॥ योगतत्त्वोपनिषद ॥


योगैश्वर्यं च कैवल्यं जायते यत्प्रसादतः ।
तद्वैष्णवं योगतत्त्वं रामचन्द्रपदं भजे ॥
ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥


अष्टाङ्योगजिज्ञासा -
योगतत्त्वं प्रवक्ष्यामि योगिनां हितकाम्यया ।
यच्छृत्वा च पठित्वा च सर्वपापैः प्रमुच्यते ॥ १ ॥
विष्णुर्नाम महायोगी महाभूतो महातपाः ।
तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः ॥ २ ॥
तमाराध्य जगन्नाथं प्रणिपत्य पितामहः ।
पप्रच्छ योगतत्त्वं मे ब्रूहि चाष्टाङ्गसंयुतम् ॥ ३ ॥


योगतत्त्वस्य दुर्लभत्वम् -
तमुवाच हृषीकेशो वक्ष्यामि श्रृणु तत्त्वतः ।
सर्वे जीवाः सुखैर्दुखैर्मायाजालेन वेष्टिताः ॥ ४ ॥
तेषां मुक्तिकरं मार्गं मायाजालनिकृन्तनम् ।
जन्ममृत्युजराव्याधिनाशनं मृत्युतारकम् ॥ ५ ॥
नानामार्गैस्तु दुष्प्रापं कैवल्यं परमं पदम् ।
पतिताः शास्त्रजालेषु प्रज्ञया तेन मोहिताः ॥ ६ ॥
अनिर्वाच्यं पदं वक्तुं न शक्यं तैः सुरैरपि ।
स्वात्मप्रकाशरूपं तत्किं शास्त्रेण प्रकाशते ॥ ७ ॥


परस्यैव जीवत्वम् -
निष्कलं निर्मलं शान्तं सर्वातीतं निरामयम् ।
तदेव जीवरूपेण पुण्यपापफलैर्वृतम् ॥ ८ ॥
परमात्मपदं नित्यं तत्कथं जीवतां गतम् ।
सर्वभावपदातीतं ज्ञानरूपं निरञ्जनम् ॥ ९ ॥
वारिवत्स्फुरितं तस्मिंस्तत्राहंकृतिरुत्थिता ।
पञ्चात्मकमभूत्पिण्डं धातुबद्धं गुणात्मकम् ॥ १० ॥
सुखदुःखैः समायुक्तं जीवभावनया कुरु ।
तेन जीवाभिधा प्रोक्ता विशुद्धैः परमात्मनि ॥ ११ ॥


प्राकृत गुणवियुक्तस्य जीवस्य परमात्मत्वम् -
कामक्रोधभयं चापि मोहलोभमदो रजः ।
जन्ममृत्युश्च कार्पण्यं शोकस्तन्द्रा क्षुधा तृषा ॥ १२ ॥
तृष्णा लज्जा भयं दुःखं विषादो हर्ष एव च ।
एभिर्दोषैर्विनिर्मुक्तः स जीवः केवलो मतः ॥ १३ ॥


ज्ञानयोगयोः युगपदभ्यासः -
तस्माद्दोषविनाशार्थं उपायं कथयामि ते ।
योगहीनं कथं ज्ञानं मोक्षदं भवति ध्रुवम् ॥ १४ ॥
योगोऽपि ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि ।
तस्माज्ज्ञानं च योगं च मुमुक्षुर्दृढमभ्यसेत् ॥ १५ ॥


ज्ञानस्वरूपम् -
अज्ञानादेव संसारो ज्ञानादेव विमुच्यते ।
ज्ञानस्वरूपमेवादौ ज्ञानं ज्ञेयैकसाधनम् ॥ १६ ॥
ज्ञातं येन निजं रूपं कैवल्यं परमं पदम् ।
निष्कलं निर्मलं साक्षात्सच्चिदानन्दरूपकम् ॥ १७ ॥
उत्पत्तिस्थितिसंहार स्फूर्तिज्ञानविवर्जितम् ।
एतज्ज्ञानमिति प्रोक्तमथ योगं ब्रवीमि ते ॥ १८ ॥


मंत्रयोगादि चतुर्विधो योगः -
योगो हि बहुधा ब्रह्मन् भिद्यते व्यवहारतः ।
मन्त्रयोगो लयश्चैव हठोऽसौ राजयोगकः ॥ १९ ॥


