॥ विष्णुपुराणम् ॥

पञ्चमः अंशः

॥ सप्तमोऽध्यायः ॥

श्रीपराशर उवाच
एकदा तु विना रामं कृष्णो वृन्दावनं ययौ ।
विचचार वृतो गोपैर्वन्यपुष्पस्रगुज्ज्वलः ॥ १ ॥
स जगामाथ कालिन्दीं लोल कल्लोलशालिनीम् ।
तीरसंलग्नफेनौघैर्हसन्तीमिव सर्वतः ॥ २ ॥
तस्याश्चतिमहाभीमं विषाग्निश्रितवारिणम् ।
ह्रदं कालीयनागस्य ददर्शातिविभीषणम् ॥ ३ ॥
विषाग्निना प्रसरता दग्धतीरमहीरुहम् ।
वाताहताम्बुविक्षेपस्पर्शदग्धविहङ्‍गमम् ॥ ४ ॥
तमतीव महा रौद्रं मृत्युवक्रमिवापरम् ।
विलोक्य चिन्तयामास भगवान्मधुसूदनः ॥ ५ ॥
अस्मिन्वसति दुष्टात्मा कालीयोऽसौ विषायुधः ।
यो मया निर्जितस्त्यक्त्वा दुष्टो नष्टः पयोनिधिम् ॥ ६ ॥
तेनेयं दूषिता सर्वा यमुना सागरङ्‍गमा ।
न नरैगोधनैश्चापि तृषार्तैरुपभुज्यते ॥ ७ ॥
तदस्य नागराजस्य कर्तव्यो निग्रहो मया ।
निस्त्रासास्तु सुखं येन चरेयुर्व्रजवासिनः ॥ ८ ॥
एतदर्थं तु लोकेऽस्मिन्नवतारः कृतो मया ।
यदेषामुत्पथस्थानां कार्या शान्तिर्दुरात्मनाम् ॥ ९ ॥
तदेतं नातिदूरस्थं कदम्बमुरुशाखिनम् ।
अदिरुद्य पतिष्यामि ह्रदेऽस्मिन्ननिलाशिनः ॥ १० ॥
श्रीपराशर उवाच
इत्थं विचिन्त्य बद्ध्वा च गाढं परिकरं ततः ।
निपपात ह्रदे तत्र नागराजस्य वेगतः ॥ ११ ॥
तेनातिपतता तत्र क्षोभितःस महाह्रदः ।
अत्यर्थं दूरजातांस्तु समसिञ्चन्महीरुहान् ॥ १२ ॥
ते हि दुष्टविषज्वालातप्ताम्बुपवनोक्षिताः ।
जज्वलुः पादापाःसद्यो ज्वालाव्याप्तदिगन्तराः ॥ १३ ॥
आस्फोटयामास तदा कृष्णो नागह्रदे भुजम् ।
तच्छब्दश्रवणाच्चाशु नागराजोऽभ्युपागमत् ॥ १४ ॥
आताम्रनयनः कोपाद्विषज्वालाकुलैर्मुखैः ।
वृतो महाविषैश्चान्यैरुरगैरनिलाशनैः ॥ १५ ॥
नागपत्‍न्यश्च शतशो हारिहारोपशोभिताः ।
प्रकम्पिततनुक्षेपचलत्कुण्डलकान्तयः ॥ १६ ॥
ततः प्रवेष्टितःसर्पैः स कृष्णे भोगबन्धनैः ।
ददंशुस्तेऽपि तं कृष्णं विषज्वालाकुलैर्मुखैः ॥ १७ ॥
तं तत्र पतितं दृष्ट्‍वा सर्पभोगैर्निपीडितम् ।
गोपा व्रजमुपागम्य चुक्रुशुः शोकलालसाः ॥ १८ ॥
गोपा ऊचुः
एष मोहं गतः कृष्णो मग्नौ वै कालियह्रदे ।
भक्ष्यते नागराजेन तमागच्छत पश्यत ॥ १९ ॥
तच्छ्रुत्वा तत्र ते गोपा वज्रपातोपमं वचः ।
गोप्यश्च त्वरीता जग्मुर्यशोदाप्रमुखा ह्रदम् ॥ २० ॥
हाहा क्वासाविति जनो गोपीनामतिविह्वलः ।
यशोदया समं भ्रान्तो द्रुतप्रस्खलितं ययौ ॥ २१ ॥
