॥ विष्णुपुराणम् ॥

तृतीयः अंशः

॥ सप्तदशोऽध्यायः ॥

श्रीपराशर उवाच
इत्याह भगवानौर्वः सगराय महात्मने ।
सदाचारं पुरा सम्यङ्‍ मैत्रेय परिपृच्छते ॥ १ ॥
मयाप्येतदशेषेण कथितं भवतो द्विज ।
समुल्लङ्‍घ्य सदाचारं कश्चिन्नाप्नोति शोभनम् ॥ २ ॥
श्रीमैत्रेय उवाच
षण्डापविद्धप्रमुखा विदिता भगवन्मया ।
उदक्याद्याश्च मे सम्यङ्‍ नग्नमिच्छामि वेदितुम् ॥ ३ ॥
कोनग्नः किं समाचारो नग्नसंज्ञां नरो लभेत् ।
नग्नस्वरूपमिच्छामि यथावत्कथितं त्वाय ।
श्रोतुं धर्मभृतां श्रेष्ठ न ह्यस्त्यविदितं तव ॥ ४ ॥
श्रीपराशर उवाच
ऋग्यजुःसामसंज्ञेयं त्रयी वर्णावृतिर्द्विज ।
एतामुज्झति यो मोहात्स नग्नः पातकी द्विजः ॥ ५ ॥
त्रयी समस्तवर्णानां द्विजसंवारणं यतः ।
नग्नो भवत्युज्झितायांमतस्तस्यां न संशयः ॥ ६ ॥
इदं च श्रुयतामन्यद्‌यद्‍भीष्माय महात्मने ।
कथयामास धर्मज्ञो वसिष्ठोऽस्मत्पितामहः ॥ ७ ॥
मयापि तस्य गदतः श्रुतमेतन्महात्मनः ।
नग्नसम्बन्धि मैत्रेय यत्पृष्टोहमिह त्वाया ॥ ८ ॥
देवासुरमभूद्युद्धं द्विव्यमब्दशतं पुरा ।
तस्मिन्परजिता देवा दैत्यैर्ह्रादपुरोगमैः ॥ ९ ॥
क्षीरोदस्योत्तरं कूलं गत्वा तप्यन्त वै तपः ।
विष्णोराराधनार्थाय जगुश्चेमं स्तवं तदा ॥ १० ॥
देवा ऊचुः
आराधनाय लोकानां विष्णोरीशस्य यां गिरम् ।
वक्ष्यामो भगवानाद्यस्तया ंविष्णुः प्रसीदतु ॥ ११ ॥
यतो भूतान्यशेषाणि प्रसूतानि महात्मनः ।
यस्मिश्च लयमेष्यन्ति कस्तं स्तोतुमिहेश्वरः ॥ १२ ॥
तथाप्यरातिविध्वंसध्वस्तवीर्याभयार्थिनः ।
त्वां स्तोष्यामस्तवोक्तीनां याथार्थ्यं नैव गोचरे ॥ १३ ॥
त्वमुर्वी सलिलं वह्निर्वायुराकाशमेव च ।
समस्तमन्तःकरणं प्रधानं तत्परः पुमान् ॥ १४ ॥
एकं तवैतद्‍भूतात्मन्मूर्तामूर्तमयं वपुः ।
आब्रह्मस्तम्बपर्यन्तं स्थानकालविभेदवत् ॥ १५ ॥
तत्रैशं तव यत्पूर्वं त्वन्नाभिकमलोद्‍भवम् ।
रूपं विश्वोपकाराय तस्मै ब्रह्मात्मने नमः ॥ १६ ॥
शक्रार्करुद्रवस्वश्विमरुत्सोमादिभेदवत् ।
वयमेकं स्वरूपं ते तस्मै देवात्मने नमः ॥ १७ ॥
दम्भप्रायमसम्बोधि तितिक्षादमवर्जितम् ।
यद्‍रूपं तव गोविन्द तस्मै दैत्यात्मने नमः ॥ १८ ॥
नातिज्ञानवहा यस्मिन्नाड्यः स्तिमिततेजसि ।
शब्दादिलोभि यस्तस्मै तुभ्यं यक्षात्मने नमः ॥ १९ ॥
क्रौर्यं मायामयं घोरं यच्च रूपं तवासितम् ।
निशाचरात्मने तस्मै नमस्ते पुरुषोत्तम ॥ २० ॥
स्वर्गस्थधर्मिसद्धर्मफलोपकरणं तव ।
धर्माख्यं च तथा रूपं नमस्तस्मै जनार्दन ॥ २१ ॥
हर्षप्रायमसंसर्गि गतिमद्‍गमनादिषु ।
सिद्धाख्यं तव यद्‍रूपं तस्मै सिद्धात्मने नमः ॥ २२ ॥
अतितिक्षायनं क्रूरमुपभोगसहं हरे ।
द्विजीह्वन्तव यद्‍रूपं तस्मै नागात्मने नमः ॥ २३ ॥