आरंभादयो योगावस्था -
आरम्भश्च घटश्चैव तथा परिचयः स्मृतः ।
निष्पत्तिश्चेत्यवस्था च सर्वत्र परिकीर्तिता ॥ २० ॥
एतेषां लक्षणं ब्रह्मन् वक्ष्ये श्रृणु समासतः ।
मातृकादियुतं मन्त्रं द्वादशाब्दं तु यो जपेत् ॥ २१ ॥
क्रमेण लभते ज्ञानं अणिमादिगुणान्वितम् ।
अल्पबुद्धिरिमं योगं सेवते साधकाधमः ॥ २२ ॥


लययोगलक्षणम् -
लययोगश्चित्तलयः कोटिशः परिकीर्तितः ।
गच्छंस्तिष्ठन्स्वपन्भुञ्जन् ध्यायेन्निष्कलमीश्वरम् ॥ २३ ॥
स एव लययोगः स्याद्‌हठयोगमतः श्रृणु ।


हठयोगाङ्गानि -
यमश्च नियमश्चैव आसनं प्राणसंयमः ॥ २४ ॥
प्रत्याहारो धारणा च ध्यानं भ्रूमध्यमे हरिम् ।
समाधिः समताऽवस्था साष्टाङ्गो योग उच्यते ॥ २५ ॥
महामुद्रा महाबन्धो महावेधश्च खेचरी ।
जालन्धरोड्डियाणश्च मूलबन्धैस्तथैव च ॥ २६ ॥
दीर्घप्रणवसन्धानं सिद्धान्तश्रवणं तथा ।
वज्रोली चामरोली च सहजोली त्रिधा मता ॥ २७ ॥


यमनियमासनेषु प्रधानाङ्गानि -
एतेषां लक्षणं ब्रह्मन् प्रत्येकं श्रृणु तत्त्वतः ।
लघ्वाहारो यमेष्वेको मुख्या भवति नेतरः ॥ २८ ॥
अहिंसा नियमेष्वेका मुख्या वै चतुरानन ।
सिद्धं पद्मं तथा सिंहं भद्रं चेति चतुष्टयम् ॥ २९ ॥


योगाभ्यासविघ्नत्यागः -
प्रथमाभ्यासकाले तु विघ्नाः स्युश्चतुरानन ।
आलस्यं कत्थनं धूर्तगोष्टी मन्त्रादिसाधनम् ॥ ३० ॥
धातुस्त्रीलौल्यकादीनि मृगतृष्णामयानि वै ।
ज्ञात्वा सुधीस्त्यजेत्सर्वान् विघ्नान्पुण्यप्रभावतः ॥ ३१ ॥


प्राणायामोचितमठासनयोः स्वरूपम् -
प्राणायामं ततः कुर्यात् पद्मासनगतः स्वयम् ।
सुशोभनं मठं कुर्यात् सूक्ष्मद्वारं तु निर्व्रणम् ॥ ३२ ॥
सुष्ठुलिप्तं गोमयेन सुधया वा प्रयत्‍नतः ।
मत्कुणैर्मशकैर्लूतैर्वर्जितं च प्रयत्‍नतः ॥ ३३ ॥
दिने दिने च संमृष्टं संमार्जन्या विशेषतः ।
वासितं च सुगन्धेन धूपितं गुग्गुलादिभिः ॥ ३४ ॥
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ।
तत्रोपविश्य मेधावी पद्मासनसमन्वितः ॥ ३५ ॥


प्राणायामारंभप्रकारः -
ऋजुकायः प्राञ्जलिश्च प्रणमेदिष्टदेवताम् ।
ततो दक्षिणहस्तस्य अङ्गुष्ठेनैव पिङ्गलाम् ॥ ३६ ॥
निरुध्य पूरयेद्वायु मिडया तु शनैः शनैः ।
यथाशक्त्यविरोधेन ततः कुर्याच्च कुम्भकम् ॥ ३७ ॥
पुनस्त्यजेत् पिङ्गलया शनैरेव न वेगतः ।
पुनः पिङ्गलयाऽऽपूर्य पूरयेदुदरं शनैः ॥ ३८ ॥
धारयित्वा यथाशक्ति रेचयेद् इडया शनैः ।
यया त्यजेत्तयाऽऽपूर्य धारयेदविरोधतः ॥ ३९ ॥


