॥ अक्ष्युपनिषत् ॥



यत्सप्तभूमिकाविद्यावेद्यानन्दकलेवरम् ।
विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥
ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥


कृष्ण यजुर्वेदात याचा समावेश असून नेत्ररोगहरीविद्या व ब्रह्मविद्या हा याचा प्रतिपाद्य विषय आहे. हे उपनिषद् दोन खंडात विभागलेले असून पहिला खंड गद्यात्मक व दुसरा पद्यात्मक आहे. दुसर्‍या खंडात एकोणपन्नास श्‍लोकांचा समावेश आहे. या उपनिषदात भगवान् सांकृति व सूर्यनारायण यांचा संवाद उद्धृत केला आहे. पहिल्या गद्य खंडात सांकृति मुनीने आदित्य लोकांत जाऊन चाक्षुष्मती विद्येच्या आधारे सूर्याची स्तुती केली. त्याने सूर्याला असत्याकडून सत्याकडे, अंधारातून प्रकाशाकडे, मृत्यूपासून अमृतत्त्वाकडे नेण्यास सांगितले. सांकृतिने पवित्र, अप्रतिरूप, प्रकाशमान, ज्योतिस्वरूप म्हणून गौरविलेल्या सूर्याने प्रसन्न होऊन त्याला सांगितले की, जो या विद्येचा नित्यपाठ करतो त्याला कुठला नेत्ररोग होत नाही आणि त्याच्या कुलात कुणी अंध होत नाही. यानंतर पद्यात्मक भागात सांकृति मुनीला सूर्यनारायणाचा ब्रह्मविद्येचा उपदेश आहे. योगस्थित राहून कर्म करावे. त्यामुळे वासनांचा नाश होतो. सौ‍म्य कर्मे करणारा, पापभीरु, भोगाची आसक्ती न ठेवणारा, प्रेमळ व स्नेहपूर्ण वर्तन करणारा, सद्‌ग्रंथांचे अध्ययन करून सत्संग करणारा पहिल्या भूमिकेत असतो. विचार या दुसर्‍या भूमिकेत साधक, सर्प कात टाकतो त्याप्रमाणे बाह्य दोषांचा त्याग करून शास्त्र व गुरुकृपा यांच्या सहाय्याने कृपेने ज्ञान प्राप्त करतो. यानंतर तो असंसर्ग या योगाच्या तृतीय भूमिकेत जातो. चित्ताची शांती प्राप्त करून तो प्रबुद्ध होतो. असंसर्गाचे १) सामान्य २) श्रेष्ठ असे दोन प्रकार आहेत. विषयांच्या बाबतीत अनासक्ती, सामान्य असंसर्ग आहे. मी कर्ता नसून माझी कर्मे कर्ता आहेत किंवा परमात्मा कर्ता आहे अशा प्रकारच्या चिंता नाहीशा करून नंतर जो मौन, शांतभाव प्राप्त होतो तो श्रेष्ठ असंसर्ग आहे. तिन्ही भूमिकांमध्ये तिसरी सर्वश्रेष्ठ आहे. चौथ्या भूमिकेत साधकाचा द्वैत भाव विरून जातो. आजूबाजूच्या सृष्टीला तो स्वप्नाप्रमाणे मिथ्या मानतो. प्रथम तीन भूमिका जागरणरूप व चौथी भूमिका स्वप्न म्हणून संबोधली जाते. पाचव्या भूमिकेत साधक अद्वैतावस्थेत रहातो. ही पंचम भूमिका सुषुप्तीपद असते व साधकाला अंतर्मुख करते. नंतर साधक वासनारहित सहाव्या भूमिकेत प्रवेश करतो. सत्-असत्, अहंकार-अनहंकार, मननात्मक वृत्ती सर्वांचा लय होऊन तो भयरहित होतो. सातव्या भूमिकेत विदेहमुक्तीची अवस्था साधकाला प्राप्त होते. हीच अंतिम अवस्था होय. ही अत्यंत शांत अवस्था असून लोकाचार, देहाचार, शास्त्राचार सगळ्याचाच अंत होतो. मी नित्य, शुद्ध, बुद्ध, मुक्त, सत्तामात्र, अद्वितीय, परमानंदमय वासुदेव आणि प्राणस्वरूप, आनंदरूप, आभासरहित, वाणीद्वारा अगम्य आणि प्रज्ञानघन ब्रह्म आहे ही भावना साधकाच्या चित्तात दृढ होते.



