॥ तेजोबिन्दूपनिषत् ॥

यत्र चिन्मात्रकलना यात्यपह्नवमञ्जसा ।
तच्चिन्मात्रमखण्डैकरसं ब्रह्म भवाम्यहम् ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

प्रथमोऽध्यायः


निर्विशेषतेजोबिन्दुस्वरूपम् -
ॐ तेजोबिन्दुः परं ध्यानं विश्वात्महृदिसंस्थितम् ।
अणुवं शाम्भवं शान्तं स्थूलसूक्ष्मपरं च यत् ॥ १ ॥
दुःखाढ्यं च दुराराध्यं दुष्प्रेक्ष्यं मुक्तमव्ययम् ।
दुर्लभं तत्स्वयं ध्यानं मुनीनां च मनीषिणाम् ॥ २ ॥

निर्चिशेषब्रह्मावगतिसाधनानि -
यताहारो जितक्रोधो जितसङ्गो जितेन्द्रियः ।
निर्द्वन्द्वो निरहङ्कारो निराशीरपरिग्रहः ॥ ३ ॥
अगम्यागमकर्तारो गम्याऽगमयमानसाः ।
मुखे त्रीणि च विन्दन्ति त्रिधामा हंस उच्यते ॥ ४ ॥
परं गुह्यतमं विद्धि ह्यस्ततन्द्री निराश्रयः ।
सोमरूपकला सूक्ष्मा विष्णोस्तत्परमं पदम् ॥ ५ ॥

परवस्तुन एव सविशेषत्वादिभावाः -
त्रिवक्त्रं त्रिगुणं स्थानं त्रिधातुं रूपवर्जितम् ।
निश्चलं निर्विकल्पं च निराकारं निराश्रयम् ॥ ६ ॥
उपाधिरहितं स्थानं वाङ्मनोऽतीतगोचरम् ।
स्वभावं भावसंग्राह्यमसङ्घातं पदाच्च्युतम् ॥ ७ ॥
अनानानन्दनातीतं दुष्प्रेक्ष्यं मुक्तिमव्ययम् ।
चिन्त्यमेवं विनिर्मुक्तं शाश्वतं ध्रुवमच्युतम् ॥ ८ ॥
तद्ब्रह्मणस्तदध्यात्मं तद्विष्णोस्तत्परायणम् ।
अचिन्त्यं चिन्मयात्मानं यद्व्योम परमं स्थितम् ॥ ९ ॥
अशून्यं शून्यभावं तु शून्यातीतं हृदि स्थितम् ।
न ध्यानं च न च ध्याता न ध्येयो ध्येय एव च ॥ १० ॥
सर्वं च न परं शून्यं न परं न परात्परम् ।
अचिन्त्यमप्रबुद्धं च न सत्यं न परं विदुः ॥ ११ ॥
मुनीनां संप्रयुक्तं च न देवा न परं विदुः ।
लोभं मोहं भयं दर्पं कामं क्रोधं च किल्बिषम् ॥ १२ ॥
शीतोष्णे क्षुत्पिपासे च सङ्कल्पक-विकल्पकम् ।
न ब्रह्मकुलदर्पं च न मुक्तिग्रन्थिसञ्चयम् ॥ १३ ॥
न भयं न सुखं दुःखं तथा मानावमानयोः ।
एतद्‌भावविनिर्मुक्तं तद्‌ब्रह्म ब्रह्म तत्परम् ॥ १४ ॥

परब्रह्मावगातसाधन पञ्चदशाङ्गयोगः -
यमो हि नियमस्त्यागो मौनं देशश्च कालतः ।
आसनं मूलबन्धश्च देहसाम्यं च दृक्‌स्थितिः ॥ १५ ॥
प्राणसंयमनं चैव प्रत्याहारश्च धारणा ।
आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात् ॥ १६ ॥

पञ्चद्शाङ्गानां लक्षणानि -
सर्वं ब्रह्मेति वै ज्ञानादिन्द्रियग्रामसंयमः ।
यमोऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ॥ १७ ॥
सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ।
नियमो हि परानन्दो नियमात्क्रियते बुधैः ॥ १८ ॥
त्यागः प्रपञ्चरूपस्य सच्चिदात्माअलोकनात् ।
त्यागो हि महतां पूज्यः सद्यो मोक्षप्रदायकः ॥ १९ ॥
यस्माद्वाचो निवर्तन्ते अप्राप्य मनसा सह ।
यन्मौनं योगिभिर्गम्यं तद्‌भवेत्सर्वदा जडैः ॥ २० ॥
वाचो यस्मान्निवर्तन्ते तद्वक्तुं केन शक्यते ।
प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दविवर्जितः ॥ २१ ॥
इति वा तद्‌भवेन्मौनं सर्वं सहजसंज्ञितम् ।
गिरा मौनं तु बालानामयुक्तं ब्रह्मवादिनाम् ॥ २२ ॥
आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते ।
येनेदं सततं व्याप्तं स देशो विजनः स्मृतः ॥ २३ ॥
कल्पना सर्वभूतानां ब्रह्मादीनां निमेषतः ।
कालशब्देन निर्दिष्टं ह्यखण्डानन्दमद्वयम् ॥ २४ ॥
सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् ।
आसनं तद्विजानीयादन्यत्सुखविनाशनम् ॥ २५ ॥
सिद्धये सर्वभूतादि विश्वाधिष्ठानमद्वयम् ।
तस्मिन्सिद्धिं गताः सिद्धास्तत्सिद्धासनमुच्यते ॥ २६ ॥
यन्मूलं सर्वलोकानां यन्मूलं चित्तबन्धनम् ।
मूलबन्धः सदा सेव्यो योग्योऽसौ राजयोगिनाम् ॥ २७ ॥
अङ्गानां समतां विद्यात्समे ब्रह्मणि लीयते ।
नो चेन्नैव समानत्वमृजुत्वं शुष्कवृक्षवत् ॥ २८ ॥
दृष्टीं ज्ञानमयीं कृत्वा पश्येद्ब्रह्ममयं जगत् ।
सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ॥ २९ ॥
द्रष्टृदर्शनदृश्यानां विरामो यत्र वा भवेत् ।
दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकिनी ॥ ३० ॥
चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् ।
निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ॥ ३१ ॥
निषेधनं प्रपञ्चस्य रेचकाख्यः समीरितः ।
ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरुच्यते ॥ ३२ ॥
ततस्तद्‌वृत्तिनैश्चल्यं कुम्भकः प्राणसंयमः ।
अयं चापि प्रबुद्धानामज्ञानां घ्राणपीडनम् ॥ ३३ ॥
विषयेष्वात्मतां दृष्ट्वा मनसश्चित्तरञ्जकम् ।
प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुहुर्मुहुः ॥ ३४ ॥
यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् ।
मनसा धारणं चैव धारणा सा परा मता ॥ ३५ ॥
ब्रह्मैवास्मीति सद्‌वृत्त्या निरालम्बतया स्थितिः ।
ध्यानशब्देन विख्यातः परमानन्ददायकः ॥ ३६ ॥
निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः ।
वृत्तिविस्मरणं सम्यक्‌समाधिरभिधीयते ॥ ३७ ॥

योगाभ्यासेन ब्रह्मभवनम् -
इमं चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् ।
लक्ष्ये यावत्क्षणात्पुंसः प्रत्यक्त्वं सम्भवेत्स्वयम् ॥ ३८ ॥
ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् ।
तत्स्वं रूपं भवेत्तस्या विषयो मनसो गिराम् ॥ ३९ ॥

समाधि विघ्नशमनम् -
समाधौ क्रियमाणे तु विघ्नान्यायान्ति वै बलात् ।
अनुसन्धानराहित्यमालस्यं भोगलालसम् ॥ ४० ॥
लयस्तमश्च विक्षेपस्तेजः स्वेदश्च शून्यता ।
एवं हि विघ्नबाहुल्यं त्याज्यं ब्रह्मविशारदैः ॥ ४१ ॥
भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता ।
ब्रह्मवृत्त्या हि पूर्णत्वं तया पूर्णत्वमभ्यसेत् ॥ ४२ ॥

समाधिना शुद्धब्रह्मपदप्राप्तिः -
ये हि वृत्तिं विहायैनां ब्रह्माख्यां पावनीं पराम् ।
वृथैव ते तु जीवन्ति पशुभिश्च समा नराः ॥ ४३ ॥
ये तु वृत्तिं विजानन्ति ज्ञात्वा वै वर्धयन्ति ये ।
ते वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये ॥ ४४ ॥
येषां वृत्तिः समा वृद्धा परिपक्वा च सा पुनः ।
ते वै सद्ब्रह्मतां प्राप्ता नेतरे शब्दवादिनः ॥ ४५ ॥
कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः ।
तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च ॥ ४६ ॥
निमिषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना ।
यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुकादयः ॥ ४७ ॥
कारणं यस्य वै कार्यं कारणं तस्य जायते ।
कारणं तत्त्वतो नश्येत्कार्याभावे विचारतः ॥ ४८ ॥
अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरम् ।
उदेति शुद्धचित्तानां वृत्तिज्ञानमतः परम् ॥ ४९ ॥
भावितं तीव्रवेगेन यद्वस्तु निश्चयात्मकम् ।
दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् ॥ ५० ॥
विद्वान्नित्यं सुखे तिष्ठेद्धिया चिद्‌रसपूर्णया ॥
इति प्रथमोऽध्यायः ॥ १ ॥


द्वितीयोऽध्यायः


सर्वस्य अखण्डैकरसत्वम् -
अथ ह कुमारः शिवं पप्रच्छाखण्डैकरस-
चिन्मात्रस्वरूपमनुब्रूहीति । स होवाच परमः शिवः ।
अखण्डैकरसं दृश्यमखण्डैकरसं जगत् ।
अखण्डैकरसं भावमखण्डैकरसः स्वयम् ॥ १ ॥
अखण्डैकरसो मन्त्र अखण्डैकरसा क्रिया ।
अखण्डैकरसं ज्ञानमखण्डैकरसं जलम् ॥ २ ॥
अखण्डैकरसा भूमिरखण्डैकरसं वियत् ।
अखण्डैकरसं शास्त्रमखण्डैकरसा त्रयी ॥ ३ ॥
अखण्डैकरसं ब्रह्म चाखण्डैकरसं व्रतम् ।
अखण्डैकरसो जीव अखण्डैकरसो ह्यजः ॥ ४ ॥
अखण्डैकरसो ब्रह्मा अखण्डैकरसो हरिः ।
अखण्डैकरसो रुद्र अखण्डैकरसोऽस्म्यहम् ॥ ५ ॥
अखण्डैकरसो ह्यात्मा ह्यखण्डैकरसो गुरुः ।
अखण्डैकरसं लक्ष्यमखण्डैकरसं महः ॥ ६ ॥
अखण्डैकरसो देह अखण्डैकरसं मनः ।
अखण्डैकरसं चित्तमखण्डैकरसं सुखम् ॥ ७ ॥
अखण्डैकरसा विद्या अखण्डैकरसोऽव्ययः ।
अखण्डैकरसं नित्यमखण्डैकरसं परम् ॥ ८ ॥
अखण्डैकरसं किञ्चिदखण्डैकरसं वरम् ।
अखण्डैकरसादन्यन्नास्ति नास्ति षडानन ॥ ९ ॥
अखण्डैकरसान्नास्ति अखण्डैकरसान्न हि ।
अखण्डैकरसात्किञ्चिदखण्डैकरसादहम् ॥ १० ॥
अखण्डैकरसं स्थूलं सूक्ष्मं चाखण्डरूपकम् ।
अखण्डैकरसं वेद्यमखण्डैकरसो भवान् ॥ ११ ॥
अखण्डैकरसं गुह्यमखण्डैकरसादिकम् ।
अखण्डैकरसो ज्ञाता ह्यखण्डैकरसा स्थितिः ॥ १२ ॥
अखण्डैकरसा माता अखण्डैकररसः पिता ।
अखण्डैकरसो भ्राता अखण्डैकरसः पतिः ॥ १३ ॥
अखण्डैकरसं सूत्रमखण्डैकरसो विराट् ।
अखण्डैकरसं गात्रमखण्डैकरसं शिरः ॥ १४ ॥
अखण्डैकरसं चान्तरखण्डैकरसं बहिः ।
अखण्डैकरसं पूर्णमखण्डैकरसामृतम् ॥ १५ ॥
अखैण्डैकरसं गोत्रमखण्डैकरसं गृहम् ।
अखण्डैकरसं गोप्यमखण्डैकरसः शशी ॥ १६ ॥
अखण्डैकरसास्तारा अखण्डैकरसो रविः ।
अखण्डैकरसं क्षेत्रमखण्डैकरसा क्षमा ॥ १७ ॥
अखण्डैकरस शान्त अखण्डैकरसोऽगुणः ।
अखण्डैकरसः साक्षी अखण्डैकरसः सुहृत् ॥ १८ ॥
अखण्डैकरसो बन्धुरखण्डैकरसः सखा ।
अखण्डैकरसो राजा अखण्डैकरसं पुरम् ॥ १९ ॥
अखण्डैकरसं राज्यमखण्डैकरसाः प्रजाः ।
अखण्डैकरसं तारमखण्डैकरसो जपः ॥ २० ॥
अखण्डैकरसं ध्यानमखण्डैकरसं पदम् ।
अखण्डैकरसं ग्राह्यमखण्डैकरसं महत् ॥ २१ ॥
अखण्डैकरसं ज्योतिरखण्डैकरसं धनम् ।
अखण्डैकरसं भोज्यमखण्डैकरसं हविः ॥ २२ ॥
अखण्डैकरसो होम अखण्डैकरसो जयः ।
अखण्डैकरसः स्वर्गः अखण्डैकरसः स्वयम् ॥ २३ ॥