अवबोधि च यच्छान्तमदोषमपकल्मषम् ।
ऋषिरूपात्मने तस्मै विश्वरूपाय ते नमः ॥ २४ ॥
भक्षयत्यथ कल्पान्ते भूतानि यदवारितम् ।
त्वद्‍रूपं पुण्डरीकाक्ष तस्मै कालात्मने नमः ॥ २५ ॥
सम्भक्ष्य सर्वभूतानि देवादीन्यविशेषतः ।
नृत्यत्यन्ते च यद्‍रूपं तस्मै रुद्रात्मने नमः ॥ २६ ॥
प्रवृत्त्या रजसो यच्च कर्मणां करणात्मकम् ।
जनार्दन नमस्तस्मै त्वद्‍रूपाय नरात्मने ॥ २७ ॥
अष्टाविशद्वधोपेतं यद्‍रूपं तामसं तव ।
उन्मार्गगामि सर्वात्मंस्तस्मै वश्यात्मने नमः ॥ २८ ॥
यज्ञाङ्‍गभूतं यद्‍रूपं जगतः स्थितिसाधनम् ।
वृक्षादिभेदैः षड्भेदि तस्मै मुख्यात्मने नमः ॥ २९ ॥
तिर्यङ्‍मनुष्यदेवादि व्योमशब्दादिकं च यत् ।
रूपं तवादेः सर्वस्य तस्मै सर्वात्मने नमः ॥ ३० ॥
प्रधानबुद्ध्यादिमयादशेषा-
    द्यदन्यदस्मात्परमं परात्मन् ।
रूपं तवाद्यं यदनन्यतुल्यं
    तस्मै नमः कारणकारणाय ॥ ३१ ॥
शुक्लादिदीर्घादिघनादिहीन-
    मगोचरं यच्च विशेषणानाम् ।
शुद्धातिशुद्धं परमर्षिदृश्यं
    रूपाय तस्मै भगवन्नताः स्मः ॥ ३२ ॥
यन्नः शरीरेषु यदन्यदेहे-
    ष्वशेषवस्तुष्वजमक्षयं यत् ।
तस्माच्च नान्यद्‌व्यतिरिक्तमस्ति
    ब्रह्मस्वरूपाय नताः स्म तस्मै ॥ ३३ ॥
सकलमिदमजस्य यस्य रूपं
    परमपदात्मवतःसनातनस्य ।
तमनिधनमशेषबीजभूतं
    प्रभुममलं प्रणताःस्म वासुदेवम् ॥ ३४ ॥
श्रीपराशर उवाच
स्तोत्रस्य चावसाने ते ददृशुः परमेश्वरम् ।
शङ्‍खचक्रगदापाणिं गरुडस्थं सुरा हरिम् ॥ ३५ ॥
तमुचुःसकला देवाः प्रणिपातपुरःसरम् ।
प्रसीद नाथ दैत्येभ्यस्त्राहि नः शरणार्थिनः ॥ ३६ ॥
त्रेलोक्ययज्ञभागाश्च दैत्यैर्ह्रादपुरोगमैः ।
हृता नो ब्रह्मणोऽप्याज्ञामुल्लङ्‍घ्य परमेश्वर ॥ ३७ ॥
यद्यप्यशेषभूतस्य वयं ते च तावंशजाः ।
तथाप्यविद्याभेदेन भिन्नं पश्यामहे जगत् ॥ ३८ ॥
स्ववर्णधर्माभिरता वेदमार्गानुसारिणः ।
न शक्यास्तेऽरयो हन्तुमस्माभिस्तपसावृताः ॥ ३९ ॥
तमुपायमशेषात्मन्नस्माकं दातुमर्हसि ।
येन तानसुरान्हन्तुं भवेम भगवन्क्षमाः ॥ ४० ॥
श्रीपराशर उवाच
इत्युक्तो भगवांस्तेभ्यो मायामोहं शरीरतः ।
समुत्पाद्य ददौ विष्णुः प्राह चेदं सुरोत्तमान् ॥ ४१ ॥
मायामोहोयमखिलान्दैत्यांस्तान्मोहयिष्यति ।
ततो वध्या भविष्यन्ति वेदमार्गबहिष्कृताः ॥ ४२ ॥
स्थितौ स्थितस्य मे वध्या यावन्तः परिपन्थिनः ।
ब्रह्मणो ह्यधिकारस्य देवा दैत्यादिकाः सुराः ॥ ४३ ॥
तद्‍गच्छत न भीः कार्या मायामोहोऽयमग्रतः ।
गच्छन्नद्योपकाराय भवतां भविता सुराः ॥ ४४ ॥
श्रीपराशर उवाच
इत्युक्ताः प्रणिपत्यैनं ययुर्देवा यथागतम् ।
मायामोहोऽपि तैः सार्धं ययौ यत्र महासुराः ॥ ४५ ॥
इति श्रीविष्णुमहापुराणे तृतीयांशे सप्तदशोऽध्यायः (१७)



GO TOP