रामपूर्वतापिनि उपनिषद् -

श्रीरामतापनीयार्थं भक्तध्येयकलेवरम् ।
विकलेवरकैवल्यं श्रीरामब्रह्म मे गतिः ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येम अक्षभिर्यजत्राः ।
स्थिरैः अङ्गैः तुष्टुवाँसः तनूभिः व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु।
॥ ॐ शान्तिः शान्तिः शान्तिः ॥



॥ अथ प्रथमोपनिषद् ॥



रामनामार्थ प्रकाशनम् -

ॐ चिन्मयेऽस्मिन् महाविष्णौ जाते दशरथे हरौ ।
रघोः कुलेऽखिलं राति राजते यो महीस्थितः ॥ १॥
स राम इति लोकेषु विद्वद्‌भिः प्रकटीकृतः ।
राक्षसा येन मरणं यान्ति स्वोद्रेकतोऽथवा ॥ २॥
रामनाम भुवि ख्यातं अभिरामेण वा पुनः ।
राक्षसान् मर्त्यरूपेण राहुर्मनसिजं यथा ॥ ३॥
प्रभाहीनांस्तथा कृत्वा राज्यार्हाणां महीभृताम् ।
धर्ममार्गं चरित्रेण ज्ञानमार्गं च नामतः ॥ ४॥
तथा ध्यानेन वैराग्यमैश्वर्यं स्वस्य पूजनात् ।
तथा रात्यस्य रामाख्या भुवि स्यादथ तत्त्वतः ॥ ५॥
रमन्ते योगिनोऽनन्ते नित्यानन्दे चिदात्मनि ।
इति रामपदेनासौ परं ब्रह्माभिधीयते ॥ ६॥

उपासकार्थे निर्विशेषख्य रूपकल्पना -

चिन्मयस्य अद्वितीयस्य निष्कलस्याशरीरिणः ।
उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना ॥ ७॥
रूपस्थानां देवतानां पुंस्त्र्यङ्‌गास्त्रादिकल्पना ।
द्विचत्वारिषडष्टानां दश द्वादश षोडश ॥ ८॥
अष्टादशामी कथिता हस्ताः शङ्खादिभिर्युताः ।
सहस्रान्तास्तथा तासां वर्णवाहनकल्पना ॥ ९॥
शक्तिसेनाकल्पना च ब्रह्मण्येवं हि पञ्चधा ।
कल्पितस्य शरीरस्य तस्य सेनाऽऽदिकल्पना ॥ १०॥

मंत्रजपयंत्रपूजयोः रामप्रसादकरत्वम् -

ब्रह्मादीनां वाचकोऽयं मन्त्रोऽन्वर्थादिसंज्ञकः ।
जप्तव्यो मन्त्रिणा नैवं विना देवः प्रसीदति ॥ ११ ॥
क्रियाकर्मेज्याकर्तॄणां अर्थं मन्त्रो वदत्यथ ।
मननात्त्राणनात्मंत्रःन्त्रः सर्ववाच्यस्य वाचकः ॥ १२ ॥
सोऽभयस्यास्य देवस्य विग्रहो यन्त्रकल्पना ।
विना यन्त्रेण चेत्पूजा देवता न प्रसीदति ॥ १३ ॥
इति रामपूर्वतापिन्युपनिषदि प्रथमोपनिषत् ॥ १ ॥


॥ अथ द्वितीयोपनिषदत् ॥


रामबीजस्य सर्वात्मकम् -

स्वर्भूर्ज्योतिर्मयोऽनन्तरूपी स्वेनैव भासते ।
जीवत्वेन समो यस्य सृष्टिस्थितिलयस्य च ॥ १ ॥
कारणत्वेन चिच्छक्त्या रजःसत्त्वतमोगुणैः ।
यथैव वटबीजस्थः प्राकृतश्च महान्द्रुमः ॥ २ ॥
तथैव रामबीजस्थं जगदेतत् चराचरम् ।
रेफारूढा मूर्तयः स्युः शक्तयः तिस्र एव चेति ॥ ३ ॥
इति रामतापनि द्वितीयोपनिषत् ॥ २ ॥


॥ अथ तृतीयोपनिषदत् ॥



सीतारामयोः मंत्रयंत्रादिपूज्यत्वम् -

सीतारामौ तन्मयावत्र पूज्यौ
    जातान्याभ्यां भुवनानि द्विसप्त ।
स्थितानि च प्रहितान्येव तेषु
    ततो रामो मानवो माययाऽधात् ॥ १ ॥
जगत्प्राणायात्मनेऽस्मै नमः स्यात्
    नमस्त्वैक्यं प्रवदेत् प्राग्गुणेनेति ॥ २ ॥
इति रामतापिनि उपनिषदि तृतीयोपनिषत् ॥ ३ ॥