सर्वस्य चिन्मात्रत्वभावना -
अखण्डैकरसं सर्वं चिन्मात्रमिति भावयेत् ।
चिन्मात्रमेव चिन्मात्रमखण्डैकरसं परम् ॥ २४ ॥
भववर्जितचिन्मात्रं सर्वं चिन्मात्रमेव हि ।
इदं च सर्वं चिन्मात्रमयं चिन्मात्रमेव हि ॥ २५ ॥
आत्मभावं च चिन्मात्रमखण्डैकरसं विदुः ।
सर्वलोकं च चिन्मात्रं वत्ता मत्ता च चिन्मयम् ॥ २६ ॥
आकाशो भूर्जलं वायुरग्निर्ब्रह्मा हरिः शिवः ।
यत्किञ्चिद्यन्न किञ्चिच्च सर्वं चिन्मात्रमेव हि ॥ २७ ॥
अखण्डैकरसं सर्वं यद्यच्चिन्मात्रमेव हि ।
भूतं भव्यं भविष्यच्च सर्वं चिन्मात्रमेव हि ॥ २८ ॥
द्रव्यं कालं च चिन्मात्रं ज्ञानं ज्ञेयं चिदेव हि ।
ज्ञाता चिन्मात्ररूपश्च सर्वं चिन्मयमेव हि ॥ २९ ॥
संभाषणं च चिन्मात्रं यद्यच्चिन्मात्रमेव हि ।
असच्च सच्च चिन्मात्रमाद्यन्तं चिन्मयं सदा ॥ ३० ॥
आदिरन्तश्च चिन्मात्रं गुरुशिष्यादि चिन्मयम् ।
दृग्दृश्यं यदि चिन्मात्रमस्ति चेच्चिन्मयं सदा ॥ ३१ ॥
सर्वाश्चर्यं हि चिन्मात्रं देहं चिन्मात्रमेव हि ।
लिङ्गं च कारणं चैव चिन्मात्रान्न हि विद्यते ॥ ३२ ॥
अहं त्वं चैव चिन्मात्रं मूर्तामूर्तादि चिन्मयम् ।
पुण्यं पापं च चिन्मात्रं जीवश्चिन्मात्रविग्रहः ॥ ३३ ॥
चिन्मात्रान्नास्ति सङ्कल्पश्चिन्मात्रान्नास्ति वेदनम् ।
चिन्मात्रान्नास्ति मन्त्रादि चिन्मात्रान्नास्ति देवता ॥ ३४ ॥
चिन्मात्रान्नास्ति दिक्पालाश्चिन्मात्राद्व्यावहारिकम् ।
चिन्मात्रात्परमं ब्रह्म चिन्मात्रान्नास्ति कोऽपि हि ॥ ३५ ॥
चिन्मात्रान्नास्ति माया च चिन्मात्रान्नास्ति पूजनम् ।
चिन्मात्रान्नास्ति मन्तव्यं चिन्मात्रान्नास्ति सत्यकम् ॥ ३६ ॥
चिन्मात्रान्नास्ति कोशादि चिन्मात्रान्नास्ति वै वसु ।
चिन्मात्रान्नास्ति मौनं च चिन्मात्रान्नास्त्यमौनकम् ॥ ३७ ॥
चिन्मात्रान्नास्ति वैराग्यं सर्वं चिन्मात्रमेव हि ।
यच्च यावच्च चिन्मात्रं यच्च यावच्च दृश्यते ॥ ३८ ॥
यच्च यावच्च दूरस्थं सर्वं चिन्मात्रमेव हि ।
यच्च यावच्च भूतादि यच्च यावच्च लक्ष्यते ॥ ३९ ॥
यच्च यावच्च वेदान्ताः सर्वं चिन्मात्रमेव हि ।
चिन्मात्रान्नास्ति गमनं चिन्मात्रान्नास्ति मोक्षकम् ॥ ४० ॥
चिन्मात्रान्नास्ति लक्ष्यं च सर्वं चिन्मात्रमेव हि ।
अखण्डैकरसं ब्रह्म चिन्मात्रान्न हि विद्यते ॥ ४१ ॥
शास्त्रे मयि त्वयीशे च ह्यखण्डैकरसो भवान् ।

विद्याफलम् -
इत्येकरूपकतया यो वा जानात्यहं त्विति ॥ ४२ ॥
सकृज्ज्ञानेन मुक्तिः स्यात्सम्यग्ज्ञाने स्वयं गुरुः ॥ ४३ ॥
इति द्वितीयोऽध्यायः ॥ २ ॥

तृतीयोऽध्यायः


कुमारः पितरमात्मानुभवं अनुब्रूहीति पप्रच्छ ।
स होवाच परः शिवः ।
परंब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् ।
केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहम् ॥ १ ॥
केवलं शान्तरूपोऽहं केवलं चिन्मयोऽस्म्यहम् ।
केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहम् ॥ २ ॥
केवलं सत्त्वरूपोऽहमहं त्यक्त्वाऽहमस्म्यहम् ।
सर्वहीनस्वरूपोऽहं चिदाकाशमयोऽस्म्यहम् ॥ ३ ॥
केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलः ।
सदा चैतन्यरूपोऽस्मि चिदानन्दमयोऽस्म्यहम् ॥ ४ ॥
केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहं सदा ।
केवलं ज्ञानरूपोऽस्मि केवलं प्रियमस्म्यहम् ॥ ५ ॥
निर्विकल्पस्वरूपोऽस्मि निरीहोऽस्मि निरामयः ।
सदाऽसङ्गस्वरूपोऽस्मि निर्विकारोऽहमव्ययः ॥ ६ ॥
सदैकरसरूपोऽस्मि सदा चिन्मात्रविग्रहः ।
अपरिच्छिन्नरूपोऽस्मि ह्यखण्डानन्दरूपवान् ॥ ७ ॥
सत्परानन्दरूपोऽस्मि चित्परानन्दमस्म्यहम् ।
अन्तरान्तररूपोऽहमवाङ्मनसगोचरः ॥ ८ ॥
आत्मानन्दस्वरूपोऽहं सत्यानन्दोऽस्म्यहं सदा ।
आत्मारामस्वरूपोऽस्मि ह्यहमात्मा सदाशिवः ॥ ९ ॥
आत्मप्रकाशरूपोऽस्मि ह्यात्मज्योतिरसोऽस्म्यहम् ।
आदिमध्यान्तहीनोऽस्मि ह्याकाशसदृशोऽस्म्यहम् ॥ १० ॥
नित्यशुद्धचिदानन्द-सत्तामात्रोऽहमव्ययः ।
नित्यबुद्धविशुद्धैक-सच्चिदानन्दमस्म्यहम् ॥ ११ ॥
नित्यशेषस्वरूपोऽस्मि सर्वातीतोऽस्म्यहं सदा ।
रूपातीतस्वरूपोऽस्मि परमाकाशविग्रहः ॥ १२ ॥
भूमानन्दस्वरूपोऽस्मि भाषाहीनोऽस्म्यहं सदा ।
सर्वाधिष्ठानरूपोऽस्मि सर्वदा चिद्घनोऽस्म्यहम् ॥ १३ ॥
देहभावविहीनोऽस्मि चिन्ताहीनोऽस्मि सर्वदा ।
चित्तवृत्तिविहीनोऽहं चिदात्मैकरसोऽस्म्यहम् ॥ १४ ॥
सर्वदृश्यविहीनोऽहं दृग्‌रूपोऽस्म्यहमेव हि ।
सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा ॥ १५ ॥
अहं ब्रह्मैव सर्वं स्यादहं चैतन्यमेव हि ।
अहमेवाहमेवास्मि भूमाकाशस्वरूपवान् ॥ १६ ॥
अहमेव महानात्मा ह्यहमेव परात्परः ।
अहमन्यवदाभामि ह्यहमेव शरीरवत् ॥ १७ ॥
अहं शिष्यवदाभामि ह्ययं लोकत्रयाश्रयः ।
अहं कालत्रयातीत अहं वेदैरुपासितः ॥ १८ ॥
अहं शास्त्रेण निर्णीत अहं चित्ते व्यवस्थितः ।
मत्त्यक्तं नास्ति किञ्चिद्वा मत्त्यक्तं पृथिवी तु वा ॥ १९ ॥
मयाऽतिरिक्तं यद्यद्वा तत्तन्नास्तीति निश्चिनु ।
अहं ब्रह्मास्मि सिद्धोऽस्मि नित्यशुद्धोऽस्म्यहं सदा ॥ २० ॥
निर्गुणः केवलात्माऽस्मि निराकारोऽस्म्यहं सदा ।
केवलं ब्रह्ममात्रोऽस्मि ह्यजरोऽस्म्यमरोऽस्म्यहम् ॥ २१ ॥
स्वयमेव स्वयं भामि स्वयमेव सदात्मकः ।
स्वयमेवात्मनि स्वस्थः स्वयमेव परा गतिः ॥ २२ ॥
स्वयमेव स्वयं भुङ्क्ते स्वयमेव स्वयं रमे ।
स्वयमेव स्वयंज्योतिः स्वयमेव स्वयं महः ॥ २३ ॥
स्वस्यात्मनि स्वयं रंस्ये स्वात्मन्येव विलोकये ।
स्वात्मन्येव सुखासीनः स्वात्ममात्रावशेषकः ॥ २४ ॥
स्वचैतन्ये स्वयं स्थास्ये स्वात्मराज्ये सुखे रमे ।
स्वात्मसिंहासने स्थित्वा स्वात्मनोऽन्यन्न चिन्तये ॥ २५ ॥
चिद्‌रूपमात्रं ब्रह्मैव सच्चिदानन्दमद्वयम् ।
आनन्दघन एवाहमहं ब्रह्मास्मि केवलम् ॥ २६ ॥
सर्वदा सर्वशून्योऽहं सर्वात्मानन्दवानहम् ।
नित्यानन्दस्वरूपोऽहमात्माकाशोऽस्मि सर्वदा ॥ २७ ॥
अहमेव हृदाकाशे चिदादित्यस्वरूपवान् ।
आत्मनाऽऽत्मनि तृप्तोऽस्मि ह्यरूपोऽस्म्यहमव्ययः ॥ २८ ॥
एकसंख्याविमुक्तोऽस्मि नित्यमुक्तस्वरूपवान् ।
आकाशादपि सूक्ष्मोऽहमाद्यन्ताभाववानहम् ॥ २९ ॥
सर्वप्रकाशरूपोऽस्मि परावरसुखोऽस्म्यहम् ।
सत्तामात्रस्वरूपोऽहं शुद्धमोक्षस्वरूपवान् ॥ ३० ॥
सत्यानन्दस्वरूपोऽहं ज्ञानानन्दघनोऽस्म्यहम् ।
विज्ञानमात्ररूपोऽहं सच्चिदानन्दलक्षणः ॥ ३१ ॥
ब्रह्ममात्रमिदं सर्वं ब्रह्मणोऽन्यन्न किञ्चन ।
तदेवाहं सदानन्दं ब्रह्मैवाहं सनातनम् ॥ ३२ ॥
त्वमित्येतत्तदित्येतन्मत्तोऽन्यन्नास्ति किञ्चन ।
चिच्चैतन्यस्वरूपोऽहमहमेव शिवः परः ॥ ३३ ॥
अतिभावस्वरूपोऽहमहमेव सुखात्मकः ।
साक्षिवस्तुविहीनत्वात्साक्षित्वं नास्ति मे सदा ॥ ३४ ॥
केवलं ब्रह्ममात्रत्वादहमात्मा सनातनः ।
अहमेवादिशेषोऽहमहं शेषोऽहमेव हि ॥ ३५ ॥
नामरूपविमुक्तोऽहमहमानन्दविग्रहः ।
इन्द्रियाभावरूपोऽहं सर्वभावस्वरूपकः ॥ ३६ ॥
बन्धमुक्तिविहीनोऽहं शाश्वतानन्दविग्रहः ।
आदिचैतन्यरूपोऽहमखण्डैकरसोऽस्म्यहम् ॥ ३७ ॥
वाङ्मनोऽगोचरश्चाहं सर्वत्र सुखवानहम् ।
सर्वत्र पूर्णरूपोऽहं भूमानन्दमयोऽस्म्यहम् ॥ ३८ ॥
सर्वत्र तृप्तिरूपोऽहं परामृतरसोऽस्म्यहम् ।
एकमेवाद्वितीयं सद्ब्रह्मैवाहं न संशयः ॥ ३९ ॥
सर्वशून्यस्वरूपोऽहं सकलागमगोचरः ।
मुक्तोऽहं मोक्षरूपोऽहं निर्वाणसुखरूपवान् ॥ ४० ॥
सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् ।
तुरीयातीतरूपोऽहं निर्विकल्पस्वरूपवान् ॥ ४१ ॥
सर्वदा ह्यजरूपोऽहं नीरागोऽस्मि निरञ्जनः ।
अहं शुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् ॥ ४२ ॥
ओङ्कारार्थस्वरूपोऽस्मि निष्कलङ्कमयोऽस्म्यहम् ।