मात्रानियमपूर्वकः प्राणायामः -
जानु प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ।
अङ्गुलिस्फोटनं कुर्यात्सा मात्रा परिगीयते ॥ ४० ॥
इडया वायुमापूर्य शनैः षोडशमात्रया ।
कुम्भयेत्पूरितं पश्चाच्चतुःषष्ट्या तु मात्रया ॥ ४१ ॥
रेचयेत्पिङ्गलानाड्या द्वात्रिंशन्मात्रया पुनः ।
पुनः पिङ्गलयाऽऽपूर्य पूर्ववत्सुसमाहितः ॥ ४२ ॥
प्रातर्मध्यंदिने सायमर्धरात्रे च कुम्भकान् ।
शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥ ४३ ॥


आन्तरालिकफलं नाडीशुद्धिः तच्चिह्नानि च -
एवं मासत्रयाभ्यासान् नाडीशुद्धिस्ततो भवेत् ।
यदा तु नाडीशुद्धिः स्यात् तदा चिह्नानि बाह्यतः ॥ ४४ ॥
जायन्ते योगिनो देहे तानि वक्ष्याम्यशेषतः ।
शरीरलघुता दीप्तिर्जाठराग्निविवर्धनम् ॥ ४५ ॥
कृशत्वं च शरीरस्य तदा जायेत निश्चितम् ।


योगाभ्यासकाले आहारादिनियमः -
योगाविघ्नकराहारं वर्जयेद्योगवित्तमः ॥ ४६ ॥
लवणं सर्षपं चाम्लमुष्णं रूक्षं च तीक्ष्णकम् ।
शाकजातं रामठादि वह्निस्त्रीपथिसेवनम् ॥ ४७ ॥
प्रातःस्नानोपवासादिकायक्लेशांश्च वर्जयेत् ।
अभ्यासकाले प्रथमं शस्तं क्षीराज्यभोजनम् ॥ ४८ ॥
गोधूममुद्‍गशाल्यन्नं योगवृद्धिकरं विदुः ।


केवलकुम्भकसिद्धिः -
ततः परं यथेष्टं तु शक्तः स्याद्वायुधारणे ॥ ४९ ॥
यथेष्टवायुधारणाद्वायोः सिद्ध्येत्केवलकुम्भकः ।
केवले कुम्भक सिद्धे रेचपूरविवर्जिते ॥ ५० ॥
न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु विद्यते ।


प्रस्वेदादिसिद्धयः -
प्रस्वेदो जायते पूर्वं मर्दनं तेन कारयेत् ॥ ५१ ॥
ततोऽपि धारणाद्वायोः क्रमेणैव शनैः शनैः ।
कम्पो भवति देहस्य आसनस्थस्य देहिनः ॥ ५२ ॥
ततोऽधिकतराभ्यासात् दर्दरी स्वेन जायते ।
यदा च दर्दरो भाव उत्प्लुत्योत्प्लुत्य गच्छति ॥ ५३ ॥
पद्मासनस्थितो योगी तथा गच्छति भूतले ।
ततोऽधिकतरभ्यासाद्‍भूमित्यागश्च जायते ॥ ५४ ॥
पद्मासनस्थ एवासौ भूमिमुत्सृज्य गच्छति ।
अतिमानुषचेष्टादि तथा सामर्थ्यमुद्‍भवेत् ॥ ५५ ॥
न दर्शयेच्च सामर्थ्यं दर्शनं वीर्यवत्तरम् ।
स्वल्पं वा बहुधा दुःखं योगी न व्यथते तदा ॥ ५६ ॥
अल्पमूत्रपुरीषश्च स्वल्पनिद्रश्च जायते ।
कीलवो दूषिका लाला स्वेददुर्गन्धताऽऽनने ॥ ५७ ॥
एतानि सर्वथा तस्य न जायन्ते ततः परम् ।
ततोऽधिकतराभ्यासाद् बलमुत्पद्यते बहु ॥ ५८ ॥
येन भूचरसिद्धिः स्याद् भूचराणां जये क्षमः ।
व्याघ्रो वा शरभो व्यापि गजो गवय एव वा ॥ ५९ ॥
सिंहो वा योगिना तेन म्रियन्ते हस्तताडिताः ।
कन्दर्पस्य यथा रूपं तथा स्यादपि योगिनः ॥ ६० ॥
तद्रूपवशगा नार्यः काङ्क्षन्ते तस्य सङ्गमम् ।
यदि सङ्गं करोत्येष तस्य बिन्दुक्षयो भवेत् ॥ ६१ ॥
वर्जयित्वा स्त्रियाः सङ्गं कुर्यादभ्यासमादरात् ।
योगिनोऽङ्गे सुगन्धश्च जायते बिन्दुधारणात् ॥ ६२ ॥


