥ ५० ॥
विष्णुना जीवितो वाणो द्विबाहुः प्राब्रवीच्छिवम् ।
त्वया यदभयं दत्तं वाणस्यास्य मया च तत् ॥ ५१ ॥
आवयोः नास्ति भेदो वै भेदी नरकमाप्नुयात् ।
शिवाद्यैः पूजितो विष्णुः सोनिरुद्ध उषादियुक् ॥ ५२ ॥
द्वारकान्तु गतो रेमे उग्रसेनादियादवैः ।
अनिरुद्धात्मजो वज्रो मार्कण्डेयात्तु सर्ववित् ॥ ५३ ॥
बलभद्रः प्रलम्बघ्नो यमुनाकर्षणोऽभवत् ।
द्विविदस्य कपेर्भेत्ता कौरवोन्मादनाशनः ॥ ५४ ॥
हरी रेमेऽनेकमूर्तो रुक्मिण्यादिभिरीश्वरः ।
पुत्रानुत्पादयामास त्वसंख्यातान् स यादवान् ।
हरिवंशं पठेत् यः स प्राप्तकामो हरिं व्रजेत् ॥ ५५ ॥
इति आदिमहापुराणे आग्नेये
हरिवंशवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥


GO TOP