॥ विष्णुपुराणम् ॥

पञ्चमः अंशः

॥ पञ्चत्रिंशोऽध्यायः ॥

मैत्रेय उवाच
भूय एवाहमिच्छामि बलभद्रस्य धीमतः ।
श्रोतुं पराक्रमं ब्रह्मन् तन्ममाख्यातुमर्हसि ॥ १ ॥
यमुनाकर्षणादीनि श्रुतानि भगवन्मया ।
तत्कथ्यतां महाभाग यदन्यत्कृतवान्बलः ॥ २ ॥
श्रीपराशर उवाच
मैत्रेय श्रुयतां कर्म यद्‌रामेणाभवत्कृतम् ।
अनन्ते नाप्रमेयेन शेषेण धरणीधृता ॥ ३ ॥
सुयोधनस्य तनयां स्वयंवरकृतक्षणाम् ।
बलादादत्तवान्वीरः साम्बो जाम्बवतीसुतः ॥ ४ ॥
ततः क्रुद्धा महावीर्याः कर्णदुर्योधनादयः ।
भीष्मद्रोणादयश्चैनं बबन्धुर्युधि निर्जितम् ॥ ५ ॥
तच्छुत्वा यादवाः सर्वे क्रोधं दुर्योधनादिषु ।
मैत्रेय चक्रुः कृष्णश्च तान्निहन्तुं महोद्यमम् ॥ ६ ॥
तान्निवार्य बलः प्राह मदलोलकलाक्षरम् ।
मोक्ष्यन्ति ते मद्वचनाद्यास्याम्येको हि कौरवान् ॥ ७ ॥
श्रीपराशर उवाच
बलदेवस्ततो दृष्ट्‍वा नगरं नागसाह्वयम् ।
बाह्योपवनमध्येऽभून्न विवेश च तत्पुरम् ॥ ८ ॥
बलमागतमाज्ञाय भूपा दुर्योधनादयः ।
गामर्घ्यमुदकं चैव रामाय प्रत्यवेदयन् ॥ ९ ॥
गृहीत्वा विधिवत्सर्वं ततस्तानाह कौरवान् ।
आज्ञापयत्युग्रसेनः साम्बमाशु विमुञ्चत ॥ १० ॥
ततस्तद्वचनं श्रुत्वा भीष्मद्रोणादयो नृपाः ।
कर्मदुर्योधनाद्याश्च चुक्षुभुर्द्विजसत्तम ॥ ११ ॥
ऊचुश्च कुपिताः सर्वे बाह्लिकाद्याश्च कौरवाः ।
अराज्यार्हं यदोर्वंशमवेक्ष्य मुसलायुधम् ॥ १२ ॥
भो भो किमेतद्‍भवता बलभद्रेरितं वचः ।
आज्ञां कुरुकुलोत्थानां यादवः कः प्रदास्यति ॥ १३ ॥
उग्रसेनोऽपि यद्याज्ञां कौरवाणां प्रदास्यति ।
तदलं पाण्डुरैश्छत्रैर्नृपयोग्यैर्विडम्बनैः ॥ १४ ॥
तद्‍गच्छबल मा वा त्वं साम्बमन्यायचेष्टितम् ।
विमोक्ष्यामो न भवतश्चोग्रसेनस्य शासनात् ॥ १५ ॥
प्रणतिर्या कृतास्माकं मान्यानां कुकुरान्धकैः ।
न नाम सा कृता केयमाज्ञा स्वामिनि भृत्यतः ॥ १६ ॥
गर्वमारोपिता यूयं समानासनभोजनैः ।
को दोषो भवतां नीतिर्यत्प्रीत्या नावलोकिता ॥ १७ ॥
अस्माभिरर्घो भवतो योयं बल निवेदितः ।
प्रेम्णैतन्नैतदस्माकं कुलाद्युष्मत्कुलोचितम् ॥ १८ ॥
श्रीपराशर उवाच
इत्युक्त्वा कुरवः साम्बं मुञ्चामो न हरेःसुतम् ।
कृतैतनिश्चयस्तूर्णं विविशुर्गजसाह्वयम् ॥ १९ ॥