उपनिषद प्रारंभ


अथ ह सांकृतिर्भगवानादित्यलोकं जगाम ।
तमादित्यं नत्वा चाक्षुष्मतीविद्यया तमस्तुवत् ।
ॐ नमो भगवते श्रीसूर्यायाक्षितेजसे नमः ।
ॐ खेचराय नमः । ॐ महासेनाय नमः ।
ॐ तमसे नमः । ॐ रजसे नमः । ॐ सत्त्वाय नमः ।
ॐ असतो मा सद्‌गमय । तमसो मा ज्योतिर्गमय ।
मृत्योर्माऽमृतं गमय । उष्णो भगवान् शुचिरूपः हंसो
भगवान् शुचिरूपः प्रतिरूपः ।
विश्वरूपं घृणिनं जातवेदसं इरामयं ज्योतीरूपं तपन्तम् ।
सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ।
ॐ नमो भगवते श्रीसूर्यायादित्यायाक्षितेजसेऽहोवाहिनि
वाहिनि स्वाहेति । एवं चाक्षुष्मतीविद्यया स्तुतःश्रीसूर्यनारायणः
सुप्रीतोऽब्रवीत् चाक्षुष्मतीविद्यां ब्राह्मणो यो नित्यमधीते
न तस्याक्षिरोगो भवति । न तस्य कुलेऽन्धो भवति ।
अष्टौ ब्राह्मणान् ग्राहयित्वाथ विद्यासिद्धिर्भवति ।
य एवं वेद स महान् भवति ॥ १ ॥
इति प्रथमः खण्डः

अथ ह सांकृतिरादित्यं पप्रच्छ भगवन् ब्रह्मविद्यां मे ब्रूहीति ।
तमादित्यो होवाच ।
सांकृते शृणु वक्ष्यामि तत्त्वज्ञानं सुदुर्लभम् ।
येन विज्ञातमात्रेण जीवन्मुक्तो भविष्यसि ॥१॥
सर्वमेकमजं शान्तमनन्तं ध्रुवमव्ययम् ।
पश्यन्भूतार्थचिद्‌रूपं शान्त आस्व यथासुखम् ॥ २॥
ब्रह्मिद्योपायो योगः
अवेदनं विदुर्योगं चित्तक्षयमकृत्रिमम् ।
योगस्थः कुरु कर्माणि नीरसो वाथ मा कुरु ॥ ३॥
योगस्य प्रथभूमिका
विरागमुपयात्यन्तर्वासनास्वनुवासरम् ।
क्रियासूदाररूपासु क्रमते मोदतेऽन्वहम् ॥ ४॥
ग्राम्यासु जडचेष्टासु सततं विचिकित्सते ।
नोदाहरति मर्माणि पुण्यकर्माणि सेवते ॥ ५॥
अनन्योद्वेगकारीणि मृदुकर्माणि सेवते ।
पापाद्‌बिभेति सततं न च भोगमपेक्षते ॥ ६॥
स्नेहप्रणयगर्भाणि पेशलान्युचितानि च ।
देशकालोपपन्नानि वचनान्यभिभाषते ॥ ७॥
मनसा कर्मणा वाचा सज्जनानुपसेवते ।
यतः कुतश्चिदानीय नित्यं शास्त्राण्यवेक्षते ॥ ८॥
तदाऽसौ प्रथमामेकां प्राप्तो भवति भूमिकाम् ।
एवं विचारवान् यः स्यात् संसारोत्तरणं प्रति ॥ ९॥
स भूमिकावानित्युक्तः शेषस्त्वार्य इति स्मृतः ।
द्वितीयभूमिका
विचारनाम्नीमितरामागतो योगभूमिकाम् ॥ १०॥
श्रुतिस्मृतिसदाचारधारणाध्यानकर्मणः ।