॥ अथ चतुर्थोपनिषत् ॥



रामषडक्षरार्थः -

जीववाची नमो नाम चात्मारामेति गीयते ।
तदात्मिका या चतुर्थी तथा चायेति गीयते ॥ १ ॥
मन्त्रोयं वाचको रामो वाच्यः स्याद्योग एतयोः ।
फलतश्चैव सर्वेषां साधकानां न संशयः ॥ २ ॥
यथा नामी वाचकेन नाम्ना योऽभिमुखो भवेत् ।
तथा बीजात्मको मन्त्रो मन्त्रिणोऽभिमुखो भवेत् ॥ ३ ॥
बीजशक्तिं न्यसेद्दक्ष वामयोः स्तनयोरपि ।
कीलो मध्ये विना भाव्यः स्ववाञ्छाविनियोगवान् ॥ ४ ॥
सर्वेषामेव मन्त्राणां एष साधारणः क्रमः ।
अत्र रामोऽनन्तरूपsतेजसा वह्निना समः ॥ ५ ॥
स त्वनुष्णगुविश्वश्चेदग्नीषोमात्मकं जगत् ।
उत्पन्नः सीतया भाति चन्द्रश्चन्द्रिकया यथा ॥ ६ ॥
प्रकृत्या सहितः श्यामः पीतवासा जटाधरः ।
द्विभुजः कुण्डली रत्नमाली धीरो धनुर्धरः ॥ ७ ॥
प्रसन्नवदनो जेता धृष्ट्यष्टकविभूषितः ।
प्रकृत्या परमेश्वर्या जगत् योन्याङ्‌किताङ्‌कभृत् ॥ ८ ॥
हेमाभया द्विभुजया सर्वालङ्कृतया चिता ।
श्लिष्टः कमलधारिण्या पुष्टः कोसलजाऽऽत्मजः ॥ ९ ॥
दक्षिणे लक्ष्मणेनाथ सधनुष्पाणिना पुनः ।
हेमाभेनानुजेनैव तथा कोणत्रयं भवेत् ॥ १० ॥
तथैव तस्य मन्त्रस्य यस्याणुश्च स्वङेन्तया ।
एवं त्रिकोणरूपं स्यात्तं देवा ये समाययुः ॥ ११ ॥

देवकृतरामस्तुतिः -

स्तुतिं चक्रुश्च जगतः पतिं कल्पतरौ स्थितम् ।
कामरूपाय रामाय नमो मायामयाय च ॥ १२ ॥
नमो वेदादिरूपाय ओङ्काराय नमो नमः ।
रमाधराय रामाय श्रीरामायात्ममूर्तये ॥ १३ ॥
जानकीदेहभूषाय रक्षोघ्नाय शुभाङ्‌गिने ।
भद्राय रघुवीराय दशास्यान्तकरूपिणे ॥ १४ ॥
रामभद्र महेष्वास रघुवीर नृपोत्तम ।
भो दशास्यान्तकास्माकं रक्षां देहि श्रियं च ते ॥ १५ ॥
त्वमैश्वर्यं दापयाथ संप्रत्याश्वरिमारणम् ।
कुर्विति स्तुत्य देवाद्याः तेन सार्धं सुखं स्थिताः ॥ १६ ॥