योगप्रतिबन्धनाशाय प्रणवजपः आरम्भावस्था -
ततो रहस्युपाविष्टः प्रणवं प्लुतमात्रया ।
जपेत्पूर्वार्जितानां तु पापानां नाशहेतवे ॥ ६३ ॥
सर्वविघ्नहरो मन्त्रः प्रणवः सर्वदोषहा ।
एवमभ्यासयोगेन सिद्धिरारम्भसम्भवा ॥ ६४ ॥


घटावस्था -
ततो भवेद् घटावस्था पवनाभ्यासतत्परा ।
प्राणोऽपानो मनो बुद्धिर्जीवात्मपरमात्मनोः ॥ ६५ ॥
अन्योन्यस्याविरोधेन एकता घटते यदा ।
घटावस्थेति सा प्रोक्ता तच्चिह्नानि ब्रवीम्यहम् ॥ ६६ ॥
पूर्वं यः कथितोऽभ्यासश्चतुर्थांशं परिग्रहेत् ।
दिवा वा यदि वा सायं एककालं समभ्यसेत् ॥ ६७ ॥
एकवारं प्रतिदिनं कुर्यात्केवलकुम्भकम् ।


प्रत्याहारलक्षणम् -
इन्द्रियाणीन्द्रियार्थेभ्यो यत्प्रत्याहरणं स्फुटम् ॥ ६८ ॥
योगी कुम्भकमास्थाय प्रत्याहारः स उच्यते ।


धारणास्वरूपम् -
यद्यत्पश्यति चक्षुर्भ्यां तत्तदात्मेति भावयेत् ॥ ६९ ॥
यद्यच्छृणोति कर्णाभ्यां तत्तदात्मेति भावयेत् ।
लभते नासया यद्यत्तत्तदात्मेति भावयेत् ॥ ७० ॥
जिह्वया यद्‌रसं ह्यत्ति तत्तदात्मेति भावयेत् ।
त्वचा यद्यत्स्पृशेद्योगी तत्तदात्मेति भावयेत् ॥ ७१ ॥
एवं ज्ञानेन्द्रियाणां तु तत्तदात्मनि धारयेत् ।


धारणासिद्धयः तद्‌गोपधिश्च -
याममात्रं प्रतिदिनं योगी यत्‍नादतन्द्रितः ॥ ७२ ॥
यथा वा चित्तसामर्थ्यं जायते योगिनो ध्रुवम् ।
दूरश्रुतिर्दूरदृष्टिः क्षणाद्दूरगमस्तथा ॥ ७३ ॥
वाक्सिद्धिः कामरूपत्वं अदृश्यकरणी तथा ।
मलमूत्रप्रलेपेन लोहादेः स्वर्णता भवेत् ॥ ७४ ॥
खे गतिस्तस्य जायेत सन्तताभ्यासयोगतः ।
सदा बुद्धिमता भाव्यं योगिना योगसिद्धये ॥ ७५ ॥
एते विघ्ना महासिद्धेर्न रमेत्तेषु बुद्धिमान् ।
न दर्शयेत्स्वसामर्थ्यं यस्यकस्यापि योगिराट् ॥ ७६ ॥
यथा मूढो यथा मूर्खो यथा बधिर एव वा ।
तथा वर्तेत लोकस्य स्वसामर्थ्यस्य गुप्तये ॥ ७७ ॥
शिष्याश्च स्वस्वकार्येषु प्रार्थयन्ति न संशयः ।
तत्तत्कर्मकरव्यग्रः स्वाभ्यासे विस्मृतो भवेत् ॥ ७८ ॥
सर्वव्यापारमुत्सृज्य योगनिष्ठो भवेद्यतिः ।
अविस्मृत्य गुरोर्वाक्यं अभ्यसेत्तदहर्निशम् ॥ ७९ ॥
एवं भवेद् घटावस्था सन्तताभ्यासयोगतः ।
अनभ्यासवतश्चैव वृथागोष्ठ्या न सिद्ध्यति ॥ ८० ॥
तस्मात्सर्वप्रयत्‍नेन योगमेव सदाभ्यसेत् ।