मुख्यया व्याख्ययाख्याताञ्छ्रयति श्रेष्ठपण्डितान् ॥ ११॥
पदार्थप्रविभागज्ञः कार्याकार्यविनिर्णयम् ।
जानात्यधिगतश्राव्यो गृहं गृहपतिर्यथा ॥ १२॥
मदाभिमानमात्सर्यलोभमोहातिशायिताम् ।
बहिरप्यास्थितामीषत्त्यजत्यहिरिव त्वचम् ॥ १३॥
इत्थंभूतमतिः शास्त्रगुरुसज्जनसेवया ।
सरहस्यमशेषेण यथावदधिगच्छति ॥ १४॥
तृतीयभूमिका
असंसर्गाभिधामन्यां तृतीयां योगभूमिकाम् ।
ततः पतत्यसौ कान्तः पुष्पशय्यामिवामलाम् ॥ १५॥
यथावच्छास्त्रवाक्यार्थे मतिमाधाय निश्चलाम् ।
तापसाश्रमविश्रान्तैरध्यात्मकथनक्रमैः ।
शिलाशय्याऽऽसनासीनो जरयत्यायुराततम् ॥ १६॥
वनावनिविहारेण चित्तोपशमशोभिना ।
असङ्‌गसुखसौख्येन कालं नयति नीतिमान् ॥ १७॥
अभ्यासात् साधुशास्त्राणां करणात् पुण्यकर्मणाम् ।
जन्तोर्यथावदेवेयं वस्तुदृष्टिः प्रसीदति ॥ १८॥
तृतीयां भूमिकां प्राप्य बुद्धोऽनुभवति स्वयम् ॥ १९॥
द्विविधः असंसर्गः
द्विप्रकारमसंसर्गं तस्य भेदमिमं श्रुणु ।
द्विविधोऽयमसंसर्गः सामान्यः श्रेष्ठ एव च ॥ २०॥
नाहं कर्ता न भोक्ता च न बाध्यो न च बाधकः ।
इत्यसञ्जनमर्थेषु सामान्यासङ्‌गनामकम् ॥ २१॥
प्राक्कर्मनिर्मितं सर्वमीश्वराधीनमेव वा ।
सुखं वा यदि वा दुःखं कैवात्र तव कर्तृता ॥ २२॥
भोगाभोगा महारोगाः संपदः परमापदः ।
वियोगायैव संयोगा आधयो व्याधयो धियाम् ॥ २३॥
कालश्च कलनोद्युक्तः सर्वभावाननारतम् ।
अनास्थयेति भावानां यदभावनमान्तरम् ।
वाक्यार्थलब्धमनसः समान्योऽसावसङ्‌गमः ॥ २४॥
अनेन क्रमयोगेन संयोगेन महात्मनाम् ।
नाहं कर्तेश्वरः कर्ता कर्म वा प्राक्तनं मम ॥ २५॥
कृत्वा दूरतरे नूनमिति शब्दार्थभावनम् ।
यन्मौनमासनं शान्तं तच्छ्रेष्ठासङ्‌ग उच्यते ॥ २६॥
प्रथमभूमिकास्तुतिः
सन्तोषामोदमधुरा प्रथमोदेति भूमिका ।
भूमिप्रोदितमात्रोऽन्तरमृताङ्कुरिकेव सा ॥ २७॥
एषा हि परिमृष्टान्तरन्यासां प्रसवैकभूः ।
द्वितीयां च तृतीयां च भूमिकां प्राप्नुयात्ततः ॥ २८॥
श्रेष्ठा सर्वगता ह्येषा तृतीया भूमिकात्र हि ।
भवति प्रोज्झिताशेषसंकल्पकलनः पुमान् ॥ २९॥
चतुर्थभूमिका
भूमिकात्रितयाभ्यासादज्ञाने क्षयमागते ।
समं सर्वत्र पश्यन्ति चतुर्थीं भूमिकां गताः ॥ ३०॥
अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते ।