ऋषिकृतरामस्तुतिः -

स्तुवन्त्येवं हि ऋषयः तदा रावण आसुरः ।
रामपत्नींय वनस्थां यः स्वनिवृत्त्यर्थमाददे ॥ १७ ॥
स रावण इति ख्यातो यद्वा रावाच्च रावणः ।
तद्व्याजेनेक्षितुं सीतां रामो लक्ष्मण एव च ॥ १८ ॥
विचेरतुस्तदा भूमौ देवीं संदृश्य चासुरम् ।
हत्वा कबन्धं शबरीं गत्वा तस्याज्ञया तया ॥ १९ ॥
पूजितो वायुपुत्रेण भक्तेन च कपीश्वरम् ।
आहूय शंसतां सर्वं आद्यन्तं रामलक्ष्मणौ ॥ २० ॥
स तु रामे शङ्‌कितः सन् प्रत्ययार्थं च दुन्दुभेः ।
विग्रहं दर्शयामास यो रामस्तमचिक्षिपत् ॥ २१ ॥
सप्त सालान् विभिद्याशु मोदते राघवस्तदा ।
तेन हृष्टः कपीन्द्रोऽसौ सरामस्तस्य पत्तनम् ॥ २२ ॥
जगामागर्जदनुजो वालिनो वेगतो गृहात् ।
तदा वाली निर्जगाम तं वालिनमथाहवे ॥ २३ ॥
निहत्य राघवो राज्ये सुग्रीवं स्थापयत्ततः ।
हरीनाहूय सुग्रीवस्त्वाह चाशाविदोऽधुना ॥ २४ ॥
आदाय मैथिलीमद्य ददताश्वाशु गच्छत ।
ततस्ततार हनुमान् अब्धिं लङ्कां समाययौ ॥ २५ ॥
सीतां दृष्ट्‍वाऽसुरान् हत्वा पुरं दग्ध्वा तथा स्वयम् ।
आगत्य रामेण सह न्यवेदयत तत्त्वतः ॥ २६ ॥
तदा रामः क्रोधरूपी तानाहूयाथ वानरान् ।
तैः सार्धमादायास्त्राणि पुरीं लङ्‌कां समाययौ ॥ २७ ॥
तां दृष्ट्‍वा उदधीशेन सार्धं युद्धमकारयत् ।
घटश्रोत्रसहस्राक्षजिद्भ्यां युक्तं तमाहवे॥ २८ ॥
हत्वा बिभीषणं तत्र स्थाप्याथ जनकात्मजाम् ।
आदायाङ्‌कस्थितां कृत्वा स्वपुरं तैर्जगाम सः ॥ २९ ॥

पट्टाभिषिक्तरामचंद्रविभूतिः -

ततः सिंहासनस्थः सन् द्विभुजो रघुनन्दनः ।
धनुर्धरः प्रसन्नात्मा सर्वाभरणभूषितः ॥ ३० ॥
मुद्रां ज्ञानमयीं याम्ये वामे तेजः प्रकाशिनीम् ।
धृत्वा व्याख्याननिरतश्चिन्मयः परमेश्वरः ॥ ३१ ॥
उदग्दक्षिणयोः स्वस्य शत्रुघ्नभरतौ ततः ।
हनूमन्तं च श्रोतारमग्रतः स्यात् त्रिकोणगम् ॥ ३२ ॥
भरताधस्तु सुग्रीवं शत्रुघ्नाधो बिभीषणम् ।
पश्चिमे लक्ष्मणं तस्य धृतच्छत्रं सचामरम् ॥ ३३ ॥
तदधस्तौ तालवृन्तकरौ त्र्यश्रं पुनर्भवेत् ।
एवं षट्कोणमादौ स्व-दीर्घाङ्‌गैरेष संयुतः ॥ ३४ ॥
द्वितीयं वासुदेवाद्यैराग्नेयादिषु संयुतः ।
तृतीयं वायुसूनुं च सुग्रीवं भरतं तथा ॥ ३५ ॥
बिभीषणं लक्ष्मणं च अङ्गदं चारिमर्दनम् ।
जाम्बवन्तं च तैर्युक्तः ततो धृष्टिर्जयन्तकः ॥ ३६ ॥
विजयश्च सुराष्ट्रश्च राष्ट्रवर्धन एव च ।
अशोको धर्मपालश्च सुमन्त्रश्चैभिरावृतः ॥ ३७ ॥
ततः सहस्रदृग्वह्निर्धर्मज्ञो वरुणोऽनिलः ।
इन्द्वीशधात्रनन्ताश्च दशभिश्चैभिरावृतः ॥ ३८ ॥
बहिस्तदायुधैः पूज्यो नीलादिभिरलङ्कृतः ।
वसिष्ठवामदेवादि मुनिभिः समुपासितः ॥ ३९ ॥