आत्मनि सर्वप्रविभक्तरूपाभावानुभवः -
चिदाकारस्वरूपोऽस्मि नाहमस्मि न सोऽस्म्यहम् ॥ ४३ ॥
न हि किञ्चित्स्वरूपोऽस्मि निर्व्यापारस्वरूपवान् ।
निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् ॥ ४४ ॥
न बुद्धिर्न विकल्पोऽहं न देहादित्रयोऽस्म्यहम् ।
न जाग्रत्स्वप्नरूपोऽहं न सुषुप्तिस्वरूपवान् ॥ ४५ ॥
न तापत्रयरूपोऽहं नेषणात्रयवानहम् ।
श्रवणं नास्ति मे सिद्धेर्मननं च चिदात्मनि ॥ ४६ ॥
सजातीयं न मे किञ्चिद्विजातीयं न मे क्वचित् ।
स्वगतं च न मे किञ्चिन्न मे भेदत्रयं क्वचित् ॥ ४७ ॥
असत्यं हि मनोरूपमसत्यं बुद्धिरूपकम् ।
अहङ्कारमसिद्धीति नित्योऽहं शाश्वतो ह्यजः ॥ ४८ ॥
देहत्रयमसद्विद्धि कालत्रयमसत्सदा ।
गुणत्रयमसद्विद्धि ह्ययं सत्यात्मकः शुचिः ॥ ४९ ॥
श्रुतं सर्वमसत् विद्धि वेदं सर्वमसत्सदा ।
शास्त्रं सर्वमसत् विद्धि ह्यहं सत्यचिदात्मकः ॥ ५० ॥
मूर्तित्रयमसद्विद्धि सर्वभूतमसत्सदा ।
सर्वतत्त्वमसद्विद्धि ह्ययं भूमा सदाशिवः ॥ ५१ ॥
गुरुशिष्यमसद्विद्धि गुरोर्मन्त्रमसत्ततः ।
यद्दृश्यं तदसद्विद्धि न मां विद्धि तथाविधम् ॥ ५२ ॥
यच्चिन्त्यं तदसद्विद्धि यन्न्यायं तदसत्सदा ।
यद्धितं तदसद्विद्धि न मां विद्धि तथाविधम् ॥ ५३ ॥
सर्वान्प्राणानसद्विद्धि सर्वान्भोगानसत्त्विति ।
दृष्टं श्रुतमसद्विद्धि ओतं प्रोतमसन्मयम् ॥ ५४ ॥
कार्याकार्यमसद्विद्धि नष्टं प्राप्तमसन्मयम् ।
दुःखादुःखमसद्विद्धि सर्वासर्वमन्मयम् ॥ ५५ ॥
पूर्णापूर्णमसद्विद्धि धर्माधर्ममसन्मयम् ।
लाभालाभावसद्विद्धि जयाजयमसन्मयम् ॥ ५६ ॥
शब्दं सर्वमसद्विद्धि स्पर्शं सर्वमसत्सदा ।
रूपं सर्वमसद्विद्धि रसं सर्वमसन्मयम् ॥ ५७ ॥
गन्धं सर्वमसद्विद्धि सर्वाज्ञानमसन्मयम् ।
असदेव सदा सर्वमसदेव भवोद्‌भवम् ॥ ५८ ॥
असदेव गुणं सर्वं सन्मात्रमहमेव हि ।

अहंब्रह्मास्मीत्यात्ममंत्राभ्यासः -
स्वात्ममन्त्रं सदा पश्येत्स्वात्ममन्त्रं सदाभ्यसेत् ॥ ५९ ॥
अहं ब्रह्मास्मि मंत्रोऽयं दृश्यपापं विनाशयेत् ।
अहं ब्रह्मास्मि मंत्रोऽयमन्यमंत्रं विनाशयेत् ॥ ६० ॥
अहं ब्रह्मास्मि मंत्रोऽयं देहदोषं विनाशयेत् ।
अहं ब्रह्मास्मि मंत्रोऽयं जन्मपापं विनाशयेत् ॥ ६१ ॥
अहं ब्रह्मास्मि मंत्रोऽयं मृत्युपाशं विनाशयेत् ।
अहं ब्रह्मास्मि मंत्रोऽयं द्वैतदुःखं विनाशयेत् ॥ ६२ ॥
अहं ब्रह्मास्मि मंत्रोऽयं भेदबुद्धिं विनाशयेत् ।
अहं ब्रह्मास्मि मंत्रोऽयं चिन्तादुःखं विनाशयेत् ॥ ६३ ॥
अहं ब्रह्मास्मि मंत्रोऽयं बुद्धिव्याधिं विनाशयेत् ।
अहं ब्रह्मास्मि मंत्रोऽयं चित्तबन्धं विनाशयेत् ॥ ६४ ॥
अहं ब्रह्मास्मि मंत्रोऽयं सर्वव्याधीन्विनाशयेत् ।
अहं ब्रह्मास्मि मंत्रोऽयं सर्वशोकं विनाशयेत् ॥ ६५ ॥
अहं ब्रह्मास्मि मंत्रोऽयं कामादीन्नाशयेत्क्षणात् ।
अहं ब्रह्मास्मि मंत्रोऽयं क्रोधशक्तिं विनाशयेत् ॥ ६६ ॥
अहं ब्रह्मास्मि मंत्रोऽयं चित्तवृत्तिं विनाशयेत् ।
अहं ब्रह्मास्मि मंत्रोऽयं सङ्कल्पादीन्विनाशयेत् ॥ ६७ ॥
अहं ब्रह्मास्मि मंत्रोऽयं कोटिदोषं विनाशयेत् ।
अहं ब्रह्मास्मि मंत्रोऽयं सर्वतन्त्रं विनाशयेत् ॥ ६८ ॥
अहं ब्रह्मास्मि मंत्रोऽयमात्माज्ञानं विनाशयेत् ।
अहं ब्रह्मास्मि मंत्रोऽयमात्मलोकजयप्रदः ॥ ६९ ॥
अहं ब्रह्मास्मि मंत्रोऽयमप्रतर्क्यसुखप्रदः ।
अहं ब्रह्मास्मि मंत्रोऽयमजडत्वं प्रयच्छति ॥ ७० ॥
अहं ब्रह्मास्मि मंत्रोऽयमनात्मासुरमर्दनः ।
अहं ब्रह्मास्मि वज्रोऽयमनात्माख्यगिरीन्हरेत् ॥ ७१ ॥
अहं ब्रह्मास्मि चक्रोऽयमनात्मंत्वासुरान्हरेत् ।
अहं ब्रह्मास्मि मंत्रोऽयं सर्वांस्तान्मोक्षयिष्यति ॥ ७२ ॥
अहं ब्रह्मास्मि मंत्रोऽयं ज्ञानानन्दं प्रयच्छति ।
सप्तकोटिमहामंत्रं जन्मकोटिशतप्रदम् ॥ ७३ ॥
सर्वमंत्रान्समुत्सृज्य एतन्मंत्रं समभ्यसेत् ।
सद्यो मोक्षमवाप्नोति नात्र सन्देहमण्वपि ॥ ७४ ॥
इति तृतीयोध्यायः ॥ ३ ॥