परिचर्यावस्था -
ततः परिचयावस्था जायतेऽभ्यासयोगतः ॥ ८१ ॥
वायुः परिचितो यत्‍नादग्निना सह कुण्डलीम् ।
भावयित्वा सुषुम्नायां प्रविशेदनिरोधतः ॥ ८२ ॥
वायुना सह चित्तं च प्रविशेच्च महापथम् ।
यस्य चित्तं स्वपवनं सुषुम्नां प्रविशेदिह ॥ ८३ ॥


पञ्चभूतमण्डलेषु पञ्चब्रह्मधारणानि -
भूमिरापोऽनलो वायुराकाशश्चेति पञ्चकः ।
येषु पञ्चसु देवानां धारणा पञ्चधोच्यते ॥ ८४ ॥
पादादिजानुपर्यन्तं पृथिवीस्थानमुच्यते ।
पृथिवी चतुरस्रं च पीतवर्णं लवर्णकम् ॥ ८५ ॥
पार्थिवे वायुमारोप्य लकारेण समन्वितम् ।
ध्यायंश्चतुर्भुजाकारं चतुर्वक्त्रं हिरण्मयम् ॥ ८६ ॥
धारयेत्पञ्चघटिकाः पृथिवीजयमाप्नुयात् ।
पृथिवीयोगतो मृत्युर्न भवेदस्य योगिनः ॥ ८७ ॥
आजानोः पायुपर्यन्तमपां स्थानं प्रकीर्तितम् ।
आपोऽर्धचन्द्रं शुक्लं च वंबीजं परिकीर्तितम् ॥ ८८ ॥
वारुणे वायुमारोप्य वकारेण समन्वितम् ।
स्मरन्नारायणं देवं चतुर्बाहुं किरीटिनम् ॥ ८९ ॥
शुद्धस्फटिकसङ्काशं पीतवाससमच्युतम् ।
धारयेत्पञ्चघटिकाः सर्वपापैः प्रमुच्यते ॥ ९० ॥
ततो जलाद्‍भयं नास्ति जले मृत्युर्न विद्यते ।
आपायोर्हृदयान्तं च वह्निस्थानं प्रकीर्तितम् ॥ ९१ ॥
वह्निस्त्रिकोणं रक्तं च रेफाक्षरसमुद्‍भवम् ।
वह्नौ चानिलमारोप्य रेफाक्षरसमुज्ज्वलम् ॥ ९२ ॥
त्रियक्षं वरदं रुद्रं तरुणादित्यसंनिभम् ।
भस्मोद्धूलितसर्वाङ्गं सुप्रसन्नमनुस्मरन् ॥ ९३ ॥
धारयेत्पञ्चघटिका वह्निनासौ न दह्यते ।
न दह्यते शरीरं च प्रविष्टस्याग्निकुण्डके ॥ ९४ ॥
आहृदयाद्‌भुवोर्मध्यं वायुस्थानं प्रकीर्तितम् ।
वायुः षट्कोणकं कृष्णं यकाराक्षरभासुरम् ॥ ९५ ॥
मारुतं मरुतां स्थाने यकाराक्षरभासुरम् ।
धारयेत्तत्र सर्वज्ञमीश्वरं विश्वतोमुखम् ॥ ९६ ॥
धारयेत्पञ्चघटिका वायुवद्‌व्योमगो भवेत् ।
मरणं न तु वायोस्तु भयं भवति योगिनः ॥ ९७ ॥
आभ्रूमध्यात्तु मूर्धान्तं आकाशस्थानमुच्यते ।
व्योम वृत्तं च धूम्रं च हकाराक्षरभासुरम् ॥ ९८ ॥
आकाशे वायुमारोप्य हकारोपरि शङ्करम् ।
बिन्दुरूपं महादेवं व्योमाकारं सदाशिवम् ॥ ९९ ॥
शुद्धस्फटिकसङ्काशं धृतबालेन्दुमौलिनम् ।
पञ्चवक्त्रयुतं सौम्यं दशबाहुं त्रिलोचनम् ॥ १०० ॥
सर्वायुधैर्धृताकारं सर्वभूषणभूषितम् ।
उमार्धदेहं वरदं सर्वकारणकारणम् ॥ १०१ ॥
आकाशधारणात्तस्य खेचरत्वं भवेद्‌ध्रुवम् ।
यत्रकुत्र स्थितो वापि सुखमत्यन्तमश्नुते ॥ १०२ ॥
एवं च धारणाः पञ्च कुर्याद्योगी विचक्षणः
ततो दृढशरीरः स्यात् मृत्युस्तस्य न विद्यते ॥ १०३ ॥
ब्रह्मणः प्रलयेनापि न सीदति महामतिः ।