यंत्रलेखनप्रकारः -

एवमुद्देशतः प्रोक्तं निर्देशस्तस्य चाधुना ।
त्रिरेखापुटमालिख्य मध्ये तारद्वयं लिखेत् ॥ ४० ॥
तन्मध्ये बीजमालिख्य तदधः साध्यमालिखेत् ।
द्वितीयान्तं च तस्योर्ध्वं षष्ठ्यन्तं साधकं तथा ॥ ४१ ॥
कुरु द्वयं च तत्पार्श्वे लिखेद्बीजान्तरे रमाम् ।
तत्सर्वं प्रणवाभ्यां च वेष्टयेत् शुद्धबुद्धिमान् ॥ ४२ ॥
दीर्घभाजि षडस्रे तु लिखेद्‌बीजं हृदादिभिः ।
कोणपार्श्वे रमामाये तदग्रेऽनङ्‌गमालिखेत् ॥ ४३ ॥
क्रोधं कोणाग्रान्तरेषु लिख्य मन्त्र्यभितो गिरम् ।
वृत्तत्रयं साष्टपत्रं सरोजे विलिखेत् स्वरान् ॥ ४४ ॥
केसरे चाष्टपत्रे च वर्गाष्टकमथालिखेत् ।
तेषु मालामनोर्वर्णान् विलिखेत् ऊर्मिसंख्यया ॥ ४५ ॥
अन्ते पञ्चाक्षराण्येवं पुनरष्टदलं लिखेत् ।
तेषु नारायणाष्टार्णान् लिख्य तत्केसरे रमाम् ॥ ४६ ॥
तद्बहिर्द्वादशदलं विलिखेद्‍द्वादशाक्षरम् ।
अथों नमो भगवते वासुदेवाय इत्ययम् ॥ ४७ ॥
आदिक्षान्तान् केसरेषु वृत्ताकारेण संलिखेत् ।
तद्बहिः षोडशदलं लिख्य तत्केसरे ह्रियम् ॥ ४८ ॥
वर्मास्त्रनतिसंयुक्तं दलेषु द्वादशाक्षरम् ।
तत्सन्धिष्विरजादीनां मन्त्रान् मन्त्री समालिखेत् ॥ ४९ ॥
ह्रं स्रं भ्रं व्रं ल्रं अं श्रं ज्रं च लिखेत्सम्यक्ततो बहिः ।
द्वात्रिंशारं महापद्मं नादबिन्दुसमायुतम् ॥ ५० ॥
विलिखेन्मन्त्रराजार्णान् तेषु पत्रेषु यत्न तः ।
ध्यायेदष्टवसूनेकादशरुद्रांश्च तत्र वै ॥ ५१ ॥
द्वादशेनांश्च धातारं वषट्कारं च तद्बहिः ।
भूगृहं वज्रशूलाढ्यं रेखात्रयसमन्वितम् ॥ ५२ ॥
द्वारोपेतं च राश्यादि भूषितं फणिसंयुतम् ।
अनन्तो वासुकिश्चैव तक्षः कर्कोटपद्मकः ॥ ५३ ॥
महापद्मश्च शङ्खश्च गुलिकोऽष्टौ प्रकीर्तिताः ।
एवं मण्डलमालिख्य तस्य दिक्षु विदिक्षु च ॥ ५४ ॥
नारसिंहं च वाराहं लिखेन् मंत्रद्वयं तथा ।
कूटो रेफानुग्रहेन्दुनादशक्त्यादिभिर्युतः ॥ ५५ ॥
यो नृसिंहः समाख्यातो ग्रहमारणकर्मणि ।
अन्त्यार्धीशवियद्‌बिन्दुनादैर्बीजं च सौकरम् ॥ ५६ ॥

मलान्मंत्रोद्धारः -

हुंकारं चात्र रामस्य मालमन्त्रोऽधुनेरितः ।
तारो नतिश्च निद्रायाः स्मृतिर्भेदश्च कामिका ॥ ५७ ॥
रुद्रेण संयुता वह्निर्मेधामरविभूषिता ।
दीर्घा क्रूरयुता ह्लादिन्यतो दीर्घसमायुता ॥ ५८ ॥
क्षुधा क्रोधिन्यमोघा च विश्वमप्यथ मेधया ।
युक्ता दीर्घज्वालिनी च सुसूक्ष्मा मृत्युरूपिणी ॥ ५९ ॥
सप्रतिष्ठा ह्लादिनी त्वक्‌क्ष्वेलप्रीतिश्च सामरा ।
ज्योतिस्तीक्ष्णाग्निसंयुक्ता श्वेतानुस्वारसंयुता ॥ ६० ॥
कामिकापञ्चमूलान्तस्तान्तान्तो थान्त इत्यथ ।
स सानन्तो दीर्घयुतो वायुः सूक्ष्मयुतो विषः ॥ ६१ ॥
कामिका कामका रुद्र युक्ताथोऽथ स्थिरातपा ।
तपिनी दीर्घयुक्ता भूरनलोऽनन्तगोऽनिलः ॥ ६२ ॥
नारायणात्मकः कालः प्राणोम्भो विद्यया युतः ।
पीतारातिस्तथा लान्तो योन्या युक्तस्ततो नतिः ॥ ६३ ॥
सप्तचत्वारिंशद्‍वर्णगुणान्तः स्रङ्‌मनुः स्वयम् ।
राज्याभिषिक्तस्य तस्य रामस्योक्तक्रमाल्लिखेत् ॥ ६४ ॥