नन्दगोपश्च गोपाश्च रामश्चाद्‍भुतविक्रमः ।
त्वरितं यमुनां जग्मुः कृष्णदर्शनलालासाः ॥ २२ ॥
ददृशुश्चापि ते तत्र सर्पराजवशंगतम् ।
निष्प्रयत्‍नीकृतं कृष्णं सर्पभोगविवेष्टितम् ॥ २३ ॥
नन्दगोपोऽपि निश्चेष्टो न्यस्य पुत्रमुखे दृशम् ।
यशोदा च महाभागा बभूव मुनिसत्तम ॥ २४ ॥
गोप्यस्त्वन्या रुदन्त्यश्च ददृशुः शोककातराः ।
प्रोचुश्च केशवं प्रीत्या भयकातर्यगद्‍गदम् ॥ २५ ॥
गोप्य ऊचुः
सर्वा यशोदया सार्धं विशामोत्र महाह्रदम् ।
सर्पराजस्य नो गन्तुमस्माभिर्युज्यते व्रजम् ॥ २६ ॥
दिवसः को विना सूर्यं विना चन्द्रेण का निशा ।
विना वृषेण का गावो विना कृष्णेन को व्रजः ॥ २७ ॥
विनाकृता न यास्यामः कृष्णेनानेन गोकुलम् ।
अरम्यं नातिसेव्यं च वारिहीनं यथा सरः ॥ २८ ॥
यत्र नेन्दीवरश्यामकायकान्तिरयं हरिः ।
तेनापि मतुर्वासेन रतिरस्तीति विस्मयः ॥ २९ ॥
उत्फुल्लपङ्‍कजदलस्पष्टकान्तिविलोचनम् ।
अपश्यन्तो हरिं दीनाः कथं गोष्ठे भविष्यथ ॥ ३० ॥
अत्यन्तमधुरालापहृताशेषमनोरथम् ।
न विना पुण्डरीकाक्षं यास्यामो नन्दगोकुलम् ॥ ३१ ॥
भोगेनाविष्टितस्यापि सर्पराजस्य पश्यत ।
स्मितशोभिमुखं गोप्यः कृष्णस्यास्मद्विलोकने ॥ ३२ ॥
श्रीपराशर उवाच
इति गोपीवचः श्रुत्वा रौहिणेयो महाबलः ।
गोपांश्च त्रासविधुरान्वि लोक्य स्तिमितेक्षणान् ॥ ३३ ॥
नन्दं च दीनमत्यर्थं न्यस्तदृष्टिं सुतानने ।
मूर्चाकुलां यशोदां च कृष्णमाहात्मसंज्ञया ॥ ३४ ॥
किमिदं देवदेवेश भावोऽयं मानुषस्त्वया ।
व्यज्यतेऽत्यन्तमात्मानं किमनन्तं न वोत्सि यत् ॥ ३५ ॥
त्वमेव जगतो नाभिरराणामिव संश्रयः ।
कर्तापहर्ता पाता च त्रौलोक्यं त्वं त्रयीमयः ॥ ३६ ॥
सेन्द्रै रुद्राग्निवसुभिरादित्यैर् मरुदश्विभिः ।
चिन्त्यसे त्वमचिन्त्यात्मन् समस्तैश्चैव योगिभिः ॥ ३७ ॥
जगत्यर्थं जगन्नाथ भारावतरणेच्छया ।
अवतीर्णोऽसि मर्त्येषु तवांशश्चाहमग्रजः ॥ ३८ ॥
मनुष्यलीलां भगवन् भजता भवता सुराः ।
विडम्बयन्तस्त्वल्लीलां सर्व एव सहासते ॥ ३९ ॥
अवतार्य भवान्पूर्वं गोकुले तु सुराङ्‍गनाः ।
क्रीडार्थमात्मनः पश्चादवर्तीर्णोऽसि शाश्वत ॥ ४० ॥
अत्रावतीर्णयोः कृष्ण गोपा एव हि बान्धवाः ।
गोप्यश्च सीदतः कस्मादेतान्बन्धूनुपेक्षसे ॥ ४१ ॥
दर्शितो मानुषो भावो दर्शितं बालचापलम् ।
तदयं दम्यतां कृष्ण दुष्टात्मा दशनायुधः ॥ ४२ ॥
श्रीपराशर उवाच
इति संस्मारितः कृष्णः स्मितभिन्नोष्ठसम्पुटः ।
