॥ कृष्णोपनिषद् ॥ -


यो रामः कृष्णतामेत्य सार्वात्म्यं प्राप्य लीलया ।

अतोषयद्देवमौनिपटलं तं नतोऽस्म्यहम् ॥ १ ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येम अक्षभिर्यजत्राः ।
स्थिरैः अङ्गैः तुष्टुवाँसः तनूभिः व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।
॥ ॐ शान्तिः शान्तिः शान्तिः ॥


॥ अथ प्रथम खंडः ॥


हरिः ॐ । श्रीमहाविष्णुं सच्चिदानन्दलक्षणं रामचन्द्रं
दृष्ट्वा सर्वाङ्‌गसुन्दरं मुनयो वनवासिनो विस्मिता बभूवुः ।
तं होचुर्नोऽवद्यमवतारान्वै गण्यन्ते आलिङ्‌गामो भवन्तमिति ।
भवान्तरे कृष्णावतारे यूयं गोपिका भूत्व मामालिङ्‌गथ
अन्ये येऽवतारास्ते हि गोपा न स्त्रीश्च नो कुरु ।
अन्योन्यविग्रहं धार्यं तवाङ्‌गस्पर्शनादिह ।
शाश्वतस्पर्शयितास्माकं गृह्णीमोऽवतारान्वयम् ॥ १ ॥
रुद्रादीनां वचः श्रुत्वा प्रोवाच भगवान्स्वयम् ।
अङ्‌गसङ्‌गं करिष्यामि भवद्वाक्यं करोम्यहम् ॥ २ ॥
मोदितास्ते सुरा सर्वे कृतकृत्याधुना वयम् ।
यो नन्दः परमानन्दो यशोदो मुक्तिगेहिनी ॥ ३ ॥
माया सा त्रिविधा प्रोक्ता सत्त्वराजसतामसी ।
प्रोक्ता च सात्त्विकी रुद्रे भक्ते ब्रह्मणि राजसी ॥ ४ ॥
तामसी दैत्यपक्षेषु माया त्रेधा ह्युदाहृता ।
अजेया वैष्णवी माया जप्येन च सुता पुरा ॥ ५ ॥
देवकी ब्रह्मपुत्र सा या वेदैरुपगीयते ।
निगमो वसुदेवो यो वेदार्थः कृष्णरामयोः ॥ ६ ॥
स्तुवते सततं यस्तु सोऽवतीर्णो महीतले ।
वने वृन्दावने क्रीडन् गोपगोपीसुरैः सह ॥ ७ ॥
गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः ।
वंशस्तु भगवान् रुद्रः श्रृङ्‌गमिन्द्रः सगोसुरः ॥ ८ ॥
गोकुलं वनवैकुण्ठं तापसास्तत्र ते द्रुमाः ।
लोभक्रोधादयो दैत्याः कलिकालस्तिरस्कृतः ॥ ९ ॥
गोपरूपो हरिः साक्षात् मायाविग्रहधारणः ।
दुर्बोधं कुहकं तस्य मायया मोहितं जगत् ॥ १० ॥
दुर्जया सा सुरैः सर्वैः ध्रृष्टिरूपो भवेद्‌द्विजः ।
रुद्रो येन कृतो वंशः तस्य माया जगत्कथम् ॥ ११ ॥
बलं ज्ञानं सुराणां वै तेषां ज्ञानं हृतं क्षणात् ।
शेशनागो भवेद् रामः कृष्णो ब्रह्मैव शाश्वतम् ॥ १२ ॥
अष्टावष्टसहस्रे द्वे शताधिक्यः स्त्रियस्तथा ।
ऋचोपनिषदस्ता वै ब्रह्मरूपा ऋचः स्त्रियाः ॥ १३ ॥
द्वेषाश्चाणूरमल्लोऽयं मत्सरो मुष्टिको जयः ।
दर्पः कुवलयापीडो गर्वो रक्षः खगो बकः ॥ १४ ॥
दया सा रोहिणी माता सत्यभामा धरेति वै ।
अघासुरो महाव्याधिः कलिः कंसः स भूपतिः ॥ १५ ॥
शमो मित्रः सुदामा च सत्याक्रूरोद्धवो दमः ।
यः शङ्‌खः स स्वयं विष्णुः लक्ष्मीरुपो व्यवस्थितः ॥ १६ ॥
दुग्धसिन्धौ समुत्पन्नो मेघघोषस्तु संस्मृतः ।
दुग्दोदधिः कृतस्तेन भग्नभाण्डो दधिगृहे ॥ १७ ॥
क्रीडते बालको भूत्वा पूर्ववत्सुमहोदधौ ।
संहारार्थं च शत्रूणां रअणाय च संस्थितः ॥ १८ ॥
कृपार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् ।
यत्स्रष्टुं ईश्वरेणासीत् तच्चक्रं ब्रह्मरूपधृक् ॥ १९ ॥
जयन्तीसंभवो वायुः चमरो धर्मसंज्ञितः ।
यस्यासौ ज्वलनाभासः खड्गरूपो महेश्वरः ॥ २० ॥
कश्यपोलूखलः ख्यातो रज्जुर्माताऽदितिस्तथा ।
चक्रं शङ्‍खं च संसिद्धिं बिन्दुं च सर्वमूर्धनि ॥ २१ ॥
यावन्ति देवरूपाणि वदन्ति विबुधा जनाः ।
नमन्ति देवरूपेभ्य एवमादि न संशयः ॥ २२ ॥
गदा च कालिका साक्षात् सर्वशत्रुनिबर्हिणी ।
धनुः शार्ङ्‌गं स्वमाया च शरत्कालः सुभोजनः ॥ २३ ॥
अब्जकाण्डं जगत्बीजं धृतं पाणौ स्वलीलया ।
गरुडो वटभाण्डीरः सुदामा नारदो मुनिः ॥ २४ ॥
वृन्दा भक्तिः क्रिया बुद्धीः सर्वजन्तुप्रकाशिनी ।
तस्मान्न भिन्नं नाभिन्नं आभिर्भिन्नो न वै विभुः ।
भूमावुत्तारितं सर्वं वैकुण्ठं स्वर्गवासिनाम् ॥ २५ ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येम अक्षभिर्यजत्राः ।
स्थिरैः अङ्गैः तुष्टुवाँसः तनूभिः व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।
॥ ॐ शान्तिः शान्तिः शान्तिः ॥




॥ इति कृष्णोपनिषत्समाप्ता ॥