चतुर्थोऽध्यायः


जीवन्मुक्तिः प्रत्यगभिन्नब्रह्मभावापत्तिः -
कुमारः परमेश्वरं पप्रच्छ जीवन्मुक्तविदेहमुक्तयोः
स्थितिमनुब्रूहीति । स होवाच परः शिवः ।
चिदात्माऽहं परात्माऽहं निर्गुणोऽहं परात्परः ।
आत्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ १ ॥
देहत्रयातिरिक्तोऽहं शुद्धचैतन्यमस्म्यहम् ।
ब्रह्माहमिति यस्यान्तः स जीवन्मुक्त उच्यते ॥ २ ॥
आनन्दघनरूपोऽस्मि परानन्दघनोऽस्म्यहम् ।
यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः ।
परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥ ३ ॥
यस्य किञ्चिदहं नास्ति चिन्मात्रेणावतिष्ठते ।
चैतन्यमात्रो यस्यान्तश्चिन्मात्रैकस्वरूपवान् ॥ ४ ॥
सर्वत्र पूर्णरूपात्मा सर्वत्रात्मावशेषकः ।
आनन्दरतिरव्यक्तः परिपूर्णश्चिदात्मकः ॥ ५ ॥
शुद्धचैतन्यरूपात्मा सर्वसङ्गविवर्जितः ।
नित्यानन्दः प्रसन्नात्मा ह्यन्यचिन्ताविवर्जितः ॥ ६ ॥
किञ्चिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते ।
न मे चित्तं न मे बुद्धिर्नाहङ्कारो न चेन्द्रियम् ॥ ७ ॥
न मे देहः कदाचिद्वा न मे प्राणादयः क्वचित् ।
न मे माया न मे कामो न मे क्रोधः परोऽस्म्यहम् ॥ ८ ॥
न मे किञ्चिदिदं वापि न मे किञ्चित्क्वचिज्जगत् ।
न मे दोषो न मे लिङ्गं न मे चक्षुर्न मे मनः ॥ ९ ॥
न मे श्रोत्रं न मे नासा न मे जिह्वा न मे करः ।
न मे जाग्रन्न मे स्वप्नं न मे कारणमण्वपि ॥ १० ॥
न मे तुरीयमिति यः स जीवन्मुक्त उच्यते ।
इदं सर्वं न मे किञ्चिदयं सर्वं न मे क्वचित् ॥ ११ ॥
न मे कालो न मे देशो न मे वस्तु न मे मतिः ।
न मे स्नानं न मे सन्ध्या न मे दैवं न मे स्थलम् ॥ १२ ॥
न मे तीर्थं न मे सेवा न मे ज्ञानं न मे पदम् ।
न मे बन्धो न मे जन्म न मे वाक्यं न मे रविः ॥ १३ ॥
न मे पुण्यं न मे पापं न मे कार्यं न मे शुभम् ।
ने मे जीव इति स्वात्मा न मे किञ्चिज्जगत्रयम् ॥ १४ ॥
न मे मोक्षो न मे द्वैतं न मे वेदो न मे विधिः ।
न मेऽन्तिकं न मे दूरं न मे बोधो न मे रहः ॥ १५ ॥
न मे गुरुर्न मे शिष्यो न मे हीनो न चाधिकः ।
न मे ब्रह्म न मे विष्णुर्न मे रुद्रो न चन्द्रमाः ॥ १६ ॥
न मे पृथ्वी न मे तोयं न मे वायुर्न मे वियत् ।
न मे वह्निर्न मे गोत्रं न मे लक्ष्यं न मे भवः ॥ १७ ॥
न मे ध्याता न मे ध्येयं न मे ध्यानं न मे मनुः ।
न मे शीतं न मे चोष्णं न मे तृष्णा न मे क्षुधा ॥ १८ ॥
न मे मित्रं न मे शत्रुर्न मे मोहो न मे जयः ।
न मे पूर्वं न मे पश्चान्न मे चोर्ध्वं न मे दिशः ॥ १९ ॥
न मे वक्तव्यमल्पं वा न मे श्रोतव्यमण्वपि ।
न मे गन्तव्यमीषद्वा न मे ध्यातव्यमण्वपि ॥ २० ॥
न मे भोक्तव्यमीषद्वा न मे स्मर्तव्यमण्वपि ।
न मे भोगो न मे रागो न मे यागो न मे लयः ॥ २१ ॥
न मे मौर्ख्यं न मे शान्तं न मे बन्धो न मे प्रियम् ।
न मे मोदः प्रमोदो वा न मे स्थूलं न मे कृशम् ॥ २२ ॥
न मे दीर्घं न मे ह्रस्वं न मे वृद्धिर्न मे क्षयः ।
अध्यारोपोऽपवादो वा न मे चैकं न मे बहु ॥ २३ ॥
न मे आन्ध्यं न मे मान्द्यं न मे पट्विदमण्वपि ।
न मे मांसं न मे रक्तं न मे मेदो न मे ह्यसृक् ॥ २४ ॥
न मे मज्जा न मेऽस्थिर्वा न मे त्वग्धातुसप्तकम् ।
न मे शुक्लं न मे रक्तं न मे नीलं न मे पृथक् ॥ २५ ॥
न मे तापो न मे लाभो मुख्यं गौणं न मे क्वचित् ।
न मे भ्रान्तिर्न मे स्थैर्यं न मे गुह्यं न मे कुलम् ॥ २६ ॥
न मे त्याज्यं न मे ग्राह्यं न मे हास्यं न मे नयः ।
न मे वृत्तं न मे ग्लानिर्न मे शोष्यं न मे सुखम् ॥ २७ ॥
न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयम् ।
न मे तुभ्यं नमे मह्यं न मे त्वं च न मे त्वहम् ॥ २८ ॥
न मे जरा न मे बाल्यं न मे यौवनमण्वपि ।
अहं ब्रह्मास्म्यहं ब्रह्मास्म्यहं ब्रह्मेति निश्चयः ॥ २९ ॥
चिदहं चिदहं चेति स जीवन्मुक्त उच्यते ।
ब्रह्मैवाहं चिदेवाहं परो वाहं न संशयः ॥ ३० ॥
स्वयमेव स्वयं हंसः स्वयमेव स्वयं स्थितः ।
स्वयमेव स्वयं पश्येत्स्वात्मराज्ये सुखं वसेत् ॥ ३१ ॥
स्वात्मानन्दं स्वयं भोक्ष्येत्स जीवन्मुक्त उच्यते ।
स्वयमेवैकवीरोऽग्रे स्वयमेव प्रभुः स्मृतः ।
स्वस्वऊपे स्वयं स्वप्स्ये स जीवन्मुक्त उच्यते ॥ ३२ ॥

विदेहमुक्तिः - निष्प्रतियोगिकस्वमात्रब्रह्ममात्रावस्थानम् -
ब्रह्मभूतः प्रशान्तात्मा ब्रह्मानन्दमयः सुखी ।
स्वच्छरूपो महामौनी वैदेही मुक्त एव सः ॥ ३३ ॥
सर्वात्मा समरूपात्मा शुद्धात्मा त्वहमुत्थितः ।
एकवर्जित एकात्मा सर्वात्मा स्वात्ममात्रकः ॥ ३४ ॥
अजात्मा चामृतात्माहं स्वयमात्माहमव्ययः ।
लक्ष्यात्मा ललितात्माऽहं तूष्णीमात्मस्वभाववान् ॥ ३५ ॥
आनन्दात्मा प्रियो ह्यात्मा मोक्षात्मा बन्धवर्जितः ।
ब्रह्मैवाहं चिदेवाहमेवं वापि न चिन्त्यते ॥ ३६ ॥
चिन्मात्रेणैव यस्तिष्ठेद्वैदेही मुक्त एव सः ॥ ३७ ॥
निश्चयं च परित्यज्य अहं ब्रह्मेति निश्चयम् ।
आनन्दभरितस्वान्तो वैदेही मुक्त एव सः ॥ ३८ ॥
सर्वमस्तीति नास्तीति निश्चयं त्यज्य तिष्ठति ।
अहं ब्रह्मास्मि नास्मीति सच्चिदानन्दमात्रकः ॥ ३९ ॥
किञ्चित्क्वचित्कदाचिच्च आत्मानं न स्पृशत्यसौ ।
तूष्णीमेव स्थितस्तूष्णीं तूष्णीं सत्यं न किञ्चन ॥ ४० ॥
परमात्मा गुणातीतः सर्वात्मा भूतभावनः ।
कालभेदं वस्तुभेदं देशभेदं स्वभेदकम् ॥ ४१ ॥
किञ्चिद्‌भेदं न तस्यास्ति किञ्चिद्वापि न विद्यते ।
अहं त्वं तदिदं सोऽयं कालात्मा कालहीनकः ॥ ४२ ॥
शून्यात्मा सूक्ष्मरूपात्मा विश्वात्मा विश्वहीनकः ।
देवात्मा देवहीनात्मा मेयात्मा मेयवर्जितः ॥ ४३ ॥
सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः ।
सर्वसङ्कल्पहीनात्मा चिन्मात्रोऽस्मीति सर्वदा ॥ ४४ ॥
केवलः परमात्माहं केवलो ज्ञानविग्रहः ।
सत्तामात्रस्वरूपात्मा नान्यत्किञ्चिज्जगद्‌भयम् ॥ ४५ ॥
जीवेश्वरेति वाक् क्वेति वेदशास्त्राः क्वहं त्विति ।
इदं चैतन्यमेवेति अहं चैतन्यमित्यपि ॥ ४६ ॥
इति निश्चयशून्यो यो वैदेही मुक्त एव सः ।
चैतन्यमात्रसंसिद्धः स्वात्मारामः सुखासनः ॥ ४७ ॥
अपरिच्छिन्नरूपात्मा अणुस्थूलादिवर्जितः ।
तुर्यतुर्यः परानन्दो वैदेही मुक्त एव सः ॥ ४८ ॥
नामरूपविहीनात्मा परसंवित्सुखात्मकः ।
तुरीयातीतरूपात्मा शुभाशुभविवर्जितः ॥ ४९ ॥
योगात्मा योगयुक्तात्मा बन्धमोक्षविवर्जितः ।
गुणागुणविहीनात्मा देशकालादिवर्जितः ॥ ५० ॥
साक्ष्यसाक्षित्वहीनात्मा किञ्चित्किञ्चिन्न किञ्चन ।
यस्य प्रपञ्चमानं न ब्रह्माकारमपीह न ॥ ५१ ॥
स्वस्वरूपे स्वयंज्योतिः स्वस्वरूपे स्वयंरतिः ।
वाचामगोचरानन्दो वाङ्मनोऽगोचरः स्वयम् ॥ ५२ ॥
अतीतातीतभावो यो वैदेही मुक्त एव सः ।
चित्तवृत्तेरतीतो यश्चित्तवृत्त्यवभासकः ॥ ५३ ॥
सर्ववृत्तिविहीनात्मा वैदेही मुक्त एव सः ।
तस्मिन्काले विदेहीति देहस्मरणवर्जितः ॥ ५४ ॥
ईषन्मात्रं स्मृतं चेद्यस्तदा सर्वसमन्वितः ।
परैरदृष्टबाह्यात्मा परमानन्दचिद्धनः ॥ ५५ ॥
परैरदृष्टबाह्यात्मा सर्ववेदान्तगोचरः ।
ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनः ॥ ५६ ॥
ब्रह्मामृतरसासक्तो ब्रह्मामृतरसः स्वयम् ।
ब्रह्मामृतरसे मग्नो ब्रह्मानन्दशिवार्चनः ॥ ५७ ॥
ब्रह्मामृतरसे तृप्तो ब्रह्मानन्दानुभावकः ।
ब्रह्मानन्दशिवानन्दो ब्रह्मानन्दरसप्रभः ॥ ५८ ॥
ब्रह्मानन्दपरं ज्योतिर्ब्रह्मानन्दनिरन्तरः ।
ब्रह्मानन्दरसान्नादो ब्रह्मानन्दकुटुम्बकः ॥ ५९ ॥
ब्रह्मानन्दरसारूढो ब्रह्मानन्दैकचिद्धनः ।
ब्रह्मानन्दरसोद्वाहो ब्रह्मानन्दरसंभरः ॥ ६० ॥
ब्रह्मानन्दजनैर्युक्तो ब्रह्मानन्दात्मनि स्थितः ।
आत्मरूपमिदंसर्वमात्मनोऽन्यन्न किञ्चन ॥ ६१ ॥
सर्वमात्माऽहमात्मास्मि परमात्मा परात्मकः ।
नित्यानन्द स्वरूपात्मा वैदेही मुक्त एव सः ॥ ६२ ॥
पूर्णरूपो महानात्मा प्रीतात्मा शाश्वतात्मकः ।
सर्वान्तर्यामिरूपात्मा निर्मलात्मा निरात्मकः ॥ ६३ ॥
निर्विकारस्वरूपात्मा शुद्धात्मा शान्तरूपकः ।
शान्ताशान्तस्वरूपात्मा नैकात्मत्वविवर्जितः ॥ ६४ ॥
जीवात्मपरमात्मेति चिन्तासर्वस्ववर्जितः ।
मुक्तामुक्तस्वरूपात्मा मुक्तामुक्तविवर्जितः ॥ ६५ ॥
बन्धमोक्षस्वरूपात्मा बन्धमोक्षविवर्जितः ।
द्वैताद्वैतस्वरूपात्मा द्वैताद्वैतविवर्जितः ॥ ६६ ॥
सर्वासर्वस्वरूपात्मा सर्वासर्वविवर्जितः ।
मोदप्रमोदरूपात्मा मोदादिविनिवर्जितः ॥ ६७ ॥
सर्वसङ्कल्पहीनात्मा वैदेही मुक्त एव सः ।
निष्कलात्मा निर्मलात्मा बुद्धात्मा पुरुषात्मकः ॥ ६८ ॥
आनन्दादिविहीनात्मा अमृतात्मामृतात्मकः ।
कालत्रयस्वरूपात्मा कालत्रयविवर्जितः ॥ ६९ ॥
अखिलात्मा ह्यमेयात्मा मानात्मा मानवर्जितः ।
नित्यप्रत्यक्षरूपात्मा नित्यप्रत्यक्षनिर्णितः ॥ ७० ॥
अन्यहीनस्वभावात्मा अन्यहीनस्वयंप्रभः ।
विद्याऽविद्यादिमेयात्मा विद्याऽविद्यादिवर्जितः ॥ ७१ ॥
नित्यानित्यविहीनात्मा इहामुत्रविवर्जितः ।
शमादिषट्कशून्यात्मा मुमुक्षुत्वादिवर्जितः ॥ ७२ ॥
स्थूलदेहविहीनात्मा सूक्ष्मदेहविवर्जितः ।
कारणादिविहीनात्मा तुरीयादिविवर्जितः ॥ ७३ ॥
अन्नकोशविहीनात्मा प्राणकोशविवर्जितः ।
मनःकोशविहीनात्मा विज्ञानादिविवर्जितः ॥ ७४ ॥
आनन्दकोशहीनात्मा पञ्चकोशविवर्जितः ।
निर्विकल्पस्वरूपात्मा सविकल्पविवर्जितः ॥ ७५ ॥
दृश्यानुविद्धहीनात्मा शब्दविद्धविवर्जितः ।
सदा समाधिशून्यात्मा आदिमध्यान्तवर्जितः ॥ ७६ ॥
प्रज्ञानवाक्यहीनात्मा अहंब्रह्मास्मिवर्जितः ।
तत्त्वमस्यादिहीनात्मा अयमात्मेत्यभावकः ॥ ७७ ॥
ओङ्कारवाच्यहीनात्मा सर्ववाच्यविवर्जितः ।
अवस्थात्रयहीनात्मा अक्षरात्मा चिदात्मकः ॥ ७८ ॥
आत्मज्ञेयादिहीनात्मा यत्किञ्चिदिदमात्मकः ।
भानाभानविहीनात्मा वैदेही मुक्त एव सः ॥ ७९ ॥