आस्फोट्य मोचयामास स्वदेहं भोगिबन्धनात् ॥ ४३ ॥
आनम्य चापि हस्ताभ्यामुभाभ्यां मध्यमं शिरः ।
आरुह्याभुग्नशिरसः प्रणनर्तोरुविक्रमः ॥ ४४ ॥
प्राणाः फणेऽभवंश्चास्य कृष्णस्याङ्‌‍घ्रिनिकुट्टनैः ।
यत्रोन्नतिं च कुरुते ननामास्य ततः शिरः ॥ ४५ ॥
मूर्चामुपाययौ भ्रान्त्या नागः कृष्णस्य रेचकैः ।
दण्डपातनिपातेन ववाम रुधिरं बहु ॥ ४६ ॥
तं विभिग्रशिरोग्रीवमास्येभ्यः स्रुतशोणितम् ।
विलोक्य करुणं जग्मुस्तत्पत्‍न्यो मधुसूदनम् ॥ ४७ ॥
नागपत्‍न्य ऊचुः
ज्ञातोऽसि देवदेवेश सर्वज्ञस्त्वमनुत्तमः ।
परं ज्योतिरचिन्त्यं यत्तदंशः परमेश्वरः ॥ ४८ ॥
न समर्थाः सुराःस्तोतुं यमनन्यभवं विभुम् ।
स्वरूपवर्णनं तस्य कथं योषित्करिष्यति ॥ ४९ ॥
यस्याखिलमहीर्व्योमजलाग्निपवनात्मकम् ।
ब्रह्माण्डमल्पकाल्पांशः स्तोष्यामस्तं कथं वयम् ॥ ५० ॥
यतन्तो न विदुर्नित्यं यत्स्वरूपं हि योगिनः ।
परमार्थमणोरल्पं स्थूलात्स्थूलं नताः स्म तम् ॥ ५१ ॥
न यस्य जन्मने धाता यस्य चान्ताय नान्तकः ।
स्थितिकर्ता न चान्योऽस्ति यस्य तस्मै नमःसदा ॥ ५२ ॥
कोपः स्वल्पोऽपि ते नास्ति स्थितिपालनमेव ते ।
कारणं कालियस्यास्य दमने श्रुयतां वचः ॥ ५३ ॥
स्त्रियोनुकम्प्याःसाधूनां मूढा दीनाश्च जन्तवः ।
यतस्ततोऽस्य दीनस्य क्षम्यतां क्षमतां वर ॥ ५४ ॥
समस्तजगदाधारो भवानल्पबलः फणी ।
त्वत्पादपीडितो जह्यान्मुहूर्तार्धेन जीवितम् ॥ ५५ ॥
क्व पन्नगोऽल्पवीर्योऽयं क्व भवान् भुवनाश्रयः ।
प्रीतिद्वेषौ समोत्कृष्टगोचरौ भवतोऽव्यय ॥ ५६ ॥
ततः कुरु जगत्स्वामिन्प्रसादमवसीदतः ।
प्राणांस्त्यजति नागोऽयं भर्तृभिक्षा प्रदीयताम् ॥ ५७ ॥
भुवनेश जगन्नाथ महापुरुष पूर्वज ।
प्राणांस्त्यजति नागोऽयं भर्तृभिक्षां प्रयच्छ नः ॥ ५८ ॥
वेदान्तवेद्य देवेश दुष्टदैत्यनिबर्हण ।
प्राणांस्त्यजति नागोऽयं भर्तृभिक्षा प्रदीयताम् ॥ ५९ ॥
श्रीपराशर उवाच
इत्युक्ते ताभिराश्वस्य क्लान्तदेहोऽपि पन्नगः ।
प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः ॥ ६० ॥
कालिय उवाच
तवाष्टगुणमैश्वर्यं नाथ स्वाभाविकं परम् ।
निरस्तातिशयं यस्य तस्य स्तोष्यामि किन्‍न्वहम् ॥ ६१ ॥
त्वं परस्त्वं परस्याद्यः परं त्वत्तः परात्मक ।
परस्मात्परमो यस्त्वं तस्य स्तोष्यामि किन्न्वहम् ॥ ६२ ॥
यस्माद्‍बह्माच रुद्रश्च चन्द्रेद्रमरुदश्विनः ।