सगुणध्यानम् -
समभ्यसेत्तथा ध्यानं घटिकाषष्टिमेव च ।
वायुं निरुध्य चाकाशे देवतामिष्टदामिति ॥ १०४ ॥
सगुणं ध्यानमेतत्स्याद् अणिमादिगुणप्रदम् ।


निर्गुणध्यानतः समाधिसिद्धिः -
निर्गुणध्यानयुक्तस्य समाधिश्च ततो भवेत् ॥ १०५ ॥
दिनद्वादशकेनैव समाधिं समवाप्नुयात् ।
वायुं निरुध्य मेधावी जीवन्मुक्तो भवत्ययम् ॥ १०६ ॥
समाधिः समतावस्था जीवात्मपरमात्मनोः ।


सिद्धयोगस्य स्वेच्छया देहत्यागात्यागौ -
यदि स्वदेहमुत्स्रष्टुं इच्छा चेदुत्सृजेत्स्वयम् ॥ १०७ ॥
परब्रह्मणि लीयेत न तस्योत्क्रान्तिरिष्यते ।
अथ नो चेत्समुत्स्रष्टुं स्वशरीरं प्रियं यदि ॥ १०८ ॥
सर्वलोकेषु विहरन् नणिमादिगुणान्वितः ।
कदाचित्स्वेच्छया देवो भूत्वा स्वर्गे महीयते ॥ १०९ ॥
मनुष्यो वाऽपि यक्षो वा स्वेच्छयाऽपि क्षणद्‍भवेत् ।
सिंहो व्याघ्रो गजो वाऽश्वः स्वेच्छया बहुतामियात् ॥ ११० ॥
यथेष्टमेव वर्तेत यद्वा योगी महेश्वरः ।
अभ्यासभेदतो भेदः फलं तु सममेव हि ॥ १११ ॥


महाबन्धलक्षणम् -
पार्ष्णिं वामस्य पादस्य योनिस्थाने नियोजयेत् ।
प्रसार्य दक्षिणं पादं हस्ताभ्यां धारयेद्दृढम् ॥ ११२ ॥
चुबुकं हृदि विन्यस्य पूरयेद्वायुना पुनः ।
कुम्भकेन यथाशक्ति धारयित्वा तु रेचयेत् ॥ ११३ ॥
वामाङ्गेन समभ्यस्य दक्षाङ्गेन ततोऽभ्यसेत् ।
प्रसारितस्तु यः पादस्तमूरूपरि नामयेत् ॥ ११४ ॥
अयमेव महाबन्ध उभयत्रैवमभ्यसेत् ।


महावेधलक्षणम् -
महाबन्धस्थितो योगी कृत्वा पूरकमेकधीः ॥ ११५ ॥
वायुना गतिमावृत्य निभृतं कण्ठमुद्रया ।
पुटद्वयं समाक्रम्य वायुः स्फुरति सत्वरम् ॥ ११६ ॥
अयमेव महावेधः सिद्धैरभ्यस्यतेऽनिशम् ।


खेचरीस्वरूपम् -
अन्तः कपालकुहरे जिह्वां व्यावृत्य धारयेत् ॥ ११७ ॥
भ्रूमध्यदृष्टिरप्येषा मुद्रा भवति खेचरी ।


बन्धत्रयस्वरूपं तत्फलं च -
कण्ठमाकुञ्च्य हृदये स्थापयेद् दृढया धिया ॥ ११८ ॥
बन्धो जालन्धराख्योऽयं मृत्युमातङ्गकेसरी ।
बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः ॥ ११९ ॥
उड्यानाख्यो हि बन्धोऽयं योगिभिः समुदाहृतः ।
पार्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद् दृढम् ॥ १२० ॥
अपानमूर्ध्वमुत्थाप्य योनिबन्धोऽयमुच्यते ।
प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् ॥ १२१ ॥
गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः ।


