|
॥ विष्णुपुराणम् ॥ पञ्चमः अंशः ॥ त्रयोदशोऽध्यायः ॥
श्रीपराशर उवाच
गते शक्रे तु गोपालाः कृष्णमक्लिष्टकारिणम् । ऊचुः प्रीत्या धृतं दृष्ट्वा तेन गोवर्धनाचलम् ॥ १ ॥ वयमस्मान्महाभाग भगवन्महतो भयात् । गावश्च भवता त्राता गिरिधारणकर्मणा ॥ २ ॥ बालक्रीडेयमतुला गोपालत्वं जुगुप्सितम् । दिव्यं च भवतः कर्म किमेतत्तात कथ्यताम् ॥ ३ ॥ कालीयो दमितस्तोये धेनुको विनिपातितः । धृतो गोवर्धनश्चायं शङ्कितानि मनांसि नः ॥ ४ ॥ सत्यं सत्यं हरेः पादौ शपामोऽमितविक्रम । यथावद्वीर्यमालोक्य न त्वां मन्यामहे नरम् ॥ ५ ॥ प्रीतिः सस्त्रीकुमारस्य व्रजस्य त्वयि केशव । कर्म चेदमशक्यं यत्समस्तैस्त्रिदशेरपि ॥ ६ ॥ बालत्वं चातिवीर्यत्वं जन्म चास्मासु शोभनम् । चिन्त्यमानममेयात्मञ्छङ्कां कृष्ण प्रयच्छति ॥ ७ ॥ देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा । किमस्माकं विचारेण बान्धवोऽसि नमोस्तु ते ॥ ८ ॥ श्रीपराशर उवाच क्षणं भूत्वा त्वसौ तूष्णीं किञ्चित्प्रणयकोपवान् । इत्य् एवमुक्तस्तैर्गोपैः कृष्णोऽप्याह महामतिः ॥ ९ ॥ श्रीभगवानुवाच मत्सम्बन्धेन वो गोपा यदि लज्जा न जायते । श्लाघ्यो वाहं ततः किं वो विचारेण प्रयोजनम् ॥ १० ॥ यदि वोऽस्ति मयि प्रीतिः श्लाघ्योऽहं भवतां यदि । तदात्मबन्धुसदृशी बुद्धिर्वः क्रियातां मयि ॥ ११ ॥ नाहं देवो न गान्धर्वो न यक्षो न च दानवः । अहं वो बान्धवो जातो नैतच्चिन्त्यमितोऽन्यथा ॥ १२ ॥ श्रीपराशर उवाच इति श्रुत्वा हरेर्वाक्यं बद्धमौनास्ततो वनम् । ययुर्गोपा महाभाग तस्मिन्प्रणयकोपिनि ॥ १३ ॥ कृष्णस्तु विमलं व्योम शरच्चन्द्रस्य चन्द्रिकाम् । तदा कुमुदिनीं फुल्लामामोदितदिगन्तराम् ॥ १४ ॥ वनराजीं तथा कूजद्भृङ्गमालामनोहराम् । विलोक्य सह गोपीभिर्मनश्चक्रे रतिं प्रति ॥ १५ ॥ विना रामेण मधुरमतीव वनिताप्रियम् । जगौ कलपदं शौरिस्तारमन्द्रकृतक्रमम् ॥ १६ ॥ रम्यं गीतध्वनिं श्रुत्वा सन्त्यज्यावसथांस्तदा । आजग्मुस्त्वरिता गोप्यो यत्रास्ते मधुसूदनः ॥ १७ ॥ शनैः शनैर्जगौ गोपी काचित्तस्य लयानुगम् । दत्तावधाना काचिच्च तमेव मनसास्मरत् ॥ १८ ॥ काचित्कृष्णेति कृष्णेति प्रोक्त्वा लज्जामुपाययौ । ययौ च काचित्प्रेमान्धा तत्पार्श्वमविलम्बितम् ॥ १९ ॥ काचिच्चावसथस्यान्ते स्थित्वा दृष्ट्वा बहिर्गुरुम् । तन्मयत्वेन गोविन्दं दध्यौ मीलितलोचना ॥ २० ॥ तच्चित्तविमलाह्लादक्षीणपुण्यचया तथा । तदप्राप्तिमहादुःखविलीनाशेषपातका ॥ २१ ॥ चिन्तयती जगत्सूतिं परब्रह्मस्वरूपिणम् । निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका ॥ २२ ॥ गोपीपरिवृतो रात्रिं शरच्चन्द्रमनोरमाम् । मानयामास गोविन्दो रासारम्भरसोत्सुकः ॥ २३ ॥ गोप्यश्च वृन्दशः कृष्णचेष्टास्वायत्तमूर्तयः । अन्यदेशं गते कृष्णे चेरुर्वृन्दावनान्तरम् ॥ २४ ॥ कृष्णे निबद्धहृदया इदमूचुः परस्परम् ॥ २५ ॥ कृष्णोऽहमेष ललितं व्रजाम्यालोक्यतां गतिः । अन्या ब्रवीन्ति कृष्णस्य मम गीतिर्निशम्यताम् ॥ २६ ॥ दुष्टकालिय तिष्ठात्र कृष्णोहमिति चापरा । बाहुमास्फोट्य कृष्णस्य लीलया सर्वमाददे ॥ २७ ॥ अन्या ब्रवीति भो गोपा निःशङ्कैः स्थीयतामिति । अलं वृष्टिभयेनात्र धृतो गोवर्धनो मया ॥ २८ ॥ धेनुकोऽयं मयाक्षिप्तो विचरन्तु यथेच्छया । गावो ब्रवीति चैवान्या कृष्णलीलानुसारिणी ॥ २९ ॥ एवं नानाप्रकारासु कृष्णचेष्टासु तास्तदा । गोप्यो व्यग्राःसमं चेरू रम्यं वृन्दावनान्तरम् ॥ ३० ॥ विलोक्यैका भुवं प्राह गोपी गोपवराङ्गना । पुलकाञ्चितसर्वाङ्गी विकासिनयनोत्पला ॥ ३१ ॥ ध्वजवज्राङ्कुशाब्जाङ्करेखावन्त्यालि पश्यत । पदान्येतानि कृष्णस्य लीलाललितगामिनः ॥ ३२ ॥ कापि तेन समायाता कृतपुण्या मदालसा । पदानि तस्याश्चैतानि घनान्यल्पतनूनि च ॥ ३३ ॥ पुष्पापचयमत्रोच्चैश्चक्रे दामोदरो ध्रुवम् । येनाग्राक्रान्तमात्राणि पदान्यत्र महात्मनः ॥ ३४ ॥ अत्रोपविश्य वै तेन काचित्पुष्पैरलङ्कृता । अन्यजन्मनि सर्वात्मा विष्णुरभ्यर्चितस्तया ॥ ३५ ॥ पुष्पबन्धनसंमानकृतमानामपास्य ताम् । नन्दगोपसुतो यातो मार्गेणानेन पश्यत ॥ ३६ ॥ अनुयातैनमत्रान्या नितम्बभरमन्थरा । या गन्तव्ये द्रुतं याति निम्नपादाग्रसंस्थितिः ॥ ३७ ॥ हस्तन्यस्ताग्रहस्तेयं तेन याति तथा सखी । अनायत्तपदन्यासा लक्ष्यते पदपद्धतिः ॥ ३८ ॥ हस्तसंस्पर्शमात्रेण धूर्तेनैषा विमानिता । नैराश्यान्मन्दगामिन्या निवृत्तं लक्ष्यते पदम् ॥ ३९ ॥ नूनमुक्ता त्वरामीति पुनरेष्यामि तेऽन्तिकम् । तेन कृष्णेन येनैषा त्वरिता पदपद्धतिः ॥ ४० ॥ प्रविष्टो गहनं कृष्णः पदमत्र न लक्ष्यते । निवर्तध्वं शशाङ्कस्य नैतद्दीधितिगोचरे ॥ ४१ ॥ निवृत्तास्तास्तदा गोप्यो निराशाः कृष्णदर्शने । यमुनातीरमासाद्य जगुस्तच्चरितं तथा ॥ ४२ ॥ ततो ददृशुरायान्तं विकासिमुखपङ्कजम् । गोप्यस्त्रैलोक्यगोप्तारं कृष्णमक्लिष्टचेष्टितम् ॥ ४३ ॥ काचिदालोक्य गोविन्दमायान्तमतिहर्षिता । कृष्ण कृष्णेति कृष्णेति प्राह नान्यदुदीरयत् ॥ ४४ ॥ काचिद्भ्रूभङ्गुरं कृत्वा ललाटफलकं हरिम् । विलोक्य नेत्रभृङ्गाभ्यां पपौ तन्मुखपङ्कजम् ॥ ४५ ॥ काचिदालोक्य गोविन्दं निमीलितविलोचना । तस्यैव रूपं ध्यायन्ती योगारूढेव सा बभौ ॥ ४६ ॥ ततः काञ्चित्प्रियालापैः काञ्चिद् भ्रूभङ्गवीक्षितैः । निन्येऽनुनयमन्यां च करस्पर्शेन माधवः ॥ ४७ ॥ ताभिः प्रसन्नचित्ताभिर्गोपीभिः सह सादरम् । ररास रासगोष्ठीभिरुदारचरितो हरिः ॥ ४८ ॥ रासमण्डलबन्धोऽपि कृष्णपार्श्वमनुज्झता । गोपीजनेन नैवाभूदेकस्थानस्थिरात्मना ॥ ४९ ॥ हस्तेन गृह्य चैकैकां गोपीनां रासमण्डले । चकार तत्करस्पर्शनिमीलितदृशं हरिः ॥ ५० ॥ ततः प्रववृते रासश्चलद्वलयनिस्वनः । अनुयातशरत्काव्यगोयगीतिरनुक्रमात् ॥ ५१ ॥ कृष्णः शरच्चन्द्रमसं कौमुदीं कुमुदाकरम् । जगौ गोपीजनस्त्वेकं कृष्णनाम पुनः पुनः ॥ ५२ ॥ परिवृत्तिश्रमेणैका चलद्वलयलापिनीम् । ददौ बाहुलतां स्कन्धे गोपी मधुनिघातिनः ॥ ५३ ॥ काचित्प्रविलसद्बाहुं परिरभ्य चुचुम्ब तम् । गोपीगीतस्तुतिव्याजान्निपुणा मधुसूदनम् ॥ ५४ ॥ गोपीकपोलसंश्लेषमभिगम्य हरेर्भुजौ । पुलकोद्गमसस्याय स्वेदाम्बुघनतां गतौ ॥ ५५ ॥ रासगेयं जगौ कृष्णो यावत्तारतरध्वनिः । साधु कृष्णेति कृष्णेति तावत्ता द्विगुणं जगुः ॥ ५६ ॥ गतेनुगमनं चक्रुर्वलनं संमुखं ययुः । प्रतिलोमानुलोमाभ्यां भेजुर्गौपाङ्गना हरिम् ॥ ५७ ॥ स तथा सह गोपीभी ररास मधुसूदनः । यथाब्दकोटिप्रतिमः क्षणस्तेन विनाभवत् ॥ ५८ ॥ ता वार्यमाणाः पतिभिः पितृभिर्भ्रातृभिस्तथा । कृष्णं गोपाङ्गना रात्रौ रमयन्ति रतिप्रियाः ॥ ५९ ॥ सोऽपि कैशोरकवयो मानयन्मधुसूदनः । रेमे ताभिरमेयात्मा क्षपासु क्षपिताहितः ॥ ६० ॥ तद्भर्तृषु तथा तासु सर्वभूतेषु चेश्वरः । आत्मस्वरूपरूपोऽसौ व्यापी वायुरिव स्थितः ॥ ६१ ॥ यथा समस्तभूतेषु नभोऽग्निः पृथिवी जलम् । वायुश्चात्मा तथैवासौ व्याप्य सर्वमवस्थितः ॥ ६२ ॥ इति श्रीविष्णुमहापुराणे पञ्चमेंऽशे त्रयोदशोध्यायः (१३) |