स्वात्मनिष्ठाविधिः -
आत्मानमेव वीक्षस्व आत्मानं बोधय स्वकम् ।
स्वमात्मानं स्वयं भुङ्क्ष्व स्वस्थो भव षडानन ॥ ८० ॥
स्वमात्मनि स्वयं तृप्तः स्वमात्मानं स्वयं चर ।
आत्मानमेव मोदस्व वैदेही मुक्तिको भवेत्युपनिषत् ॥ ८१ ॥
इत्युपनिषच्छब्दः कुमारशिवख्यायिकासमप्त्यर्थः ॥ ८२ ॥
इति चतुर्थोऽध्यायः ॥ ४ ॥

पञ्चमोऽध्यायः


स्वात्मयाथात्म्यम् -
निदाघो नाम वै मुनिः पप्रच्छ ऋभुं
भगवन्तमात्मानात्मविवेकमनुब्रूहीति ।
स होवाच भगवान् ऋभुः ।
सर्ववाचोऽवधिर्ब्रह्म सर्वचिन्तावधिर्गुरुः ।
सर्वकारणकार्यात्मा कार्यकारणवर्जितः ॥ १ ॥
सर्वसङ्कल्परहितः सर्वनादमयः शिवः ।
सर्ववर्जितचिन्मात्रः सर्वानन्दमयः परः ॥ २ ॥
सर्वतेजःप्रकाशात्मा नादानन्दमयात्मकः ।
सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः ॥ ३ ॥
सर्वनादकलातीत एष आत्माऽहमव्ययः ।
आत्मानात्मविवेकादि-भेदाभेदविवर्जितः ॥ ४ ॥
शान्ताशान्तादिहीनात्मा नादान्तर्ज्योतिरूपकः ।
महावाक्यार्थतो दूरो ब्रह्मास्मीत्यतिदूरतः ॥ ५ ॥
तच्छब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः ।
क्षराक्षरविहीनो यो नादान्तर्ज्योतिरेव सः ॥ ६ ॥
अखण्डैकरसो वाहमानन्दोऽस्मीति वर्जितः ।
सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः ॥ ७ ॥
आत्मेति शब्दहीनो य आत्मशब्दार्थवर्जितः ।
सच्चिदानन्दहीनो य एषैवात्मा सनातनः ॥ ८ ॥
स निर्देष्टुमशक्यो यो वेदवाक्यैरगम्यतः ।
यस्य किञ्चिद्बहिर्नास्ति किञ्चिदन्तः कियन्न च ॥ ९ ॥
यस्य लिङ्गं प्रपञ्चं वा ब्रह्मैवात्मा न संशयः ।
नास्ति यस्य शरीरं वा जीवो वा भूतभौतिकः ॥ १० ॥
नामरूपादिकं नास्ति भोज्यं वा भोगभुक् च वा ।
सद्वाऽसद्वा स्थितिर्वापि यस्य नास्ति क्षराक्षरम् ॥ ११ ॥
गुणं वा विगुणं वापि स म आत्मा न संशयः ।
यस्य वाच्यं वाचकं वा श्रावणं मननं च वा ॥ १२ ॥
गुरुशिष्यादिभेदं वा देवलोकाः सुरासुराः ।
यत्र धर्ममधर्मं वा शुद्धं वाशुद्धमण्वपि ॥ १३ ॥
यत्र कालमकालं वा निश्चयः संशयो न हि ।
यत्र मंत्रममंत्रं वा विद्याऽविद्ये न विद्यते ॥ १४ ॥
द्रष्टृदर्शनदृश्यं वा ईषन्मात्रं कलात्मकम् ।
अनात्मेति प्रसङ्गो वा ह्यनात्मेति मनोऽपि वा ॥ १५ ॥
अनात्मेति जगद्वापि नास्त्यनात्मेति निश्चिनु ।
सर्वसङ्कल्पशून्यत्वात् सर्वकार्यविवर्जनात् ॥ १६ ॥
केवलं ब्रह्ममात्रत्वात् नास्त्यनात्मेति निश्चिनु ।
देहत्रयविहीनत्वात् कालत्रयविवर्जनात् ॥ १७ ॥
जीवत्रयगुणाभावात् तापत्रयविवर्जनात् ।
लोकत्रयविहीनत्वात् सर्वमात्मेति शासनात् ॥ १८ ॥
चित्ताभावाच्चिन्तनीयं देहाभावाज्जरा न च ।
पादाभावाद्‌गतिर्नास्ति हस्ताभावात्क्रिया न च ॥ १९ ॥
मृत्युर्नास्ति जनाभावाद्-बुद्ध्यभावात्सुखादिकम् ।
धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च ॥ २० ॥
अक्षरोच्चारणं नास्ति गुरुशिष्यादि नास्त्यपि ।
एकाभावे द्वितीयं न न द्वितीये न चैकता ॥ २१ ॥
सत्यत्वमस्ति चेत्किञ्चिदसत्त्वं न च संभवेत् ।
असत्यत्वं यदि भवेत्सत्यत्वं न घटिष्यति ॥ २२ ॥
शुभं यद्यशुभं विद्धि अशुभाच्छुभमिष्यते ।
भयं यद्यभयं विद्धि अभयाद्‌भयमापतेत् ॥ २३ ॥
बन्धत्वमस्ति चेन्मोक्षो बन्धाभावे क्व मोक्षता ।
मरणं यदि चेज्जन्म जन्माभावे मृतिर्न च ॥ २४ ॥
त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न ।
इदं यदि तदेवास्ति तदभावादिदं न च ॥ २५ ॥
अस्तीति चेन्नास्ति तदा नास्ति चेदस्ति किञ्चन ।
कार्यं चेत्कारणं किञ्चित्कार्याभावे न कारणम् ॥ २६ ॥
द्वैतं यदि तदाऽद्वैतं द्वैताभावे द्वयं न च ।
दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेन न ॥ २७ ॥
अन्तर्यदि बहिः सत्यमन्ता भावे बहिर्न च ।
पूर्णत्वमस्ति चेत्किञ्चिदपूर्णत्वं प्रसज्यते ॥ २८ ॥
तस्मादेतत्क्वचिन्नास्ति त्वं चाहं वा इमे इदम् ।
नास्ति दृष्टान्तिकं सत्ये नास्ति दार्ष्टान्तिकं ह्यजे ॥ २९ ॥
परं ब्रह्माहमस्मीति स्मरणस्य मनो न हि ।
ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वमप्यहम् ॥ ३० ॥
चिन्मात्रं केवलं चाहं नास्त्यनात्म्येति निश्चिनु ।
इदं प्रपञ्चं नास्त्येव नोत्पन्नं नो स्थितं क्वचित् ॥ ३१ ॥
चित्तं प्रपञ्चमित्याहुर्नास्ति नास्त्येव सर्वदा ।
न प्रपञ्चं न चित्तादि नाहङ्कारो न जीवकः ॥ ३२ ॥
मायाकार्यादिकं नास्ति माया नास्ति भयं न हि ।
कर्ता नास्ति क्रिया नास्ति श्रवणं मननं नहि ॥ ३३ ॥
समाधिद्वितयं नास्ति मातृमानादि नास्ति हि ।
अज्ञानं चापि नास्त्येव ह्यविवेकं कदाचन ॥ ३४ ॥
अनुबन्धचतुष्कं न सम्बन्धत्रयमेव न ।
न गङ्गा न गया सेतुर्न भूतं नान्यदस्ति हि ॥ ३५ ॥
न भूमिर्न जलं नाग्निर्न न वायुर्न च खं क्वचित् ।
न देवा न च दिक्पाला न वेदा न गुरुः क्वचित् ॥ ३६ ॥
न दूरं नास्तिकं नालं न मध्यं न क्वचित्स्थितम् ।
नाद्वैतं द्वैतसत्यं वा ह्यसत्यं वा इदं न च ॥ ३७ ॥
बन्धमोक्षादिकं नास्ति सद्वाऽसद्वा सुखादि वा ।
जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् ॥ ३८ ॥
सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्यपि नास्ति हि ।
चिदित्येवेति नास्त्येव चिदहंभाषणं न हि ॥ ३९ ॥
अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोऽस्मि न क्वचित् ।
वाचा यदुच्यते किञ्चिन्मनसा मनुते क्वचित् ॥ ४० ॥
बुद्ध्या निश्चिनुते नास्ति चित्तेन ज्ञायते नहि ।
योगी योगादिकं नास्ति सदा सर्वं सदा न च ॥ ४१ ॥
अहोरात्रादिकं नास्ति स्नानध्यानादिकं न हि ।
भ्रान्तिरभ्रान्तिर्नास्त्येव नास्त्यनात्मेति निश्चिनु ॥ ४२ ॥
वेदशास्त्रं पुराणं च कार्यं कारणमीश्वरः ।
लोको भूतं जनस्त्वैक्यं सर्वं मिथ्या न संशयः ॥ ४३ ॥
बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः ।
गौणं मुख्यं परं चान्यत्सर्वं मिथ्या न संशयः ॥ ४४ ॥
वाचा वदति यत्किञ्चित्सङ्कल्पैः कल्प्यते च यत् ।
मनसा चिन्त्यते यद्यत्सर्वं मिथ्या न संशयः ॥ ४५ ॥
बुद्ध्या निश्चीयते किञ्चिच्चित्ते निश्चीयते क्वचित् ।
शास्त्रैः प्रपञ्च्यते यद्यन्नेत्रेणैव निरीक्ष्यते ॥ ४६ ॥
श्रोत्राभ्यां श्रूयते यद्यदन्यत्सद्‌भावमेव च ।
नेत्रं श्रोत्रं गात्रमेव मिथ्येति च सुनिश्चितम् ॥ ४७ ॥
इदमित्येव निर्दिष्टमयमित्येव कल्प्यते ।
त्वमहं तदिदं सोऽहमन्यत्सद्‌भावमेव च ॥ ४८ ॥
यद्यत्संभाव्यते लोके सर्वसङ्कल्पसंभ्रमः ।
सर्वाध्यासं सर्वगोप्यं सर्वभोगप्रभेदकम् ॥ ४९ ॥
सर्वदोषप्रभेदाश्च नास्त्यनात्मेति निश्चिनु ।
मदीयं च त्वदीयं च ममेति च तवेति च ॥ ५० ॥
मह्यं तुभ्यं मयेत्यादि तत्सर्वं वितथं भवेत् ।
रक्षको विष्णुरित्यादि ब्रह्मा सृष्टेस्तु कारणम् ॥ ५१ ॥
संहारे रुद्र इत्येवं सर्वं मिथ्येति निश्चिनु ।
स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् ॥ ५२ ॥
मंत्रं तन्त्रं च सत्सङ्गो गुणदोषविजृम्भणम् ।
अन्तःकरणसद्‌भाव अविद्याश्च संभवः ॥ ५३ ॥
अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु ।
सर्वदेशिकवाक्योक्तिर्येन केनापि निश्चितम् ॥ ५४ ॥
दृश्यते जगति यद्यद्यद्यज्जगति वीक्ष्यते ।
वर्तते जगति यद्यत्सर्वं मिथ्येति निश्चिनु ॥ ५५ ॥
येन केनाक्षरेणोक्तं येन केन विनिर्णितम् ।
येन केनापि गदितं येन केनापि मोदितम् ॥ ५६ ॥
येन केनापि यद्दत्तं येन केनापि यत्कृतम् ।
यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम् ॥ ५७ ॥
यद्यत्करोषि सत्येन सर्वं मिथ्येति निश्चिनु ।