यंत्रस्तुतिः -

इदं सर्वात्मकं यन्त्रं प्रागुक्तमृषिसेवितम् ।
सेवकानां मोक्षकरमयुरारोग्यवर्धनम् ॥ ६५ ॥
अपुत्राणां पुत्रदं च बहुना किमनेन वै ।
प्राप्नुवन्ति क्षणात् सम्यगत्र धर्मादिकानपि ॥ ६६ ॥
इदं रहस्यं परममीश्वरेणापि दुर्गमम् ।
इदं यंत्रं समाख्यातं न देयं प्राकृते जने ॥ ६७ ॥
इति रामतापिनि उपनिषदि चतुर्थोपनिषत् ॥ ४ ॥

॥ अथ पञ्चमोपनिषत् ॥



भूतशुद्ध्यादिपीठार्चनान्तपूजा -

ॐ भूतादिकं शोधयेद्‍द्वारपूजां
   कृत्वा पद्माद्यासनस्थः प्रसन्नः ।
अर्चाविधावस्य पीठाधरोर्ध्व-
   पार्श्वार्चनं मध्यपद्मार्चनं च ॥ १॥
कृत्वा मृदुश्लक्ष्णसुतूलिकायां
   रत्नासने देशिकमर्चयित्वा ।
शक्तिं चाधाराख्यकां कूर्मनागौ
   पृथिव्यब्जे स्वासनाधः प्रकल्प्य ॥ २॥
विघ्नेशं दुर्गां क्षेत्रपालं च वाणीं
   बीजादिकांश्चाग्निदेशादिकांश्च ।
पीठस्याङ्‌घ्रिष्वेव धर्मादिकांश्च
   नञ्पूर्वांस्तांस्तत्तद्‌दीक्ष्वर्चयेच्च ॥ ३॥
मध्ये क्रमादर्कविध्वग्नितेजां-
   स्युपर्युपर्यादिमैरर्चितानि ।
रजः सत्वं तम एतान् वृत्त-
   त्रयं बीजाढ्यं क्रमाद्‌भावयेच्च ॥ ४॥
आशाव्याशास्वप्यथात्मान
   मंतरात्मानं वा परमात्मानमन्तः ।
ज्ञानात्मानं चार्चयेत्तस्य दिक्षु
   मायाविद्ये ये कलापारतत्त्वे ॥ ५॥

भगवद्‍ध्यानपुरस्सरणं आवरणपूजा -

संपूजयेद्विमलादीश्च शक्तीः
   अभ्यर्चयेद् देवमावाहयेच्च ।
अङ्‌गव्यूहानिलजाद्यैश्च पूज्य
   धृष्ट्यादिकैर्लोकपालैस्तदस्त्रैः ॥ ६॥
वसिष्ठाद्यैर्मुनिभिर्नीलमुख्यै-
   राराधयेत् राघवं चन्दनाद्यैः ।
मुख्योपहारैर्विविधैश्च पूज्यै-
   स्तस्मै जपादींश्च सम्यक् प्रकल्प्य ॥ ७॥

भगवत् प्रसादद्वारा मोक्षप्राप्तिः -

एवंभूतं जगदाधारभूतं
   रामं वन्दे सच्चिदानन्दरूपम् ।
गदाऽरिशङ्खाब्जधरं भवारिं
   स यो ध्यायेन्मोक्षमाप्नोति सर्वः ॥ ८॥
विश्वव्यापी राघवो यस्तदानी-
   मन्तर्दधे शङ्‌खचक्रे गदाब्जे ।
धृत्वा रमासहितः सानुजश्च
   सपत्तनः सानुगः सर्वलोकी ॥ ९॥
तद्‌भक्ता ये लब्धकामांश्च भुक्त्वा
   तथा पदं परमं यान्ति ते च ।
इमा ऋचः सर्वकामार्थदाश्च
   ये ते पठन्त्यमला यान्ति मोक्षम् ॥ १०॥

इति पञ्चमोऽपनिषत् ॥

॥ इति रामपूर्वतापिनि उपनिषत्समाप्ता ॥