वसवश्च सहादित्यैस्तस्य स्तोष्यामि किन्‍न्वहम् ॥ ६३ ॥
एकावयवसूक्ष्मांशो यस्यैतदखिलं जगत् ।
कल्पनावयवस्यांशस्तस्य स्तोष्यामि किन्‍न्वहम् ॥ ६४ ॥
सदसद्‍रूपिणो यस्य ब्रह्माद्यास्त्रिदशेश्वराः ।
परमार्थं न जानन्ति तस्य स्तोष्यामि किन्‍न्वहम् ॥ ६५ ॥
ब्रह्माद्यैरर्चितो यस्तु गन्धपुष्पानुलेपनैः ।
नन्दनादिसमुद्‍भूतैः सोर्च्यते वा कथं मया ॥ ६६ ॥
यस्यावताररूपाणि देवराजःसदार्चति ।
न वेत्ति परमं रूपं सोऽर्च्यते वा कथं मया ॥ ६७ ॥
विषयेभ्यः समावृत्त्य सर्वाक्षाणि च योगिनः ।
यमर्चयन्ति ध्यानेन सोऽर्च्यते वा कथं मया ॥ ६८ ॥
हृदि संकल्प्य यद्‍रूपं ध्यानेनार्चन्ति योगिनः ।
भावपुष्पादिना नाथः सोऽर्च्यते वा कथं मया ॥ ६९ ॥
सोऽहं ते देवदेवेश नार्चनादौ स्तुतौ न च ।
सामर्थ्यवान् कृपामात्रमनोवृत्तिः प्रसीद मे ॥ ७० ॥
सर्पजातिरियं क्रूरा यस्यां जातोऽस्मि केशव ।
तत्स्वभावोऽयमत्रास्ति नापराधो ममाच्युत ॥ ७१ ॥
सृज्यते भवता सर्वं तथा संह्रीयते जगत् ।
जातिरूपस्वभावाश्च सृज्यन्ते सृजता त्वया ॥ ७२ ॥
यथाहं भवता सृष्टो जात्या रूपेण चेश्वर ।
स्वभावेन च संयुक्तस्तथेदं चेष्टितं मया ॥ ७३ ॥
यद्यन्यथा प्रवर्तेयं देवदेव ततो मयि ।
न्यायो दण्डनिपातो वै तवैववचनं यथा ॥ ७४ ॥
तथाप्यज्ञे जगत्स्वामिन्दण्डं पातितवान्मयि ।
स श्लाघ्योऽयं परो दण्डस्त्वत्तो मे नान्यतो वरः ॥ ७५ ॥
हतवीर्यो हतविषो दमितोऽहं त्वयाच्युत ।
जीवितं दीयतामेकमाज्ञापय करोमि किम् ॥ ७६ ॥
श्रीभगवानुवाच
नात्र स्थेयं त्वया सर्प कदाचिद्‌यमुनाजले ।
सपुत्रपरिवारस्त्वं समुद्रसलिलं व्रज ॥ ७७ ॥
मत्पदानि च ते सर्प दृष्ट्‍वा मूर्धनि सागरे ।
गरुडः पन्नगरिपुस्त्वयि न प्रहरिष्यति ॥ ७८ ॥
श्रीपराशर उवाच
इत्युक्त्वा सर्पराजं तं मुमोच भगवान्हरिः ।
प्रणम्य सोऽपि कृष्णाय जगाम पयसां निधिम् ॥ ७९ ॥
पश्यतां सर्वभूतानां सभृत्यसुतबान्धवः ।
समस्तभार्यासहितः परित्यज्य स्वकं ह्रदम् ॥ ८० ॥
गते सर्पे परिष्वज्य मृतं पुनरिवागतम् ।
गोपा मूर्धनि हार्देन सिषिचुर्नेत्रजैर्जलैः ॥ ८१ ॥
कृष्णामाक्लिष्टकर्माणमन्ये विस्मितचेतसः ।
तुष्टुवुर्मुदिता गोपा दृष्ट्‍वा शिवजलां नदीम् ॥ ८२ ॥
गीयमानः स गोपीभिश्चारितैः साधुचेष्टितैः ।
संस्तूयमानो गोपैश्च कृष्णो व्रजमुपागमत् ॥ ८३ ॥
इति श्रीविष्णुमहापुराणे पञ्चमेंऽशे सप्तमोऽध्यायः (७)

GO TOP