॥ बह्वृच उपनिषत् ॥


बह्वृचाख्यब्रह्मविद्या महाखण्डार्थवैभवम् ।
अखण्डानन्दसाम्राज्यं रामचन्द्रपदं भजे ॥
ॐ वाङ्‌मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् । आविरावीर्म एधि ।
वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान्सन्दधामि ।
ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् ।
अवतु वक्तारम् । अवतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ॥


हे गद्यात्मक व छोटेसे उपनिषद् आहे. हे शाक्त उपनिषद् असून ऋग्वेदात अंतर्भूत आहे. या उपनिषदात महात्रिपुरसुंदर देवीचे माहात्म्य वर्णन केले आहे. देवीने ब्रह्माण्डाची उत्पत्ती केली. संसाराच्या प्रारंभी तीच होती. ती कामकला आणि श्रृङगकला या नावांनी प्रसिद्ध होती. तिच्यापासूनच ब्रह्मा, विष्णु, महेश उत्पन्न झाले. चारही प्रकारचे प्राणी (अंडज, स्वेदज, उद्‌भिज्य, जरायुज) आणि चौर्‍याऐंशी लक्ष योनी निर्माण झाल्या. अपरा शक्ती, शांभवी विद्या, कादि विद्या, हादि विद्या, सादि विद्या तिच्या ठायीच आहेत. ती प्रणवरूपा व रहस्यरूपा आहे. सर्व ब्रह्मांड तिच्यापासून निर्माण झाले. ती सच्चिदानंदरूप आहे. ती ब्रह्मरूपच आहे. बाला, अंबिका, बगला, मातंगी, स्वयंवर-कल्याणी, वाराह, भुवनेश्वरी, चामुण्डा, चण्डा, तिरस्कारिणी, राजमातंगी, शुकशामला, लघुश्यामला, अश्वारूढा, प्रत्यंगिरा, धुमावती, सावित्री, सरस्वती, ब्रह्मानंदकला ही सर्व तिचीच नावे आहेत. ती म्हणजेच आत्मा व बाकी सर्व अनात्मा होय.



हरिः ॐ ॥ देवी ह्येकाग्र एवासीत् । सैव जगदण्डमसृजत् ।
कामकलेति विज्ञायते । श्रृंगारकलेति विज्ञायते ॥ १ ॥

तस्या एव ब्रह्मा अजीजनत् । विष्णुरजीजनत् । रुद्रोऽजीजनत् ।
सर्वे मरुद्‌गणा अजीजनत् । गन्धर्वाप्सरसः किन्नरा वादित्रवादिनः
समन्ताद् अजीजनत् । भोग्यं अजीजनत् । सर्वं अजीजनत् ।
सर्वं शाक्तं अजीजनत् । अण्डजं स्वेदजं उद्‌भिज्जं जरायुजं
यत्किंचैतत् प्राणि स्थावरजंगमं मनुष्यं अजीजनत् ॥ २ ॥

सा एषा परा शक्तिः । सा एषा शांभवीविद्या कादिविद्येति
वा हादिविद्येति वा सादिविद्येति वा रहस्यम् । ओमों वाचि प्रतिष्ठा ॥ ३ ॥

सा एव पुरत्रयं शरीरत्रयं व्याप्य बहिरन्तरवभासयन्ती
देशकालवस्त्वन्तरसंगान् महात्रिपुरसुन्दरी वै प्रत्यक्‌ चितिः ॥ ४ ॥

सैवात्मा ततोऽन्यद् असत्यं अनात्मा । अत एषा ब्रह्मासंवित्तिः भावाभावकलाविनिर्मुक्ता
चिद्विद्याऽद्वितीयब्रह्मसंवित्तिः सच्चिदानन्दलहरी महात्रिपुरसुन्दरी बहिरन्तरनुप्रविश्य
स्वयमेकैव विभाति । यदस्ति सन्मात्रम् । यद्विभाति चिन्मात्रम् । यत्प्रियमानन्दं तदेतत्
सर्वाकारा महात्रिपुरसुन्दरी । त्वं चाहं च सर्वं विश्वं सर्वदेवता । इतरत्सर्वं महात्रिपुरसुन्दरी ।
सत्यमेकं ललिताख्यं वस्तु तद् अद्वितीयमखण्डार्थं परं ब्रह्म ॥ ५ ॥

पञ्चरूपपरित्यागात् अस्वरूपप्रहाणतः ।
अधिष्ठानं परं तत्त्वं एकं सच्छिष्यते महत् ॥ इति ॥ ६ ॥
प्रज्ञानं ब्रह्मेति वा अहं ब्रह्मास्मीति वा भाष्यते ।
तत्त्वमसीत्येव संभाष्यते ।
अयमात्मा ब्रह्मेति वा ब्रह्मैवाहमस्मीति वा ॥ ७ ॥

योऽहमस्मीति वा सोऽहमस्मीति वा योऽसौ सोऽहमस्मीति वा या भाष्यते
सैषा षोडशी श्रीविद्या पञ्चदशाक्षरी श्रीमहात्रिपुरसुन्दरी बालांबिकेति
बगलेति वा मातंगीति स्वयंवरकल्याणीति भुवनेश्वरीति चामुण्डेति चण्डेति
वाराहीति तिरस्करिणीति राजमातंगीति वा शुकश्यामलेति वा लघुश्यामलेति
वा अश्वारूढेति वा प्रत्यङ्‌गिरा धूमावती सावित्री गायत्री सरस्वती ब्रह्मानन्दकलेति ॥ ८ ॥

ऋचो अक्षरे परमे व्योमन् । यस्मिन् देवा अधि विश्वे निषेदुः ।
यस्तन्न वेद किं ऋचा करिष्यति ।
य इत्तद्विदुस्त इमे समासते । इत्युपनिषत् ॥ ९ ॥

ॐ वाङ्‌मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् । आविरावीर्म एधि ।
वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान् संदधामि ।
ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् ।
अवतु वक्तारम् । अवतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति बह्वृचोपनिषत् ॥