अहंवस्तुनः परमात्मत्वम् -
त्वमेव परमात्मासि त्वमेव परमो गुरुः ॥ ५८ ॥
त्वमेवाकाशरूपोऽसि साक्षिहीनोऽसि सर्वदा ।
त्वमेव सर्वभावोऽसि त्वं ब्रह्मासि न संशयः ॥ ५९ ॥
कालहीनोऽसि कालोऽसि सदा ब्रह्मासि चिद्घनः ।
सर्वतः स्वस्वरूपोऽसि चैतन्यघनवानसि ॥ ६० ॥
सत्योऽसि सिद्धोऽसि सनातनोऽसि
     मुक्तोऽसि मोक्षोऽसि मुदामृतोऽसि ।
देवोऽसि शान्तोऽसि निरामयोऽसि
     ब्रह्मासि पूर्णोऽसि परात्परोऽसि ॥ ६१ ॥
समोऽसि सच्चासि सनातनोऽसि
     सत्यादिवाक्यैः प्रतिबोधितोऽसि ।
सर्वाङ्गहीनोऽसि सदा स्थितोऽसि
     ब्रह्मेन्द्ररुद्रादिविभावितोऽसि ॥ ६२ ॥
सर्वप्रपञ्चभ्रमवर्जितोऽसि
     सर्वेषु भूतेषु च भासितोऽसि ।
सर्वत्र सङ्कल्पविवर्जितोऽसि
     सर्वागमान्तार्थविभावितोऽसि ॥ ६३ ॥
सर्वत्र सन्तोषसुखासनोऽसि
     सर्वत्र गत्यादिविवर्जितोऽसि ।
सर्वत्र लक्ष्यादिविवर्जितोऽसि
     ध्यातोऽसि विष्ण्वादिसुरैरजस्रम् ॥ ६४ ॥
चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः ।
आत्मन्येव स्थितोऽसि त्वं सर्वशून्योऽसि निर्गुणः ॥ ६५ ॥
आनन्दोऽसि परोऽसि त्वमेक एवाद्वितीयकः ।
चिद्घनानन्दरूपोऽसि परिपूर्णस्वरूपकः ॥ ६६ ॥
सदसि त्वमसि ज्ञोऽसि सोऽसि जानासि वीक्षसि ।
सच्चिदानन्दरूपोऽसि वासुदेवोऽसि वै प्रभुः ॥ ६७ ॥
अमृतोऽसि विभुश्चासि चञ्चलो ह्यचलो ह्यसि ।
सर्वोऽसि सर्वहीनोऽसि शान्ताशान्तविवर्जितः ॥ ६८ ॥
सत्तामात्रप्रकाशोऽसि सत्तासामान्यको ह्यसि ।
नित्यसिद्धिस्वरूपोऽसि सर्वसिद्धिविवर्जितः ॥ ६९ ॥
ईषन्मात्रविशून्योऽसि अणुमात्रविवर्जितः ।
अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः ॥ ७० ॥
लक्ष्यलक्षणहीनोऽसि निर्विकारो निरामयः ।
सर्वनादान्तरोऽसि त्वं कलाकाष्ठाविवर्जितः ॥ ७१ ॥
ब्रह्मविष्ण्वीशहीनोऽसि स्वस्वरूपं प्रपश्यसि ।
स्वस्वरूपावशेषोऽसि स्वानन्दाब्धौ निमज्जसि ॥ ७२ ॥
स्वात्मराज्ये स्वमेवासि स्वयंभावविवर्जितः ।
शिष्टपूर्णस्वरूपोऽसि स्वस्मात्किञ्चिन्न पश्यसि ॥ ७३ ॥
स्वस्वरूपान्न चलसि स्वस्वरूपेण जृम्भसि ।
स्वस्वरूपादनन्योऽसि ह्यहमेवासि निश्चिनु ॥ ७४ ॥

अविद्यातत्कार्यप्रपञ्चस्य निष्प्रतियोगिकाभावरूपत्वम् -
इदं प्रपञ्चं यत्किञ्चिद्यद्यज्जगति विद्यते ।
दृश्यरूपं च दृग्‌रूपं सर्वं शशविषाणवत् ॥ ७५ ॥
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कारश्च तेजश्च लोकं भुवनमण्डलम् ॥ ७६ ॥
नाशं जन्म च सत्यं च पुण्यपापजयादिकम् ।
रागः कामः क्रोधलोभौ ध्यानं ध्येयं गुणं परम् ॥ ७७ ॥
गुरुशिष्योपदेशादिरादिरन्तं शमं शुभम् ।
भूतं भव्यं वर्तमानं लक्ष्यं लक्षणमद्वयम् ॥ ७८ ॥
शमो विचारः सन्तोषो भोक्तृभोज्यादिरूपकम् ।
यमाद्यष्टाङ्गयोगं च गमनागमनात्मकम् ॥ ७९ ॥
आदिमध्यान्तरङ्गं च ग्राह्यं त्याज्यं हरिः शिवः ।
इन्द्रियाणि मनश्चैव अवस्थात्रितयं तथा ॥ ८० ॥
चतुर्विंशतितत्त्वं च साधनानां चतुष्टयम् ।
सजातीयं विजातीयं लोका भूरादयः क्रमात् ॥ ८१ ॥
सर्ववर्णाश्रमाचारं मंत्रतन्त्रादिसंग्रहम् ।
विद्याऽविद्यादिरूपं च सर्ववेदं जडाजडम् ॥ ८२ ॥
बन्धमोक्षविभागं च ज्ञानविज्ञानरूपकम् ।
बोधाबोधस्वरूपं वा द्वैताद्वैतादिभाषणम् ॥ ८३ ॥
सर्ववेदान्तसिद्धान्तं सर्वशास्त्रार्थनिर्णयम् ।
अनेकजीवसद्‌भावमेकजीवादिनिर्णयम् ॥ ८४ ॥
यद्यद्ध्यायति चित्तेन यद्यत्सङ्कल्प्यते क्वचित् ।
बुद्ध्या निश्चीयते यद्यद्‌गुरुणा संश्रृणोति यत् ॥ ८५ ॥
यद्यद्वाचा व्याकरोति यद्यदाचार्यभाषणम् ।
यद्यत् स्वरेन्द्रियैर्भाव्यं यद्यन्मीमांसते पृथक् ॥ ८६ ॥
यद्यन्न्यायेन निर्णीतं महद्‌भिर्वेदपारगैः ।
शिवः क्षरति लोकान्वै विष्णुः पाति जगत्त्रयम् ॥ ८७ ॥
ब्रह्मा सृजति लोकान्वै एवमादिक्रियादिकम् ।
यद्यदस्ति पुराणेषु यद्यद्वेदेषु निर्णयम् ॥ ८८ ॥
सर्वोपनिषदां भावं सर्वं शशविषाणवत् ।