विपरीतकरणी तत्फलं च -
करणी विपरीताख्या सर्वव्याधिविनाशिनी ॥ १२२ ॥
नित्यमभ्यासयुक्तस्य जाठराग्निविवर्धनी ।
आहारो बहुलस्तस्य संपाद्यः साधकस्य च ॥ १२३ ॥
अल्पाहारो यदि भवेदग्निर्देहं हरेत्क्षणात् ।
अधःशिरश्चोर्ध्वपादः क्षणं स्यात्प्रथमे दिने ॥ १२४ ॥
क्षणाच्च किञ्चिदधिकमभ्यसेत्तु दिनेदिने ।
वली च पलितं चैव षण्मासार्धान्न दृश्यते ॥ १२५ ॥
याममात्रं तु यो नित्यमभ्यसेत्स तु कालजित् ।


वज्रोळीस्वरूपम् -
वज्रोलीमभ्यसेद्यस्तु स योगी सिद्धिभाजनम् ॥ १२६ ॥
लभ्यते यदि तस्यैव योगसिद्धिः करे स्थिता ।
अतीतानागतं वेत्ति खेचरी च भवेद्‌ध्रुवम् ॥ १२७ ॥


अमरोळीस्वरूपम् -
अमरीं यः पिबेन्नित्यं नस्यं कुर्वन्दिने दिने ।
वज्रोलीमभ्यसेन्नित्यं अमरोलीति कथ्यते ॥ १२८ ॥


राजयोगनिष्पत्तिः -
ततो भवेद्‌राजयोगो नान्तरा भवति ध्रुवम् ।
यदा तु राजयोगेन निष्पन्ना योगिभिः क्रिया ॥ १२९ ॥
तदा विवेकवैराग्यं जायते योगिनो ध्रुवम् ।
विष्णुर्नाम महायोगी महाभूतो महातपाः ॥ १३० ॥
तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः ।


वैराग्यहेतुनिरूपणम् -
यः स्तनः पूर्वपीतस्तं निष्पीड्य मुदमश्नुते ॥ १३१ ॥
यस्माज्जातो भगात्पूर्वं तस्मिन्नेव भगे रमन् ।
या माता सा पुनर्भार्या या भार्या मातरेव हि ॥ १३२ ॥
यः पिता स पुनः पुत्रो यः पुत्रः स पुनः पिता ।
एवं संसारचक्रेण कूपचक्रे घटा इव ॥ १३३ ॥
भ्रमन्तो योनिजन्मानि श्रुत्वा लोकान् समश्नुते ।


हृत्पद्मे प्रणवोपासनम् -
त्रयो लोकास्त्रयो वेदास्तिस्रः सन्ध्यास्त्रयः स्वराः ॥ १३४ ॥
त्रयोऽग्नयश्च त्रिगुणाः स्थिताः सर्वे त्रयाक्षरे ।
त्रयाणामक्षराणां च योऽधीतेऽप्यर्धमक्षरम् ॥ १३५ ॥
तेन सर्वमिदं प्रोतं तत्सत्यं तत्परं पदम् ।
पुष्पमध्ये यथा गन्धः पयोमध्ये यथा घृतम् ॥ १३६ ॥
तिलमध्ये यथा तैलं पाषाणेष्विव काञ्चनम् ।
हृदि स्थाने स्थितं पद्मं तस्य वक्त्रमधोमुखम् ॥ १३७ ॥
ऊर्ध्वनालमधोबिन्दुस्तस्य मध्ये स्थितं मनः ।
अकारे रेचितं पद्ममुकारेणैव भिद्यते ॥ १३८ ॥
मकारे लभते नादमर्धमात्रा तु निश्चला ।
शुद्धस्फटिकसङ्काशं निष्कलं पापनाशनम् ॥ १३९ ॥
लभते योगयुक्तात्मा पुरुषस्तत्परं पदम् ।


सर्वकरणव्यापारोपरतिः आत्मावगत्युपायः -
कूर्मः स्वपाणिपादादिशिरश्चात्मनि धारयेत् ॥ १४० ॥
एवं द्वारेषु सर्वेषु वायुपूरितरेचितः ।
निषिद्धं तु नवद्वारे ऊर्ध्वं प्राङ्‌निःश्वासस्तथा ॥ १४१ ॥
घटमध्ये यथा दीपो निवातं कुम्भकं विदुः ।
निषिद्धैर्नवभिर्द्वारैर्निर्जने निरुपद्रवे ॥ १४२ ॥
निश्चितं त्वात्ममात्रेणावशिष्टं योगसेवयेत् ॥
इत्युपनिषत् ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति योगतत्त्वोपनिषत् समाप्ता ॥