|
॥ विष्णुपुराणम् ॥ पञ्चमः अंशः ॥ विंशोऽध्यायः ॥
श्रीपराशर उवाच
राजमार्गे ततः कृष्णः सानुलेपनभाजनाम् । ददर्श कुब्जामायान्तीं नवयोवनगोचराम् ॥ १ ॥ तामाह ललितं कृष्णः कस्येदमनुलेपनम् । भवत्या नीयते सत्यं वदेन्दीवरलोचने ॥ २ ॥ सकामेनेव सा प्रोक्ता सानुरागा हरिं प्रति । प्राह सा ललितं कुब्जा तद्दर्शनबलात्कृता ॥ ३ ॥ कान्त कस्मान्न जानासि कंसेन विनियोजिताम् । नैकवक्रेति विख्यातामनुलेपनकर्मणि ॥ ४ ॥ नान्यपिष्टं हि कंसस्य प्रीतये ह्यनुलेपनम् । भवाम्यहमतीवास्य प्रसादधनभाजनम् ॥ ५ ॥ श्रीकृष्ण उवाच सुगन्धमेतद्राजार्हं रुचिरं रुचिरानने । आवयोर्गात्र सदृशं दीयतामनुलेपनम् ॥ ६ ॥ श्रीपराशर उवाच श्रुत्वैतदाह सा कुब्जा गृह्यतामिति सादरम् । अनुलेपनं च प्रददौ गात्रयोग्यमथोभयोः ॥ ७ ॥ भक्तिच्छेदानुलिप्ताङ्गौ ततस्तौ पुरुषर्षभौ । सेन्द्रचापौ व्यराजेतां सितकृष्णाविवाम्बुदौ ॥ ८ ॥ ततस्तां चुबुके शौरिरुल्लापनविधानवित् । उत्पाट्य तोलयामास व्द्यङ्गुलेनाग्रपाणिना ॥ ९ ॥ चकर्ष पद्भ्यां च तदा ऋजुत्वं केशवोऽनयत् । ततः सा ऋजुतां प्राप्ता योषितमभवद्वरा ॥ १० ॥ विलासलिलितं प्राह प्रेमगर्भभरालसम् । वस्त्रे प्रगृह्य गोविन्दं मम गेहं व्रजेति वै ॥ ११ ॥ एवमुक्तस्तया शौरी रामस्यालोक्य चाननम् । प्रहस्य कुब्जां तामाह नैकवक्रामनिन्दिताम् ॥ १२ ॥ आयास्ये भवतीगेहमिति तां प्रहसन्हरिः । विससर्ज जहासोच्चै रामस्यालोक्य चाननम् ॥ १३ ॥ भक्तिभेदानुनिप्ताङ्गौ नीलपीताम्बरौ तु तौ । धनुःशालां ततो यातौ चित्रमाल्योपशोभितौ ॥ १४ ॥ आयागं तद्धनूरत्नं ताभ्यां पृष्टैस्तु रक्षिभिः । आख्याते सहसा कृष्णो गृहीत्वा पूरयद्धनुः ॥ १५ ॥ ततः पूरयता तेन भज्यमानं बलाद्धनुः । चकार सुमहच्छब्दं मथुरा येन पूरिता ॥ १६ ॥ अनुयुक्तौ ततस्तौ तु भग्ने धनुषि रक्षिभिः । रक्षिसैन्यं निहत्योभौ निष्क्रान्तौ कार्मुकालयात् ॥ १७ ॥ अक्रूरागमवृत्तान्तमुपलभ्य महद्धनुः । भग्नं श्रुत्वा च कंसोऽपि प्राह चाणूरमुष्टिकौ ॥ १८ ॥ कंस उवाच गोपालदारकौ प्राप्तौ भवद्भ्यां तु ममाग्रतः । मल्लयुद्धेन हन्तव्यौ मम प्राणहरौ दि तौ ॥ १९ ॥ नियुद्धे तद्विनाशेन भवद्भ्यां तोषितो ह्य् अहम् । दास्याम्यभिमतान्कामान्नान्यथैतौ महाबलौ ॥ २० ॥ न्यायतोऽन्यायतो वापि भवद्भ्यां तौ ममाहितौ । हन्ताव्यौ तद्वधाद्राज्यं सामान्यं वां भविष्यति ॥ २१ ॥ इत्यादिश्य स तौ मल्लौ ततश्चाहूय हस्तिपम् । प्रोवाचोच्चैस्त्वया मल्लसमाजद्वारि कुञ्जरः ॥ २२ ॥ स्थाप्यः कुवलयापीडस्तेन तौ गोपदारकौ । घातनीयौ नियुद्धाय रङ्गद्वारमुपागतौ ॥ २३ ॥ तमप्याज्ञाप्य दृष्ट्वा च सर्वान्मञ्चानुपाकृतान् । आसन्नमरणः कंसः सूर्योदयमुदैक्षत ॥ २४ ॥ ततः समस्तमञ्चेषु नागरः स तदा जनः । राजमञ्चेषु चारूढाः सह भृत्यैर्नराधिपाः ॥ २५ ॥ मल्लप्राश्निकवर्गश्च रङ्गमध्यसमीपगः । कृतः कंसेन कंसोऽपि तुङ्गमञ्चे व्यवस्थितः ॥ २६ ॥ अन्तःपुराणां मञ्चाश्च तथान्ये परिकल्पिताः । अन्ये च वारमुख्यानामन्ये नागरयोषिताम् ॥ २७ ॥ नन्दगोपादयो गोपा मञ्चेष्वन्येष्ववस्थिताः । अक्रूरवसुदेवौ च मञ्चप्रान्ते व्यवस्थितौ ॥ २८ ॥ नागरीयोषितां मध्ये देवकीपुत्रगर्धिनी । अन्तकालेऽपि पुत्रस्य द्रक्ष्यामीति मुखं स्थिता ॥ २९ ॥ वाद्यमानेषु तुर्येषु चाणूरे चापि वल्गति । हाहाकारपरे लोके ह्यास्फोटयति मुष्टिके ॥ ३० ॥ ईषद्धसन्तौ तौ वीरौ बलभद्रजनार्दनौ । गोपवेषधारौ बालौ रङ्गद्वारमुपागतौ ॥ ३१ ॥ ततः कुवलयापीडो महामात्रप्रचोदितः । अभ्यधावत वेगेन हन्तुं गोपकुमारकौ ॥ ३२ ॥ हाहाकारो महाञ्जज्ञे रङ्गमध्ये द्विजोत्तम । बलदेवोऽनुजं दृष्ट्वा वचनं चेदमब्रवीत् ॥ ३३ ॥ हन्तव्यो हि महाभाग नागोऽयं शत्रुचोदितः ॥ ३४ ॥ इत्युक्तः सोऽग्रजेनाथ बलदेवेन वै द्विज । सिंहनादं ततश्चक्रे माधवः परवीरहा ॥ ३५ ॥ करेण करमाकृष्य तस्य केशिनिषूदनः । भ्रामयामास तं शौरिरैरावतसमं बले ॥ ३६ ॥ ईशोपि सर्वजगतां बाललीलानुसारतः । क्रीडित्वा सुचिरं कृष्णः करिदन्तपदान्तरे ॥ ३७ ॥ उत्पाट्य वामदन्तं तु दक्षिणेनैव पाणिना । ताडयामास यन्तारं तस्यासीच्छतधा शिरः ॥ ३८ ॥ दक्षिण दन्तमुत्पाट्य बलभद्रोऽपि तत्क्षणात् । स रोषस्तेन पार्श्वस्थान् गजपालानपोथयत् ॥ ३९ ॥ ततस्तूत्प्लुत्य वेगेन रौहिणेयो महाबलः । जघान वामपादेन मस्तके हस्तिनं रुषा ॥ ४० ॥ स पपात हतस्तेन बलभद्रेण लीलया । सहस्राक्षेण वज्रेण ताडितः पर्वतो यथा ॥ ४१ ॥ हत्वा कुवलयापीडं हस्त्यारोहप्रचोदितम् । मदासृगनुलिप्ताङ्गौ हस्तिदन्तवरायुधौ ॥ ४२ ॥ मृगमध्ये यथा सिंहौ गर्वलीलावलोकिनौ । प्रविष्टौ सुमहारङ्गं बलभद्रजनार्दनौ ॥ ४३ ॥ हाहाकारो महाञ्जज्ञे महारङ्गे त्वनन्तरम् । कृष्णोऽयं बलभद्रोयमिति लोकस्य विस्मयः ॥ ४४ ॥ सोऽयं येन हता घोरा पूतना बालघातिनी । क्षिप्तं तु शकटं येन भग्नौ तु यमलार्जुनौ ॥ ४५ ॥ सोयं यः कालियं नागं ममर्दारुह्य बालकः । धृतो गोवर्धनो येन सप्तरात्रं महागिरिः ॥ ४६ ॥ अरिष्टो धेनुकः केशी लीलयैव महात्मना । निहता येन दुर्वृत्ता दृश्यतामेष सोऽच्युतः ॥ ४७ ॥ अयं चास्य महाबाहुर्बलभद्रोऽग्रतोऽग्रजः । प्रयाति लीलया योषिन्मनोनयननन्दनः ॥ ४८ ॥ अयं स कथ्यते प्राज्ञैः पुराणार्थविशारदैः । गोपालो यादवं वंशं मग्नमभ्यद्धरिष्यति ॥ ४९ ॥ अयं हि सर्वलोकस्य विष्णोरखिलजन्मनः । अवतीर्णो महीमंशो नूनं भारहरो भुवः ॥ ५० ॥ इत्येवं वर्णिते पौरै रामे कृष्णे च तत्क्षणात् । उरस्तताप देवक्याः स्नेहस्नुतपयोधरम् ॥ ५१ ॥ महोत्सवमिवासाद्य पुत्राननविलोकनात् । युवेव वसुदेवोऽभूद्विहायाभ्यागतां जराम् ॥ ५२ ॥ विस्तारिताक्षियुगलो राजान्तःपुरयोषिताम् । नागारस्त्रीसमूहश्च द्रष्टुं न विरराम तम् ॥ ५३ ॥ सख्यः पश्यत कृष्णस्य मुखमत्यरुणेक्षणम् । गजयुद्धकृतायासस्वेदाम्बुकणिकाचितम् ॥ ५४ ॥ विकासिशरदम्भोजमपश्यायजलोक्षितम् । परिभूयं स्थितं जन्म सफलं क्रियतां दृशः ॥ ५५ ॥ श्रीवत्सांकं महद्धाम बालस्यैतद्विलोक्यताम् । विपक्षक्षपणं वक्षो भुजयुग्यं च भामिनि ॥ ५६ ॥ किं न पश्यसि दुग्धेन्दुमृणालधवलाकृतिम् । बलभद्रमिमं नीलपरिधानमुपागतम् ॥ ५७ ॥ वल्गता मुष्टिकेनैव चाणूरेण तथा सखि । क्रीडतोबलभद्रस्य हरेर्हास्यं विलोक्यताम् ॥ ५८ ॥ सख्यः पश्यत चाणूरं नियुद्धार्थमयं हरिः । समुपैति न सन्त्यत्र किं वृद्धा मुक्तकारिणः ॥ ५९ ॥ क्व यौवनोन्मुखीभूतसुकुमारतनुर्हरिः । क्व वज्रकठिनाभोगशरीरोऽयं महासुरः ॥ ६० ॥ इमौ सुललितैरङ्गैर्वर्तेते नवयौवनौ । दैतेयमल्लाश्चाणूरप्रमुखास्त्वतिदारुणाः ॥ ६१ ॥ नियुद्धप्राश्निकानां तु महानेष व्यतिक्रमः । यद्बालबलिनोर्युद्धं मध्यस्थैः समुपेक्ष्यते ॥ ६२ ॥ श्रीपारशर उवाच इत्थं पुरस्त्रीलोकस्व वदतश्चालयन्भुवम् । ववल्ग बद्धकक्ष्योऽन्तर्जनस्य भगवान्हरिः ॥ ६३ ॥ बलभद्रोऽपि चास्फोट्य ववल्ग ललितं तथा । पदे पदे तथा भूमिर्यन्न शीर्णा तदद्भुतम् ॥ ६४ ॥ चाणूरेण ततः कृष्णो ययुधेऽमितविक्रमः । नियुद्धकुशलो दैत्यौ बलभद्रेण मुष्टिकः ॥ ६५ ॥ सन्निपातावधूतैस्तु चाणूरेण समं हरिः । प्रक्षेपणैर्मुष्टिभिश्च कीलवज्रनिपातनैः ॥ ६६ ॥ पादोद्धूतैः प्रमृष्टैश्च तयोर्युद्धमभून् महत् ॥ ६७ ॥ अशस्त्रमतिघोरं तत्तयोर्युद्धं सुदारुणम् । बलप्राणविनिष्पाद्यं समाजोत्सवसन्निधौ ॥ ६८ ॥ यावद्यावच्च चाणूरो युयुधे हरिणा सह । प्राणहानिमवापाग्र्यां तावत्तावल्लवाल्लवम् ॥ ६९ ॥ कृष्णोऽपि युयुधे तेन लीलयैव जगन्मयः । खेदाच्चालयता कोपान्निजशेखरकेसरम् ॥ ७० ॥ बलक्षयं विवृद्धिं च दृष्ट्वा चाणूरकृष्णयोः । वारयामास तूर्याणि कंसः कोपपरायणः ॥ ७१ ॥ मृदङ्गादिषु तूर्येषु प्रतिषिद्धेषु तत्क्षणात् । खे सङ्गतान्यवाद्यन्त देवतूर्याण्यनेकशः ॥ ७२ ॥ जय गोविन्द चाणूरं जहि केशव दानवम् । अन्तर्धानगता देवास्तमूचुरतिहर्षिताः ॥ ७३ ॥ चाणूरेण चिरं कालं पीडित्वा मधुसूदनः । उत्पाट्य भ्रमयामास तद्वधाय कृतोद्यमः ॥ ७४ ॥ भ्रामयित्वा शतगुणं दैत्यमल्लममित्रजित् । भूभावास्फोटयामास गगने गतजीवितम् ॥ ७५ ॥ भूमावास्फोटितस्तेन चाणूरः शतधाभवत् । रक्तस्रावमहापङ्कां चकार च तदा भवम् ॥ ७६ ॥ बलदेवोऽपि तत्कालं मुष्टिकेन महाबलः । ययुधे दैत्यमल्लेन चाणूरेण यथा हरिः ॥ ७७ ॥ सोऽप्येनं मुष्टिना मूर्ध्नि वक्षस्याहत्य जानुना । पातयित्वा धरापृष्ठे निष्पिपेष गतायुषम् ॥ ७८ ॥ कृष्णस्तोशलकं भूयो मल्लराजं महाबलम् । वाममुष्टिप्रहारेण पातयामास भूतले ॥ ७९ ॥ चाणूरे नहते मल्ले मुष्टिके विनिपातिते । नीते क्षयं तोशलके सर्वे मल्लाः प्रदुद्रुवुः ॥ ८० ॥ ववल्गतुस्ततो रङ्गे कृष्णसंकर्षणावुभौ । समानवयसो गोपान्बलादाकृष्य हर्षितौ ॥ ८१ ॥ कंसोऽपि कोपरक्ताक्षः प्राहोच्चैर्व्यायतान्नरान् । गोपावेतौ समाजौघान्निष्क्राम्येतां बलादितः ॥ ८२ ॥ नन्दोऽपि गृह्यतां पापो निर्गलैरायसैरिह । अवृद्धार्हेण दण्डेन वसुदेवोऽपि वध्यताम् ॥ ८३ ॥ वल्गन्ति गोपाः कृष्णेन ये चेमे सहिताः पुराः । गावो निगृह्यतामेषां यच्चास्ति वसु किञ्चन ॥ ८४ ॥ एवमाज्ञापयन्तं तु प्रहस्य मधुसूदनः । उत्प्लुत्यारुह्य तं मञ्चं कंसं जग्राह वेगतः ॥ ८५ ॥ केशेष्वाकृष्य विगलत्किरीटमवनीतले । सं कंसं पातयामास तस्योपरि पपात च ॥ ८६ ॥ अशेषजगदाधारगुरुणा पततोपरि । कृष्णेन त्याजितः प्राणानुग्रसेनात्मजो नृपः ॥ ८७ ॥ मृतस्य केशेषु तदा गृहीत्वा मधुसूदनः । चकर्ष देहं कंसस्य रङ्गमध्ये महाबलः ॥ ८८ ॥ गौरवेणातिमहता परिघातेन कृष्यता । कृता कंसस्य देहेन वेगेनेव महाम्भसः ॥ ८९ ॥ कंसे गृहीते कृष्णेन तद्भ्राताऽभ्यागतो रुषा । सुनामा बलभद्रेण लीलयैव निपातितः ॥ ९० ॥ ततो हाहाकृतं सर्वमासीत्तद्रङ्गमण्डलम् । अवज्ञया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम् ॥ ९१ ॥ कृष्णेऽपि वसुदेवस्य पादौ जग्राह सत्वरः । देवक्याश्च महाबाहुर्बलदेवसहायवान् ॥ ९२ ॥ उत्थाप्य वसुदेवस्तं देवकी च जनार्दनम् । स्मृतजन्मोक्तवचनौ तावे व प्रणतौ स्थितौ ॥ ९३ ॥ श्रीवसुदेव उवाच प्रसीद सीदतां दत्तो देवानां यो वरः प्रभो । तथावयोः प्रसादेन कृतोद्धारः स केशव ॥ ९४ ॥ आराधितो यद्भगवानवतीर्णो गृहे मम । दुर्वृत्तनिधनार्थाय तेन नः पावितं कुलम् ॥ ९५ ॥ त्वमन्तः सर्वभूतानां सर्वभूतमयस्थितः । प्रवर्तेते समस्तात्मंस्त्वत्तो भूतभविष्यति ॥ ९६ ॥ यज्ञैस्त्वमिज्यसेऽचिन्त्य सर्वदेवमयाच्युत । त्वमेव यज्ञो यष्टा च यज्वनां परमेश्वरः ॥ ९७ ॥ समुद्भवः समस्तस्य जगतस्त्वं जनार्दन ॥ ९८ ॥ सापह्नवं मम मनो यदेतत्त्वयि जायते । देवक्याश्चात्मजप्रीत्या तदत्यन्तविडम्बना ॥ ९९ ॥ त्वं कर्ता सर्वभूतानामनादिनिधनो भवान् । त्वं मनुष्यस्य कस्यैषा जिह्वा पुत्रेति वक्ष्यति ॥ १०० ॥ जगदेतज्जगन्नाथ सम्भूतमखिलं यतः । कया युक्त्या विना मायां सोऽस्मत्तः सम्भविष्यति ॥ १०१ ॥ यस्मिन्प्रतिष्ठितं सर्वं जगत्स्थावरजङ्गमम् । स कोष्ठोत्सङ्गशयनो मानुषो जायते कथम् ॥ १०२ ॥ स त्वं प्रसीद परम्श्वर पाहि विश्व- मंशावतारकरणैर्न ममासि पुत्रः । आब्रह्मपादपमिदं जगदेतदीश त्वत्तो विमोहयसि किं पुरुषोत्तमास्मान् ॥ १०३ ॥ मायाविमोहितदृशा तनयो ममेति कंसाद्भयं कृतमपास्तभयातितीव्रम् । नीतोऽसि गोकुलमरातिभयाकुलेन वृद्धिं गतोऽसि मम नास्ति ममत्वमीश ॥ १०४ ॥ कर्माणि रुद्रमरुदश्विशतक्रतूनां साध्यानि यस्य न भवन्ति निरीक्षितानि । त्वं विष्णुरीश जगतामुपकारहेतोः प्राप्तोसि नः परिगतो विगतो हि मोहः ॥ १०५ ॥ इति श्रीविष्णुमहापुराणे पञ्चमेंऽशे विंशोध्यायः (२०) |