शुक्ल यजुर्वेदः -त्रयोविंशोऽध्यायः



हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेकऽ आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥ १ ॥ उपयागृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णाम्येष ते योनिः सूर्यस्ते महिमा । यस्तेऽहन्त्संवत्सरे महिमा सम्बभूव यस्ते वायावन्तरिक्षे महिमा सम्बभूव यस्ते दिवि सूर्ये महिमा सम्बभूव तस्मै ते महिम्ने प्रजापतये स्वाहा देवेभ्यः ॥ २ ॥ यः प्राणतो निमिषतो महित्वैकऽ इद्राजा जगतो बभूव । यऽ ईशेऽ अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥ ३ ॥ उपयामआगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णाम्येष ते योनिश्चन्द्रमास्ते महिमा । यस्ते रात्रौ संवत्सरे महिमा सम्बभूव यस्ते पृथिव्यामग्ना महिमा सम्बभूव यस्ते नक्षत्रेषु चन्द्रमसि महिमा सम्बभूव तस्मै ते महिम्ने प्रजापतये देवेभ्यः स्वाहा ॥ ४ ॥ युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः । रोचन्ते रोचना दिवि ॥ ५ ॥ युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे । शोणा धूष्णू नृवाहसा ॥ ६ ॥ यद्वातोऽ अपोऽ अगनीगन्प्रियामिन्द्रस्य तन्वम् । एतँ स्तोतरनेन पथा पुनरश्वमावर्तयासि नः ॥ ७ ॥ वसवस्त्वाञ्जन्तु गायत्रेण छन्दसा रुद्रास्त्वाञ्जन्तु त्रैष्टुभेन छन्दसा आदित्यास्त्वाञ्जन्तु जागतेन छन्दसा । भूर्भुवः स्वर्लाजी३ञ्छाची३न्यव्ये गव्यऽ एतदन्नमत्त देवाऽ एतदन्नमद्धि प्रजापते ॥ ८ ॥ कः स्विदेकाकी चरति कऽ उ स्विज्जायते पुनः । किँ स्विद्धिमस्य भेषजं किम्वावपनं महत् ॥ ९ ॥ सूर्यऽ एकाकी चरति चन्द्रमा जायते पुनः । अग्निर्हिमस्य भेषजं भूमिरावपनं महत् ॥ १० ॥ का स्विदासीत्पूर्वचित्तिः किँ स्विदासीद् बृहद्वयः । का स्विदासीत्पिलिप्पिला का स्विदासीत्पिशङ्‍गिला ॥ ११ ॥ द्यौरासीत्पूर्वचित्तिरश्वऽ आसीद् बृहद्वयः । अविरासीत्पिलिप्पिला रात्रिरासीत्पिशङ्‍गिला ॥ १२ ॥ वायुष्ट्वा पचतैरवत्वसितग्रीवश्छागैर्न्यग्रोधश्चमसैः शल्मलिर्वृद्ध्या । एष स्य राथ्यो वृषा षड्‍भिश्चतुर्भिरेदगन्ब्रह्मा कृष्णश्च नोऽवतु नमोऽग्नये ॥ १३ ॥ सँशितो रश्मितो रथः सँशितो रश्मिना हयः । सँशितो अप्स्वप्सुजा ब्रह्मा सोमपुरोगवः ॥ १४ ॥ स्वयं वाजिँस्तन्वं कल्पयस्व स्वयं यजस्व स्वयं जुषस्व । महिमा तेऽन्येन न सन्नशे ॥ १५ ॥ न वाऽ उऽ एतन्म्रियसे न रिष्यसि देवाँ२ऽ इदेषि पथिभिः सुगेभिः । यत्रासते सुकृतो यत्र ते ययुस्तत्र त्वा देवः सविता दधातु ॥ १६ ॥ अग्निः पशुरासीत्तेनायजन्त सऽ एतँल्लोकमजयद्यस्मिन्नग्निः स ते लोको भविष्यति तं ज्येष्यसि पिबैताऽ अपः । वायुः पशुरासीत्तेनायजन्त सऽ एतँल्लोकमजयद्यस्मिन्वायुः स ते लोको भविष्यति तं जेष्यसि पिबैताऽ अपः । सूर्यः पशुरासीत्तेनायजन्त सऽ एतँल्लोकमजयद्यस्मिन्त्सूर्यः स ते लोको भविष्यति तं ज्येष्यसि पिबैताऽ अपः ॥ १७ ॥ प्राणाय स्वाहापानाय स्वाहा व्यानाय स्वाहा । अम्बेऽ अम्बिकेऽम्बालिके न मा नयति कश्चन । ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥ १८ ॥ गणानां त्वा गणपतिँ हवामहे प्रियाणां त्वा प्रियपतिँ हवामहे निधीनां त्वा निधिपतिँ हवामहे वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम् ॥ १९ ॥ ताऽ उभौ चतुरः पदः संप्रसारयाव स्वर्गे लोके प्रोर्णुवाथां वृषा वाजी रेतोधा रेतो दधातु ॥ २० ॥ उत्सक्थाऽ अव गुदं धेहि समञ्जिं चारया वृषन् । य स्त्रीणां जीवभोजनः ॥ २१ ॥ यकासकौ शकुन्तिकाहलगिति वञ्चति । आहन्ति गभे पसो निगल्गलीति धारका ॥ २२ ॥ यकोऽसकौ शकुन्तकऽ आहलगिति वञ्चति । विवक्षतऽ इव ते मुखमध्वर्यो मा नस्त्वमभि भाषथाः ॥ २३ ॥ माता च ते पिता च तेऽ ग्रं वृक्षस्य रोहतः । प्रतिलामीति ते पिता गभे मुष्टिमतँसयत् ॥ २४ ॥ माता च ते पिता च तेऽ ग्रं वृक्षस्य क्रीडतः । विवक्षतऽ इव ते मुखं ब्रह्मन्मा त्वं वदो बहु ॥ २५ ॥ ऊर्ध्वामेनामुच्छ्रापय गिरौ भारँ हरन्निव । अथास्यै मध्यमेधताँ शीते वाते पुनन्निव ॥ २६ ॥ ऊर्ध्वामेनामुच्छ्रयताद्‍गिरौ भरं हरन्निव । अथास्य मध्यमेजतु शीते वाते पुनन्निव ॥ २७ ॥ यदस्याऽ अँहुभेद्याः कृधु स्थूलमुपातसत् । मुष्कविदस्याऽ एजतो गोशफे शकुलविव ॥ २८ ॥ यद्देवासो ललामगुं प्र विष्टीमिनमाविषुः सक्न्था देदिश्यते नारी सत्यस्याक्षिभुवो यथा ॥ २९ ॥ यद्धरिणो यवमत्ति न पुष्टं पशु मन्यते । शूद्रा यदर्यजारा न पोषाय धनायति ॥ ३० ॥ यद्धरिणो यवमत्ति न पुष्टं बहु मन्यते । शूद्रो यदर्यायै जारो न पोषमनु मन्यते ॥ ३१ ॥ दधिक्राव्णोऽ अकारिषं निष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र णऽ आयूँषि तारिषत् ॥ ३२ ॥ गायत्री त्रिष्टुब्जगत्यनुष्टुप्पङ्‍क्त्या सह । बृहत्युष्णिहा ककुप्सूचीभिः शम्यन्तु त्वा ॥ ३३ ॥ द्विपदा याश्चतुष्पदास्त्रिपदा याश्च षट्पदाः । विच्छन्दा याश्च सच्छन्दाः सूचीभिः शम्यन्तु त्वा ॥ ३४ ॥ महानाम्न्यो रेवत्यो विशा आशाः प्रभूवरीः । मैघीर्विद्युतो वाचः सूचीभिः शम्यन्तु त्वा ॥ ३५ ॥ नार्यस्ते पत्न्यो लोम विचिन्वन्तु मनीषया । देवानां पत्न्यो दिशः सूचीभिः शमयन्तु त्वा ॥ ३६ ॥ रजता हरणीः सीसा युजो युज्यन्ते कर्मभिः । अश्वस्य वाजिनस्त्वचि सिमाः शम्यन्तु शम्यन्तीः ॥ ३७ ॥ कुविदङ्‍ग यवमन्तो यवञ्चिद्यथा दान्त्यनुपूर्वं वियूय । इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमऽ उक्तिं यजन्ति ॥ ३८ ॥ कस्त्वा छ्यति कस्त्वा विशास्ति कस्ते गात्राणि शम्यति । कऽ उ ते शमिता कविः ॥ ३९ ॥ ऋतवस्तऽ ऋतुथा पर्व शमितारो वि शासतु । संवत्सरस्य तेजसा शमीभिः शम्यन्तु त्वा ॥ ४० ॥ अर्धमासाः परूँषि ते मासाऽ आ च्छ्यन्तु शम्यन्तः । अहोरात्राणि मरुतो विलिष्टँ सूदयन्तु ते ॥ ४१ ॥ दैव्याऽ अध्वर्यवस्त्वा च्छ्यन्तु वि च शासतु । गात्राणि पर्वशस्ते सिमाः कृण्वन्तु शम्यन्तीः ॥ ४२ ॥ द्यौस्ते पृथिव्यन्तरिक्षं वायुश्छिद्रं पृणातु ते । सूर्यस्ते नक्षत्रैः सह लोकं कृणोतु साधुया ॥ ४३ ॥ शं ते परेभ्यो गात्रेभ्यः शमस्त्ववरेभ्यः । शमस्थभ्यो मज्जभ्यः शम्वस्तु तन्वै तव ॥ ४४ ॥ कः स्विदेकाकी चरति कऽ उ स्विज्जायते पुनः । किँ स्विद्धिमस्य भेषजं किम्वावपनं महत् ॥ ४५ ॥ सूर्यऽ एकाकी चरति चन्द्रमा जायते पुनः । अग्निर्हिमस्य भेषजं भूमिरावपनं महत् ॥ ४६ ॥ किँ स्वित्सूर्यसमं ज्योतिः किँ समुद्रसमँ सरः । किँ स्वित्पृथिवै वर्षीयः कस्य मात्रा न विद्यते ॥ ४७ ॥ ब्रह्म सूर्यसमं ज्योतिर्द्यौः समुद्रसमँ सरः । इंद्रः पृथिव्यै वर्षीयान् गोस्तु मात्रा न विद्यते ॥ ४८ ॥ पृच्छामि त्वा चितये देवसख यदि त्वमत्र मनसा जगन्थ । येषु विष्णुस्त्रिषु पदेष्वेष्टस्तेषु विश्वं भुवनमा विवेशाँ ३ऽ ॥ ४९ ॥ अपि तेषु त्रिषु पदेष्वस्मि येष विश्वं भुवनमा विवेश । सद्यः पर्येमि पृथिवीमुत द्यामेकेनाङ्‍गेन दिवोऽ अस्य पृष्ठम् ॥ ५० ॥ केष्वन्तः पुरुषऽ आ विवेश कान्यन्तः पुरुषेऽ अर्पितानि । एतद्‍ब्रह्मन्नुप वल्हामसि त्वा किँ स्विन्नः प्रति वोचास्यत्र ॥ ५१ ॥ पञ्चस्वन्तः पुरुषऽ आ विवेश तान्यन्तः पुरुषेऽ अर्पितानि । एतत्त्वात्र प्रतिमन्वानोऽ अस्मि न मायया भवस्युत्तरो मत् ॥ ५२ ॥ का स्विदासीत्पूर्वचित्तिः किँ स्विदासीद्वहद्वयः । का स्विदासीत्पिलिप्पिला का स्विदासीत्पिशङ्‍गिला ॥ ५३ ॥ द्यौरसीत्पूर्वचित्तिरश्वऽ आसीद् बृहद्वयः । अविरासीत्पिलिप्पिला रात्रीरासीत्पिशङ्‍गिला ॥ ५४ ॥ काऽ ईमरे पिशङ्‍गिला काऽ ई कुरुपिशङ्‍गिला । कऽ ईमास्कन्दमर्षति कऽ ईं पन्थां वि सर्पति ॥ ५५ ॥ अजारे पिशङ्‍गिला श्वावित्कुरुपिशङ्‍गिला । शशऽ आस्कन्दमर्षत्यहिः पन्थां वि सर्पति ॥ ५६ ॥ कत्यस्य विष्ठाः कत्यक्षराणि कति होमासः कतिधा समिद्धः । यज्ञस्य त्वा विदथा पृच्छमत्र कति होतारऽ कृतुशो यजन्ति ॥ ५७ ॥ षडस्य विष्ठाः शतमक्षराण्यशीतिर्होमाः समिधो ह तिस्रः । यज्ञस्य ते विदथा प्र ब्रवीमि सप्त होतारऽ ऋतुशो यजन्ति ॥ ५८ ॥ कोऽ अस्य वेद भुवनस्य नाभिं को द्यावापृथिवीऽ अन्तरिक्षम् । कः सूर्यस्य वेद बृहतो जनित्रं को वेद चन्द्रमसं यतोजाः ॥ ५९ ॥ वेदाहमस्य भुवनस्य नाभिं वेद द्यावापृथिवीऽ अन्तरिक्षम् । वेद सूर्यस्य बृहतो जनित्रमथो वेद चंद्रमसं यतोजाः ॥ ६० ॥ पृच्छामि त्वा परमन्तं पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः । पृच्छामि त्वा वृष्णोऽ अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥ ६१ ॥ इयं वेदिः परोऽ अन्तः पृथिव्याऽ अयं यज्ञो भुवनस्य नाभिः । अयँ सोमो वृष्णोऽ अश्वस्य रेतो ब्रह्मायं वाचः परमं व्योम ॥ ६२ ॥ सुभूः स्वयम्भुः प्रथमोऽन्तर्महत्यर्णवे । दधे ह गर्भमृत्वियं यतो जातः प्रजापतिः ॥ ६३ ॥ होता यक्षत्प्रजापतिँ सोमस्य महिम्नः । जुषतां पिबतु सोमँ होतर्यज ॥ ६४ ॥ प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नोऽ अस्तु वयँ स्याम पतरो रयीणाम् ॥ ६५ ॥ ॥ इति त्रयोविंशोऽध्यायः ॥


ॐ तत् सत्



GO TOP