सङ्कल्पादिरूपं मन एव सर्वानर्थहेतुः -
देहोऽहमिति सङ्कल्पं तदन्तःकरणं स्मृतम् ॥ ८९ ॥
देहोऽहमिति सङ्कल्पो महत्संसार उच्यते ।
देहोऽहमिति सङ्कल्पं तद्बन्धमिति चोच्यते ॥ ९० ॥
देहोऽहमिति सङ्कल्पं तद्दुःखमिति चोच्यते ।
देहोऽहमिति यत् ज्ञानं तदेव नरकं स्मृतम् ॥ ९१ ॥
देहोऽहमिति सङ्कल्पं जगत्सर्वमितीर्यते ।
देहोऽहमिति सङ्कल्पो हृदयग्रन्थिरीरितः ॥ ९२ ॥
देहोऽहमिति यज्ज्ञानं तदेवाज्ञानमुच्यते ।
देहोऽहमिति यज्ज्ञानं तदसद्‌भावमेव च ॥ ९३ ॥
देहोऽहमिति या बुद्धिः सा चाविद्येति भण्यते ।
देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते ॥ ९४ ॥
देहोऽहमिति सङ्कल्पः सत्यजीवः स एव हि ।
देहोऽहमिति यज्ज्ञानं परिच्छिन्नमितीरितम् ॥ ९५ ॥
देहोऽहमिति सङ्कल्पो महापापमिति स्फुटम् ।
देहोऽहमिति या बुद्धिस्तृष्णा दोषामयः किल ।
यत्किञ्चिदपि सङ्कल्पं तापत्रयमितीरितम् ॥ ९६ ॥
कामं क्रोधं बन्धनं सर्वदुःखं
     विश्वं दोषं कालनानास्वरूपम् ।
यत्किञ्चेदं सर्वसङ्कल्पजालं
     तत्किञ्चेदं मानसं सोम विद्धि ॥ ९७ ॥
मन एव जगत्सर्वं मन एव महारिपुः ।
मन एव हि संसारो मन एव जगत्त्रयम् ॥ ९८ ॥
मन एव महद्दुःखं मन एव जरादिकम् ।
मन एव हि कालं च मन एव मलं तथा ॥ ९९ ॥
मन एव हि सङ्कल्पो मन एव हि जीवकः ।
मन एव हि चित्तं च मनोऽहङ्कार एव च ॥ १०० ॥
मन एव महद्बन्धं मनोऽन्तःकरणं च तत् ।
मन एव हि भूमिश्च मन एव हि तोयकम् ॥ १०१ ॥
मन एव हि तेजश्च मन एव मरुन्महान् ।
मन एव हि चाकाशं मन एव हि शब्दकम् ॥ १०२ ॥
स्पर्शं रूपं रसं गन्धं कोशाः पञ्च मनोभवाः ।
जाग्रत्स्वप्नसुषुप्त्यादि मनोमयरितीरितम् ॥ १०३ ॥
दिक्पाला वसवो रुद्रा आदित्याश्च मनोमयाः ।
दृश्यं जडं द्वन्द्वजातं अज्ञानं मानसं स्मृतम् ॥ १०४ ॥
सङ्कल्पमेव यत्किञ्चित् तत्तन्नास्तीति निश्चिनु ।
नास्ति नास्ति जगत्सर्वं गुरुशिष्यादिकं नहि ॥ १०५ ॥
इति पञ्चमोऽध्यायः ॥ ५ ॥

षष्ठोऽध्यायः


सर्वस्य सच्चिदानन्दत्वम् -
ऋभुः - सर्वं सच्चिन्मयं विद्धि सर्वं सच्चिन्मयं ततम् ।
सच्चिदानन्दमद्वैतं सच्चिदानन्दमद्वयम् ॥ १ ॥
सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकम् ।
सच्चिदानन्दरूपोऽहं सच्चिदानन्दमेव खम् ॥ २ ॥
सच्चिदानन्दमेव त्वं सच्चिदानन्दकोऽस्म्यहम् ।
न मनोबुद्धिरहङ्कार-चित्तसङ्घातका अमी ॥ ३ ॥
न त्वं नाहं न चान्यं वा सर्वं ब्रह्मैव केवलम् ।
न वाक्यं न पदं वेदं नाक्षरं न जडं क्वचित् ॥ ४ ॥
न मध्यं नादि नान्तं वा न सत्यं न निबन्धनम् ।
न दुःखं न सुखं भावं न माया प्रकृतिस्तथा ॥ ५ ॥
न देहं न मुखं घ्राणं न जिह्वा न च तालुनी ।
न दन्तोष्ठौ ललाटं च निश्वासोच्छ्वास एव च ॥ ६ ॥
न स्वेदमस्थि मांसं च न रक्तं न च मूत्रकम् ।
न दूरं नान्तिकं नाङ्गं नोदरं न किरीटकम् ॥ ७ ॥
न हस्तपादचलनं न शास्त्रं न च शासनम् ।
न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्नसुप्तयः ॥ ८ ॥
तुर्यातीतं न मे किञ्चित्सर्वं सच्चिन्मयं ततम् ।
नाध्यात्मिकं नाधिभूतं नाधिदैवं न मायिकम् ॥ ९ ॥
न विश्वतैजसः प्राज्ञो विराट्सूत्रात्मकेश्वराः ।
न गमागमचेष्टा च न नष्टं न प्रयोजनम् ॥ १० ॥
त्याज्यं ग्राह्यं न दूष्यं वा ह्यमेध्यामेध्यकं तथा ।
न पीनं न कृशं क्लेदं न कालं देशभाषणम् ॥ ११ ॥
न सर्वं न भयं द्वैतं न वृक्षतृणपर्वताः ।
न ध्यानं योगसंसिद्धिर्न ब्रह्मक्षत्रवैश्यकम् ॥ १२ ॥
न पक्षी न मृगो नाङ्गी न लोभो मोह एव च ।
न मदो न च मात्सर्यं कामक्रोधादयस्तथा ॥ १३ ॥
न स्त्रीशूद्रबिडालादि भक्ष्यभोज्यादिकं च यत् ।
न प्रौढहीनो नास्तिक्यं न वार्तावसरोऽस्ति हि ॥ १४ ॥
न लौकिको न लोको वा न व्यापारो न मूढता ।
न भोक्ता भोजनं भोज्यं न मातृ मानमेयकम् ॥ १५ ॥
न शत्रुमित्रपुत्रादिर्न माता न पिता स्वसा ।
न जन्म न मृतिर्वृद्धिर्न देहोऽहमिति भ्रमः ॥ १६ ॥
न शून्यं नापि चाशून्यं नान्तःकरणसंसृतिः ।
न रात्रिर्न दिवा नक्तं न ब्रह्मा न हरिः शिवः ॥ १७ ॥
न वारपक्षमासादि वत्सरं न च चञ्चलम् ।
न ब्रह्मलोको वैकुण्ठं न कैलासो न चान्यकः ॥ १८ ॥
न स्वर्गो न च देवेन्द्रो नाग्निलोको न चाग्निकः ।
न यमो यमलोको वा न लोका लोकपालकाः ॥ १९ ॥
न भूर्भुवःस्वस्त्रैलोक्यं न पातालं न भूतलम् ।
नाविद्या न च विद्या च न माया प्रकृतिर्जडा ॥ २० ॥
न स्थिरं क्षणिकं नाशं न गतिर्न च धावनम् ।
न ध्यातव्यं न मे स्नानं न मंत्रो न जपः क्वचित् ॥ २१ ॥
न पदार्थं न पूजार्हं नाभिषेको न चार्चनम् ।
न पुष्पं न फलं पत्रं गन्धपुष्पादिधूपकम् ॥ २२ ॥
न स्तोत्रं न नमस्कारो न प्रदक्षिणमण्वपि ।
न प्रार्थना पृथग्भावो न हविर्नाग्निवन्दनम् ॥ २३ ॥
न होमो न च कर्माणि न दुर्वाक्यं सुभाषणम् ।
न गायत्री न वा सन्धिर्न मनस्यं न दुःस्थितिः ॥ २४ ॥
न दुराशा न दुष्टात्मा न चाण्डालो न पौल्कसः ।
न दुःसहं दुरालापं न किरातो न कैतवम् ॥ २५ ॥
न पक्षपातं न पक्षं वा न विभूषणतस्करौ ।
न च दम्भो दाम्भिको वा न हीनो नाधिको नरः ॥ २६ ॥
नैकं द्वयं त्रयं तुर्यं न महत्त्वं न चाल्पता ।
न पूर्णं न परिच्छिन्नं न काशी न व्रतं तपः ॥ २७ ॥
न गोत्रं न कुलं सूत्रं न विभुत्वं न शून्यता ।
न स्त्री न योषिन्नो वृद्धा न कन्या न वितन्तुता ॥ २८ ॥
न सूतकं न जातं वा नान्तर्मुखसुविभ्रमः ।
न महावाक्यमैक्यं वा नाणिमादिविभूतयः ॥ २९ ॥
सर्वचैतन्यमात्रत्वात्सर्वदोषः सदा न हि ।
सर्वं सन्मात्ररूपत्वात् सच्चिदानन्दमात्रकम् ॥ ३० ॥
ब्रह्मैव सर्वं नान्योऽस्ति तदहं तदहं तथा ।
तदेवाहं तदेवाहं ब्रह्मैवाहं सनातनम् ॥ ३१ ॥
ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः ।
ब्रह्मैवाहं न मे बुद्धिर्ब्रह्मैवाहं न चेन्द्रियम् ॥ ३२ ॥
ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः ।
ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाहं न भेदभूः ॥ ३३ ॥
ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे मृतिः ।
ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परः ॥ ३४ ॥
इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुर्हि सः ।
कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयंप्रभम् ॥ ३५ ॥
एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमादिकम् ।
दोषो ब्रह्म गुणो ब्रह्म दमः शान्तं विभुः प्रभुः ॥ ३६ ॥
लोको ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः ।
पूर्वं ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् ॥ ३७ ॥
जीव एव सदा ब्रह्म सच्चिदानन्दमस्म्यहम् ।
सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत् ॥ ३८ ॥
स्वयं ब्रह्म न सन्देहः स्वस्मादन्यन्न किञ्चन ।
सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमद्वयम् ॥ ३९ ॥
नित्यनिर्मलरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ।