पश्यन्ति स्वप्नवल्लोकं चतुर्थीं भूमिकां गताः ॥ ३१॥
पञ्चमभूमिका
भूमिकात्रितयं जाग्रच्चतुर्थी स्वप्न उच्यते ।
चित्तं तु शरदभ्रांशविलयं प्रविलीयते ॥ ३२ ॥
सत्त्वाऽवशेष एवास्ते पञ्चमीं भूमिकां गतः ।
जगद्विकल्पो नोदेति चित्तस्यात्र विलापनात् ॥ ३३ ॥
पञ्चमीं भूमिकामेत्य सुषुप्तपदनामिकाम् ।
शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रकः ॥ ३४॥
गलितद्वैतनिर्भासो मुदितोऽन्तःप्रबोधवान् ।
सुषुप्तघन एवास्ते पञ्चमीं भूमिकां गतः ॥ ३५॥
अन्तर्मुखतया तिष्ठन्बहिर्वृत्तिपरोऽपि सन् ।
परिश्रान्ततया नित्यं निद्रालुरिव लक्ष्यते ॥ ३६॥
षष्ठभूमिका
कुर्वन्नभ्यासमेतस्यां भूमिकायां विवासनः ।
षष्ठीं तुर्याभिधामन्यां क्रमात् पतति भूमिकाम् ॥ ३७॥
यत्र नासन्नसद्‌रूपो नाहं नाप्यहंकृतिः ।
केवलं क्षीणमनन आास्तेऽद्वैतेऽतिनिर्भयः ॥ ३८॥
निर्ग्रन्थिः शान्तसन्देहो जीवन्मुक्तो विभावनः ।
अनिर्वाणोऽपि निर्वाणश्चित्रदीप इव स्थितः ॥ ३९॥
सप्तमभूमिका
षष्ठ्यां भूमावसौ स्थित्वा सप्तमीं भूमिमाप्नुयात् ।
विदेहमुक्तताऽत्रोक्ता सप्तमी योगभूमिका ॥ ४०॥
अगम्या वचसां शान्ता सा सीमा सर्वभूमिषु ।
लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् ॥ ४१ ॥
शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ।
ॐकारब्रह्मविष्ठा
ओङ्‌कारमात्रमखिलं विश्वप्राज्ञादिलक्षणम् ॥ ४२ ॥
वाच्यवाच्यकताऽभेदात् भेदेनानुपलब्धितः ।
अकारमात्रं विश्वः स्यादुकारतैजसः स्मृतः ॥ ४३ ॥
प्राज्ञो मकार इत्येवं परिपश्येत् क्रमेण तु ।
समाधिकालात् प्रागेव विचिन्त्यातिप्रयत्नतः ॥ ४४ ॥
स्थुलसूक्ष्मक्रमात् सर्वं चिदात्मनि विलापयेत् ।
चिदात्मानं नित्यशुद्धबुद्धमुक्तसदद्वयः ॥ ४५ ॥
परमानन्दसन्देहो वासुदेवोऽहमोमिति ।
आदिमध्यावसानेषु दुःखं सर्वमिदं यतः ॥ ४६ ॥
तस्मात्सर्वं परित्यज्य तत्त्वनिष्ठो भवानघ ।
अविद्यातिमिरातीतं सर्वाभासविवर्जितम् ॥ ४७ ॥
आनन्दममलं शुद्धं मनोवाचामगोचरम् ।
प्रज्ञानघनमानन्दं ब्रह्मास्मीति विभावयेत् ॥ ४८॥
इत्युपनिषत् ॥
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ तत्सत् ॥
इति अक्ष्युपनिषत् ॥