मत्तः कोपेन चाघूर्णंस्ततोऽधिक्षेपजन्मना ।
उत्थाय पार्ष्ण्या वसुधां जघान स हलायुधः ॥ २० ॥
ततो विदारिता पृथ्वी पार्ष्णिघातान्महात्मनः ।
आस्फोटयामास तदा दिशः शब्देन पूरयन् ॥ २१ ॥
उवाच चातिताम्राक्षो भृकुटीकुटिलाननः ॥ २२ ॥
अहो मदावलेपोऽयमसाराणां दुरात्मनाम् ।
कौरवाणां महीपत्वमस्माकं किल कालजम् ।
उग्रसेनस्य येनाज्ञां मन्यन्तेऽद्यपि लङ्‍घनम् ॥ २३ ॥
उग्रसेनः समध्यास्ते सुधर्मां न शचीपतिः ।
धिङ्‍मानुषशतोच्छिष्टे तुष्टिरेषां नृपासने ॥ २४ ॥
पारिजाततरोः पुष्पमञ्जरीर्वनिताजनः ।
बिभर्ति यस्य भृत्यानां सोऽप्येषां न महीपतिः ॥ २५ ॥
समस्तभूभृतां नाथ उग्रसेनः स तिष्ठतु ।
अद्य निष्कौरवामुर्वीं कृत्वा यास्यामि तत्पुरीम् ॥ २६ ॥
कर्णं दुर्योधनं द्रोणमद्य भीष्मं सबाह्लिकम् ।
दुःशासनादीन्भूरिं च भूरिश्रवसमेव च ॥ २७ ॥
सोमदत्तं शलं चैव भीमार्जुनयुधिष्ठिरान् ।
यमौ च कौरवांश्चान्यान्हत्वा साश्वरथद्विपान् ॥ २८ ॥
वीरमादाय तं साम्बं सपत्‍नीकं ततः पुरीम् ।
द्वारकामुग्रसेनादीन्गत्वा द्रक्ष्यामि बान्धवान् ॥ २९ ॥
अथ वा कौरवावासं समस्तैः कुरुभिः सह ।
भागीरथ्यां क्षिपाम्याशु नगरं नागसाह्वयम् ॥ ३० ॥
श्रीपराशर उवाच
इत्युक्त्वा मदरक्ताक्षः कर्षणाधोमुखं हलम् ।
प्राकारवप्रदुर्गस्य चकर्ष मुसलायुधः ॥ ३१ ॥
आघूर्णितं तत्सहसा ततो वै हास्तिनं पुरम् ।
दृष्ट्‍वा संक्षुब्धहृदयाश्चुक्षुभुः सर्वकौरवाः ॥ ३२ ॥
राम राम महाबाहो क्षम्यतां क्षम्यतां त्वया ।
उपसंह्रियतां कोपः प्रसीद मुसलायुध ॥ ३३ ॥
एष साम्बःसपत्‍नीकस्तवनिर्यातितो बलात् ।
अविज्ञातप्रभावाणां क्ष्मयतामपराधिनाम् ॥ ३४ ॥
श्रीपराशर उवाच
ततो निर्यातयामासुः साम्बं पत्‍नीसमन्वितम् ।
निष्क्रम्य स्वपुरात्तूर्णं कौरवा मुनिपुङ्‍गव ॥ ३५ ॥
भीष्मद्रोणकृपादीनां प्रणम्य वदतां प्रियम् ।
क्षान्तमेव मयेत्याह बलो बलवतां वरः ॥ ३६ ॥
अद्याप्याघूर्णिताकारं लक्ष्यते तत्पुरं द्विज ।
एष प्रभावो रामस्य बलशौर्योपलक्षणः ॥ ३७ ॥
ततस्तु कौरवाः साम्बं सम्पूज्य हलिना सह ।
प्रेषयामासुरुद्वाहधनभार्यासमन्वितम् ॥ ३८ ॥
इति श्रीविष्णुमहापुराणे पञ्चमेंऽशे पञ्चत्रिंशोऽध्यायः (३५)

GO TOP