ब्रह्मणः निष्प्रतियोगिकस्वमात्रत्वम् -
अणुमात्रलसद्‌रूपमणुमात्रमिदं जगत् ॥ ४० ॥
अणुमात्रं शरीरं वा ह्यणुमात्रमसत्यकम् ।
अणुमात्रमचिन्त्यं वा चिन्त्यं वा ह्यणुमात्रकम् ॥ ४१ ॥
ब्रह्मैव सर्वं चिन्मात्रं ब्रह्ममात्रं जगत्त्रयम् ।
आनन्दं परमानन्दमन्यत्किञ्चिन्न किञ्चन ॥ ४२ ॥
चैतन्यमात्रमोङ्कारं ब्रह्मैव सकलं स्वयम् ।
अहमेव जगत्सर्वमहमेव परं पदम् ॥ ४३ ॥
अहमेव गुणातीत अहमेव परात्परः ।
अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः ॥ ४४ ॥
अहमेवाखिलाधार अहमेव सुखात्सुखम् ।
आत्मनोऽन्यज्जगन्नास्ति आत्मनोऽन्यत्सुखं न च ॥ ४५ ॥
आत्मनोऽन्या गतिर्नास्ति सर्वमात्ममयं जगत् ।
आत्मनोऽन्यन्नहि क्वापि आत्मनोऽन्यत्तृणं नहि ॥ ४६ ॥
आत्मनोऽन्यत्तुषं नास्ति सर्वमात्ममयं जगत् ।
ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि ॥ ४७ ॥
ब्रह्ममात्रं श्रुतं सर्वं स्वयं ब्रह्मैव केवलम् ।
ब्रह्ममात्रं वृतं सर्वं ब्रह्ममात्रं रसं सुखम् ॥ ४८ ॥
ब्रह्ममात्रं चिदाकाशं सच्चिदानन्दमद्वयम् ।
ब्रह्मणोऽन्यतरन्नास्ति ब्रह्मणोऽन्यज्जगन्न च ॥ ४९ ॥
ब्रह्मणोऽन्यदहं नास्ति ब्रह्मणोऽन्यत्फलं नहि ।
ब्रह्मणोऽन्यत्तृणं नास्ति ब्रह्मणोऽन्यत्पदं नहि ॥ ५० ॥
ब्रह्मणोऽन्यद्‌गुरुर्नास्ति ब्रह्मणोऽन्यमसद्वपुः ।
ब्रह्मणोऽन्यन्न चाहन्ता त्वत्तेदन्ते नहि क्वचित् ॥ ५१ ॥
स्वयं ब्रह्मात्मकं विद्धि स्वस्मादन्यन्न किञ्चन ।
यत्किञ्चिद्दृश्यते लोके यत्किञ्चिद्‌भाष्यते जनैः ॥ ५२ ॥
यत्किञ्चिद्‌भुज्यते क्वापि तत्सर्वमसदेव हि ।
कर्तृभेदं क्रियाभेदं गुणभेदं रसादिकम् ॥ ५३ ॥
लिङ्गभेदमिदं सर्वमसदेव सदा सुखम् ।
कालभेदं देशभेदं वस्तुभेदं जयाजयम् ॥ ५४ ॥
यद्यद्‌भेदं च तत्सर्वमसदेव हि केवलम् ।
असदन्तःकरणकमसदेवेन्द्रियादिकम् ॥ ५५ ॥
असत्प्राणादिकं सर्वं सङ्घातमसदात्मकम् ।
असत्यं पञ्चकोशाख्यमसत्यं पञ्च देवताः ॥ ५६ ॥
असत्यं षड्‌विकारादि असत्यमरिवर्गकम् ।
असत्यं षड्‌ऋतुश्चैव असत्यं षड्‌रसस्तथा ॥ ५७ ॥
सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ।
आत्मैवाहं परं सत्यं नान्याः संसारदृष्टयः ॥ ५८ ॥
सत्यमानन्दरूपोऽहं चिद्घनानन्दविग्रहः ।
अहमेव परानन्द अहमेव परात्परः ॥ ५९ ॥
ज्ञानाकारमिदं सर्वं ज्ञानानन्दोऽहमद्वयः ।
सर्वप्रकाशरूपोऽहं सर्वाभावस्वरूपकमः ॥ ६० ॥
अहमेव सदा भामीत्येवं रूपं कुतोऽप्यसत् ।
त्वमित्येवं परं ब्रह्म चिन्मयानन्दरूपवान् ॥ ६१ ॥
चिदाकारं चिदाकाशं चिदेव परमं सुखम् ।
आत्मैवाहमसन्नाहं कूटस्थोऽहं गुरुः परः ॥ ६२ ॥
सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ।
कालो नास्ति जगन्नास्ति मायाप्रकृतिरेव न ॥ ६३ ॥
अहमेव हरिः साक्षादहमेव सदाशिवः ।
शुद्धचैतन्यभावोऽहं शुद्धसत्त्वानुभावनः ॥ ६४ ॥
अद्वयानन्दमात्रोऽहं चिद्घनैकरसोऽस्म्यहम् ।
सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव केवलम् ॥ ६५ ॥
सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव चेतनम् ।
सर्वान्तर्यामिरूपोऽहं सर्वसाक्षित्वलक्षणः ॥ ६६ ॥
परमात्मा परं ज्योतिः परं धाम परा गतिः ।
सर्ववेदान्तसारोऽहं सर्वशास्त्रसुनिश्चितः ॥ ६७ ॥
योगानन्दस्वरूपोऽहं मुख्यानन्दमहोदयः ।
सर्वज्ञानप्रकाशोऽस्मि मुख्यविज्ञानविग्रहः ॥ ६८ ॥
तुर्यातुर्यप्रकाशोऽस्मि तुर्यातुर्यादिवर्जितः ।
चिदक्षरोऽहं सत्योऽहं वासुदवोऽजरोऽमरः ॥ ६९ ॥
अहं ब्रह्म चिदाकाशं नित्यं ब्रह्म निरञ्जनम् ।
शुद्धं बुद्धं सदामुक्तमनामकमरूपकम् ॥ ७० ॥
सच्चिदानन्दरूपोऽहमनुत्पन्नमिदं जगत् ।
सत्यासत्यं जगन्नास्ति सङ्कल्पकलनादिकम् ॥ ७१ ॥
नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ।
अनन्तमव्ययं शान्तमेकरूपमनामयम् ॥ ७२ ॥

स्वातिरिक्तप्रपञ्चस्यासत्त्वम् -
मत्तोऽन्यदस्ति चेन्मिथ्या यथा मरुमरीचिका ।
वन्ध्याकुमारवचने भीतिश्चेदस्ति किञ्चन ॥ ७३ ॥
शशश्रृङ्गेण नागेन्द्रो मृतश्चेज्जगदस्ति तत् ।
मृगतृष्णाजलं पीत्वा तृप्तश्चेदस्त्विदं जगत् ॥ ७४ ॥
नरश्रृङ्गेण नष्टश्चेत्कश्चिदस्त्विदमेव हि ।
गन्धर्वनगरे सत्ये जगद्‌भवति सर्वदा ॥ ७५ ॥
गगने नीलिमासत्ये जगत्सत्यं भविष्यति ।
शुक्तिकारजतं सत्यं भूषणं चेज्जगद्‌भवेत् ॥ ७६ ॥
रज्जुसर्पेण दष्टश्चेन्नरो भवतु संसृतिः ।
जातरूपेण बाणेन ज्वालाग्नौ नाशिते जगत् ॥ ७७ ॥
विन्ध्याटव्यां पायसान्नमस्ति चेज्जगदुद्‌भवः ।
रम्भास्तम्भेन काष्ठेन पाकसिद्धौ जगद्‌भवेत् ॥ ७८ ॥
सद्यः कुमारिकारूपैः पाके सिद्धे जगद्‌भवेत् ।
चित्रस्थदीपैस्तमसो नाशश्चेदस्त्विदं जगत् ॥ ७९ ॥
मासात्पूर्वं मृतो मर्त्यो ह्यागतश्चेज्जगद्‌भवेत् ।
तक्रं क्षीरस्वरूपं चेत्क्वचिन्नित्यं जगद्‌भवेत् ॥ ८० ॥
गोस्तनादुद्‌भवं क्षीरं पुनरारोपणे जगत् ।
भूरजोऽब्धौ समुत्पन्ने जगद्‌भवतु सर्वदा ॥ ८१ ॥
कूर्मरोम्णा गजे बद्धे जगदस्तु मदोत्कटे ।
नालस्थतन्तुना मेरुश्चालितश्चेज्जगद्‌भवेत् ॥ ८२ ॥
तरङ्गमालया सिन्धुर्बद्धश्चेदस्त्विदं जगत् ।
अग्नेरधश्चेज्ज्वलनं जगद्‌भवतु सर्वदा ॥ ८३ ॥
ज्वालावह्निः शीतलश्चेदस्तिरूपमिदं जगत् ।
ज्वालाग्निमण्डले पद्मवृद्धिश्चेज्जगदस्त्विदम् ॥ ८४ ॥
महच्छैलेन्द्रनीलं वा सम्भवेच्चेदिदं जगत् ।
मेरुरागत्य पद्माक्षे स्थितश्चेदस्त्विदं जगत् ॥ ८५ ॥
निगिरेश्चेद्‌भृङ्गसूनुर्मेरुश्चलवदस्त्विदम् ।
मशकेन हते सिंहे जगत्सत्यं तदास्तु ते ॥ ८६ ॥
अणुकोटरविस्तीर्णे त्रैलोक्यं चेज्जगद्‌भवेत् ।
तृणानलश्च नित्यश्चेत्क्षणिकं तज्जगद्‌भवेत् ॥ ८७ ॥
स्वप्नदृष्टं च यद्वस्तु जागरे चेज्जगद्‌भवः ।
नदीवेगो निश्चलश्चेत्केनापीदं भवेज्जगत् ॥ ८८ ॥
क्षुधितस्याग्निर्भोज्यश्चेन्निमिषं कल्पितं भवेत् ।
जात्यन्धै रत्नविषयः सुज्ञातश्चेज्जगत्सदा ॥ ८९ ॥
नपुंसककुमारस्य स्त्रीसुखं चेद्‌भवज्जगत् ।
निर्मितः शशशृङ्गेण रथश्चेज्जगदस्ति तत् ॥ ९० ॥
सद्योजाता तु या कन्या भोगयोग्या भवेज्जगत् ।
वन्ध्या गर्भाप्ततत्सौख्यं ज्ञाता चेदस्त्विदं जगत् ॥ ९१ ॥
काको वा हंसवद्‌गच्छेज्जगद्‌भवतु निश्चलम् ।
महाखरो वा सिंहेन युध्यते चेज्जगत्स्थितिः ॥ ९२ ॥
महाखरो गजगतिं गतश्चेज्जगदस्तु तत् ।
सम्पूर्णचन्द्रसूर्यश्चेज्जगद्‌भातु स्वयं जडम् ॥ ९३ ॥
चन्द्रसूर्यादिकौ त्यक्त्वा राहुश्चेद्दृश्यते जगत् ।
भृष्टबीजसमुत्पन्नवृद्धिश्चेज्जगदस्तु सत् ॥ ९४ ॥
दरिद्रो धनिकानां च सुखं भुङ्क्ते तदा जगत् ।
शुना वीर्येण सिंहस्तु जितो यदि जगत्तदा ॥ ९५ ॥
ज्ञानिनो हृदयं मूढैर्ज्ञातं चेत्कल्पनं तदा ।
श्वानेन सागरे पीते निःशेषेण मनो भवेत् ॥ ९६ ॥
शुद्धाकाशो मनुष्येषु पतितश्चेत्तदा जगत् ।
भूमौ वा पतितं व्योम व्योमपुष्पं सुगन्धकम् ॥ ९७ ॥
शुद्धाकाशे वने जाते चलिते तु तदा जगत् ।
केवले दर्पणे नास्ति प्रतिबिम्बं तदा जगत् ॥ ९८ ॥
अजकुक्षौ जगन्नास्ति ह्यात्मकुक्षौ जगन्न हि ।
सर्वथा भेदकलनं द्वैताद्वैतं न विद्यते ॥ ९९ ॥
मायाकार्यमिदं भेदमस्ति चेद्ब्रह्मभावनम् ।
देहोऽहमिति दुःखं चेद्ब्रह्माहमिति निश्चयः ॥ १०० ॥
हृदयग्रन्थिरस्तित्वे च्हिद्यते ब्रह्मचक्रकम् ।
संशये समनुप्राप्ते ब्रह्मनिश्चयमाप्नुयात् ॥ १०१ ॥
अनात्मरूपचोरश्चेदात्मरत्नस्य रक्षणम् ।
नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ १०२ ॥

अहं ब्रह्मेति भावनाविधिः -
एवमादिसुदृष्टान्तैः साधितं ब्रह्ममात्रकम् ।
ब्रह्मैव सर्वभवनं भुवनं नाम सन्त्यज ॥ १०३ ॥
अहं ब्रह्मेति निश्चित्य अहंभावं परित्यज ।
सर्वमेव लयं याति सुप्तहस्तस्थपुष्पवत् ॥ १०४ ॥
न देहो न च कर्माणि सर्वं ब्रह्मैव केवलम् ।
न भूतं न च कार्यं च न चावस्थाचतुष्टयम् ॥ १०५ ॥
लक्षणात्रयविज्ञानं सर्वं ब्रह्मैव केवलम् ।
सर्वव्यापारमुत्सृज्य ह्यहं ब्रह्मेति भावय ॥ १०६ ॥
अहं ब्रह्म न सन्देहो ह्यहं ब्रह्म चिदात्मकम् ।
सच्चिदानन्दमात्रोऽहमिति निश्चित्य तत्त्यज ॥ १०७ ॥

शास्रसंप्रदायविधिः -
शाङ्करीयं महाशास्त्रं न देयं यस्य कस्यचित् ।
नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने ॥ १०८ ॥
गुरुभक्तिविशुद्धान्तःकरणाय महात्मने ।
सम्यक्‌ परीक्ष्य दातव्यं मासं षण्मासवत्सरम् ॥ १०९ ॥
सर्वोपनिषदभ्यासं दूरतस्त्यज्य सादरम् ।
तेजोबिन्दूपनिषदमभ्यसेत्सर्वदा मुदा ॥ ११० ॥
सकृदभ्यासमात्रेण ब्रह्मैव भवति स्वयम् ।
ब्रह्मैव भवति स्वयमित्युपनिषत् ॥ १११ ॥
ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥
सह वीर्यं करवावहै ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
इति तेजोबिन्दूपनिषत्समाप्ता ॥